________________
१२
सारस्वतव्याकरणम् ।
मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम । हियमाणौ तु तौ दम्यौ मकिस्तत्रेदमब्रवीत् ॥
[ वृत्ति: १
१९ ॥
1
रोदसी इव रोदसीव । दंपती इव दंपतीव । जंपती इव जंपतीव । जायापती इव जायापतीव ।। ६७ औ निपातः ३ ॥ आच ओ च अ च इ च उ च ऋ चलच ए च ऐ च ओ च औ । आ ओ इति पृथक् पदं वा निपातः । आकारनिपातः ओकारनिपात एकस्वरश्च संधिं न प्राप्नोति । आ एवं मन्यसे । नो अत्र स्थातव्यम् । उ उत्तिष्ठ । इ इन्द्रं पश्य । अ अपेहि । आग्रहणादाङो न निषेधः । तथा चोक्तम् ॥ ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥ २० ॥ ओत्तमैरेक्षसे न त्वामृतादेन्द्रतोखिलैः । आ एवं सर्ववेदार्थ आ एवं सद्वचो हरेः ॥ २१ ॥ अहो आहो उताहो च नो हो हहो अथो इमे । मिथोयुक्ताच ओदन्ता निपाता अष्टधा मताः ॥ २२ ॥ ६८ प्लुतः ४ ॥ लुतः संधिं न प्राप्नोति । देवदत्त ३ एहि । देवदत्त ३ अत्र गौश्वरति ॥ ६९ दूरादाद्दाने च टेः प्लुतः ५ ॥ दूरादाहाने गाने रोदने विचारे गम्यमाने च टेः लुतो भवति । दूरादित्यत्र चकारग्रहणाद्धा तातेतीत्यादौ संधिः स्यात् ॥ ७० हैहयोः स्वरे संधिर्न वक्तव्यः ६ ॥ हे अनड्डून् ॥ ७१ ऋतौ समानो वा ७ ॥ ऋतौ परे समानः संधिं न प्राप्नोति वा । हिम ऋतुः हिमर्तुः हिमऋतुः ॥ इति प्रकृतिभावप्रक्रिया ॥ ३ ॥