SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १ सू० ४७-६०] स्वरसंधिः २ - गवाजश्च गवेन्द्रश्च गवाग्रं च गवाजिनम् । स्वैरमक्षौहिणी प्रौढ एते प्रोक्ता गवादयः ॥ १३ ॥ [कचित्स्वरवद्यकारः ] । यथाऽध्वपरिमाणे गो यूतिः गव्यूतिः क्रोशयुगलम् । अन्यथाध्वनः परिमाणाभावे गवां मिश्रीभावो गोयूतिः ॥४७ ऐ आय १५॥ ऐकार आय् भवति खरे परे । नै अकः नायकः ॥ ४८ औ आव १६॥ औकार आव् भवति खरें परे । तौ इह ताविह ॥४९ यवोर्लोपशू वा पदान्ते १७॥ पदान्ते स्थितानामयादीनां यकारवकारयोर्लोपश् वा भवति । ते आगताः त आगताः तयागताः । तस्मै एतत् तस्मा एतत् तस्मायेतत् । पटो इह पट इह पटविह । तौ इमौ ताइमौ ताविमौ । तस्मै आसनं तस्मा आसनम् तस्मायासनम् । असौ इन्दुः असा इन्दुः असाविन्दुः ॥ ५० लोपशि पुनर्न संधिः १८ ॥ छन्दसि तु भवति । हे सखे इति हे सखेति हे सखयिति ॥ ५१ एदोतोऽतः १९॥ पदान्तेस्थितादेकारादोकाराच्च परस्याकारस्य लोपो भवति । ते अत्र तेऽत्र । पटो अत्र पटोऽत्र ॥ ५२ सवर्णे दीर्घः सह २० ॥ सवर्णस्य सवर्णे परे सह दी? भवति । श्रद्धा अत्र श्रद्धात्र ॥ सामान्यशास्त्रतो नूनं विशेषो बलवान्भवेत् । परेण पूर्वबाधो वा प्रायशो दृश्यतामिह ॥ १४ ॥ अदी? दीर्घतां याति नास्ति दीर्घस्य दीर्घता। पूर्वदीर्घस्वरं दृष्ट्वा परलोपो विधीयते ॥ १५॥ दधि इह दधीह । मधु उदकं मधूदकम् ॥ भानु उदयः भानूदयः । पितृ ऋणं पितृणम् । १ बहुव्यापकं सामान्यम् । २ अल्पव्यापको विशेषः । ३ प्रायशो बाहुल्येन ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy