SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ सू०१४८२-१४९४] क्त्वाप्रत्ययाधिकारः ९ २६३ । मुखं व्यादाय खपिति ॥ १४८९ पौनःपुन्ये णम्पदं द्विश्व १४ ॥ समानकर्तृकेषु धातुषु प्रयुज्यमानेषु पूर्वकाले पौनःपुन्यार्थे धातोर्णम् प्रत्ययो भवति णमन्तस्य पदस्य द्विर्वचनं भवति ॥ आतो युक् (सू० ११९२) पीत्वा पीत्वा इति पायं पायं गच्छति । आदरे वीप्सायां द्विर्भावः । भुक्त्वा भुक्त्वा इति भोजं भोजं व्रजति । स्मृत्वा स्मृत्वा इति स्मारं सारं नमति शिवम् ॥ १४९० कथमादिषु स्वार्थे कृञो णम् १५ ॥ कथं इत्थं अन्यथा एवं एतेषु प्रयुज्यमानेषु खार्थे कृनो णम् प्रत्ययो भवति ॥ कथंकारं इत्थंकारं अन्यथाकारं एवंकारं पठति । एवं पठतीत्यर्थः ॥ १४९१ समूलाकृतजीवेषु हन्कृञ्ग्रहांणम् वाच्यः खार्थे तेषामनुप्रयोगश्च १६॥ समूलघातं हन्ति । अकृतकारं करोति । जीवं गृहीत्वा इति जीवनाहं गृह्णाति । इत्यादि ॥ १४९२ वर्णात्कारः १७ ॥ वर्णमात्राकारः प्रत्ययो भवति ॥ क इति वर्णः ककारः । व इति वर्णों वकारः।. अ इति वर्णः अकारः । वर्णसमुदायादपि कारो दृश्यते । अहंकारः। ओंकारः । टकारः । पकारः । तकारः इत्यादि ॥ १४९३ रादिको वा १८ ॥ र इति वर्णः रेफः-रकारः॥ रकारादीनि नामानि श्रुत्वा तत्रास रावणः । रत्नानि च रमण्यश्च संत्रासं जनयन्ति मे ॥२॥ रकारादीनि नामानि शृण्वतो मम पार्वति । मनः प्रसन्नतामेति रामनामाभिशङ्कया ॥३॥ १४९४ लोकाच्छेषस्य सिद्धिर्यथा मातरादेः १९ ॥ अस्स सारखतव्याकरणस्य ये शेषप्रयोगास्तेषां लोकात् अन्यव्याकरणासिद्धिर्भवति यथा मातरादेः । इत्यादिप्रयोगानुसारेण बोद्धव्यम् ॥
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy