SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २६० सारस्वतव्याकरणम् । [वृत्तिः ३ ईक्षणं ईक्षा । एध्यते सा एधा । गुरोः किम् । भक्तिः । हसात्किम् । नीतिः। लिखू रिख लेखने । लिख्यते तल्लेखनं लेखा । रिख्यते तद्रेखणं रेखा । गुध परिवेष्टने । गुध्यते इति गोधा । धेट् पाने । सुष्टु धीयते इति सुधा । डुधाञ् धारणपोषणयोः । श्रद्धीयते सा श्रद्धा ॥ १४७० क्तिरापादिभ्यः २० ॥ आप्तिः । दीप्यते सा दीप्तिः । राध्यते सा राद्धिः । प्रशास्तिः ॥ १४७१ प्रत्ययान्तात् २१ ॥ प्रत्ययान्ताद्धातोः स्त्रियामङ् प्रत्ययो भवति भावादौ ॥ चिकीर्च्यते सा चिकीर्षा । आत्मनः कर्तुमिच्छा चिकीर्षा । आत्मनः पुत्रेच्छा वा पुत्रीयते सा पुत्रीया । अशितुमिच्छा अशनाया । लोलूयते सा लोलूया । अटाट्या । कण्डूञ् गात्रविघर्षणे । कण्डूयते सा कण्डूया। मुमूर्षणं मुमूर्षा ॥ १४७२ इश्तिपौ धातुनिर्देशे २२ ॥ धातुनिदेशे वाच्ये सति इश्तिपौ प्रत्ययौ भवतः । शकारः शिति शतुवकार्यार्थः । पच् इत्ययं धातुः पचिः । श्रयतिः। पचतिः । भवतिः ॥ १४७३ ज्यन्तआम्ग्रन्थअर्थश्रन्थविद्वदिइषिभ्यः स्त्रियां युर्वाच्यः २३ । डुकृञ् करणे। युवोरनाको (सू०११९१) कारणा। आसना । अर्थ याच्याप्रकाशनयोः । अर्थना । ग्रन्थ संदर्भ । प्रथ्यते तदन्थनमिति ग्रन्थना । उपासनमिति उपासना । श्रथि शैथिल्ये । श्रन्थना । घटनमिति घटना । विद्यते वेदनमिति वेदना। वन्द्यते सा वन्दना । एषणमिति एषणा ॥ १४७४ इञ् अजादिभ्यः २४ ॥ अज गतौ । आजिः । अत सातत्यगमने । आतिः॥१४७५ इक् कृष्यादिभ्यः २५ ॥ भवादौ ॥ कृष्यते सा कृषिः । गिरिः । किरिः । सर्वधातुभ्य इः । कविः । रविः ॥ ॥ इति ख्यधिकारप्रकिया ॥८॥
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy