________________
सू० ९२०-९२९] अदादिष्वात्मनेपदिनः ५
ख्येयात्-क्शायात् क्शेयात् । ख्यासीष्ट-क्शासीष्ट । ख्याता २ क्शाता २ । ख्यास्यति-ख्यास्यते क्शास्यति-क्शास्यते । अख्यास्यत्-अख्यास्थत अक्शास्यत्-अक्शास्यत । पुषादित्वाद् ङः । अख्यत् ॥ ९२० अस्यतिवक्तिख्यातीनामात्मनेपदे से? वाच्यः २ ॥ अख्यत अक्शासीत् अक्शास्ताम् । ईड स्तुतौ । खसे चपा झसानाम् (सू० ८९) ईट्टे ईडाते ईडते ॥ ९२१ ईडीशोः सध्वयोरिड्वक्तव्यः ३ ॥ ईडिषे ईडाथे ईडिध्वे । ईडे ईडहे ईड्महे । ईडीत । ईट्टाम् । ऐट्ट ॥ ९२२ लङो ध्वस्य नेट् ४ ॥ रेड्नुम् । ईडांचके। ईडिषीष्ट । ईडिता । ईडिष्यते । ऐडिष्यत ऐडिष्ट । ईश ऐश्वर्ये । ईष्टे ईशिषे । ईशीत । ईष्टाम् ऐष्ट ईशाञ्चके । ईशिषीष्ट । ईशिता । ईशिष्यते । ऐशिष्यत । ऐशिष्ट । आस् उपवेशने । आस्ते । आसीत् । आस्ताम् । आस्त । कसादित्वादाम् । आसाञ्चके आसिषीष्ट । असिता। आसिष्यते । आसिष्यत । आसिष्ट । वस् अच्छादने । वस्ते । वसीत अवसिष्ट । ङ् प्राणिगर्भविमोचने । आदेः ष्णः नः (सू० ७४८) सूते । सुवीत । सूताम् ॥ ९२३ सूतेः पिति गुणाभावो वाच्यः ५॥ सुवै सुवावहै सुवामहै । असूत । सुषुवे । खरति इति वेट् । सविषीष्ट-सौषीष्ट । सावेता सोता । सविष्यते-सोप्यते । असविष्यत-असोष्यत । असविष्ट-असोष्ट । शीङ् खमे ॥ ९२४ शीङः सर्वत्र गुणो भवत्यपि विषये ॥ शेते शयाते ॥ ९२५ शीङोऽतो रुट ७ ॥ शीङः परस्यादित्येतस्य रुडागमो भवति ॥ शेरते । शयीत । शेताम् शयाताम् शेरताम् । अशेत अशयाताम् । अशेरत । शिष्ये शिष्याते । शयिषीष्ट । शयिता । शयिष्यते । अशयिष्यत । अशयिष्ट । इङ् अध्ययने । अधिपूर्वः । अधीते अधीयाते अधीयते । अधीयीत । अधीताम् अधीयाताम् अधीयताम्।