SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ सू०९७३-९७८] दिवादिष्वात्मनेपदिनः ११ १७७ दीर्घो भवति ये परे अबादौ विषये च ॥ शाम्यति । शाम्येत् । शाम्यतु । अशाम्यत् । शशाम शेमतुः शेमुः । शम्यात् । शमिता। शमिष्यति । अशमिष्यत् । लित्पुषादेऊः । अशमत् । अशमीदिति केचित् । 'दम् श्रम् तम् भ्रम् क्षम् क्रम् मद्' एते शमादयः । रूपं तद्वत् । जिमिदा स्नेहने । आजी इतौ ॥ ९७३ मिदेर्ये गुणो वक्तव्यः ११ ॥ मेद्यति । मेद्येत् । मेद्यतु । अमेद्यत् । मिमेद मिमिदतुः मिमिदुः । मिद्यात् । मेदिता । मेदिष्यति । अमेदिष्यत् । अमिदत् । असु क्षेपणे । अस्यति । आस । असिता । असिष्यति ।। ९७४ अस्यतेर्डे थुग्वक्तव्यः १२ ॥ आस्थत् । इति दिवादिषु परस्मैपदिनः ॥ १०॥ दिवादिष्वात्मनेपदिनः ११ अथात्मनेपदिनः ॥ जनी प्रादुर्भावे । ईकारेत् ॥ ९७५ जा जनीज्ञोः १ जनी प्रादुर्भावे । ज्ञाऽवबोधने । अनयोर्जादेशो भवति चतुषु परेषु ॥ जायते । जायेत् । जायेताम् । अजायत । गमां खरे (सू०७८९ ) श्चुत्वम् । जञोजः ( सू० २५३) जज्ञे । जनिषीष्ट । जनिता । जनिष्यते । अजनिष्यत । अजनिष्ट ॥ ९७६ पदादेस्तनि कर्तर्यपि सेरिण वक्तव्यो दीपादिभ्यो वा.२ ॥ 'पद् दीप जन् बुध पूरि तायि प्यायि' एते पदादयः ॥ ९७७ लोपः ३ ॥ इण्संयोगे तनो लोपो भवति ॥ जनिवध्योर्न वृद्धिः ( सू० ८९०) अजनि अजनिषाताम् । दीपी दीप्तौ । दीप्यते। दीप्येत । दीप्यताम् । अदीप्यत । दिदीपे । दीपिषीष्ट । दीपिता । दीषिष्यते । अदीपिष्यत । अदीपिष्ट । अदीपि । पूरी आप्यायने । पूर्यते । पूर्येत । पूर्यताम् । अपूर्यत । पुपूरे । पूरिषीष्ट । पूरिता । पूरिष्यते । अ १२
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy