________________
२१८
सारस्वतव्याकरणम् । [वृत्तिः३ ध्मा प्रा पा दा धा विद् एभ्यः शप्रत्ययो भवति ॥ शकारः शिति चतुर्वकार्यार्थः ॥ १२०८ शिति चतुर्वत २२ ॥ शिति प्रत्यये परे तिबादिषु परेषु यत्कार्यमुक्तं तद्भवति ॥ दृशादेः पश्यादिः (सू० ८१०) अप् । अदे (सू० ६९५) पश्यतीति पश्यः । उत्पूर्वः। उत् ऊर्ध्वं पश्यतीति उत्पश्यः । हन् हिंसागत्योः । अप् । अदे (सू० ६९५ ) अदादित्वादपो लुक् । अपितादिर्डित् ( सू० ६९३ ) । गमां खरे (सू० ७८९) हनो ने (सू० २६२) गां हन्तीति गोन्नः । पापन्नः । धेट पाने । अप् । अदे (सू० ६९५) धयतीति धयः । ध्मा धमादेशः । धमतीति धमः । उद्धमतीति उद्धमः । प्रा जिघ्रादेशः । जिघ्रतीति जिघ्रः । पा पाने । पिबादेशः । पिबतीति पिबः । अप् । अदे (सू० ६९५) ह्रादेxिश्च (सू० ९४२ ) । दादेः (सू० ९५७ ) इत्याकारलोपः । ददाति वा दत्तेऽसौ ददः । दधाति वा धत्तेऽसौ दधः । मुचादेर्मुम् (सू० १०११) तुदादेरः (सू० १००७ ) विदूल लाभे । गां विन्दतीति गोविन्दः ॥ १२०९ ज्वलादेर्णः २३ ॥ ज्वलादेर्ग'णात् णः प्रत्ययो भवति ॥ ज्वलादेणे वेति केचित् ॥ पक्षे पचादित्वादः । ज्वल दीप्तौ । ज्वाल:-ज्वलः । तपतीति ताप:-तपः । पथि गतौ । चुरादिः । इदित् । पान्थयतीति वा पन्थतीति पान्थः-पथः अत्र वृद्ध्यनन्तरं नुमागमः । ज्वलादिगणपाठसामथ्यात् । पत्ल गत्यैश्वर्ययोः । पततीति पात:-पतः । कथ पचने । कथतीति काथःकथः । पथ गत्याम् । पथतीति पाथः-पथः । मथ गाहे । मथतीति माथ:-मथः । सहतेऽसौ साहः-सहः ॥ इति ज्वलादिः ॥ ॥ अथाऽण् ॥ १२१० कार्येऽण् २४ ॥ धातोः कर्मणि. प्रयुज्यमाने अण् प्रत्ययो भवति ।। कुम्भकारः ॥ १२११ नानि च २५ ॥ नान्युप