SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सू०६९४-९७२ ] दिवादिषु परस्मैपदिनः १० १७५ षिवु तन्तुसन्ताने । सीव्यति । सीव्यत् । सीव्यतु । असीव्यत् । सिषेव । सीव्यात् । सेविता । सेविष्यति । असेविष्यत् । असेवीत् । नृती गात्रविक्षेपे । ईकार इत् । नृत्यति । नृत्येत् । नृत्यतु । अनृत्यत् । ननर्त ननृततुः ननृतुः । नृत्यात् । नर्तिता । नर्तिष्यति । अनतिष्यत् ।। ९६४ नृत्तृछ्च त्-कृतां सस्यासेरिट्र वा वक्तव्यः २ ॥ नस्यति । अनय॑त् । अनर्तीत् । इर् वयोहानौ । ऋत इर् (सू० ८२०) य्वोर्विहसे (सू० ३१६) जीर्यति । जीर्येत् । जीर्यतु । अजीर्यत् । जजार। गुणः (सू० ६९२ ) जजरतुः जजरुः । जीर्यात् । ईटो ग्रहाम् (सू० ८२१) जरिता-जरीता । जरिष्यति-जरीष्यति । अजरिष्यत् अजरीष्यत् । इरितो वा (सू ७४०) अजरत् । अजारीत् । शो तनूकरणे ॥ ९६५ योः ३ ॥ यप्रत्यये परे धातोरोकारस्य लोपो भवति ॥ श्यति । श्येत् । श्यतु । अश्यत् । शशौ । शायात् शाता । शास्यति । अशास्यत् । वा सिलोपः । अशात् अशासीत् । छो छेदने । छ्यति । च्येत् । छयतु । अछयत् । चच्छौ । छायात् । छाता । छास्यति । अच्छास्यत् । अच्छात् अच्छासीत् । षोऽन्तकमणि । स्यति । स्येत् । स्यतु । अस्यत् । ससौ । सेयात् । साता । सास्यति । असास्यत् । असात् असासीत् । दो अवखण्डने । यति । येत् । द्यतु । अद्यत् । ददौ । देयात् । दाता । दास्यति । अदास्यत् । अदात् । राध साध संसिद्धौ । राध्यति । राध्येत् । राध्यतु । अराध्यत् । रराध ॥ ९६६ राधतेहिंसायां किति णादौ सेटि थपि चैत्वपूर्वलोपौ वा ४ ॥ रेधतुः-रराधतुः । राध्यात् । राद्धा । रात्स्यति । अरात्स्यत् । अरात्सीत् । अराद्धाम् इष सर्पणे । इष्येति । इष्येत् । इष्यतु । ऐष्यत् । इयेष । इष्यत् । एषिता । एषिष्यति । ऐषिष्यत् । ऐषीत् । व्यध ताडने । ग्रहां किति च (सू० ८७३)
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy