________________
२१०
सारस्वतव्याकरणम् । [वृत्तिः ३ ददातीति ददत्-दधत् ददती ददति । जक्ष भक्षहसनयोः। जक्षतीति जक्षत् जक्षती जक्षति जक्षन्ति कुलानि । जागृ निद्राक्षये । जागर्तीति जाप्रती जाग्रत् जाग्रन्ति-जाग्रती । दरिद्रा दुर्गतौ ॥ १३३२ दरिद्रातरालोपो वक्तव्यः १६ ॥ दरिद्रातीति दरिद्रत् दरिद्रन्ती दरिद्रति दरिद्रन्ति । चकास्तीति चकासत् चकासति चकासन्तिचकासति । शास्तीति तत् शासत् । अनुशास्ति तत् अनुशासत् । दादेः (सू० ९५७) ददत् ददती ददन्ति-ददति । दधत् इत्यादि । १३३३ विदेवो वसुः १७ ॥ विदेर्धातोः शतृविषये वा वसुःप्रप्रत्ययो भवति ॥ वेत्तीति विद्वान्-विदन् ॥ १३३४ भविष्यदर्थे तितेवत् शतृशानौ भवतः १८ ॥ १३३५ अत्रभवत्तत्रभवच्छब्दौ पूज्यार्थे निपात्येते १९॥ अत्रभवन्तो भट्टमिश्राः। पूज्या इत्यर्थः । तत्रभवद्भिर्भगवत्पादैर्भणितम् ॥ १३३६ शीले तृन् २०॥ धातोस्तृन् प्रत्ययो भवति शीले खभावेऽर्थे ॥ नकारः प्रत्ययभेदज्ञापनार्थः । करोतीत्येवंशीलः कर्ता। विचरतीत्येवंशीलः विचरिता । णीञ् प्रापणे । नयतीत्येवंशीलः नेता । धर्ता । म्रियते इत्येवंशीलः मर्ता । बिमर्तीत्येवंशीलः भर्ता । शयिता इत्यादि ॥ इति कखादिप्रक्रिया ॥ ३ ॥
शीलार्थप्रक्रिया ४ अथ शीलार्थप्रक्रिया ॥ १३३७ इष्णुस्नुक्रुः १॥ धातोः शीले खभावेऽर्थे इष्णु स्नु नु इत्येते प्रत्यया भवन्ति । अलंपूर्वः ॥१३३८ अलंकृञ् निराकृञ् प्रजन् उत्पच उत्पत् उत्पद् ग्रस् उन्मत् रुच अपत्र' वृतु वुधु सह चर भू भ्राञ् ञ्यन्त एभ्य इष्णुः २॥अलंकरोतीत्येवंशीलः अलंकरिष्णुः। निराकरिष्णुः । प्रजायते इत्ये