________________
सू० ६१-७१] प्रकृतिभावः ३ उपार्षभीयति । उपर्षभीयति । प्रार्षभीयति ॥ ६१ ऋकारादौ आर नेति वाच्यम् २९ ॥ उपऋकारीयति । उपर्कारीयति ॥ ६२ ल अल ३० ॥ अवर्ण लवणे परे सह अल भवति । तव लकारः तवल्कारः ॥ ६३ ऋलवर्णयोः सावर्ण्य वक्तव्यम् ३१ ॥ ऋलवर्णस्थानिकत्वाद्रलयोरपि सावण्य वाच्यम् । होतृ लकारः होतृकारः । होलकारः । परि अङ्कः । इ यं खरे (सू० ३३ ) । राद्यपो द्विः (सू० ३७ ) पर्यङ्कः । पल्यङ्कः ॥
रलयोर्डलयोश्चैव शसयोर्बवयोस्तथा ।
वदन्त्येषां च सावर्ण्यमलङ्कारविदो जनाः ॥१८॥ ए ऐ ऐ (सू० ४४ ) अवर्ण एकारे ऐकारे च परे सह ऐकारो भवति । तव एषा तवैषा । तव ऐश्वर्य तवैश्वर्यम् । ओ औ औ ( सू० ४६ ) अवर्ण ओकारे औकारे च परे सह औकारो भवति । तव ओदनः तवौदनः । तव औन्नत्यं तवन्नित्यम् ॥ ६४
ओष्ठोत्वोवौँ ३२ ॥ अवर्णस्य ओष्ठोत्वोः परयोः समासे सति सह वा ओ भवति । बिम्ब ओष्ठः बिम्बोष्ठः बिम्बौष्ठः । स्थूल ओतुः स्थूलोतुः स्थूलौतुः । समासे किम् । तव ओष्ठः तवौष्ठः ॥ ॥ इति खरसंधिप्रक्रिया ॥ २॥
प्रकृतिभावः ३ . . अथ प्रकृतिभाव उच्यते । प्रकृतेर्यथास्थितस्य रूपस्य भवनं प्रकृतिभावः ॥६५ नामी १॥अदसोऽमी संधिं न प्राप्नोति । अमी आदित्याः॥ ६६ वे द्वित्वे २ ॥ ई च ऊ च य्वे । ईकारान्त ऊकारान्त एकारान्तश्च शब्दो द्वित्वे वर्तमानः संधिं न प्राप्नोति मणीवादिवय॑म् । अनी अत्र । पटू अत्र । माले आनय । मणी इव मणीव ॥