SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सू० ३२३-३२५] हसान्ता नपुंसकलिङ्गाः ११ (सू० २१६)। वेड्योः (सू० २२८) व्योम्नी-व्योमनी व्योमानि । पुनरपि ॥ ३२३ नान्ताददन्ताच्छन्दसि डिश्योर्वा लोपो वक्तव्यः ३ ॥ ३२४ छन्दस्यागमजानागमजयोर्लोपालोपौ च वक्तव्यौ ४ ॥ परमे व्योमन् । सर्वा भूतानि । सर्वा इत्यत्र शिलोपे कृते नलोपः। दीर्घत्वं नातिवर्तते । निमित्ताभावे नैमित्तिकस्याप्यभाव इत्येतस्यानवश्यंभावित्वात् ॥ त्यदादीनां स्यमोलुकि कृते टेरत्वं न भवति । कस्मात् । स्यादाविति विशेषणात् । लुकि न तन्निमित्तं ( सू० १७९)। नपुंसकात्स्यमोलक् । (सू० २२४ । ) वावसाने ( सू० २४०) त्यत्-त्यद् । त्यादेष्टेरः स्यादौ (सू० १७५) इति सर्वत्राकारः। ईमौ ( सू० २१६ ) त्ये । जश्शसोः शिः ( सू० २१७) नोपधायाः ( सू० २२१ ) त्यानि । पुनरपि । शेषं सर्ववत् ॥ तत्-तदू ते तानि । पुनरपि ॥ यत्-यद् ये यानि । पुनरपि ॥ एतत्-एतद् एते एतानि । पुनरपि ॥ ३२५ इदमेतदोर्द्वितीयैकवचने नपुंसके एनद्वा वाच्यः ५ ॥ एतत्-एतदू एनत्-एनद् एते-एने एतानि-एनानि । एतेन-एनेन । इत्यादि ।। किम् के कानि । पुनरपि ॥ इदं इमे इमानि । पुनरपि । इदं-एनत्इमे-एने इमानि एनानि । अनेन-एनेन इत्यादि । नपुंसकात्स्यमोलक (सू० २२४ )। चोः कुः (सू० २८५)। वावसाने (सू० २४० ) प्रत्यक्-प्रत्यग् । ईमौ (सू० २१६) । अञ्चेदर्दीर्घश्व (सू० २८६ ) प्रतीची । जसशसोः शिः (सू० २१७) । नुमयमः ( सू० २२० ) स्तोः श्चुभिः श्चुः ( सू० ७७ ) प्रत्यश्चि । पुनरपि । शेषं पूर्ववत् ॥ तकारान्तो जगच्छब्दः । वावसाने (सू० २४०) जगत्-जगदू । ईमौ (२१६) जगती । नुमयमः (सू०
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy