________________
२१९
सू० १२१२-१२१८ ] कृदन्तप्रकरणम् १ पदे धातोर्डः ॥ द्वाभ्यां पिबतीति द्विपः । द्वौ वारौ जायतेऽसौ द्विजः । गृहदारैः सह तिष्ठतीति गृहस्थः । गिरिशः । शीङ् खप्ने । पादैः पिबतीति पादपः । द्रु गतौ । शुचं द्रवतीति शूद्रः ॥ १२१२ शुचः शूद्रे २६ ॥ शुचः शूरादेशो भवति द्रे परे ॥ १२१३ उरसः सलोपो मुम्वा २७ ॥ उरसः सकारस्य लोपो भवति डप्रत्ययान्ते गमो मुमागमश्च वा ॥ उरसा गच्छतीत्युरगः उरङ्गः सर्पः॥ १२१४ विहायसो विहश्च २८॥ विहायस्शब्दस्य विहादेशो भवति चकारान्मुम्बा डान्ते गमौ ॥ विहायसि आकाशे गच्छतीति विहगः-विहङ्गः॥१२१५ भुजस्य च मुम्वा डप्रत्ययान्ते गमौ २९॥ भुजो वकार्थे ॥ भुजं वक्र गच्छतीति भुजगः भुजङ्गः। विहायसो विहश्चेति चकारात् तरसस्तुरादेशः । मुम्वेति अनुवर्तनीयम् । तरसस्तुरादेशः । तुरस्य मुम्वा डान्ते गमौ ॥ तरसा वेगेन गच्छतीति तुरगः-तुरङ्गः ॥ १२१६ अटौ ३० ॥ नाम्नि कार्ये च उपपदे सति अटौ प्रत्ययौ भवतः ॥अस्थि हरतीति अस्थिहरः श्वा । कवचंहरतीति कवचहरः कुमारः। धृञ् धारणे। धनुर्धरतीति धनुर्धरः क्षत्रियो राजा 'वा। चर गतौ। कुरुषु देशेषु चरतीति कुरुचरः। ट ईबर्थः । ष्टवितः (सू० ३७४) स्त्री चेत् कुरुचरी ।महीचरी सेनाचरी । भिक्षाचरी । दीक्षाचरी । अप्रत्ययः सर्वधातुसाधारणः । टप्रत्ययस्तु चरादेरेव भवति । शोकं करोतीति शोककरी कन्या। यशः करोतीति यशस्करी विद्या । सृ गतौ । पुरः सरतीति पुरःसरः। अग्रे सरतीति अग्रेसरः। पार्थे शेतेऽसौ पार्श्वशयः। तथैव पृष्ठे शेतेऽसौ पृष्ठशयः । उदरशयः। उत्तानादिषु कर्तृषु । उत्तानः शेतेऽसौ उत्तानशयः। स्तम्बरमः हस्ती। नप जल्प व्यक्तायां वाचि । कर्णेजपः । ग्रह उपादाने । शक्तिं गृहातीति शक्तिंग्रहः । लाङ्गलग्रहः । पृष्ठिग्रहः । अकुशग्रहः । तोमरग्रहः ।