SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २५८ सारस्वतव्याकरणम् । [वृत्तिः ३ बज्यते अस्यामिति प्रव्रज्या । षद् विशरणगत्यवसादने । निषद्यते सा निषद्या । निपत्या । मन ज्ञाने । मन्यते सा मन्या । नम्या । विद्यते सा विद्या । सुत्या ॥ १४५२ शीडोऽयक किति ये वक्तव्यः २॥ शय्या । भृत्या । ईयते सा इत्या । कृत्या ॥ १४५३ को यक् वा वाच्यः ३ ॥ अयकि । क्रियते सा क्रिया ॥ १४५४ इषेश्छान्तादेशो यलोपश्च ४ ॥ इष्यते सा इच्छा ॥ १४५५ सरतेर्गुणः ५॥ परिसर्या । परिचर्या । अटाट्या । आस्या। चर्या ॥१४५६ जागर्तेर्गुणः ६ ॥ जागर्या । हनस्तकारान्तादेशो हिंसायामर्थे । हन्यते सा हत्या ॥१४५७ हन्तेस्तः ७ ॥ हन्तेर्नकारस्य तकारादेशो भवति क्यपि स्त्रियाम् ॥ ब्रह्म हन्यते इति ब्रह्महत्या ॥ १४५८ स्त्रियां भावे क्तिः ८॥ धातोः स्त्रियां भावे क्तिः प्रत्ययो भवति ॥ क्रियते सा कृतिः । बुद्ध्यते सा बुद्धिः । स्मृङ् चिन्तायाम् । मर्यते सा स्मृतिः । पच्यते सा पक्तिः। पचि विस्तारे । पञ्च्यते तत् पञ्चनं पंक्तिः। संप्रसारणं । उह्यते सा ऊढिः । संविद्यते संवित्तिः ॥ १४५९ शमां दीर्घः ९ ॥ शमादीनां दी? भवति क्तिप्रत्यये परे ॥ शम्यते सा शान्तिः। दम्यते सा दान्तिः । गम्यते सा गतिः। हन्यते सा हतिः । भ्रमु चलने । भ्रम्यते सा भ्रान्तिः । अनुभूयते तत् अनुभवनं अनुभूतिः। विशिष्टा भूतिः विभूतिः । प्रभूतिः । भवनं भूतिः । शुध शौचे । शोधनं शुद्धिः ॥ १४६० ईशशीडोर्वरक्तिप्रत्ययौ नेड्गुणश्च १०॥ ईशूशीडोर्वरक्तिप्रत्ययौ स्तो वरप्रत्ययस्य क्तिप्रत्ययस्य च इद् न शीडो गुणोऽपि न भवति ॥ ईष्टेऽसौ ईश्वरः। संशय्यते तत् संशयनम् संशीतिः । ही गतौ । हीयते इति हीतिः। जागरणं जागृतिः ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy