________________
सारस्वतव्याकरणम् । [वृत्तिः १ अ इ ए (सू० ४३ ) । तव इदं तवेदम् । मम इदं ममेदम् । सर्वविधिभ्यो लोपविधिर्बलवान् ॥ ५३ हलादेरीपादौ टेर्लोपो वक्तव्यः २१ ॥ [ क्वचित्तदादिवर्णाभावे केवलखरस्यापि टिसंज्ञा वक्तव्या] । हल ईषा हलीषा । लाङ्गल ईषा लागलीषा । मनस ईषा मनीषा । शक अन्धुः शकन्धुः। कर्क अन्धुः कर्कन्धुः। कुल अटा कुलटा । सीमन् अन्तः सीमन्तः केशवेशे । अन्यत्र सीमान्तः । पतत् अञ्जलिः पतञ्जलिः । सार अङ्गः सारङ्गः पशुपक्षिणोः । अन्यत्र साराङ्गः॥
हलीषा लागलीषा च मनीषाधों तथैव च । शकन्धुरथ कन्धुः सीमन्तः कुलटा तथा ॥१६॥
पतञ्जलिश्च सारङ्ग एते प्रोक्ता हलादयः ॥ १७॥ ५४ ओमाङावपि २२ ॥ अवर्णात्परौ ओमाडौ टिलोपनिमित्तौ स्तः । अद्य ओम् अद्योम् । शिव आ इहि शिवेहि ॥ ५५ ओमि नित्यम् २३ ॥ ओमि परे नित्यमवर्णस्य लोपो भवति । खर ओम् खरोम् । उओ ( सू० ४५) गङ्गा उदकं गङ्गोदकम् ॥ ५६ ऋ अर २४ ॥ अवर्ण ऋवणे परे सह अर् भवति । तव ऋद्धिः । तवर्द्धिः । राद्यपो द्विः (सू० ३७ ) ॥५७ कचिदार २५॥ अवर्ण ऋवणे परे सह कचिदार् भवति । ऋण ऋणं ऋणार्णम् । शीत ऋतः शीतातः ॥ ५८ ऋते च तृतीयासमासे एवाऽऽर् २६ ॥ अन्यत्र परमतः ॥ ५९ उपसर्गादवर्णान्ताहकारादौ धातौ आर् भवति २७॥उपार्च्छति प्रार्छति ॥ ६० ऋकारादौ नामधातौ वा २८ ॥
१ ओंकारे। २ प्रवत्सतरकम्बलवसनार्णदशानामृणे । ऋणशब्दे परे एभ्यः कचिदार भवति । प्रऋणं प्रार्णमित्यादि ॥ . .