________________
सारस्वतव्याकरणम् ।
[वृत्तिः
१
चुत्वं न भवति । विश्नः । प्रश्नः ॥ ७९ ष्टुभिः ष्टुः ८ ॥ स्तोः सकारस्य सवर्गस्य च षकारेण टवर्गेण च योगे पकारटवर्गों यथासंख्येन भवतः । ष्टुभिरिति बहुवचनात्वचित्षकारटवर्गयोगं विनापि टुत्वम् । अग्निष्टोमः। कस् षष्ठः कष्षष्ठः । कस् टीकते कष्टीकते । तत् टीकते तट्टीकते । तत् टीका तट्टीका ॥ ८० तोलि लः ९॥ तवर्गस्य समिकारे परे लकारो भवति । तत् लुनाति तल्लुनाति । भवान् लिखति भवॉल्लिखति ॥ ८१ अन्तस्था द्विप्रभेदाः १०॥ रेफवर्जिता यवलाः सानुनासिका निरनुनासिकाश्च । तत्र सानुनासिक एव नकारस्य लकारो भवति ॥ ८२ न पि ११ ॥ षकारे परे तवर्गस्य ष्टुत्वं न भवति । भवान् षष्ठः भवान्षष्ठः ॥ ८३ टोरन्त्यात् १२ ॥ पदान्ते वर्तमानाट्टवर्गात्परस्य स्तोः ष्टुत्वं न भवति । षट् नरः षण्नरः । षट्र सीदन्ति षट्रसीदन्ति ॥ ८४ न सक् छते १३ ॥ नान्तस्य पदस्य छते परे सगागमो भवति । ८५ टिकितावाद्यन्तयोर्वक्तव्यौ १४ ॥ टित्त्वादौ कित्त्वादन्ते । राजन् चित्रं राजंश्चित्रम् । भवान् तनोति भवांस्तनोति ॥ ८६ शे चग्वा १५ ॥ नान्तस्य पदस्य शे परे वा चगागमो भवति । भवान् शूरः भवाञ्छूरः भवाञ्छूरः भवाञ्च्शूरः भवाञ्शूरः ।। ८७ जनो इस्वाद्द्विःवरे १६॥ कारणकारनकारा हूखादुत्तरा द्विर्भवन्ति खरे परे पदान्ते । प्रत्यङ्ग् इदं प्रत्यङ्दिम् । सुगण् इह सुगण्णिह । राजन् इह राजन्निह । राजन् इदंराजन्निदम्॥८८छ:१७|| एखादुत्तरश्छकारो द्विर्भवति ॥ ८९ खसे चपा झसानाम् १८ ॥ झसानां खसे परे चपा भवन्ति । तव छत्रं तवच्छत्रम् ॥ ९० दीर्वादपि च वक्तव्यः १ द्विविधा इत्यर्थः । २ छत्प्रत्याहारे ।