SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १७६ सारस्वतव्याकणरम् । [वृत्तिः २ विध्यति । विध्येत् । विध्यतु । अविध्यत् । विव्याध । व्यद्धा । व्यत्स्यति । अव्यत्स्यत् । अव्यात्सीत् अव्याद्धाम् अव्यात्सुः । पुष् पुष्टौ । पुष्यति । पुष्येत् । पुष्यतु । अपुष्यत् । पुपोष । पुष्यात् । पोष्टा । पोक्ष्यति । अपोक्ष्यत् । अपुषत् । श्लिष् आलिङ्गने । लिष्यति । श्लिष्येत् । श्लिष्यतु । अश्लिष्यत् । शिश्लेष । श्लिष्यात् । श्लेष्टा । श्लेष्यति । अश्लेष्यत् । हशषान्तात्सक (सू० ८००) ॥ ९६७ श्लिषेरालिङ्गने सक ५ ॥ ङापवादः । अश्लिक्षत्कन्यां चैत्रः । अनालिङ्गने । समश्लिषत् जतु काष्ठम् । तृप् प्रीणने । तृप्यति । तृप्येत् । तृप्यतु । अतृप्यत् । ततर्प । तृप्यत् । रधादित्वादिडिकल्पेन । तर्पिता-त्रप्ता-त" । रारो झसे दृशाम् (सू० ७९६) तर्पिष्यति-त्रप्स्यति-तय॑ति । अतर्पिष्यत्-अत्रप्स्यत्-अत य॑त् ॥ ९६८ स्पृशमशकशतृपां सिर्वा वक्तव्यः ६ ॥ रधादित्वाद्वेट् । अतीत् अत्राप्सीतू-अतार्सीत् । पुषादित्वात् ङः। अतृपत् । एवं दृप् हर्षविमोहनयोः । दृप्यति । मुह वैचित्ये । मुह्यति । मुमोह । मुह्यातू । द्रुहादीनां घत्वढत्वे वा (सू० २४४) मोढा मोग्धा मोहिता । रधादित्वाद्वेट् । मोक्ष्यति-मोहिष्यति । अमोक्ष्यत् अमोहिष्यत् । पुषादित्वात् ङः । अमुहत् अमोहीत् अमौक्षीत् अमुक्षत् । णश् अदर्शने । नश्यति । ननाश । फणादित्वादेत्वपूर्वलोपौ । नेशतुः नेशुः । नश्यात् ॥ ९६९ मस्जिनशोझसे नम् वक्तव्यः७ ॥ छशषराजादेः षः (सू० २७६) मष्टा ॥ ९७० नशेः षान्तस्य ८ ॥ नशेः पान्तस्य णत्वं न स्यात् ॥ प्रनष्टानशिता । नक्ष्यति-नशिष्यति । अशिष्यत्-अनंक्ष्यत् । पुषादित्वात् कः ॥ ९७१ डे नशेरत एत्वं वा वाच्यम् ९ ॥ अनेशत्-अनशत् । शम् दम् उपशमे ॥ ९७२ शमां दीर्घः १०॥ शमादीनां
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy