________________
व्यञ्जनसंधिः : ४
व्यञ्जनसंधिः ४
अथ व्यञ्जनकार्यमुच्यते ॥ ७२ चपा अबे जबाः १ ॥ पदान्ते वर्तमानाश्चपा जबा भवन्ति अबे परे । षट् अत्र षडत्र । वाक् यथा वाग्यथा । ककुप्ऐन्द्री ककुबैन्द्री ॥ ७३ ञमे अमावा २ ॥ पदान्ते वर्तमानाश्चपा जमे परे त्रमा वा भवन्ति । वाक् मात्रं वाङ्मात्रम् वाग्मात्रम् । षट् मम षण्मम षडूमम ॥ ७४ मयटि नित्यं वाच्यम् ३ ॥ चित् मयं चिन्मयम् । प्रत्यये - अमो नित्यमिति केचित् । तेन वाङ्मात्रमित्येकमेव रूपं स्यात् ॥ ७५ चपाच्छे शः ४ ॥ चपादुत्तरस्य शकारस्य छो वा भवति अबे परे । वाक्शूरः वाकूछूरः वाक्शूरः ॥ ७६ हो झभाः ५ ॥ चपादुत्तरस्य हकारस्य झभा वा भवन्ति । नन्वेकस्य हकारस्य झभाः प्राप्ताः केन क्रमेण भवन्ति । अत्रोच्यते । यद्वर्गगेश्चपस्तद्वर्गगश्चतुर्थो भवति । तत् हविः तद्धविः तहविः । वाक् हरिः वाघ्हरिः वाग्रहरिः । ककुप्हासः ककुब्भासः ककुबूहासः ॥ ७७ स्तोः श्रुभिः श्रुः ६ ॥ स्तोः सकारस्य तवर्गस्य च शकारेण चवर्गेण च योगे शकारचवर्गौ यथासंख्येन भवतः । स् च तुश्च स्तुस्तस्य स्तोः । समाहारे द्वन्द्वे एकत्वम् । 'छन्दोवत्सूत्राणी' तिवचनान्नपुंसकस्य पुंस्त्वम् । श् च चवश्च श्ववस्तैः श्रुभिः । चुशब्दे चवर्गस्थवर्णापेक्षया बहुवचनम् ॥
सू० ७२-९० ]
१३
अकृत्वा सप्तमीमेतां तृतीयामकरोदिला । .
ततः श्रुभिः श्रुः पूर्वेण संनिपातः परेण वा ।। २३ ॥ कस् चरति कश्चरति । कस् शूरः कश्शूरः । तत् चित्रं तच्चित्रम् | तत् शास्त्रं तच्छास्त्रम् ॥ ७८ न शात् ७ ॥ शकारादुत्तरस्य तवर्गस्य १ छ इत्यविभक्तिको निर्देशः । २ यद्वर्गगः घझढधभानामन्यतमः ।