________________
२२२
सारस्वतव्याकरणम् । [वृत्तिः३ ज्यन्तैजेर्मन्यतेमुञ्जकूलास्यपुष्पतो धयेः।
नाडीमुष्टीशुनीपाणिकरस्तना सनासिकात् ॥६॥ मनु अवबोधने । दिवादेर्यः (सू० ९६३) आत्मानं पण्डितं मन्यतेऽसौ पण्डितमन्यः । धेट पाने । मुझं धयतीति मुझंधयः । कूलंधयः। आस्यंधयः। पुष्पंधयः। ध्माघेटोस्तुल्योपपदत्वं ज्ञेयम् । ध्मा शब्दामिसंयोगयोः । नाडी धयतीति नाडिंधयः । नाडिंधमः ॥ १२२० खशन्ते पूर्वपदस्य ह्रस्वो वाच्यः ३४ ॥ मुष्टिंधयः । मुष्टिंधमः । शुनिधयः । शुनिधमः । पाणिंधयः । पाणिधमः। करंधयः । करंधमः । स्तनंधयः । स्तनंधमः । नासिकां धयतीति नासिकंधयः । नासिकंधमः ॥
ध्माखारीवातघटीतो रुजवहौ तु कूलतः। अरुर्विधुतिलात्तुद् स्यादसूर्योगादृशिस्तपिः ॥७॥ ललाटतो वहाभ्रालिह मितमाननखात्पचिः।
वातादजिरिराया मद् जहतिः शर्धतिस्तथा ॥८॥ खारीं धमतीति खाधिमः । वातंधमः । घटिंधमः । रुजो भङ्गे । वह प्रापणे । उत्पूर्वः । कूलमुद्रुजतीति कूलमुद्रुजः । कूलमुबहतीति कूलमुद्रहः । अरुः किम् । मर्मस्थानम् । अरुस्तुदतीति अरुंतुदः । विधुतुदः । तिलंतुदः । दृशिर् प्रेक्षणे । न सूर्य पश्यन्तीति असूर्यपश्याः राजदाराः । उग्रंपश्यः । ललाटंतपः। लिह आखादने । वहं लेढीति वहलिहः। अभ्रंलिहः। मितं पचतीति मितंपचः। प्रस्थंपचः । पानंपचः । नखंपचः । अज गतौ क्षेपणे च । वातमजतीति वातमजः । मदी गर्वप्लवनयोः । इरया माद्यतीति इरंमदः । ओहाक् १ वर्णशिल्पी. २ बालः.