________________
॥ श्रीः॥ सारखतव्याकरणम् ।
प्रथमा रत्तिः।
Dohor
संज्ञाप्रकरणम् १ प्रणम्य परमात्मानं बॉलधीवृद्धिसिद्धये। सारखतीमृनुं कुर्वे प्रेक्रियां नातिविस्तराम् ॥१॥ इन्द्रादयोऽपि यस्यान्तं न ययुः शब्दवारिधेः ।
प्रेक्रियां तस्य कुत्लस्य क्षमो वक्तुं नरः कथम् ॥२॥ तत्र तावत्संज्ञा संव्यवहाराय संगृह्यते ॥ १ अइउऋल समानाः १॥ अनेन प्रत्याहारग्रहणाय वर्णाः परिगण्यन्ते । तेषां समानसंज्ञा च विधीयते । नैतेषु सूत्रेषु संधिरनुसंधेयोऽविवक्षितत्वात् । विवक्षितस्तु संधिर्भवतीति नियमात् लौकिकप्रयोगनिष्पत्तये समयमात्रत्वाच्च । २ इखदीर्घप्लतभेदाः सवर्णाः २॥ एतेषां ह्रखदीर्घप्लुतभेदाः परस्परं सवर्णा भण्यन्ते । लोकाच्छेषस्य सिद्धिरिति वक्ष्यति । ततो
१ अहं अनुभूतिस्वरूपाचार्यः इति कर्ताध्याहार्यः । २ अवैयाकरणानां बालानां बुद्धिवर्धनाय । ३ सरखतीप्रणीतसूत्रसंबन्धिनीम् । ४ सरलाम् । ५ सारखतव्याकरणाख्याम् । ६ शब्दबाहुल्यरहिताम् । ७ अष्टौ व्याकरणप्रणेतारोऽपि । ८ शब्दसमुद्ररूपव्याकरणस्य । ९ शब्दव्युत्पत्तिम् । १० सर्वस्य । ११ समर्थः। १२ सम्यग्व्याकरणशास्त्रव्यवहाराय । १३ उक्तव. क्ष्यमाणसूत्राणां समुच्चयेन। १४ प्रत्याहारलक्षणं त्रयोदशे सूत्रे प्रतिपादितम् । १५ परिपाट्या प्रकाश्यन्ते । १६ व्यावहारिकप्रयोगसिद्ध्यर्थम् ।