________________
२५९
सू०१४६१-१४७५] स्त्रीप्रत्ययाधिकारः ८ निगृह्यते सा निगृहीतिः । कुच संकोचने । कुच संपर्चनकौटिल्यमतिष्टम्भविलेखनेषु । तुदादिः । निकुचितिः। निपठितिः । निह आस्कंदने । उपनिहितिः। निपतितिः । विशेषण ध्रियते सा विधृतिः ॥ १४६१ ग्लाम्लाज्याक्त्वरिभ्यः क्तेरर्थे निः प्रत्ययो भवति ११ ॥ ग्लायते सा ग्लानिः । ज्यानिः । हानिः । जित्वरा संभ्रमे ॥ १४६२ त्वरतेर्वस्य उत्वं वाच्यम् १२ ॥ त्वर्यते सा तूर्णिः ॥ १४६३ कृल्वादिभ्यश्च तेरर्थे निःप्रत्ययो भवति १३ ॥ ऋत इर् (सू० ८२०) कीर्यते सा कीर्णिः । लूनिः । धूनिः पूर्णिः ॥ १४६४ संपदादेः किप् वा वाच्यः १४ ॥ संपत् संपत्तिः ॥ १४६५ कर्तरि क्तिश्च संज्ञायाम् १५॥ कर्बर्थे धातोः क्तिः प्रत्ययो भवति संज्ञायां विषये ॥ डुकृञ् करणे । प्रकुरुते सा प्रकृतिः । धृञ् धारणे । विपूर्वः । विशेषेण धरतीति विधृतिः ॥ १४६६ षिद्भिदामङ् १६ ॥ षितो धातोर्भिदादेश्च स्त्रियामङ् प्रत्ययो भवति भावादौ ॥ पच्यते सा पचा । मृज्यते सा मृजा । जषु वयोहानौ ॥ १४६७ जरादौ ङानुबन्धरहितः अ: प्रत्ययो भवति १७ ॥ जीर्यत्यनया सा जरा । इषु इच्छायामिति निर्देशाज्ज्ञापकादिच्छा इत्यादि निपात्यते । इच्छा ॥ १४६८ इषादेरङर्थे युट् १८॥ एषणमिति एषणा। भिद्यते अनया सा भिदा । छिद्यतेऽनया सा छिदा। क्षिपा । गुहू संवरणे । गुहा । मेधृ हिंसायाम् । मेधृ वधमेधासंगमेषु । मेध्यते इति मेधा । कृपा । पीड बाधायाम् । पीडा। बाध पीडायाम् । बाधा । क्षपा । रात्रिः॥१४६९गुरोहंसात् १९ ॥गुरुमतो हसान्ताद्धातोः स्त्रियामङ् प्रत्ययो भवति भावादौ न क्तिः॥ईह चेष्टायाम् । ईह्यते सा ईहा । उह्यते सा ऊहा। ईक्ष दर्शनाङ्कनयोः । ईक्ष्यते तत्