SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १६८ सारस्वतव्याकरणम् । [वृत्तिः२ अध्यैत । इयादेशे कृते पश्चादडागमद्वयम् । अध्ययाताम् अध्ययत ।। ९२६ इङो णादौ गा वक्तव्यः ८॥ अधिजगे। अध्येषीष्ट । अध्येता । अध्येष्यते । अध्यैष्यत ॥९२७ इङो वा गी सौ लङि च तत्परस्य प्रत्ययस्य ङित्वं वाच्यम् ९॥ ङित्वाद्गुणो न । अध्यगीष्यत अध्यगीष्येताम् अध्यगीष्यन्त । अध्यैष्यत । अध्यगीष्ट अध्यगीषाताम् अध्यगीषत । अध्यैष्ट अध्यैषाताम् अध्यैषत ॥ इत्यदादिष्वात्मनेपदिनः ॥ ५ ॥ अदादिषभयपदिनः ६ अथोभयपदिप्रक्रिया प्रदर्श्यते ॥ द्विष अप्रीतौ । अकार उभयपदार्थः । द्वेष्टि द्विष्टे । द्विष्यात् द्विषीत । द्वेष्टु-द्विष्टात् द्विष्टाम् । अद्वेट्-अद्वेड् अद्विष्टाम् अद्विषुः-अद्विषन् । अद्विष्ट । दिद्वेष-दिद्विषे । द्विष्यात् । द्विक्षीष्ट । द्वेष्टा २। द्वेक्ष्यति द्वेक्ष्यते । अद्वेक्ष्यत् अद्वेक्ष्यत । हशषान्तात्सक् ( सू० ८०० ) अद्विक्षत् । अद्विक्षत ॥ ९२८ सस्यात्मनेपदे स्वरे टिलोपो वाच्यः १ ॥ अद्विक्षाताम् अद्विक्षन्त । दुह प्रपूरणे । दादेर्घः (सू० २३८) दोग्धि दुग्धः दुहन्ति । धोक्षि दुग्धः दुग्ध । दोहिम दुह्वः दुमः । दुग्धे । दुह्यात् । दुहीत । दोग्धु ॥ ९२९ हकारस्य कचिज्झस्भावो वाच्यः २॥ दुग्धि दुग्धाम् । अधोक्-अधोग् अदुग्धाम् अदुहन् । अदुग्ध । दुदोह । दुदुहे । दुह्यात् । धुक्षीष्ट । दोग्धा दोग्धा । धोक्ष्यति धोक्ष्यते । अधोक्ष्यत् अधोक्ष्यत । अधुक्षत् अधुक्षत ॥ दुहूदिगुहूभ्यः सको लुग्वा वकारतवर्गयोराति (सू० ८६६) अदुग्ध अधुक्षताम् अधुक्षन्त । अधुग्धाः-अधुक्षथाः अधुक्षाथाम् अधुग्ध्वम्-अधुक्षध्वम् । अधुक्षावहि-अदुहहि अधुक्षामहि ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy