SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २२० सारस्वतव्याकरणम् । [वृत्तिः३ घटीग्रहः । धनुग्रहः । सूत्रग्रहः । पुष्पग्रहः । फलग्रहः। कामग्रहः । मधुरग्रहः। शंपूर्वः कृञ् । शं सुखं कल्याणं वा करोतीति शंकरः । शंवदः । भारंवहः । अत्र कर्मणि अणपि वक्तव्यः । भारवाहः । श्वेतवाहः । इत्यादि ॥ १२१७ इखखि ३१ ॥ धातोर्नाम्नि कार्ये च सति इख खि एते प्रत्यया भवन्ति ॥ खकारः खिति पदस्येति सूत्रस्य विशेषणार्थः ॥ १२१८ खिति पदस्य ३२ ॥ खिति प्रत्यये परे पूर्वपदस्याव्ययवर्जितस्य मुमागमो भवति ॥ तेन दोषामन्यमहः । आत्मानं दोषा मन्यते तदोषामन्यं अहः ॥ शकृत्स्तम्बात्कृञः फले रजोमलाद्हो हनः । दृतिनाथाद्देववातादापःकर्तरि वाच्य इः ॥२॥ वत्सत्रीह्योरेव । डुकृञ् करणे । शकृत्करोतीति शकृत्करिः वत्सः। स्तम्बं करोतीति स्तम्बकरिः व्रीहिः । फलं गृह्णातीति फलेग्रहिः वा फलानि गृहातीति फलेग्रहिवृक्षः । फलस्वेदन्तत्वं निपातनात् । रजो गृह्णातीति रजोग्रहिः । मलग्रहिः । इति हरतीति इतिहरिः । नाथहरिः । आप्ल व्याप्तौ । देवान् आमोतीति देवापिः । वातं. आमोतीति वातापिः। करीषकूलसर्वाभ्रात्कषः प्रियवशाद्वदः। ऋतिमेघभयात्कृनः क्षेमभद्रप्रियात्तु वा ॥३॥ कष निष्कर्षे । करीषं कषतीति करीषंकषः । करीषं शुष्कगोमयमित्यमरः । कूलं कषतीति कूलंकषः । सर्वं कषतीति सर्वकषः । अनं कषतीति अभ्रंकषः । खकारो मुमागमार्थः । वद व्यक्तायां वाचि । प्रियं वदतीति प्रियंवदः। वशंवदः । ऋतिं करोतीति ऋतिकरः । मेघंकरः । भयंकरः । विकल्पपक्षे कार्ये अण् । क्षेम
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy