Page #1
--------------------------------------------------------------------------
________________
काव्यादर्शः।
महाकवि श्रीदण्डयाचार्यविरचितः ।
पहितकुलपतिना
वि, ए, उपाधिधारिणा. श्रीजीवानन्दविद्यासागरभट्टापाया
विरचितया विकृत्या समलतः ।
SODE
ADDROITI
F
TICLET
M.OA
द्वितीयसंस्करणम् ।
कलिकाताराजधान्याम् नारायणयन्चे मुद्रितः ।
ई. १८८०।
Page #2
--------------------------------------------------------------------------
________________
प्रथमपरिच्छ ेदः ।
( १-५५ पृष्ठा )
काव्यादर्शस्य सूचीपत्रम् ।
मङ्गलाचरणम्
वाक्यप्रशंसा
काव्यप्रशंसा
काव्यलक्षणम्
काव्यभेदा:
170
रौतिविवेकः
शेषादिगुणाः
श्लेषलक्षणम्
नोकाङ:
महाकाव्यलक्षणम्
गद्यकाव्यभेदाः
मिश्रकाव्यभेदाः, काव्यस्य संस्कृतादिभे
दान्तराणि
कथा-त्रहत्कथयोर्भेदः
प्रसादलक्षणम्
समतालक्षणम्
माधुर्यलक्षणम्
प्रसङ्गतः अनुप्रासस्य निरूपणम्
यमकलक्षणम्
ग्राम्यताया माधुर्यप्रति
बन्धकत्वम्
३ सौकुमार्य्यलक्षणम्
६२
එ
अर्थव्यक्तिलक्षणम् ७३
उदारत्वलक्षणम्
७६
ओजोगुणलक्षणम्
८०
श्लोकाङ्कः
१०
११
१४ | कान्तिलक्षणम्
२२ | समाधिलक्षणम्
३१
काव्यस्य कारणानि
३२
३८
४०
४१ अर्थालङ्कारविभागाः
.४३
स्वभाबोक्तिः
४५
उपमालक्षणम्
४७
धर्मोपमा
५१
द्वितीयपरिच्छेदः ।
( ५६ - १९४ पृष्ठा )
अलङ्कारसामान्यलक्षणम् १
४
वस्तूपमा
विपय्यासोपमा
५५ अन्योन्योपमा
८३
१०३
८
१४
१५
१६
१७
१८
Page #3
--------------------------------------------------------------------------
________________
२२ ।
100
नोकाङ्कः
नोकाङ्कः नियमोपमा १८ मालोपला अनियमोपमा २० वाक्यार्थोपमा समुच्चयोपमा
प्रतिवस्तूपमा अतिशयोपमा
तूल्ययोगोपमा उत्प्रेक्षितोपमा
हेतूपमा अद्भुतोपमा
उपमादोषः मोहोपमा
उपमाबोधकशब्दाः ५७।। संशयोपमा
रूपकसामान्यलक्षणम् ६६ निर्णयोपमा
समस्तरूपकम् श्लेषीपमा
२८ व्यस्तरूपकम् समानोपमा
समस्तव्यस्तरूपकम् निन्दोपमा
सकलरूपकम् प्रशंसोपमा
३१ अवयवरूपकम् प्राचिख्यासोपमा ३९ अवयविरूपकम् विरोधोपमा
एकाङ्गादिरूपकम् प्रतिषेधोपमा
युक्तरूपकम् चटूपमा
३५ अयुक्तरूपकम् तत्त्वाख्यानोपमा
विषमरूपकम् असाधारणोपमा
सविशेषणरूपकम् अभूतोपमा
विरुहरूपकम् असम्भावितोपमा
हेतुरूपकम् वहूपमा
लिष्टरूपकम् विक्रियोपमा ४१ । उपमारूपकम्
..
M
r
१ Mr
Mr
AD
Page #4
--------------------------------------------------------------------------
________________
१४७
८२
..
लोकाः ।
श्लोकाङ्क: व्यतिरेकरूपकम्
८८
साचिव्याक्षेपः १४५ आक्षेपरूपकम् .. १- यत्नाक्षेपः समाधानरूपकम् परवशाक्षेपः १४९ रूपकरूपकम् .....६३ उपायाक्षेपः तखापङ्गवरूपकम् रोषाक्षेपः . १५३ दोपकम्
८७ मूर्छाक्षेपः १५५ मालादीपकम् .. १०७ अनुक्रोशाक्षेपः विरुद्धार्थदीपकम् १०८ लिष्टाक्षेपः . . १५८ एकार्थदीपकम् १११ अनुशयाक्षेपः १६१ निष्टार्थरूपकम्
संशयाक्षेपः १६३ आवृत्तिः ।
अर्थान्तराक्षेपः १६५ तभेदाः ।
हेत्वाक्षेपः १६७ आक्षेपः ।।
अर्थान्तरन्यासः १६८ तभेदा )
तभेदाः धर्माक्षेपः
व्यतिरेकः
१२७ धाक्षेपः
एकव्यतिरेकः कारणाक्षेपः १३१
उभयव्यतिरेकः
सश्लेषव्यतिरेकः काक्षिपः १३४
साक्षेपव्यतिरेकः । अनुज्ञाक्षेपः ।
सहेतव्यतिरेकः । प्रभुत्वाक्षेपः १३७
प्रतीयमानसादृश्यअनादराक्षेपः १३९
व्यतिरेकः
१८८ आशीर्वचनाक्षेपः
सादृश्यव्यतिरेकपरुषाक्षेपः १४३ | भेदान्तराणि १८२
क्षिपः
१२८
१८३
१३५
१४१
Page #5
--------------------------------------------------------------------------
________________
___
Co w
३४८
( ४ ) श्लोकाङ्कः ।
लोकाङ्कः विभावना - १८ विरोधः - ३३३ समासोक्तिः
अप्रस्तुतप्रशंसा तभेदाः । २०८ আসনি ३४३ अपूर्वसमासोक्तिः २१२ निदर्शनम् अतिशयोक्तिः । २१४ सहोक्तिः
३५१ अतिशयोक्तिप्रशंसा २२० परिहत्तिः
३५१ उत्प्रेक्षा
प्राशीः - २५७ तव्यचकशब्दाः २३४ सङ्कीर्णम्
१५८
तभेदौ . .. ३६० तभेदा: )
भाविकम् सूत्मः
तभेदाः ३६५
तृतीयः परिच्छदः । क्रमः . . २७३
(१८५-३८० पृष्ठा) प्रेयोरसवदूर्जखि
यमकम् ) लक्षणानि
२७५
तभेदाः । पर्यायोक्तम्
गोमूत्रिका समाहितम्
| अभ्रमः . .... उदात्तम्
सर्वतोभद्रम् ८० अपहतिः ३०४ खरस्थानवर्णनियमाः ८३ श्लेषः
३१० प्रहेलिकाः ८६ तभेदाः
तत्स्थानानि ८७ विशेषोक्तिः
३२३ समागताप्रहेलिका तुल्ययोगिता ३३० | वञ्चिताप्रहेलिका
'लेशः
२६५
७८
'n
m
३१४
Page #6
--------------------------------------------------------------------------
________________
শ্বালা प्रमुषिता समानरूपा परुषा सध्याता प्रकल्पिता नामान्तरिता निक्षता समानशब्दा
१.१
लोकार:
नीकाङ्क: यतिनंशः
१५२ इत्तमः विसन्धित्वम् १५९ | देशकालकलालोकन्याया- . | गमविरोधाः १६२ देशविरोधः १६१६६
कालविरोधः १६७१६८ १०२ कलाविरोध: १७०
लोकविरोधः - १७२ न्यायविरोधः १७४।१७५ भागमविरोध: १७७।१७८ देशविरोधे गुणः १८०
कालविरोधे गुणः १८१ १०५ कखाविरोधे गुणः १८२ १२५ लोकविरोधे गुणः १८३ १२८ | न्यायविरोधे गुणः १८४ १३१ पागमविरोधे गुणः १८५
संमूढ़ा
१०४
१०४
परिहारिका एकच्चमा उभयच्छता सहीर्ण दोषविभागाः अपार्थत्वम् व्यर्थत्वम् एकार्थवम् ससंशयखम् अपक्रमः शब्दहीनत्वम्
१३५
१३८ १४४
ग्रन्यसमाप्तिः ।
१४८
Page #7
--------------------------------------------------------------------------
________________
काव्यादर्शः ।
प्रथमः परिच्छेदः ।
चतुर्मुखमुखाम्भोजवनहंसबधूर्मम । मानसे रमतां नित्यं सर्वशुक्ला सरखती ॥ १ ॥
प्रणम्य कमलाकान्तं भक्ताभीष्टफलप्रदम् । काव्यादर्शस्य विकृतिं वितनोमि सतां मुदे ॥
किंवदन्तीयं यत् महामहोपाध्यायः श्रीमान् देखौनाम कविः ग्रन्यमिमं स्वयं विरच्य कमपि राजपुत्त्रम् अध्यापयामास इति ।
ग्रन्थारम्भे निर्विघ्नेन प्रारिसितपरिसमाप्तिकामनया कविग्रन्याधिष्ठाटतया वाग्देवतायाः स्मरणरूपमङ्गलमाचरन्नाह चतुर्मुखेति । चतुर्मुखस्य ब्रह्मणः सुखान्येव अम्भोजवनानि पद्मवृन्दानि तेषु हंसबधूः हंसौखरूपा सर्वतः सर्वावयवेन सर्वप्रकारेण च शुक्ला श्वेतवर्णा परिशुद्धा च सरखती वागधिष्ठात्री देवो नित्यं सततं मम मानसे चेतसि तदाख्यसरसि च रमतां विहरतु मानसे सरसि पद्मवनेषु हंसीव या ब्रह्मणो मुखकमलेषु श्रुतिरूपेण सततं विहरति सा सर्वशुद्धा वाग्देवी मम हृदये सततं वसतु इति निष्कर्षः । नित्यमित्यत्र दौर्घमिति पाठे दीर्घं सुचिरमित्यर्थः ॥ १ ॥
Page #8
--------------------------------------------------------------------------
________________
काव्यादमें
पूर्वशास्त्राणि संहृत्य प्रयोगानुपलभ्य च । यथासामर्थ्यमस्माभिः क्रियते काव्यलक्षणम् ॥२॥ इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा । वाचामेव प्रसादेन लोकयात्रा प्रवर्त्तते ॥ ३ ॥
सम्प्रति ग्रन्थस्य अभिधेयं निर्दिशन् प्रतिजानीते पूर्वशास्त्राणीति । पूर्वेषां कवीनां भरतादीनां शास्त्राणि काव्यग्रन्दान् संहृत्य संक्षेपेण तेभ्यः सारमाकृष्य प्रयोगान् महाकाव्यादिषु प्रयुक्तान् विषयान् उपलभ्य समालोच्य च अस्माभिः यथासमा यथाशक्ति यथाज्ञानमिति यावत् काव्यस्य लक्षणं स्वरूपं लक्ष्यते ज्ञायते अनेनेति व्युत्पत्त्या लक्षणम् इतरव्यवच्छेदकः असामान्यधर्म इति यावत् क्रियते निर्णीयते । एतेन काव्यमेव ग्रन्थस्य अभिधेयं दर्शितम् ॥ २ ॥
इदानों ग्रन्यस्य प्रयोजनकथनस्य वाचा व्यवहारोपयोगि त्वम् अन्वयव्यतिरेकाभ्यामाह इहेति इदमिति च । इह संसारे शिष्टैः धीरैः । तदुक्तं महाभारत - न पाणि दचपलो न नेत्रचपलो मुनिः । न च वागङ्गचपल इति शिष्टस्य लक्षणम् ॥ इति । महेश्वरादिभिः अनुशिष्टानां साधितानां प्रकृतिप्रत्ययादिविभागेन संस्कृतानां तथा शिष्टानां जातिदेशादिविभागेन सिद्धानां प्रचलितानां प्राकृतदेशीयानां वाचामेव प्रसादेन अनुकम्पया साहाय्येनेति यावत् सर्वथा सर्वैः प्रकारैः लोकानाम् उत्तममध्यमाधमभेदेन विविधानां यात्रा व्यवहारः प्रवर्त्तते प्रचलति तत्रोत्तमाः संस्कृतयैव वाचा व्यवहरन्ति मध्यमाः. ततो निकष्टया साधुभाषया, अधमा नौचमाश्रया इति । देशजातिभेदेन एवमेव भाषाव्यवहार इति फलितार्थः ॥ ३ ॥
Page #9
--------------------------------------------------------------------------
________________
प्रथम: परिच्छेदः ।
इदमन्वं तमःकृत्स्नं जायेत भुवनवयम् । यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥ ४ ॥ आदिराजयशोविम्बमादर्श प्राप्य वाङ्मयम् । तेषामसन्निधानेऽपि न स्वयं पश्य नश्यति ॥ ५॥
इदमिति । यदि शब्दः आह्वयः अभिधानं यस्य तत् शब्दनामकं वानयमित्यर्थः ज्योतिः तेज:प्रकाशकखरूपधर्मवलेन वानये तथालारोषः । प्रासंसारं जगत् अभिव्याप्य न दीप्यते न विराजते तदा इदं कृत्स्रं सर्व भुवनानां स्वर्गमर्त्यरसातलानां चयम् अन्धं तमः गाढ़ान्धकारव्याप्तमिति यावत् जायेत सूर्योदयाभावे इव वागभावे जगत् अन्धकारमयमेव स्यात् वाग्भिरेव सर्वेषां ज्ञानलाभादिति भावः । एतेन भस्य प्रयोजनं वाग्व्यवहाररूपमेव कथितम् । अभिधेयप्रयोजनयोश्च परस्परं प्राप्यज्ञापकत्वादिरूपः सम्बन्धः यथायथमवयन्तव्यः। एषाञ्च ग्रन्यादौ अवश्यवक्तव्यतोता यथा,-ज्ञातार्थ ज्ञातसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते। ग्रन्थादौ तेन वताव्यः सम्बन्धः सप्रयोजनः ॥ इति ॥ ४॥ - इदानीं वाचामुपादेयत्वं दर्शयति, भादिराजेति। श्रादिराजानां मन्विक्ष्वाकुप्रभृतीनां यशोविम्ब कौर्तिरूपं प्रतिविम्बं कर्तृ वामयं कविगणनिबद्ध काव्यप्रबन्धरूपमादर्श दर्पणं प्राप्य . तेषाम् आदिराजानाम् असबिधानेऽपि असत्तायामपि न नश्यति न विलीयते इति खयं पश्य अवलोकयेति राजपुत्रं प्रत्युक्लिः । दर्पणे विम्बपतनं सबिहितानामेव इह तु वामयरूपे दर्पणे असब्रिहितानामपौति उपमेयाधिक्यवर्णनव्यति
Page #10
--------------------------------------------------------------------------
________________
काव्यादरों
गौ!: कामदुधा सम्यक् प्रयुक्ता स्मय॑ते बुधैः । टुष्पयुक्ता पुनर्गोत्वं प्रयोक्तु: सैव शंसति ॥ ६ ॥ तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथञ्चन । स्थाहपुः सुन्दरमपि विवेणैकेन दुर्भगम् ॥ ७॥ रेकालङ्कारः। इदञ्च पुरात्तवर्णितानां यशःकीर्तनं प्रयोजनान्तरमनुसन्धेयम् ॥ ५ ॥ ___वाचामुपादेयत्वं सामान्येनोका वागविशेषस्य कविप्रणीतप्रबन्धस्य विशेषोपादेयत्वं कौतयवाह गौरिति। सम्यक् प्रयुक्ता गुणालङ्कारादिवत्वेन दोषराहित्येन सुनिबदा गौः वाक् खर्गेषु पवाग्वचदिङ नेबष्टणिभूजले। लक्ष्यदृष्ट्यां स्त्रियां पुंसि गौरित्यमरः । बुधैः विनिः सहृदयैः सुधीभिरित्यर्थः कामदुधा कामदोहिनी यथाभिलषितपूरणी गौः धेनुः मर्यते मन्यते । एकः शब्दः सुप्रयुक्तः सम्यक् प्रातः खर्गे लोके च कामधुक् भवति इति श्रुतेः। अपरच, धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च। करोति कौतिं प्रौतिञ्च साधुकाव्यनिषेवणम् ॥ इति। पुनः किन्तु सा एव गौः दुष्प युक्ता सदोषत्वेन गुणालङ्कारादिराहित्येन च प्रयुक्ता निवडा सती प्रयोक्नुः प्रयोगं कुर्वतः कवेरिति यावत् गोत्व वृषत्वमन्नत्वमिति भावः शंसति सूचयति ॥ ६ ॥
तत् तस्मात् प्रयोजकस्य गोत्वख्यापनात् काव्ये अल्पमपि दुष्टं दोषः भावे लप्रत्ययः। कथञ्चन केनापि प्रकारेण न उपेशं न क्षन्तव्यं सर्वथा दोषः परित्याज्य इत्यर्थः । ननु गुणालहारादिसद्भावे सामान्यदोषण का क्षतिरिति चेत् तबाह स्यादिति । वपुः शरीरं सुन्दरमपि स्वभावतः गुणादिवत्तया वा
Page #11
--------------------------------------------------------------------------
________________
प्रथमः परिच्छेदः। ५ गुणदोषान् अशास्त्रज्ञः कथं विभजते जनः । किमन्धस्याधिकारोऽस्ति रूपभेदोपलब्धिषु ॥८॥ अत: प्रजानां व्युत्पत्तिमभिसन्धाय सूरयः । वाचां विचिवमार्गाणां निबबन्धुः क्रियाविधिम्॥६॥
सुदर्शनमपि एकेन एकाङ्गवर्त्तिना क्षुद्रेणापि खित्रेण धवलरोगण दुर्भगं पृणितं स्यात् अत्र दृष्टान्तालङ्कारः। तदुक्त साहित्यदर्पण, दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिविम्बनम् इति ॥ ७॥
अशास्त्रज्ञ: अविहान् जनः गुणदोषान् काव्यस्य उपादेयत्वव्यञ्जका धर्मा गुणाः तान् हेयत्वव्यञ्जका धर्मा दोषाः तांश्च कथं विभजते विशेषेण बुध्यते नैवेत्यर्थः प्रोजःप्रसादादिगुणानां श्रुतिकट्टादिदोषाणाञ्च काव्यपाठश्रवणमात्रेण सामान्यतः परिज्ञानेऽपि शास्त्राविज्ञाने विशेषज्ञानासम्भवादिति भावः। तथाहि रूपाणां सौन्दयादीनां भेदोपलब्धिषु विशेषज्ञानेषु अन्धस्य अधिकारः शक्तिः किम् अस्ति नैवेत्यर्थः । अत्रापि दृष्टान्तालङ्कारः ॥ ८॥ ___ अतः कारणात् गुणदोषाणां विभागादेः शास्त्रगम्यत्वात् हेतोः सूरयः पूर्वपण्डिता: भरतादयः प्रजानां लोकानां व्युत्पत्तिं वाग्वैचित्राज्ञानम् अभिसन्धाय अभिप्रेत्य उद्दिश्य इत्यर्थः विचित्रमार्गाणां विचित्रा विविधा मार्गाः पन्थानः रौतयः गौड़ीप्रभृतयः यासां तथाभूतानां वाचां काव्यप्रबन्धानाम् इत्यर्थः क्रियाविधि रचनाविधानं निबबन्धुः चक्रुः इत्यर्थः काव्यग्रन्थान् रचयामासुः इति यावत् ॥ ८ ॥
Page #12
--------------------------------------------------------------------------
________________
काव्यादरों
तैः शरीरञ्च काव्यानामलङ्काराश्च दर्शिताः । शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली ॥ १० ॥ गद्यं पद्यञ्च मिश्रञ्च तत् विधैव व्यवस्थितम् । पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ॥ ११ ॥ छन्दोविचित्यां सकलस्तत्प्रपञ्चो निदर्शितः । सा विद्या नौस्तितीर्षूणां गम्भौरं काव्यसागरम्॥१२॥
इदानीं प्राचीनसंवादनिर्देशपुरःसरं काव्यशरीरं निरूपयति तैरिति । तैः पूर्वपण्डितैः काव्यानां शरीरम् अलङ्काराश्च अलजियते एभिरिति व्युत्पत्त्या अलङ्काराः काव्यशरीरशोभका गुणालङ्कारादयश्च दर्शिताः । काव्यानामिति बहुत्वं प्रकारभेदविवक्षयोक्तमवगन्तव्यम् । किं तत्शरीरमित्याकाङ्गायां स्वमतमुद्दाटयति शरीरमिति तावच्छब्दो वाक्यालङ्कारार्थः । इष्टा: हृद्याः रसाद्यनुगमेन मनोहरा इत्यर्थः ये वाच्यलक्ष्यव्यङ्गभेदेन विविधा अर्थाः तैः व्यवच्छिन्ना विभूषिता पदावली पदसमष्टिः काव्यस्य शरोरमिति वर्त्तुलार्थः ॥ १० ॥
इदानीं काव्यभेदान् दर्शयति गद्यमिति । तत् काव्यं faधैव त्रिप्रकारेणैव व्यवस्थितं, सिद्धान्तितं प्राचीनैरिति शेषः । गद्यं छन्दोरहितं पद्यं छन्दोबद्धं मिश्रं गद्यपद्योभयात्मकम् इत्यर्थः । तत्र पद्यं चतुचरणनिबद्धं तदपि वृत्तं जातिरिति द्विविधम् अक्षरसंख्यया निवद्धं वृत्तं मात्रया निबद्धा जातिरिति ज्ञेयम् ॥ ११ ॥
छन्दांसि विचीयन्ते विज्ञायन्ते अनयेति छन्दोविचित्यां पिङ्गलादिक्कतच्छन्दोग्रन्थे तेषां वृत्तजातिप्रभृतीनां प्रपञ्चः
Page #13
--------------------------------------------------------------------------
________________
प्रथमः परिच्छेदः ।
मुक्तकं कुलकं कोषः सङ्घात इति तादृशः । सर्गबन्धाङ्गरूपत्वादनुक्तः पद्यविस्तरः ॥ १३ ॥ सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् । आशौर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् ॥ १४ ॥ विस्तार: निदर्शितः निरूपितः सा विद्या छन्दोज्ञानमित्यर्थः गम्भीरम् अगाधं दुर्गममित्यर्थः काव्यसागरं काव्यरूपमर्णवं तितीर्षूणां तरितुमिच्छूनां नौः तरणिस्वरूपा इत्यर्थः काव्यानां प्रायेण छन्दोबद्धतया तत्पाठार्थिभिः छन्दोज्ञाने अवश्यमेव यतितव्यमिति भावः ॥ १२ ॥
इदानीं महाकाव्यं निरूपयिष्यन् तदवान्तरभेदकथनस्य तदन्तः पातित्वादनुपयोगित्वं दर्शयति, मुक्तकमिति । अत्र इतिपदम् एवमर्थकम् । मुक्तकं श्लोकान्तरनिरपेक्षमेकमेव पद्यम् । तदुक्तम् अग्निपुराणे, मुक्तकं श्लोक. एवैकश्चमत्कारक्षमः सताम् इति । कुलकं पञ्चश्लोकात्मकं पद्यम् । तदुक्तं, दाभ्यान्तु युग्मकं ज्ञेयं त्रिभिः श्लोकैः विशेषकम् । चतुर्भिस्तु कलापं स्यात् पञ्चभिः कुलकं मतम् ॥ इति । कोषः अन्योन्यनिरपेक्षः पद्यसमूहः । उक्तञ्च, कोषः श्लोकसमूहस्तु स्यादन्योन्यानवेक्षक इति । सङ्घातः प्रत्येकपरिसमाप्तार्थकपद्यैः कथासमाप्तिः । तदुक्तं, यत्र कविरेकमर्थं वृत्तेनैकेन वर्णयति काव्ये 1 सङ्घातः स निगदितो वृन्दावनमेघदूतादिरिति एवं तादृशः तथाविधः युग्मकादिश्च पद्यविस्तरः पद्यानां विस्तारः सर्गबन्धस्य महाकाव्यस्य अङ्गरूपत्वात् अवयवस्वरूपत्वात् अनुक्तः न प्रदर्शित इत्यर्थः ग्रन्थविस्तारभिया इति भावः ॥ १३ ॥
सम्प्रति महाकाव्यं निरूपयति सर्गबन्ध इत्यानिना । सर्गेण
Page #14
--------------------------------------------------------------------------
________________
काव्यादर्श
इतिहासकथोद्भूतमितरहा सदाश्रयम् । चतुर्वर्गफलोपेतं चतुरोदात्तनायकम् ॥ १५ ॥ नगरार्णवशैलतुं चन्द्रार्कोदयवर्णनैः । उद्यानसलिलक्रीड़ामधुपानरतोत्सवैः ॥ १६ ॥ बन्धो यस्य स श्लोकसङ्घातः महाकाव्यं तस्य महाकाव्यस्य लक्षणं स्वरूपम् उच्यते प्राशीः शुभाशंसनं नमस्क्रिया नमस्कारः खापकर्षबोधकवचनं वापि अथवा वस्तुनः प्रकृतस्य तदंशस्य वा निर्देशः कथनं तस्य महाकाव्यस्य मुखम् आदि आशी:प्रभृतीनामन्यतमं प्रथमं वर्णनीयमिति निष्कर्षः । तत्र कौचकबधादावाशीः रघुवंशादौ नमस्कारः शिशुपालबधादौ वस्तुनिर्देश इति ॥ १४ ॥ . इतिहासेति। इतिहासानां रामायणभारतादीनां कथया उद्भूतं निबई भवेत् महाकाव्यमिति शेषः सर्वत्र वा अथवा सन् सत्यभूतः हत्तान्तः आश्रयो यस्य तादृशम् इतरत् रामायणमहाभारतादिव्यतिरिक्तमपि एतेन असत्यवृत्तं महाकाव्ये न वर्णनीयमिति प्रदर्शितम्। चतुणां धर्मार्थकाममोक्षाणां वर्गः चतुर्वर्गः स एव फलं तेन उपेतं युक्तम्। चतुरः कार्यकुशल: उदात्तः महान् नायकः प्रधानपुरुषः यस्मिन् तथाभूतम् । नायकलक्षणमुक्तं दर्पण यथा त्यागी कृती कुलीन: सुश्रीको रूपयौवनोत्साहौ। दक्षोऽनुरक्तलोकस्तेजोवैदग्धाशीलवान् नेता इति ॥ १५ ॥
केवलं नायकवर्णनेन कवीनां न चरितार्थता इतिहासादे: एव तज्ज्ञानस्य सिद्धत्वात् अतः नायकवर्णनमाश्रित्य तदानुषणिकनगरादिकमपि वर्णनीयं तथात्वे काव्यशोभाजननात्
Page #15
--------------------------------------------------------------------------
________________
प्रथमः परिच्छेदः ।
विप्रलम्भे विवाहेश्च कुमारोदयवर्णनैः । मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरपि ॥ १७ ॥
अलङ्कृतमसंक्षिप्तं रसभावनिरन्तरम् । सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुसन्धिभिः ॥ १८ ॥
श्रोतॄणामुन्मुखीकरणं स्यादित्याशयेनाह नगरेत्यादि । नगरं बहुसमृद्धजनाकीर्णः प्रदेश: अर्णवः समुद्रः शैलः पर्वतः चन्द्राकोंदयः चन्द्रसूर्य्ययोरुदयः उपलक्षणमेतत् अस्तमनमपि, एतेषां वर्णनैः उद्यानसलिलयोः क्रौड़ा मधुपानं रतोत्सव : सम्भोगशृङ्गारः तैः विप्रलम्भैः सम्भोगशृङ्गारात् पूर्ववर्त्तिभिः पूर्वरागप्रभृतिभिः चतुर्विधभावेः विवाहैः परिणयव्यापारः कुमारोदयस्य पुत्रोत्पत्तेर्वर्णनैः तथा मन्त्रः परामर्शः दूतप्रयाणम् आजि: युद्धं नायकस्य अभ्युदयः जयलाभः तैः अलङ्कृतं शोभितं नगरादयो महाकाव्ये वर्णनीया इत्यर्थः । सूर्येन्दुरजनोप्रदोषध्वान्तवासराः । प्रातर्मध्याह्नमृगया शैलत्तुं वनसागराः । सम्भोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः । रणप्रयाणोपयममन्त्रपुवोदयादयः । वर्णनीया यथायोगं साङ्गोपाना अमी इह ॥ १६ ॥ १७ ॥
उक्तन । सन्ध्या
असंक्षिप्तं संक्षेपेण न वर्णनौयं सविस्तरमित्यर्थः तथा सति महृदयहृदयङ्गमं भवतौति भावः । रसैः शृङ्गारादिभिः भावैः प्राधान्येनाभिव्यक्तैः व्यभिचारिभिः उद्दुद्दमात्रैः स्थायिभिः रत्यादिभिः तथा देवादिविषयकैः अनुरागैश्च निरन्तरं सङ्गुलं पूर्णम् इति यावत् । अनतिविस्तीर्णैः शास्त्रनियमिताष्टादिभिः तदुक्तमौशानसंहितायाम् । अष्टसर्गात्र तु न्यूनं विंशत्सर्गाच नाधिकम् । महाकाव्यं प्रयोक्तव्यं महापुरुषको र्त्तियुगिति ।
Page #16
--------------------------------------------------------------------------
________________
१०
काव्यादर्श
सर्वत्र भिन्नवृत्तान्तरुपेतं लोकरञ्जकम् । काव्यं कल्पान्तरस्थायि जायेत सदलङ्कति ॥१६॥ न्यूनमप्यत्र यैः कश्चिदङ्गैः काव्यं न दुष्यति। यद्यपात्तेषु सम्पत्तिराराधयति तद्विदः ॥ २० ॥ एतच्च प्रायिकम् प्राधिक्यस्यापि तवैव कीर्तनात् यथा, नात्यन्तविस्तरः सर्गस्त्रिंशतो वा न चोनता। द्विशत्या नाधिक कार्यमेतत् पद्यस्य लक्षणमिति। अव्यवत्तैः दोषपरिहारेण गुणालङ्कारसंयोगेन च श्रुतिमुखावहपौरित्यर्थः । सुसन्धिभिः परस्परसापेक्षरित्यर्थः यच्च कैश्चित् “सन्धयो नाटकलक्षणोता मुखप्रतिमुखगर्भविमर्शनिर्वहणाख्याः पञ्च" इति व्याख्यातं तधान्तं महाकाव्यलक्षणे नाटकोयलक्षणयोगस्य असम्भवात् इति ॥ १८॥ - सर्वत्रेति। सर्वत्र भिवाः वृत्तान्ता येषु तैः सर्वेषु एव सर्गेषु वर्णनौयविषयाणां प्रमेदादिति भावः । अथवा भिवं पृथक्छन्दसा रचितं वृत्तं पद्यम् अन्ते येषां तैः प्रत्येकं सर्गान्ते प्रायशस्तथा दर्शनात् एकत्तमयैः पद्यैः अवसानेऽन्यत्तकैरिति वचनाच्च यहा भिवानि पृथक्छन्दोभिर्बद्धानि तैः अन्ताः रस्याः तादृशैः। तदुक्तं, नानावृत्तमय: क्वापि सर्गः कश्चन दृश्यत इति। उपेतं युक्तम्। सदलङ्कति सत्य: विद्यमानाः अथवा शोभनाः अलङ्कतयः अनुप्रासोपमादयः यस्मिन् तादृशं काव्यं लोकानां रञ्जकं सहृदयमनोहरं सत् कल्पान्तरस्थायि चिर. स्थायि चिरकौतिकरमिति भाव: जायेत भवेत् ॥ १८॥
'इत्यं महाकाव्यलक्षणमुक्ता खण्डकाव्यमपि निरूपयति, न्यू नमिति। अत्र महाकाव्ये उक्तष्विति शेषः यैः कैश्चित् अङ्गैः
Page #17
--------------------------------------------------------------------------
________________
प्रथमः परिच्छेदः ।
गुणतः प्रागुपन्यस्य नायकं तेन विहिषाम् । निराकरणमित्येष मार्गः प्रकृतिसुन्दरः ॥ २१ ॥ वंशवीयश्रुतादीनि वर्णयित्वा रिपोरपि । तज्जयान्नायकोत्कर्षवर्णनञ्च धिनोति नः ॥ २२ ॥ अपादः पदसन्तानो गद्यमाख्यायिका कथा । . इति तस्य प्रभेदो हो तयोराख्यायिका किल ॥२३॥
न्यूनं होनमपि काव्यं न दुथति यदि उपात्तेषु वर्णितेषु विषयेषु सम्पत्तिः रचनामाधुयं तद्विदः काव्याभिज्ञान् आराधयति रसादिसद्भावेन प्रोणाति। तदुक्तं, नावर्णनं नगर्यादैर्दोषाय विदुषां मनः । यदि शैलतुं राधादेवर्णनेनैव तुष्यति ॥ इति यापात्तार्थसम्पत्तिरिति पाठे स एवार्थः ॥ २० ॥
सम्प्रति काव्ये नायकप्रतिनायकयोवर्णनप्रकारमाह, गुणत इति वंशेति द्वाभ्याम् । प्राक् प्रथमं नायकं गुणत: उपन्यस्य गुणवत्वेन कीर्तयित्वा तेन नायकेन विहिषां शत्रूणां प्रतिनायकानामित्यर्थः निराकरणं पराजयः, इत्येषः मार्गः वर्णनरीतिः प्रकृतिसुन्दरः स्वभावरम्यः यथा रामायणे, रामरावणयोगुणदोषान् वर्णयित्वा रावणबधवर्णनम् ॥ २१॥
रिपोः शत्रोरपि वंश: कोलोन्यं वौयं पराक्रमः श्रुतं शास्त्रज्ञानम् आदिना दयादाक्षिण्यादि यथायथमवगन्तव्यम् । एतानि वर्णयित्वा कीर्तयित्वा तज्जयात् तस्य रिपोः जयात् नायकस्य उत्कर्षवर्णनं नः अस्मान् धिनोति तोषयति । यथा किरावे दुर्योधनस्य प्रजारजनम् ॥ २२ ॥ - पद्यं निरूपयवाह अपाद इति । अपादः पादः छन्दोबद्धः
Page #18
--------------------------------------------------------------------------
________________
काव्याद” नायकैनैव वाच्यान्या नायकेनेतरेण वा । खगुणाविष्क्रियादोषो नाव भूतार्थशंसिनः ॥२४॥ अपि त्वनियमो दृष्टस्तवाप्यन्यैरुदौरणात् । अन्यो वक्ता खयं वेति कोहग्वा भेदलक्षणम् ॥२५॥ नोकचतुर्थांशः तद्रहितः पदसन्तान: पदसमूहः गद्यं तस्य गद्यस्य हौ प्रभेदी आख्यायिका कथा च। तदुक्तं, कथायां सरसं वस्तु गरिव विनिर्मितम् । कचिदत्र भवेदार्या कचिहवापवक्रके। पादौ पचैनमस्कारः खलादेत्तकीर्तनम् ॥ इति। यथा कादम्बयादिः। आख्यायिका कथावत् स्यात् कवेवंशादिकीर्तनम् । अस्यामन्यकवीनाञ्च वृत्तं गद्यं क्वचित् क्वचित् ॥ इति। तयोर्मध्ये आख्यायिका नायकेनैव वाचा मायक एव अस्या वक्ता इत्यर्थः एवकारादन्यव्यवच्छेदः। उक्लञ्च, वृत्तमाख्यायते यस्यां नायकेन खचेष्टितम् इति। अन्या कथा नायकेन तदितरेण वा वाथा यथा कादम्बयां चन्द्रापौड़स्य नायकस्य मयाखेतया संलापः। ननु नायकस्य वक्तृत्वे तस्य स्वगुणाविष्करणं दोषायेति शङ्कां वारयवाह स्वगुणेति भूतार्थ शंसिन यथार्थवादिनः नायकस्य अत्र वक्तृत्वे खगुणाविष्कि या निजगुणख्यापनं दोषः न भवतीति शेषः । असत्यकथनस्यैव दोषत्वात् इति भावः ॥ २३ ॥ २४ ॥
पूर्वोक्तं प्राचीनमतं दूषयवाह, अपौति। अपितु किन्तु तवापि आख्यायिकायामपि अन्यैः नायकभिन्नैः उदौरणात् कथनात् नायकादन्येषामपि वक्तृत्वादिति यावत् अनियमः पूर्वमतेन विरोधः दृष्टः । कथायाञ्च अन्यः नायकभित्रः स्वयं नायकी वा वक्ता इति भेदलक्षणम् आख्यायिकाया भेदकरणं
Page #19
--------------------------------------------------------------------------
________________
प्रथमः परिच्छेदः ।
त्रक्लञ्चापरवचञ्च सोच्छ्रासत्वञ्च भेदकम् । चिह्नमाख्यायिकायाश्चेत् प्रसङ्गेन कथाखपि ॥ २६ ॥ आय्यादिवत् प्रवेशः किं न वक्तापरवक्तयोः । भेदश्च दृष्टो लम्भादिरुच्छ्रासो वास्तु किं ततः ॥२७॥ वा कौदृक् अकिञ्चित्करमिति भावः । श्राख्यायिकाया वक्ता नायक: अस्थाच यदा स एव वक्ता तदानयोः अभेदत्वस्य दुर्वारत्वादित्यनुसन्धेयम् ॥ २५ ॥
अपरच भेदकरणं दूषयति वक्तमिति । वक्तम् अपरवकच्च छन्दसौ, तदुक्तं वक्त' नाद्यावसौ स्यातामब्धेर्योऽनुष्टुभि ख्यातमिति श्रयुजि ननरला गुरुः समे तदपरवक्कमिदं नजौ जरौ इति । वैतालीयं पुष्पिताग्राच्चे च्छन्त्य परवक्तकमिति च । उच्छासः कथांशव्यवच्छेदः श्राश्वासापरपर्य्यायः तदुक्त ं कथां - शानां व्यवच्छेद आश्वास इति कथ्यते । तसाहित्यच्च भेदकं कथाया इति शेषः । एतत् त्रयम् चाख्यायिकायाः चिह्नं लक्षणं चेत् कथासु अपि प्रसङ्गेन प्रस्तावक्रमेण आय्यादिवत् वक्वापरवक्त्रयोः छन्दसोः प्रवेशः किं न भवेत् इति शेषः । अपितु भवेदेव । उक्तञ्च कथालक्षणाधिकारे आर्य्याविक्कापवक्ताणां इन्दसा येन केनचिदिति । तस्मादुक्तभेदकरणं भ्रमविजृम्भितमेवेति भावः । लम्भः कथापरिच्छेदस्य संज्ञाभेद: आदिपदेन उल्लासादीनां ग्रहणं लम्भादि उच्छासो वा मेदच दृष्टः कुत्रचित् कथायां लग्भपदेन परिच्छेदः कृतः आख्यायिकायामुच्छासपदेन वा उल्लासपदेन कृत इत्यनयोर्भेदः वा अस्तु ततः किं संज्ञामात्त्रभेदो न किञ्चित्कर इत्यर्थः स्वरूपवैलण्यस्यैव भेदकत्वेन कीर्त्तनात् ॥ २६ ॥ २७ ॥
१३
Page #20
--------------------------------------------------------------------------
________________
काव्यादमें
तत् कथाख्यायिकेत्येका जातिः संज्ञादयाङ्किता । अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः ॥ २८ ॥ कन्याहरणसंग्रामविप्रलम्भोदयादयः । सर्गबन्धसमा एवं नैते वैशेषिका गुणाः ॥ २६ ॥
इदानीं स्वमतमाविष्करोति तदिति । तस्मात् कथा आख्यायिका च इति संज्ञाइयेन नामभ्याम् अङ्किता न तु खरूपत इति भावः । एका अभिवा जाति: उभयोरपि गद्यमयत्वात् इति भावः । श्रवैव कथाख्यायिकयोः इत्यर्थः शेषाः अवशिष्टाः आख्यानजातयः खण्डकथादयच अन्तर्भविष्यन्ति एतयोः प्रकारभेदा इति भावः । तदुक्तम् आग्नेये, आख्यायिका कथा खण्डकथा परिकथा तथा । कथालिकेति मन्यन्ते गद्यकाव्यञ्च पञ्चधा ॥ इति ॥ २८ ॥
१४
कथाख्यायिकयोर्भेदान्तरमपि दूषयति कन्येति । कन्याया हरणं युद्धादिना बलात् ग्रहणं राक्षसोद्दाह इत्यर्थः । तदुक्त ं, हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥ इति । संग्रामो युद्धं विप्रलम्भः सम्भोगशृङ्गारस्य पूर्वभाव: स च पूर्वरागमानप्रवासकरु णात्मकश्चतुर्विध इति दर्पणकारः । उदयः सूर्य्यचन्द्रयोः अभ्युतिर्वा नायकस्य, आदिना उद्याननगरादयो गृह्यन्ते । एते गुणाः आख्यायिकाया इति शेषः यथा आख्यायिकामुपक्रम्य कन्याहरणसंग्रामविप्रलम्भोदयान्वितैति सर्गबन्धसमाः महाकाव्यसामान्या एव कथायां किमु वक्तव्यमिति भावः अतः एते वैशेषिका : भेदकाः धर्मा न । उक्तञ्च अयमेव हि भेदो भेदहेतुर्वा यद्दिरुधर्माध्यास इति ॥ २८ ॥
Page #21
--------------------------------------------------------------------------
________________
प्रथमः परिच्छेदः ।
कविभावकृतं चिह्नमन्यवापि न दुष्यति । मुखमिष्टार्थसंसि किं हि न स्यात् कृतात्मनाम् ३० मिश्राणि नाटकादीनि तेषामन्यत्र विस्तरः । गद्यपद्यमय काचिचम्पूरित्यभिधीयते ॥ ३१ ॥
१५
ननु कथायां कवेर्भावविशेषो लक्ष्यते आख्यायिकायान्तु न तथेत्याशङ्क्य तदपि निरस्यति कवौति । कविभावकृतं कवेः भावकृतम् अभिप्रायरचितं चिह्नं लक्षणम् अन्यत्रापि कथायाम् इति शेषः न दुष्यति यथा शिशुपालबधे सर्गशेषश्लोकेषु श्रीशब्दः किराते च लक्ष्मीशब्दः प्रयुक्तः । एवम् श्राख्यायिकायां प्रयुक्तं तत् न दूष्यं भवति तथाहि इष्टार्थसंसिद्धै अभिप्रेतार्थसाधनाय कृतात्मनां सुधियां किं हि मुखं प्रारम्भः न स्यात् अपितु सर्वमेव तेषाम् इच्छाधीनत्वात् निरकुशाः कवय इति
भावः ॥ ३० ॥
सम्प्रति मिश्रकाव्यमाह मिश्रापीति । नाटकादीनि दृश्यकाव्यानि मिश्राणि गद्यपद्योभयमिश्रितानि श्रादिपदेन प्रकरणादीनां परिग्रहः । उक्तञ्च नाटकमथ प्रकरणं भागध्यायोगसमवकारडिमाः । ईहामृगाङ्गवौत्थः प्रहसनमिति रूपकाणि दश । तथा । नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकं प्रस्थानोल्लाप्य काव्यानि प्रेङ्खनं रासकं तथा । संलापकं श्रीगदितं शिल्पकञ्च विलासिका । दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेत्यपि । अष्टादश प्राहरूपरूपकाणि मनीषिणः ॥ इति । तेषां नाटकादीनाम् अन्यत्र भरतादिग्रन्ये विस्तरः बाहुल्येन प्रकाशः तद्दिजिज्ञासुभिस्तत्रैव यतितव्यं ग्रन्थबाहुल्यभिया न ममात्र प्रयास इति भावः । न केवलं दृश्यकाव्यस्य मिश्रत्वं
Page #22
--------------------------------------------------------------------------
________________
काव्यादर्श
तदेतहाभयं भूयः संस्कृतं प्राकृतं तथा। अपभ्रंशश्च मिश्रञ्चत्याहुराश्चितुर्विधम् ॥ ३२ ॥ संस्कृतं नाम दैवी वागवाख्याता महर्षिभिः । तगवस्तत्समो देशोत्यनेकः प्राकृतक्रमः ॥ ३३ ॥
अव्यकाव्यस्यापि कदाचित् मित्रत्वमस्तोत्याह गद्येति। गद्यपद्यमयौ काचित् वाणी इति शेष: चम्यूरिति अभिधीयते आख्यायिकादौ गद्यस्यैवाधिक्वं पद्यमल्पमेव इह तु उभयोरेव प्राधान्यमित्यनयोर्भेदः । काचित् इत्यनेन विरुदायकाव्यव्यवच्छेदः तस्य राजस्तुतिविषयत्वेन विभिनविषयत्वात् । तदुक्त गद्यपद्यमयी राजस्तुतिर्विरुदमुच्यते इति ॥ ३१ ॥
तत् तस्मात् एतत् वाश्रयं वागात्मकं काव्यशास्त्र संस्कृतं देवभाषया रचितं प्राकृतं तदाख्यभाषया रचितम् अपभ्रंशः वक्ष्यमाणीताभाषाविशेषनिवई तथा मित्रच नानाभाषामय- ' मित्यर्थः इति एवंरूपेण भार्थ्याः विद्वांसः चतुर्विधम् पाहुः वर्णयन्ति । उक्तञ्च भोजेन, संस्कृतेनैव कोऽप्यर्थः प्राक्कतेनैव चापरः। शक्यो वाचयितुं कश्चित् अपभ्रंशेन वा पुनः ॥ पैशाया शौरसेन्या च मागध्यान्यो निबध्यते। हिनाभिः कोऽपि भाषाभिः सर्वाभिरपि कश्चन ॥ इति ॥ ३२ ॥ __ संस्कृतादिकं विवृणोति संस्कृतमिति । दैवी देवसम्बन्धिनी देवव्यवहार्या वा वाक् महर्षिभिः संस्कृतम् अन्वाख्याता कथिता, प्राकतानां नौचानामिदं प्राकृतं तस्य क्रमः नियमः अनेकः बहुविधः तथा तद्भवः तस्मात् संस्कृतात् भवः उत्पनः तत्समः संस्कृतसदृशः तथा देशो तत्तद्देशप्रचलित इत्यर्थः ।
Page #23
--------------------------------------------------------------------------
________________
प्रथमः परिच्छेदः।
महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः ।। सागरः सूक्तिरत्नानां सेतुबन्धादि यन्मयम् ॥३४॥ शौरसेनी च गौड़ी च लाटी चान्या च तादृशौ । याति प्राकृतमित्येवं व्यवहारेषु सन्निधिम् ॥३५॥ आभौरादिगिरः काव्येष्वपभ्रश इति स्मृताः । शास्त्रेषु संस्कृतादन्यदपभ्रशतयोदितम् ॥ ३६ ॥
देशीनामपि संस्कृतसादृश्यात् हावेव भेदाविति केचित् । उक्तञ्च, पार्षोत्यमार्षतुल्यच्च विविधं प्राक्कतं विदुः इति ॥ ३३ ॥ - महाराष्ट्राश्रयां महाराष्ट्रो नाम दक्षिणापथवर्ती जनपदविशेषः तदाश्रयां तत्सम्बन्धिनी तवत्यैर्व्यवहृतामित्यर्थः भाषां प्रकष्टम् उत्कृष्टं प्राकृतं विदुः जानन्ति बुधा इति शेषः । सूक्तिरत्नानां सूत्रायः सुवचनानि एव रत्नानि सहृदयानन्दजननात् रत्नखरूपाणि तेषां सागरः सेतुबन्धादि सेतुबन्धः तदाख्यकाव्यग्रन्थविशेषः आदिपदेन दशमुखबधादीनां परिग्रहः यन्मयः . यदात्मकः महाराष्ट्रीयभाषया रचित इत्यर्थः ॥ ३४ ॥
शूरसेनो नाम मथुरासन्निहितजनपदभेदः गौड़: देशविशेषः लाटीव कश्चित् देशभेदः तत्तद्दे शप्रचलिता तथा तदृशी तत्सदृशी अन्या च देशीया भाषा प्राकृतमिति एनं व्यवहारष प्राकृतनामव्याहारेषु सबिधिं याति प्राप्नोति अन्या च तादृशीत्यनेन सर्वदेशीया एव प्राकृतनाम्ना कविभिर्निबध्यन्ते इत्यपि सूचितम् ॥ ३५॥
काव्येषु अाभौरो गोपजातिविशेषः आदिपदेन कैवर्त्तचाण्डालादीनां ग्रहणं तेषां गिरः वाचः अपभ्रंश इति स्मृताः
Page #24
--------------------------------------------------------------------------
________________
१५
काव्यादर्थे
संस्कृतं सर्ववन्धादि प्राकृतं स्कन्धकादिकम् । पासारादीन्यपबंशो नाटकादि तु मिश्रकम् ॥३७॥
अपभ्रंशनाम्ना कथिताः शास्त्रेषु काव्यातिरिक्तेषु वेदादिषु तु संस्कृतात् अन्यत् सर्वं प्राकृतम् उल्लिखितमाभौरादिवचनच्च इत्यर्थः अपभ्रंशतया उदितं कथितम् ॥ ३६ ॥ ... संस्कृतादिकं निरूप्य तत्तल्लक्ष्याणि निरूपयति संस्कृतमिति। सर्गबन्धः पूर्वमुक्तः प्रबन्धविशेष: महाकाव्यमित्यर्थः
आदिपदेन खण्डकाव्यादीनां परिग्रहः संस्कृतं संस्कृतभाषया रचितम् । तथाच अग्निपुराणम्, सर्गबन्धो महाकाव्यमारब्ध संस्कृतेन यत् । तद्भवं न विशेत्तत्र तत्समं नापि किञ्चन ॥ इति । स्कन्धकादिकं स्कन्धकं छन्दोभेदः आदिपदेन गलितकादीनां ग्रहणम् । तदुक्ता', छन्दसा स्कन्धकेनैव तथा गलितकैरपि इति। स्कन्धकादिच्छन्दोरचितं काव्यं प्राकृतं प्राकृतभाषामयमित्यर्थः । पासारादीनि भासारादिभिः छन्दोभिः निबहमित्यर्थः काव्यम् अपभ्रंशः । नाटकादि तु नाटकम् आदि यस्य तत् आदिना प्रकरणनाटिकादिपरिग्रहः मिश्रकं नानाभाषामयमित्यर्थः। तथाचोक्तं नाटकादिप्रस्तावे, पुरुषाणामनौचानां संस्कृतं स्यात् कृतात्मनाम् । शौरसेनी प्रयोक्तव्या तादृशीनाञ्च योषिताम् ॥ आसामेव तु गाथासु महाराष्ट्री प्रयोजयेत् । अत्रोक्ता मागधी भाषा राजान्तःपुरचारिणाम् ॥ चेटानां राजपुत्राणां श्रेष्ठिनाञ्चाईमागधौ। प्राच्या विदूषकादौनां धूर्तानां स्यादवन्तिका ॥ योधनागरिकादीनां दाक्षिणात्याहि दौव्यताम् । शकाराणां शकादीनां शाकारी संप्रयोजयेत् ॥ इति ॥ ३७॥
Page #25
--------------------------------------------------------------------------
________________
प्रथमः परिच्छदः।
कथाहि सर्वभाषाभिः संस्कृतेन च बध्यते। भूतभाषामयौं प्राहुरङ्ग ताथीं वृहत्कथाम् ॥ ३८॥ लास्यच्छलितशल्यादि प्रेक्ष्यार्थमितरत् पुनः । . श्रव्यमेवेति सैषापि यो गतिरुदाहृता ॥ ३६॥
कथा पूर्वोक्तः काव्यभेदः सर्वभाषाभिः संस्कृतेन च बध्यते विरचते हिशब्दोऽवधारण तथाहि कथा दिविधा मित्रभाषामयो संस्कृतमयी च इति भावः । वृहत्कथां तदाख्यकाव्यन्तु भूतभाषा पैशाची भाषा तन्मयीं तद्रचिताम् अद्भुतार्थी विस्मय. रसपूर्ण प्राहुः विहांस इति शेषः ॥ ३८ ॥
सम्प्रति दृश्यश्रव्यलभेदेन काव्यस्य दैविध्यमाह लास्येति । लास्यं शृङ्गाररसावितस्त्रीजननृत्यम् । तदुक्तां, लासः स्त्रीपुंसयोर्भावस्तदहं तत्र साधु वा। लास्यं मनसिजोल्लासकर मृदङ्गहाववत् । देव्यै देवोपदिष्टत्वात् प्रायः स्त्रीभिः प्रयुज्यते ॥ इति। अन्यच्च, कोमलं मधुरं लास्यं शृङ्गाररससंयुतम् । गौरीतोषकरचापि स्त्रीनृत्यन्तु तदुच्यते ॥ इति । छलितं पुरुषुनर्त्तनम् । तदुक्त, नृत्यं छलितं विदुः इति। शल्या कपालदेशे करविन्यासपूर्वकं नृत्यं तदाह, भाले हस्तं समावेश्य नृत्यं शल्येति कीर्त्तितम् इति। शल्येत्यत्र साम्येति कचित् पाठः तथाले साम्यं गोतवादिनादिसमन्वितं नृत्यं रासापरपयायमभिहितम्। आदिपदेन ताण्डवादिपरिग्रहः । तथोक्तं, तल्लास्यं ताण्डवञ्चेति छलितं शल्यया सह । हल्लीशकञ्च रासच षट्प्रकारं विदुर्बुधा ॥ इति ताण्डवमुद्धतनृत्यं यथा, उद्दतन्तु महेशस्य शासनात् तण्डनोदितम् । भरताय ततः ख्यातं लोके ताण्डवसंजया ॥ इति। हलोशं स्त्रीणां मण्डलाकारेण नृत्यम् । यदुक्त, मण्ड
Page #26
--------------------------------------------------------------------------
________________
२०
काव्यादर्थे
अस्त्यनेको गिरां मार्गः सूक्ष्मभेद: परस्परम् । तव वैदर्भगौड़ीयौ वर्ण्येते प्रस्फुटान्तरौ ॥ ४० ॥ शेषः प्रसादः समता माधुर्य्यं सुकुमारता । अर्थव्यक्तिरुदारत्वमोजः कान्तिसमाधयः ॥ ४१ ॥
लेन तु यत् स्त्रौणां नृत्यं हल्लीशकं विदुः । तत्र नेता भवेदेको . गोपस्त्रीणां यथा हरिः ॥ तदेवं लास्यादिसङ्घटितं काव्यं प्रेच्यार्थं प्रेच्यः दृश्यः अर्थः प्रतिपाद्यं वस्तु यस्मिन् तत् नटैः रामाद्यवस्थानुकरणस्य दर्शनविषयत्वात् इतरत् अन्यत् दृश्यकाव्याद भिन्नं मुक्तकादिश्रव्यमेव श्रवणमात्रविषयत्वात् । उक्तञ्च भोजराजेन श्रव्यं तत् काव्यमाहुर्यवेक्ष्यते नाभिधीयते । श्रोत्नयोरेव सुखदं भवेत्तदपि षड्विधम् ॥ इति । इत्थं सा प्रसिद्दा एषा उक्तरूपा दयौ द्विविधा गतिः काव्यभेदप्रवर्त्तकः पन्थाः उदाहृता प्राचीनैरिति शेषः ॥ ३८ ॥
9
एवं काव्यभेदं निरूप्य तस्य रीतिर्निरूपयति स्तौति । अनेक: विविधः गिरां वाचां मार्गः रचनापद्धतिः रौतिः इति यावत् अस्ति । तथाच, गौड़ी वैदर्भी पाञ्चाली इति वामनः । अतिरिक्ता लाटीति दर्पणकारः । वैदर्भी चाथ पाञ्चाली गौड़ी चावन्तिका तथा । लाटीया मागधी चेति षोढ़ा रोतिर्निगद्यत इति भोजराजादयः । स च परस्परं सूक्ष्मभेदः खल्पमात्रभेदः अतः तन्निरूपणेन ग्रन्थबाहुल्यकरणं वृथेति भावः । तत्र विवि - धेषु मार्गेषु मध्ये वैदर्भगौड़ीयौ वर्ण्यते यतः तौ प्रस्फुटम् अन्तरं ययोः तादृशौ एकस्य सुकुमारत्वेन अपरस्य उत्कटत्वेन अत्यन्त - वैसादृश्यात् इति भावः ॥ ४० ॥
/
hd भैदर्भीगौड़ इत्याह श्लेष इति । श्लेषादयः दश
Page #27
--------------------------------------------------------------------------
________________
२१
प्रथमः परिच्छेदः। इति वैदर्भमार्गस्य प्राणा दशगुणाः स्मृताः । एषां विपर्ययः प्रायो दृश्यते गौड़वमनि ॥४२॥ श्लिष्टमस्पृष्टशैथिल्यमल्पप्राणाक्षरोत्तरम् । शिथिलं मालतीमाला लोलालिकलिला यथा ॥४३॥
गुणाः शब्दार्थोत्कर्षविधायिनो धर्मविशेषाः वदर्भमार्गस्य वैदर्भीयरीत्याः प्राणाः जीवनानि एतेन श्लेषादिमत्पदरचनावत्त्व वैदर्भीत्वमित्युक्तम्। स्मृताः पण्डितैः इति शेषः । दर्पणकारादयस्तु प्रात्मनः शौर्यादय इव् रसस्य काव्यात्मभूतस्य धर्मा माधुर्योजःप्रसादादय एव गुणा इत्याहुः । गौड़ौवमनि तु गौड़ीयरीत्यान्तु एषां श्लेषादीनां प्रायः बाहुल्येन विपर्ययः वैपरौत्यं दृश्यते विपर्ययश्च कचित् सर्वथा, क्वचित् केनचित् अंशेनेति बोध्यम् । उताच, असमस्तैकसमस्ता युक्ता दर्शाभगुणैश्च वैदर्भी। वर्गहितीयबहुला स्वल्पप्राणाक्षरा च सुविधेया इति बहुतरसमासयुक्ता सुमहाप्राणाक्षरा च गौड़ीया। रीतिरनुप्रासमहिमपरतन्त्रा स्तोभवाक्या च इति ॥ ४१ ॥ ४२ ॥
इदानीं श्लेषादीनां लक्षणानि निरूपयति लिष्टमित्यादि। अल्पः प्राण: सारः उच्चारणप्रयासः येषां तानि अक्षराणि उत्त. राणि प्रधानानि प्रचुराणि यस्मिन् तादृशम् अल्पप्राणाक्षराश इस्वस्वरा वर्गीया विषमवर्णा यरलवाश्चेति । शिथिलम् अपिरत्नाध्याहार्य: अतीव्रमपीत्यर्थः अस्पृष्टं शैथिल्यं येन तत् विन्यासवशात् शिथिलत्वेन अलक्ष्यमाणं वाक्यं निष्टं श्लेषगुणयुक्तमित्यर्थः । तथाच, तादृशाक्षरघटितरचना श्लेष इति फलितम् । दृष्टान्तमाह मालतीति यथा लोलैः चपलैः अलिभिः
Page #28
--------------------------------------------------------------------------
________________
काव्याद”
अनुप्रासधिया गौडैस्तदिष्टं बन्धगौरवात् । वैदर्भेर्मालतीदाम लङ्कितं भ्रमरैरिति ॥ ४४ ॥
भ्रमरैः कलिला व्याप्ता मालती माला। एतञ्च मकारादिभि: अल्पप्राणाक्षरैर्घटितम् अनुप्रासवशात् गाढ़मिव प्रतिभासते इत्यत्र श्लेषाख्यगुणो बोदव्यः । केचित्तु यत्किञ्चनवर्णधाटतानां पदानां बहूनां विन्यासमहिना एकपदवत् अवभासनं श्लेष इति वदन्ति उदाहरन्ति च यथा। उन्मज्जत् जलकुञ्जरेन्द्ररभसास्फालानुबयेहतः सर्वाः पर्वतकन्दरोदरभुवः कुर्वन् प्रतिध्वानिनौः। उच्चैरुञ्चरति ध्वनिः श्रुतिपथोमाथी यथायं तथा प्रायः प्रेसदसङ्ख्यशधवला वेलेयमुगच्छति इति । वस्तुतस्तु अल्पप्राणेषु वर्णेषु विन्यासोऽप्यन्तरान्तरा। महाप्राणस्य च मेषो यथायं भ्रमरध्वनिः । इति क्रमदीखरोक्तमेव समोचौनम् अनुप्रासस्य लक्षणघटकत्वे तहटितमाधुर्य्यादौ अतिव्याप्तेरिति जेयम् ॥ ४३ ॥
गौड़ेः गौड़देशनिवासिभिः कविभि: अनुप्रासधिया अनुप्रासो वर्णात्तिरूपः शब्दालङ्कारः तस्य धिया बोधेन तथा बन्धगौरवात् रचनाया गाढ़त्वात् तत् मालतीमालेत्यादि। श्लेषोदाहरणम् इष्टम् अभिलषितं ते तादृशीमेव रचनां प्रायश इच्छन्तीति भावः । वैदर्भः विदर्भदेशीयैः कविभिः भ्रमरैः अत्र इवशब्दोऽध्याहार्यः मालतोदामेति वाक्यं मालतीमालेत्यनभिधाय इति भावः । लक्षितम् आक्रान्तं श्लेषघटितत्वेन अङ्गीकतमिति यावत् तेषां कुत्रचित् अनुप्रासासद्भावेऽपि श्लेषत्वकौर्तनादिति भावः। अयञ्च श्लेषः शब्दमात्रगुणः । अर्थगुणस्तु दर्पणकारादिभिः उक्तस्तत्र तत्र द्रष्टव्यः ॥ ४४ ॥
Page #29
--------------------------------------------------------------------------
________________
प्रथमः परिच्छेदः । प्रसादवत् प्रसिद्धार्थमिन्दोरिन्दीवराति । लक्ष्म लक्ष्मों तनोतीति प्रतीतिसुभगं वचः ॥४५॥ व्युत्पन्नमिति गौड़ीयै तिरूंढ़मपीष्यते । यथानत्यर्जुनाजन्म सदृक्षाको बलक्षगुः ॥ ४६॥
. प्रसादं निरूपयति प्रसादवदिति। प्रसिद्धः अर्थः प्रतिपाद्यवस्तु यस्य तत् उभयार्थकशब्दानाम् अप्रसिद्धार्थे प्रयोगो निहतार्थतारूपदोषः तद्रहितमित्यर्थः प्रतीत्याम् अर्थपरिज्ञाने सुभगं सरलं झटित्यर्थबोधकं वचः वचनं प्रसादवत् प्रसादगुणयुक्त तथाच निर्दोषत्वे सति परिस्फुटार्थवत्त्व प्रसाद इति भावः तत्र उदाहरणम् इन्दारिति। इन्दीवर नौलोत्पलं तहत् द्युतिर्यस्य तादृशं श्यामवर्ण लक्ष्म कलङ्कः इन्दोः चन्द्रस्य लक्ष्मी श्रियं तनोति विस्तारयति। अत्र इन्दादिशब्दाः प्रसिद्धचन्द्राद्यर्थेषु प्रयुक्ता झटित्यर्थबोधकाश्चेति ज्ञेयम् ॥ ४५ ॥ ____ गौड़ीयानां मतं दर्शयति व्युत्पन्न मिति। गौड़ीयैः लद्देशवासिभिः पण्डितैः न अतिरूढ़मपि अनतिप्रसिद्धमपि निह. लार्थत्वदोषाकलितमपौत्यर्थः व्युत्पत्वं व्युत्पत्तियुक्तं योगार्थघटितमित्यर्थः वाक्यं प्रसादवदिति शेषः इष्यते बन्धगाढ़तावशात् वैचित्नयाधायत्वादिति भावः । उदाहरति यथेति अनत्यर्जुनाअन्मसदृक्षाङ्क अनत्यर्जुनं नातिधवलं यत् अजन्म उत्पलं तस्य सदृक्षः सदृशः अङ्गः कलङ्कः यस्य तथोक्तः वलक्ष: धवल: गौः किरणो यस्य सः चन्द्र इति अत्र अर्जुनशब्दः कार्तवीर्यार्जुनपाण्डवयोः प्रसिद्धः श्वेतवर्णे अप्रसिद्ध इति निहतार्थत्वदोषदुष्टः अझन्मशब्दश्च अप्रसिद्धः सदृक्षशब्दश्च उपमागर्भबहु
Page #30
--------------------------------------------------------------------------
________________
काव्यादरों
समं बन्धेष्वविषमं ते मृदुस्फुटमध्यमाः । बन्धाम्मृदुस्फुटोन्मिश्रवर्णविन्यासयोनयः ॥ ४७ ॥
२४
व्रीहिणैवार्थबोधनात् अधिकः प्रयुक्त इति अधिकपदतादोषदुष्ट एव तथा वलक्षशब्दोऽपि अप्रयुक्ततादोषकलितः । श्रुतिकटु च सहचवलक्षशब्दौ । इत्थञ्च बहुदोषमपि काव्यं विन्यासस्य माढत्वात् गौड़ाः काव्यत्वेनाद्रियन्ते । अयञ्च प्रसादाख्यगुणः अर्थगत एव शब्दगस्तु श्रोजोमिश्रितशैथिल्यात्मा इति दर्पण - कारः । उदाहृतञ्च तेनैव यथा यो यः शस्त्रं बिभर्त्ति स्वभुजगुरुमदात् पाण्डवौनां चमूनाम् । यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा । यो यः तत्कर्मसाक्षी चरति मयि रणे यच यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहमिति ॥ ४६ ॥
समतां निरूपयति सममिति । बन्धेषु रचनासु अविषमम् अविलक्षणम् उपक्रमोपसंहारयोः सदृशमित्यर्थः समं समताख्यगुणयुक्तं तथाच उपक्रमेषु यादृशी रचना, उपसंहारेषु तादृश्येव एवं गुणः समता इत्यर्थः, ते बन्धाः त्रिविधा: मृदुः कोमलः, स्फुट: तौत्रः, मध्यमः उभयात्मक इति । बन्धानां मृदुत्वादेर्हेतुमाह, मृद्दिति । मृदुवर्णानां खखरादीनां स्फुटानां दीर्घखरादौनां तथा उम्मिश्राणाम् उभयात्मकानां वर्णानां विन्यासः योनिः कारणं येषां तादृशाः । अयञ्च गुणः शब्दगत एव अर्थगुणस्तु समताप्रक्रान्त प्रकृतिप्रत्ययाद्यविपय्यासेन अर्थस्य अविसंवादिता स च प्रक्रमभङ्गदोषाभाव एव दर्पणकारेणोक्तः यथा उदेति सविता ताम्रस्ताम्म्र एवास्तमेति चेत्यादि ॥ ४७ ॥
Page #31
--------------------------------------------------------------------------
________________
प्रथमः परिच्छेदः ।
२५
कोकिलालापवाचालो मामेति मलयानिलः । उच्छलच्छोकराच्छाच्छनिर्भराम्भःकणोक्षितः॥४८॥ चन्दनप्रणयोगन्धिर्मन्दो मलयमारुतः । . स्पईते रुडमईं• वररामामुखानिलैः ॥ ४६॥ इत्यनालोच्य वैषम्यमर्थालङ्कारडम्बरौ।
उताया समतायाः वैविध्यं दर्शयति कोकिलेत्यादि । कोकिलानाम् आलापेन वाचाल: मुखरः मलयानिल: माम् एति पौड़यितुं सुखयितुं वा इति शेषः । अत्र मृदुनोपक्रान्तस्य तेनैव समापनमिति मृदुबन्धगा समता । उच्छलन्तः उद्गच्छन्तः शीकरा जलकणा यस्य तादृशम् अच्छाच्छम् अतिस्वच्छं यत् निराम्भः तस्य कणैः विन्दुभिः उक्षितः अभिषिक्तः सुशीतल इति यावत् मलयानिल: मामेति। अत्र स्फुटबन्धेन उपकान्तस्य सन्दर्भस्य तेनैव उपसंहार इति स्फुटबन्धगता समता। चन्दनेन प्रणयः संसर्गः चन्दनप्रणयः तेन उद्गन्धिः उगतगन्धः मन्दः मृदुलः तथा रुद्धं निराकृतं मम धैर्य येन तथाभूतः मम धैर्य नाशयनित्यर्थः वररामाणाम् उत्तमाङ्गनानां मुखानिलैः मुखनिःसृतसुगन्धिमारुतैः स्पर्द्धते सादृश्य लभते इति यावत् सौगन्ध्यसाम्यादिति भावः । अत्र उपक्रमोपसंहारयोर्मिश्रबन्धवशात् मध्यमबन्धगता समता ॥ ४८ ॥ ४८॥
उक्तायां समतायां गौड़ीयानामनादरं दर्शयति इतौति। इति उक्तप्रकारं वैषम्यं बन्धगतं मार्दवादिकम् अनालोच्य अविचार्य अर्थानां काव्यार्थानाम् अलङ्काराणाम् अनुप्रासोपमादौनाञ्च डम्बरौ आडम्बरौ उत्कर्षों इत्यर्थः अपेक्षमाणा अनुसरन्तीत्यर्थः पौरस्त्याः पूर्वदेशीयाः गौड़ीया इत्यर्थः काव्यानां
Page #32
--------------------------------------------------------------------------
________________
२६
काव्याद”
अपक्षमाणा ववृधे पौरस्त्या काव्यपद्धतिः ॥ ५० ॥ मधुरं रसवदाचि वस्तुन्यपि रसस्थितिः । येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः ॥ ५१ ॥
पद्दतिः वधे । ते हि अर्थानुसारेण अलङ्कारानुसारेण च कदाचित् बन्धस्य मार्दवं कदाचित् वैकट्य कुत्रचिद्दा मित्रोभावमाद्रियन्ते न तु गुणपक्षपातेन पूर्वोक्तरूपां समताम्। अयं भावः। यत्रार्थस्य मृदुत्वं तत्र मृदुलो बन्धः यत्र तु अर्थस्य वैकट्यं तत्र विकटो बन्धः यत्र च अर्थस्य मिश्रीभावः तत्र मध्यमो बन्धः न तु येनैवारम्भस्तेनैव समापनमिति । युक्ताच्चैतत् तथाहि, सारङ्गाः किसु वलिातैः किमफलैराड़म्बरैजम्बुका मातङ्गा महिषा मदं व्रजत किं शून्याऽथ शूरा न के। कोपाटोपममुद्भटोत्कटशटाकोटेरिभारः शनैः सिन्धुध्वानिनि इङ्गते स्फुरति यत् तहर्जितं गर्जितम् ॥ इत्यत्रोत्तरार्द्ध कुपितसिंहवर्णनरूपार्थस्य वैकट्यात् उपक्रान्तमृदुबन्धत्यागो गुण एवेति अनुसन्धेयम् ॥ ५० ॥ ____माधुर्यं निरूपयति मधुरमिति। रसवत् रसाः शृङ्गारादयः तहुणयोगात् भावतदाभासा अपि रसशब्दवाच्याः ते विद्यन्ते यत्रेति तत् वाक्यं मधुरं माधुर्यगुणयुक्तम् । तर्हि रस एव माधुर्यमित्यर्थत एव पायातं परं गुणानां साक्षात् परम्परया वा रसोपकारकत्वं सर्वैरेव कविभिः अङ्गीकतमित्या. शङ्याह वाचौति । वाचि तादृशगुणयुक्तवाक्ये वस्तुन्यपि प्रतिपाद्यभूते अर्थेऽपि रसस्थितिः शृङ्गाराद्यवस्थानम्। येन रसेन धीमन्तः सामाजिका न तु कुधिय इत्यर्थः मधुव्रता भ्रमरा मधुनेव माद्यन्ति मत्ता भवन्ति तथाच मुधियां मादहेतुः
Page #33
--------------------------------------------------------------------------
________________
प्रथमः परिच्छेदः।
२७
यया कयाचित् श्रुत्या यत् समानमनुभूयते। तपाहि पदासत्तिः सानुप्रासा रसावहा ॥ ५२ ॥ एष राजा यदा लक्ष्मीं प्राप्तवान् ब्राह्मणप्रियः । तादृशकाय्यार्थानुशीलनजन्मा भावविशेष एव रसः। माधुयादिगुणास्तु तदव्यचकवर्णादिमत्वेन विन्यासमहिम्ना च तत्योषका एवेति विभावनौयम् । केचित्तु पृथक्पदत्वं माधुयें शब्दगुण एष उक्तिवैचित्रामावन्तु अर्थगुण इति वदन्ति उदाहरन्ति च क्रमेण स्था श्वासान् मुञ्चति भूतले विलुठति त्वन्मार्गमालोकते इत्यादि। भानुः सक्कयुक्ततुरङ्ग एव रात्रिन्दिवं गन्धवह. प्रयाति इत्यादि वस्तुतस्तु उभयमेव एकरूपं न तु कथित् प्रभेदो लक्ष्यते उदाहरणयोरिति चिन्तनीयम् ॥ ५१ ॥
श्रुत्यनुप्रासवर्णसंहतेः रसव्यचकतां दर्शयति ययेति । यया कयाचित् कण्ठतावादिरूपया इत्यर्थः श्रुत्या श्रवणसाधनीभूतन उच्चारणेन यत् समानम् अनुभूयते तद्रूपा तादृशानुभवविषयिणी सानुप्रासा रसव्यञ्जकप्रकृष्टविन्यासवती पदासत्तिः पदानाम् पासत्तिः अव्यवधानेन अवस्थितिः रसम् प्रावहतीति रसवहा हिरवधारणार्थ: निश्चितमेव रसपोषिकेत्यर्थः । एतेन कण्हताखादिस्थानक्येन व्यञ्जनवर्णानां सादृश्यं श्रुत्यनुप्रास इत्यर्थात् पायातम्। उक्तञ्च दर्पणकारेण यथा, उच्चार्यत्वात् यदैकत्र स्थाने तालुरदादिके। सादृश्यं व्यञ्जनस्यैष श्रुत्यनुप्राप्त उच्यते ॥ इति अस्य च अलङ्कारप्रकरणीयत्वेऽपि इह गुणप्रसङ्गात् लक्षणमुक्तं वक्ष्यते च काश्चिमार्गविभागार्थयुक्ताः प्रागप्यलडिया इति ॥ ५२ ॥
उदाहरणं दर्शयति एष इति। ब्राह्मणाः प्रिया यस्य
Page #34
--------------------------------------------------------------------------
________________
२८
काव्यादर्श
ततः प्रभृति धर्मस्य लोकेऽस्मिन्नुत्सवोऽभवत्॥५३॥ इतीदं नातं गौडैरनुप्रासस्तु तत्यियः । अनुप्रासादपि प्रायो वैदभैरिदमिष्यते ॥ ५४ ॥ वर्णावृत्तिरनुप्रास: पादेषु च पदेषु च। अथवा ब्राह्मणानां प्रिय एष राजा यदा लक्ष्मी राजश्रियं प्राप्तवान् ततः प्रभृति लोके जगति धर्मस्य उत्सवः अभवत् । असौ धर्मेण प्रजाः पालयामास इत्यर्थः । इह षकारवकारयोः एकस्मात् मूर्ध्नः जकारयकारयोस्तालुत: दकारलकारयोथ दन्तादुचरितत्वेन सादृश्यमित्यतः श्रुत्यनुप्रासात् माधुर्यगुणपुष्टो राजविषयकरतिभाव इति विभावनीयम् ॥ ५३॥ .. ___ अत्र वैदर्भीगौड़योर्मतभेदं दर्शयबाह इतीति। इतिपदं पूर्वोक्तद्योतकम् इति पूर्वोक्तमिदं पद्यं गौड़ेः गौड़वासिभिः कविभिः न श्रादृतं माधुर्यगुणवत्तया न खोकतं विभिनवर्णानामकस्थानोच्चरितत्वेऽपि रसानुगुख्यस्थाननुभवादिति भावः । अनुप्रासस्तु वच्चमाणवर्णावत्तिरूपः तप्रियः तेषां गौड़ानां प्रियः रसानुकूल्यतया प्रादृतः। वैदर्भस्तु अनुप्रासात् पूर्वोक्तात् श्रुत्यनुप्रासादपि प्रायः बाहुल्येन इदम् एष राजेत्यादि पद्यम् इधते आद्रियते इत्यञ्च वैदर्भाणां श्रुत्यनुप्रास वर्णात्तिरूपानुप्रासयोरुभयोरेव प्रियता गौड़ानान्तु केदलं वर्णात्तिरूपे इति अनयोर्मतभेद इति दिक् ॥ ५४ ॥
अनुप्रासमाह, वर्णात्तिरिति। वर्णानां व्यञ्जनानाम् पाहत्तिः पुनरुच्चारणम् अनुप्रासः । उक्तञ्च प्रकाशकारेण वर्णसाम्यमनुप्रास इति। वर्णानामिति एकशेषहन्हवशात् वर्णस्य वर्मयोरपौति बोध्यम् । स च विविधः पादेषु पदेषु च पादाः
Page #35
--------------------------------------------------------------------------
________________
प्रथमः परिच्छेदः ।
पूर्वानुभवसंस्कारबोधिनी यद्यदूरता ॥ ५५ ॥ चन्द्रे शरन्निशोत्तंसे कुन्दस्तवकसन्निभे । इन्द्रनीलनिभं लक्ष्म सन्दधात्यलिनः श्रियम् ॥५६॥
२८
पद्यचतुर्थभागाः तेषु पदेषु तत्तत्पादस्थसुप्तिङन्तेषु च पादगत पदगत इत्यर्थः । पादेषु चेति बहुवचनेन सर्वपादेषु अनुप्रासस्थितिर्विशेषेण मनोरमेति सूचितम् । आवृत्तिश्च खर वैषम्येऽपि वैचित्रयमावहति । तथाचोक्तं दर्पणकारेण, अनु'प्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत् इति । आवृत्तिय अव्यवहिता मुख्या, व्यवधानेऽपि पूर्वसंस्कारस्थित्यवधिकेत्याह पूर्वेति । पूर्वमुञ्चरितस्य वर्णस्य यः अनुभवः श्रावणज्ञानं तज्जनितः संस्कारः भावनाविशेषः तस्य बोधिनी पालनी अदूरता द्वितीयादिवर्णस्य सान्निध्यं यदि वर्त्तते इति शेषः तदैवानुप्रास इत्यन्वयः । अयं भावः संस्कारस्य प्रथमक्षणे उत्पत्तिः, द्वितीयक्षणे स्थितिः, तृतीयक्षणे निवृत्तिः इति नियमेन अव्यवधानेन किञ्चिदव्यवधानेन वा सादृश्यप्रतीतिजननात् वैचिचाजनकतादृशवर्णावृत्तिरनुप्रास इति निष्कर्षः । अयञ्च विविधः छेकानुप्रासः वृत्त्यनुप्रासश्च तदुक्तं दर्पणकारेण, छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा । अनेकस्यैकधा साम्यमसक्कद्दाप्यनेकधा । एकस्य सकृदप्येष वृत्त्यनुप्रास उच्यते ॥ इति । अपरश्च दर्पणकृतोक्तः यथा, शब्दार्थयोः पौनरुक्त्यं भेदे तात्पर्य्यमात्रतः । लाटानुप्रास इत्युक्त इति । उदाहृतञ्च तेनैव यथा, स्मेरराजीवनयने ! नयने किं निमीलिते । पश्य निर्जितकन्दर्पं कन्दर्पवशगं प्रियम् ॥ इति ॥ ५५ ॥
उदाहरति चन्द्रे इति । शरन्निशाया: शारदौयरजन्या
-
Page #36
--------------------------------------------------------------------------
________________
काव्यादर्शे
चारु चान्द्रमसं भोरु ! विम्बं पश्यैतदम्बरे । मन्मनो मन्मथाक्रान्तं निर्दयं हन्तुमुद्यतम् ॥५७॥
३०
शकार-ककार - वकार नकार
उत्तंसे शिरोभूषणरूपे कुन्दस्तवकसत्रिभे माध्यकुसुमगुच्छसट्टशे चन्द्रे इन्द्रनोलनिभं श्यामलम् इत्यर्थः लक्ष्मः कलङ्कः अलिनः भ्रमरस्य श्रियं शोभां सन्दधाति धारयति । अत्र प्रथमद्दितीयतृतीयेषु पादेषु लकाराणां वर्णानां पुनरावृत्तिवशात् साम्यप्रतीतिरिति वृत्त्यनुप्रासः । चतुर्थे च दकार- धकार-तकार- नकाराणां दन्तरूपैकस्थानोचाय्र्यत्वात् श्रुत्यनुप्रास इति अनेन च अलङ्कारद्दयेन व्यष्जितं माधुर्य्यं शृङ्गाररसं पद्यनिष्ठं परिपुष्णाति । अत्र रूपकोपमाभ्यामनुप्राणिता निदर्शनानाम अलङ्कृतिः सुधीभिर्विभावनीया ॥ ५६ ॥
स्वरवैषम्मेण अनुप्रासो दर्शितः इदानीं तसादृश्येन दर्श यति चाविति । हे भीरु ! भयशीले! अम्बरे आकाशे एतत् परिदृश्यमानम् इत्यर्थः चारु मनोज्ञ मन्मथाक्रान्तं कामा मन्मनः मम मानसं निर्दयं यथा तथा हन्तुमुद्यतं चान्द्रमसं विम्बं चन्द्रमण्डलं पश्येत्यन्वयः । मानिनीं कामिनीं प्रति कस्यचित् नायकस्य उक्तिरियम् । इह प्रथमे पादे चकाररकारयोः स्वरसहितयोः सादृश्यात् वृत्त्यनुप्रासः । द्वितीयतृतीययोश्च यथाक्रमं म्बकारयोर्मन्ममन्मयोश्च साम्यात् छेकानुप्रासोऽपि । तथा चतुर्थे दकारयोस्तकारयोश्च स्वरवैषम्येण सादृश्यात् अन्यविधो वृत्त्यनुप्रासश्च । माधुर्य्यगुणोऽप्यत्र शब्दार्थोभयनिष्ठत्वेन चमत्कारजननात् विप्रलम्भाख्यं शृङ्गारं परिपुष्णाति
॥ ५७ ॥
Page #37
--------------------------------------------------------------------------
________________
प्रथमः परिच्छेदः।
३१
इत्यनुप्रासमिच्छन्ति नातिदूरान्तरश्रुतिम् । न तु रामामुखाम्भोजसदृशश्चन्द्रमा इति ॥ ५८॥ स्मरः खरः खलः कान्तः कायः कोपश्च नः कृशः । च्युतोमानोऽधिकोरागोमोहोजातोऽसवोगताः॥५६॥
प्रदूरतैवानुप्रासस्य प्रयोजकमित्याह इतीति। प्रतिदूरं समधिकम् अन्तरं व्यवधानं यस्याः सा अतिदूरान्तरा न पतिदूरान्तरा नातिदूरान्तरा, तादृशौ श्रुति श्रवणं यस्य तादृशम् इति पूर्वोक्तप्रकारम् अनुप्रासम् इच्छन्ति कवय इति शेषः रामामुखाम्भोजसदृशः चन्द्रमा इति एवंविधं तृतीयचतुर्थयोः पादयोः माकारयोः साम्येऽपि प्रतिदूरान्तरश्रुतिम् अनुप्रासमिति शेषः न तु इच्छन्तीति च शेषः ॥ ५८॥
अनुप्रासस्य रसावहत्वकीर्तनात् यत्र वाक्यस्य सदोषत्वेन रसस्य अपरिपुष्टता तत्र न माधुर्य्यसद्भाव इत्याह स्मर इति। स्मरः कामः खरः अतितीक्ष्णः, कान्तः प्रियः, खल: निष्ठुर:, मः अस्माकं कायः शरीरं कोपश्च कान्तं प्रतीति शेषः कशः क्षीण: नष्टश्च, मान: गौरवं च्युतः विनष्टः, रागः कान्तप्रात्यभिलाषः अधिकः, मोहः मूर्छा जातः क्षणे क्षण इति शेषः, प्रसवः प्राणा गताः प्रायेणेति शेषः । इदं नायकं निराकृतवत्याः गलितमानायाः कस्याश्चित् कामिन्याः पश्चात्तापवचनम्। पत्र प्रथमे पादे रकारयोः खकारयोश्च हितीये ककाराणां साम्यात् वृत्त्यनप्रासस्य तथा उत्तरार्दु तकारादिदन्त्यवर्णानां साम्यात् छेकानुप्रासस्य दोषाकुलतया तादृशविप्रलम्भशृङ्गारस न पतिपरिपोषकता इति बोध्यम् ॥ ५८ ॥
Page #38
--------------------------------------------------------------------------
________________
३
काव्याद”
इत्यादि बन्धपारुष्यं शैथिल्यञ्च नियच्छति। . अतो नैवमनुप्रासं दाक्षिणात्याः प्रयुञ्जते ॥ ६ ॥ आवृत्तिं वर्णसङ्घातगोचरां यमकं विदुः । तत्तु नैकान्तमधुरमतः पश्चात् विधास्यते ॥ ६१ ॥
