SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ सू० १३२७-१३३८] कस्वादिप्रक्रिया ३ पचमानः । पिबति वा पठति । यज देवपूजासंगतिकरणदानेषु । यजतेऽसौ यजमानः स्तौति । मन ज्ञाने । मन्यतेऽसौ मन्यमानः । मनु अवबोधने । तनादेरुप (सू० ९९७) मनुतेऽसौ मन्वानः । परागच्छति करोतीति कुर्वन् सः । ढित्यदुः ( सू० १००० ) कुरुतेऽसौ कुर्वाणः । क्रियतेऽसौ क्रियमाणः ॥ १३२७ उपसर्गस्थनिमित्चात नकारस्य णो वाच्यः ११ ॥ प्रपीयतेऽसौ प्रपीयमाणः ॥ १३२८ आसेरानई १२ ॥ आसेर्धातोः परस्य आन आकारस्य ईकारादेशो भवति ॥ आस् उपवेशने । आस्तेऽसौ आसीनः ॥ १३२९ वा दीपोः शतुः १३ ।। अवर्णात्परस्य शतृप्रत्ययस्य वा नुमागमो भवति ईकारे ईपि च परे ॥ तुद व्यथने । तुदतीति तुदन् । तुदन्तौ तुदन्तः । स्त्रीलिङ्गे तुदति सा तुदन्ती-तुदती तुदन्त्यौ-तुदत्यौ तुदन्त्यः-तुदत्यः । नपुंसके तुदतीति तुदत् तुदन्ती-तुदती तुदन्ति । इत्यादि ॥ १३३० अप्ययोरान्नित्यम् १४ ॥ अप्प्रत्यययप्रत्ययसंबन्धिनः अकारात्परस्य शतुर्नित्यं नुमागमो भवति ईपोः परतः ।। भवति इति भवन् भवन्तौ भवन्तः । भवति सा भवन्ती भवन्त्यौ भवन्त्यः । भवति तत् भवत् भवन्ती भवन्ति । पचतीति पचन् पचन्ती स्त्री । नपुंसके पचति तत् पचत् पचन्ती पचन्ति । दिवु क्रीडादिषु । दीव्यति इति दीव्यन् दीव्यन्ती स्त्री नपुंसके । दीव्यति तत् दीव्यत् दीव्यन्ती दीव्यन्ति । पठतीति पठन् । पठन्ती स्त्री । नपुंसके पठन् पठन्ती पठन्ति । हसतीति हसन् । हसन्ती स्त्री हसत् नपुंसके । श्लिष्यतीति श्लिष्यन् । श्लिष्यन्ती स्त्री। श्लिष्यत् नपुंसके । जयतीति जयन् । जयन्ती स्त्री । नपुंसके जयत् ॥ १३३१ वादिपोः शतुरित्यत्र वाशब्दात द्विरुक्तानां जक्षादीनां च शतुर्नित्यं नुमप्रतिषेधो वक्तव्यः नपुंसके शौ वा १५ ॥
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy