SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ सू० ३४ - ४६ ] स्वरसंधिः २ ॥ ३४ हसेऽहसः २ ॥ खरात्परो रेफहकारवर्जितो हसो हसे परे द्विर्भवति । [ खरे परे इति वक्तव्यम् ] (तेन धकारस्य न पुनर्द्वित्वम्) इति धकारस्य द्वित्वम् || ३५ झभे जबाः ३ ॥ इसानां झभे परे जबा भवन्ति । इति पूर्वधकारस्य दकारः सवर्णत्वात् 'वर्यो वर्येण सवर्ण:' इति वचनात् । [ यथासंख्यं वा वक्तव्यम् ] । दद् ध् य् आनय इति सिद्धम् । पश्चात् || ३६ स्वरहीनं परेण संयोज्यम् ४ ॥ श्लिष्टोच्चारणं कर्तव्यम् । दध्यानय ॥ तकं न रोचतेऽस्माकं दुग्धं च मधुरायते । अन्नप्ररोचनार्थाय दध्यानय वरानने ॥ ८ ॥ दधि न श्रूयते कर्णे घृतं स्वप्ने न दृश्यते । मुग्धे दुग्धस्य का वार्ता तक्रं शक्रस्य दुर्लभम् ॥ ९ ॥ कृतस्य करणं नास्ति मृतस्य मरणं न हि । पिष्टस्य पेषणं नास्ति द्वितये त्रितयं न हि ॥ १० ॥ गौरी अत्र इति स्थिते । इ यं खरे ( सू० ३३ ) गौर य् अत्र तावद्भवति । यत्वे कृते अर्ह इति विशेषणान्न रेफस्य द्वित्वं किंतु ॥ ३७ राद्यपो द्वि: ५ ॥ खरपूर्वाद्रेकात्परो यपो द्विर्भवति । इति यपस्य द्वित्वम् । गौर् य् य् अत्र खरहीनं परेण संयोज्यम् (सू० ३६ ) ॥ तुम्बिका तृणकाष्ठं च तैलं जलसमागमे । ऊर्ध्वस्थानं समायान्ति रेफाणामीदृशी गतिः ॥ ११ ॥ जैलतुम्बिकान्यायेन रेफस्योर्ध्वगमनम् ॥ - १ 'दुग्धं वा मधुरं प्रिये । अन्नस्य रोचनार्थाय' इ० पाठः । २ यथा जले पतिता तुम्बी नित्यं जलोपरि तिष्ठति तद्वत् ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy