________________
सारस्वतव्याकरणम् ।
[वृत्तिः १ रेफः स्वरपरं वर्ण दृष्ट्वारोहति तच्छिरः। '
पुरः स्थितं यदा पश्येदधः संक्रमते स्वरम् ॥ १२ ॥ गौर्य्यत्र । खर इत्यनुवर्तते । एवमन्यत्रापि यत्र न सूत्राक्षरैः कार्यसिद्धिस्तत्र सर्वत्र सूत्रान्तरात्पदान्तरानुवृत्तिर्ज्ञातव्या ग्रन्थभूयस्त्वभयान्नामाभिलिख्यते ॥ ३८ उ वम् ६ ॥ उवर्णों वत्वमापद्यते खरे परे । हसेऽई हसः (सू० ३४) । झमे जबाः (सू० ३५) मधु अत्र मध्वत्र । मधु अरिः मध्वरिः। वधू आसनं वध्वासनम् ॥ ३९ ऋ रम् ७॥ ऋवर्णो रत्वमापद्यते खरे परे। पितृ अर्थः पित्रर्थः । मातृ अर्थः मात्रर्थः ॥ ४०ल लम् ८॥ लवर्णो लत्वमापद्यते खरे परे । ल अनुबन्धः लनुबन्धः । ल आकृतिः लाकृतिः ॥ ४१ ए अय् ९॥ एकारो अयू भवति खरे परे । ने अनं नयनम् ॥ ४२ ओअव् १०॥ ओकारो अव् भवति खरे परे । भो अति भवति ।[गवादेरवर्णागमोऽक्षादौ वक्तव्यः] । गो अक्षः गवाक्षः । गो इन्द्रः गवेन्द्रः ॥४३ अ इ ए ११॥ अवर्ण इवणे परे सह ए भवति । गो अग्रं गवायम् । गो अजिनं गवाजिनम् । अ इ ए (सू० ४३) ॥ ४४ ए ऐ ऐ १२ ॥ अवर्ण एकारे ऐकारे च परे सह ऐकारो भवति । ख ईरिणी खैरिणी। प्रकृतिप्रत्यययोर्मध्ये प्रत्ययाश्रितं कार्यमादौ स्यात् । नित्यानित्ययोर्मध्ये नित्यविधिर्बलवान् ॥ ४५ उ ओ १३ ॥ अवर्ण उवर्णे परे सह ओ भवति ॥ ४६ ओ औ औ १४ ॥ अवर्ण ओकारे औकारे च परे सह औकारो भवति । अक्ष ऊहिनी अक्षौहिणी । प्र ऊढः प्रौढः ॥ इति गवादयः ॥ अविहितलक्षणप्रयोगो गवादौ द्रष्टव्यः॥
१ सा सेनाक्षौहिणीनाम खागाष्टकद्विकै २१८७० गैजैः । रथैश्चैभि २१८७० हेयैत्रिनैः ६५६१० पञ्चनैश्च १०९३५० पदातिमिः । इत्यक्षौहिणीपरिमाणम् ।