________________
सू० १२१९-१२२०] कृदन्तप्रकरणम् १ २२१ करोतीति क्षेमंकरः-क्षेमकारः । भद्रं करोतीति भद्रंकरः-भद्रकारः। प्रियं करोतीति प्रियंकरः-प्रियकारः॥
आशिताच भुवो भावो करणे च तुराभुजात् । विहायसः सुतोरोभ्यां हृदयाच जनात् प्लवात् ॥४॥ गच्छतेः प्रत्ययः खः स्यानो धातोस्तु खिर्भवेत् ।
आत्मन्कुक्ष्युदरेभ्यः स्युस्तथा वाचंयमादयः ॥५॥ आशितेन भूयते इति आशितंभवम् । (भावे नपुंसकता वाच्या)। आशितो भवत्यनेनेति आशितंभव ओदनः । तुरं गच्छतीति तुरंगमः । भुजंगमः। विहंगमः । सुतंगमः । उरंगमः । हृदयंगमः । जनंगमः । प्लवेन गच्छतीति प्लवंगमः । डुभृञ् धारणपोषणयोः । आत्मानं बिभर्तीति आत्मभरिः । कुक्षिभरिः। उदरंभरिः लुप्तविभक्तेश्च पदान्तत्वं विज्ञेयम् । अतः परं वाचंयमादीन् कथयति । वाचंयमादयो निपात्याः । वाचं यच्छतीति वाचंयमः । अत्र अकारो निपात्यते । दृ विदारणे । पुरं दारयतीति पुरंदरः । तप संतापे । द्विषं तापयतीति द्विषतपः । परंतपः । सर्व सहतेऽसौ सर्वसहः । विश्वं बिभतीति विश्वंभरः । भगं दारयतीति भगंदरः । तृ प्लवनतरणयोः । रथं तरतीति रथंतरः । वृञ् वरणे । पतिं वृणोतीति वा वृणुते सा पतिवरा । जि जये । धनंजयतीति धनंजयः । धृञ् धारणे । वसूनि वा वसु धरति वा धरतेऽसौ वसुंधरा । शत्रुसहतेऽसौ शत्रुसहः । अरिं दाम्यतीति अरिंदमः । शत्रुतपः । एते वाचंयमादयः ॥ १२१९ एजां खश् ३३ ॥ एज कम्पने इत्यादीनां खश् प्रत्ययो भवति ॥ खकरो मुमागमार्थः। शकारः शिति चतुर्वत्कार्यार्थः । धातोः प्रेरणे (सू० १०४२) इति निः प्रत्ययः। जनान् एजयतीति जनमेजयः ।।