________________
१५७
सू०८७६-८८४ ] अदादिषु परस्मैपदिनः ४ १४ ॥ विव्याय विव्यतुः विव्युः ॥ ८७६ अत्यर्तिव्ययतीनां थपो नित्यमिट १५ ॥ विव्ययिथ विव्ये । वियात् व्यासीष्ट । व्याता व्याता । व्यस्यति व्यास्यते । अव्यास्यत् अव्यास्यत । अव्यासीत् । अव्यास्त । हेञ् स्पर्धायाम् । हयति हृयते ॥ ८७७ अद्वि. रुक्तस्य ह्वयतेः संप्रसारणं वक्तव्यम् १६ ॥ जुहाव जुहुवतुः जुहुवुः । जुह विथ-जुहोथ । जुहुवे जुहुवाते जुहुविरे । हूयात् । हासीष्ट । ह्वाता-हाता । हास्यति-हास्यते । अह्वास्यत्-अह्वास्यत ॥ ८७८ अस्यतिवक्तिख्यातिलिपिसिचिह्वयतीनां सेडों वा वाच्यः १७ ॥ अह्नत अद्वेताम् अह्वन्त । अहास्त अह्रासाताम् अहासत । ऋत जुगुप्सायां कृपायां च ॥ ८७९ ऋतेरीयङ् स्वार्थेऽनपि तु वा १८ ॥ ऋतीयते । ऋतीयांचके । आनर्त । ऋतीयिष्यते । आतीत् । आर्तीयिष्ट ॥
॥ इति भ्वादिषूभयपदिप्रक्रिया ॥ ३॥ इत्यब्विकरणा भ्वादयो धातवः॥
अदादिषु परस्मैपदिनः ४॥ इदानी लुग्विकरणाददादेर्गणाकर्तरि तिबादयो वर्ण्यन्ते ॥ अद् भक्षणे । अकर्तरि (सू० ६९१)॥ ८८० अदादेलक १ ॥ अदादेर्गणादुत्पन्नस्यापो लुग्भवति ॥ खसे चपा झसानाम् ( सू० ८९) अत्ति अत्तः अदन्ति । अत्सि अत्थः अस्थ । अनि अद्वः अद्मः । अद्यात् । अत्तु-अत्ताद्वा । अत्ताम् अदन्तु ॥८८१ झसाद्धि:: २॥झसादुत्तरस्य हेर्धिर्भवति ॥ अद्धि-अत्ताद्वा । अत्तम् अत्त । अदानि अदाव अदाम ॥ ८८२ अदो दियोरडागमो वक्तव्यः ३ ॥ आदत् आदः ॥ ८८३ सिसयोरदेघस्ल लिटि तु वा ४ ॥