________________
सू० ३१६-३१९] हसान्ताः स्त्रीलिङ्गाः १०
१८४ ) प्रियतिस्रौ प्रियतिस्रः । प्रियतिस्रम् प्रियतिस्रौ प्रियतिस्रः। प्रियतिस्रा प्रियतिसृभ्याम् प्रियतिसृभिः । प्रियतिसृषु ॥ क्लीबे प्रियास्तिस्रो यस्य तत्प्रियतिसृ प्रियतिसृणी प्रियतिसृणि ॥ एवं प्रियाश्च. तस्रो यस्य सः प्रियचतसा प्रियचतस्रौ प्रियचतस्रः ॥ क्लीबे । प्रिय. चतसृ प्रियचतसृणी प्रियचतसृणि ॥ रेफान्तो गिशब्दः ॥ ३१६ स्वोर्विहसे ७ ॥ धातोरिकारोकारयो? भवति रेफवकारयोर्हसपरयोः ॥ गीः गिरौ गिरः । गिरम् गिरौ गिरः । गिरा गीाम् गीर्भिः । हेगीः हेगिरौ हेगिरः ॥ एवं पुरधुरादयः ॥ धकारान्तः समिशब्दः । वावसाने (सू० २४० ) समित्-समिद् समिधौ समिधः । समिधम् समिधौ समिधः । समिधा समिभ्याम् समिद्भिः। खसे चपा झसानाम् (सू० ८९) समित्सु ॥ भकारान्तः ककुभ्शब्दः । वावसाने (सू० २४० ) ककुप्-ककुब् ककुभौ हेककुभः । ककुभम् ककुभौ ककुभः । ककुभा ककुब्भ्याम् ककुभिः । ककुप्सु । हेककुप्-हेककुब् हेककुभौ हेककुभः । दकारान्तास्त्यदादयः । त्यादेष्टेरः स्यादौ (सू० १७५) इति सर्वत्राकारः । आवतः स्त्रियाम् (सू० २०४ ) इति आप् । पकारः सिलोपार्थः । सवर्णदीर्घत्वे कृते स्त्रीलिङ्गे सर्वाशब्दवद्रूपं ज्ञेयम् ॥ स्तः ( सू० २५० ) सा औरी ( सू० १९७ ) अ इ ए (सू० ४३ ) त्ये त्याः ॥ सा ते ताः॥ या ये याः ॥ एषा एते एताः ॥ एतां-एनाम् एते-एने एताःएनाः । एतया-एनया । एतयोः एनयोः ॥ का के काः ॥ मकारान्त इदम्शब्दः ॥ ३१७ इयं स्त्रियाम् ८॥ इदम्शब्दस्य स्त्रिया• मियं भवति सिसहितस्य । इयं इमे इमाः । इमां-एनाम् इमे-एने इमाः-एनाः । अन टौसोः ( सू० २७१ ) टोसोरे ( सू० १९९)
१ आहूतस्याह्वानमन्वादेशः । तत्रैवेदम एनादेशः।