SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ६४ सारस्वतव्याकरणम् । [वृत्ति: १ अनया आभ्याम् आभिः । इदम् ङे इति स्थिते । त्यादेष्टेरः स्यादौ ( सू० २८७ ) । दस्य मः ( सू० २४० ) आबतः स्त्रियाम् ( सू० २०३ ) । ङितां यट् ( सू० २०१ ) । यटोच्च ( सू० २०४ ) । स्भ्यः (सू० २७२ ) । सवर्णे दीर्घः सह ( सू० ५२ ) अस्यै अभ्याम् आभ्यः । अस्याः अनयोः एनयो: आसाम् । आडेर्नियश्च ( सू० १८३ ) अस्याम् अनयोः - एनयोः आसु । चकारान्तस्त्वच्शब्दः । चोः कुः ( सू० २८५ ) इति कुत्वम् । वावसाने ( सू० २४०) त्वक्-त्वग् त्वचौ त्वचः । त्वचम् त्वचौ त्वचः । त्वचा त्वग्भ्याम् त्वग्भिः । चोः कुः (सू०२८५) । किलात् (सू० १४१ ) कषसंयोगे क्षः ( सू० २४२ ) । त्वक्षु । हेत्वक् - हेत्वग् हेत्वचौ हेत्वचः । एवं ऋच्वाच्प्रभृतयः । पकारान्तोऽप्शब्दो नित्यं बहुवचनान्तः स्त्रीलिङ्गः । न्सम् महतोऽधौ दीर्घः शौच ( सू० २९३ ) आपः अपः || ३१८ मि दपाम् ९ || भिदू अपाम् | अबादीनां भकारे परे दत्वं भवति || अद्भिः अद्भ्यः अद्भ्यः आपाम् अप्सु । हे आपः || अबादीनामित्यादिग्रहणं गौणत्वेऽपि दत्वार्थम् । अपशब्दस्य पञ्चसु यद्रूपं तत् खप्शब्दस्य रूपम् । अबादीनामित्यत्र अपः पाठे अपशब्दस्यैव वक्तव्ये अपामित्यत्र । बहुवचनात् अप् स्वप् बह्वाप् एते प्रायाः । खापि तडागानि । बह्वाम्पि तडगानि । शोभना आपो यस्मिन् प्रदेशे खाप् खापौ खापः । हेखाप् इत्यादि ॥ शकारान्तो दिशब्दः || ३१९ दिशाम् १० ॥ दिश् विश् स्पृश् इत्यादीनां रसे पदान्ते च कुत्वं भवति ॥ दिश् विश् दृश् स्पृश् मृश् राज् ऋत्विज् ददृक्ष् उष्णिहू अञ्जु युञ्ज् क्रुञ्च एते दिशामिति बहुवचनेन गृह्यन्ते । वावसाने ( सू० २४० ) दिक् दिग्र् दिशौ दिशः । दिशम् दिशौ दिशः । दिशा दिग्भ्याम् दिग्भिः । दिशे । कुत्वम् ।
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy