________________
६६
सारस्वत व्याकरणम् ।
[ वृत्ति: १
T
जश्शसोः शिः (सू० २१७ ) वारि पुनरपि वा : वारी वारि । वारा वार्भ्याम् वार्भिः । वार्षु ॥ वार्षु इत्यत्र न विसर्गः दोषामिति सूत्रेण कृतस्यैव रेफस्य सप्तमीबहुवचने परे विसर्गे नान्यस्येति वक्तव्यात् । हेवाः हेवारी हेवारि ॥ चतुशब्दस्य । चतुराम् शैौ च ( सू० २४८ ) इत्याम् । चत्वारि चत्वारि चतुर्भिः चतुर्भ्यः चतुर्भ्यः । रः संख्यायाः ( सू० २४९ ) चतुर्णाम् चतुर्षु ॥ नकारान्तोऽहनुशब्दः ॥ ३२१ अह्नः सः १ । अहनुशब्दस्य नकारस्य सकारो भवति रसे पदान्ते च ॥ नपुंसकात्स्यमोर्लुक् ( सू० २२४ ) । स्रोर्विसर्गः ( सू १२४ ) अहः । ईमौ ( सू० २१६ ) । वेड्योः ( सू० २२८ ) अह्नीअहनी । नोपधायाः ( सू० २२२ ) अहानि । पुनरपि अहः अह्नी-अहनी अहानि । अल्लोपः खरे ( २२७ ) इत्यकारलोपः । अह्ना । अह्नः सः (सू० ३२१ ) स्रोर्विसर्ग: (सू० १२४ ) । हबे ( सू० १११ ) । उ ओ ( सू० ४५ ) अहोभ्याम् अहोभिः । अहे अहोभ्यां अहो - भ्यः । वेड्योः ( सू० २२८ ) अह्नि अहनि । अह्नः सः (सू० ३२१ ) । स्रोर्विसर्गः ( सू० १२४ ) अहस्सु - अहः सु । हेअहः अही हे अहनी हे अहानि || ब्रह्मनूशब्दस्य रसे पदान्ते च न लोपः ॥ नपुंसकात्स्यमोर्लुक् (सू० २२४) । नाम्नो नो लोपशधौ (सू० २५२) । ब्रह्म । ईमौ ( सू० २१६ ) ब्रह्मणी । जश्शसोः शिः ( सू० २१७ ) । नोपधायाः ( सू० २२१ ) ब्रह्माणि । पुनरपि ब्रह्म ब्रह्मणी ब्रह्माणि । ब्रह्मणा । नाम्नो नो लोपशधौ ( सू० २५२ ) ब्रह्मभ्याम् ब्रह्मभिः । ब्रह्मणे ब्रह्मभ्याम् ब्रह्मभ्यः । ब्रह्मसु । इत्यादि ॥ ३२२ संबोधने नपुंसकानां नलोपो वा वक्तव्यः २ ॥ हेंब्रह्म - ब्रह्मन् हे ब्रह्मणी ब्रह्माणि ॥ एवं चर्मवर्मन्कर्मन्प्रभृतयः ॥ चर्म चर्मणि चर्माणि । पुनरपि ॥ वर्म वर्मणी वर्माणि ॥ एवं व्योमनूशब्दः ॥ व्योम | ईमौ