पूर्वोक्त पद्ये दोषमाह इत्यादौति। इत्यादि एवमादिकं सानुप्रासमपि पद्यं बन्धपारुष्यं बन्धे रचनायां पारुष्यं दुःश्रवत्वं शैथिल्यं पतप्रकर्षतादिकञ्च नियच्छति ज्ञापयति । अत्र पूर्वाई बहुविसर्गसत्तया पारुष्थम् । तदुक्तम्, अनुस्वारविसर्गौ तु पारुथाय निरन्तरौ इति । पूर्वार्द्ध यादृशी तीव्ररचना उत्तरार्द्ध तथा नेति पतप्रकर्षता। अतः कारणात् एवं सदोषमित्यर्थः अनुप्रासं दाक्षिणात्याः पण्डिता: न प्रयुञ्जते न व्यवहरन्ति माधुर्यस्य असद्भावादिति भावः । यत्र तुं पारुष्यादिके रसानुकूलतया माधुर्यमस्ति तत्र पारुष्यादिकं न दोषः प्रत्युत गुण एव । तथाचोक्तं, वक्तरि क्रोधसंयुक्त तथा वाच्ये समुद्धते । रौद्राद्रौ च रसेऽत्यन्तं दुःश्रवत्वं गुणो भवेत् इति ॥ ६ ॥
ननु अनुप्रासवत् यमकमपि कथमत्र न निरूप्यत इत्याह आत्तिमिति। वर्णसङ्घात: वर्णसमूह एव गोचरः विषयो यस्याः तथोक्ताम् आवृत्तिं पुनरुच्चारणं यमकं विदुः जानन्ति कवय इति शेषः। तदुक्तं दर्पणकारेण यथा, सत्यर्थे पृथगायाः खरव्यञ्जनसंहतेः। क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥ इति। तत् तु सयमकं पद्यं न एकान्तमधुरं न अतिशयेन माधुर्य्यवत् तथाहि तथाविधे वाक्ये प्रथमम् अर्थानुसन्धानव्यग्रतया रसप्रतीतर्व्यवहितत्वात् इति अनुप्रासे तु अर्थानुसन्धानव्यग्रताया अभावात् रसप्रतीतः अव्यवहितत्वमिति
Page #39
--------------------------------------------------------------------------
________________
प्रथमः परिच्छेदः । कामं सर्वोऽप्यलङ्कारो रसमर्थ निषिञ्चति । तथाप्यग्राम्यतेवैनं भारं वहति भूयसा ॥ ६२ ॥ कन्ये ! कामयमानं मां न त्वं कामयसे कथम् । इति ग्राम्योऽयमर्थात्मा वैरस्याय प्रकल्पते ॥६॥ मानुप्रासे वाक्ये माधुर्यमस्तौति च भावः । एकान्तेति पदेन यमकेऽपि रसावहं माधुर्यमस्त्येव परम् अनुप्रासयत् सम्यक् न इति वक्तव्यम् अन्यथा अस्य अनलङ्कारत्वापत्तिरापद्येत शब्दार्थशोभाजननेन काव्यात्मभूतरसोपकारित्वस्य एव अलङ्कारत्वात् इति ध्येयम्। अतः पश्चात् अलङ्कारप्रस्तावे इत्यर्थः विधास्यते वक्ष्यते यमकमिति शेषः ॥ ६१ ॥
शब्दगतं माधुर्य दर्शितमिदानीम् अर्थगं माधुर्यं दर्शयबाह काममिति। सर्वोऽपि शब्दगत: अर्थगतः उभयगतम अलङ्कारः अनुप्रासोपमा पुनरुक्तवत् आभासादिः अर्थे वाचलक्ष्यव्यङ्गरूपे प्रतिपाद्ये कामं यथेष्टं यथा तथा रसं निषिञ्चति पुष्णाति उद्बोधयतीत्यर्थः तथापि अग्राम्यता ग्राम्यः इतरजनव्यवहृतः शब्दोऽर्थश्च स न भवतीति अग्राम्यः तस्य भावः भूयसा बाहुल्येन एनं भारं रसनिषेकरूपं वहति तथाच अग्राम्यतापरिहतानाम् एव अलङ्काराणां रसपोषकत्वं सालङ्कारस्थ रसव्यञ्जकस्य एव अर्थस्य माधुर्यञ्चेति प्रतिपादितम्। भूयसा इति ग्रहणात् इतरजनकथनेषु ग्राम्यता न दोष: प्रत्युत गुण एव तदुक्त गुण इत्यनुवृत्तौ ग्राम्यत्वमधमोतिषु इति ॥ ६२ ॥
ग्राम्यताया उदाहरणं दर्शयति कन्ये इति। विदग्धजनोक्तिरियम् । हे कन्ये ! त्वं कामयमानं मां कथं न कामयसे इत्यत्र कन्ये इति सम्बोधनं दुहिटस्थानीयानामेव सम्भवति
Page #40
--------------------------------------------------------------------------
________________
३४
काव्यादमें
कामं कन्दर्पचाण्डालो मयि वामाचि । निर्दयः । त्वयि निर्मत्सरो दिष्ट्येत्यग्राम्योऽर्थो रसावहः ॥ ६४॥
नायिकासम्बोधने तु प्रिये सुन्दरि इत्यादि प्रयोग एव साधु:, तस्मादत्र अर्थस्य ग्राम्यता एव न तु कन्याशब्दस्य विदग्धानामपि भूरिशस्तत्प्रयोगदर्शनात् यथा कन्येयं कलधौतकोमलरुचिः कीर्त्तिस्तु नातः परेत्यादि । प्राचीनैस्तु ग्राम्यजनमात्रव्यवहृतानां कव्यादिशब्दानामेव ग्राम्यत्वमुक्तम् । इत्ययं ग्राम्य अर्थस्य आत्मा प्रतिपाद्यवस्तु वैरस्याय रसोद्दोधव्याघाताय प्रकल्पते प्रभवति । श्रयं भावः कामो नाम कामिनां सुरतेच्छारूपः कामिनौ कुचकलसवत् गूढ़मतिचमत्करोति, अगूढस्तु लज्जाजनकत्वेन वैरस्यमावहतीति न अत्र माधुर्य्यसद्भाव इति । अत्र च नायककामरूपकारणे सत्यपि नायिकाकामरूपस्य काय्र्यस्याभावात् विशेषोक्तिरलङ्कारः । तदुक्त दर्पणकारेण, सति हेतौ फलाभावो विशेषोक्तिस्तथा द्विधा इति ॥ ६३ ॥
ग्राम्यतां दर्शयति काममिति । हे वामाक्षि ! वामे सुन्दरे कुटिले वा अक्षिणो यस्याः तत्सम्बुद्धौ । कन्दर्पचाण्डालः मयि निर्दयः, दिट्या भाग्येन त्वयि निर्मत्सर इति अग्राम्यः अर्थः विदग्धजनवाक्यार्थः रसम् आवहति पुष्णातीति रसावहः । अयं भावः वामाक्षीति सम्बोधनपदं नायिकाया: सौन्दर्य्यं नायकस्य च तां प्रति चाटूक्ति व्यञ्जयति, कन्दर्पो मयि निर्दयः त्वयि तु निर्मत्सर इत्यनेन श्रहं त्वां कामये त्वन्तु मां न कामयते इति पूर्वोक्तपद्यार्थ एव भङ्ग्या सूचित इति अग्राम्यता सहृदयहृदयङ्गमतया रसं व्यञ्जयन्तौ माधुर्य गुणम् आवइति इति ॥ ६४ ॥
Page #41
--------------------------------------------------------------------------
________________
३५.
प्रथमः परिच्छेदः। शब्देऽपि ग्राम्यतास्त्येव सा सभ्येतरकीर्तनात् । यथा यकारादिपदं रत्युत्सवनिरूपणे ॥ ६५ ॥ पदसन्धानवृत्त्या वा वाक्यार्थत्वेन वा पुनः । टुष्पतीतिकरं ग्राम्यं यथा या भवत: प्रिया ॥६६॥
__ ग्राम्यतायाः शब्दगतत्वमपि दर्शयति शब्देऽपौति । शब्देऽपि ग्राम्यता अस्त्रि एव, सा सभ्यं साधु तदितरम् असभ्यं ग्रामीणहालिकादिप्रयोज्यं वचनं तस्य कीर्तनात् विदग्धजनैः इति शेषः कथनात् भवतीति शेषः। यथा रत्युत्सवस्य निरूपणे यकारादिपदं यकार प्रादिर्यस्य तत् पदं यभ मैथुने इत्यस्मात् निष्यवं पदं यम्भनादिकमित्यर्थः । तादृशपदप्रयोक्त: ग्राम्यतया उपहसनीयत्वं श्रोतुश्च लज्जितत्वमेव जायते सुतरां रसास्वादस्य तिरोहितत्वात् म अत्र माधुर्यगुणप्रसर इति भाव: ॥६५॥
अनौलताया ग्राम्यतायामन्तर्भावमाह पदेति । पदानां सन्धान सम्प्रवेशो यस्मिन् तत् पदसन्धानं वाक्यसङ्घातेति पाठे स एवार्थः । तदृत्त्या तहतत्वेन वा अथवा वाक्यार्थत्वेन तदर्थगतत्वेन वा इत्यर्थः। दुर्दुवा प्रतीतिः दुष्प्रतीति: तत्करं लज्जा जुगुप्सामङ्गलादिव्यचक्रम् प्रश्नोलत्वमित्यर्थः अपि ग्राम्यं ग्राम्यतायामन्तर्भूतं तदपि माधुर्यव्याघातकमिति भावः यथा या भवतः प्रियेति पत्र या भवत इत्यंशे याम; मैथुने इत्यस्मात् घजि निष्यवः स विद्यते पस्येति याभवान् तस्येति प्रतीतो बौड़ाव्यश्चकत्वात् वाक्यमिदमलौलत्वदोषदूषितम् अतोऽत्र न माधुर्यसङ्गतिरिति भावः ॥ ६६ ॥
Page #42
--------------------------------------------------------------------------
________________
काव्यादरों खरं प्रहृत्य विश्रान्तः पुरुषो वीर्यवानिति। एवमादि न शंशन्ति मार्गयोरुभयोरपि ॥ ६७ ॥ भगिनी भगवत्यादि सर्ववैवानुमन्यते। विभक्तमिति माधुर्य्यमुच्यते सुकुमारता ॥ ६८॥
वाक्यगतामश्नोलतामुक्त्वा तदर्थगतां निर्दिशति खरमिति । कश्चित् वीर्यवान् पराक्रमशाली पुरुषः खरम् अतितीक्ष्ण यथा तथा प्रहृत्य शत्रूनिति शेषः विश्रान्त इति प्रकरणसङ्गतोऽर्थः, परं वीर्यवान् शुक्रल: कश्चित् पुरुषः खरं गाद यथा तथा प्रहृत्य मैथुनं कृत्वा विश्रान्त इत्यपि असभ्यार्थो वनादिवलक्ष्यण्येन प्रतीयते। न च अत्र वाक्यगतमश्लीलत्वमिति मन्तव्यं शब्दपरित्तिसहत्वासहत्वाभ्यां तव्यवस्थापनात् तथाहि यत्र शब्दपरिवृत्तावपि तदर्थप्रतौतिस्तत्र न शब्दगतत्व यत्र तु तथात्व न तदर्थ सम्भवस्तत्रैव शब्दगतनियमः, अत्र तु खरमित्यादिवाक्यस्थपदानाम् एकार्थमात्रप्रतिपादकानां प्रकरणबलात् प्रथमेऽर्थे प्रतीतेऽपि वक्त्रादिवैशिध्यात् अपरोऽपि पर्थो व्यञ्जनया वृत्त्या प्रतीयते । तथाचोक्त दर्पणकारेण यथा, अनेकार्थस्य शब्दस्य संयोगाद्यै नियन्त्रिते। एकत्रार्थेऽन्यधौहेतुव्यंजना साभिधाश्रया ॥ इति। न च अत्र वौर्यपदं विभिन्नयोर्बलशुक्रयोर्वाचकमिति वाचं बलस्य शुक्रजवेन एकमात्रपदार्थत्वात् इति। एवमादि दोषदूषितं काव्यम् उभयोरपि गौड़वैदर्भयोर्मागयोः न शंसन्ति न आद्रियन्ते विहांस इति शेषः ॥ ६७ ॥
ग्राम्यतायाः प्रतिप्रसवमाह भगिनीति। भगिनी भगवती पादिपदग्राह्यं योनिलिङ्गादिकच्च सर्वन काव्येषु व्यवहारेषु च
Page #43
--------------------------------------------------------------------------
________________
प्रथमः परिच्छेदः ।
अनिष्ठुराचरप्रायं सुकुमारमिहेष्यते । बन्धशैथिल्यदोषस्तु दर्शितः सर्वकोमले ॥ ६८ ॥ अनुमन्यते अदुष्टतया लोकैः अङ्गीक्रियते तत्तच्छब्दप्रयोगे दोषानुसन्धानविरहेण साधारणानां वैरस्यानुदयात् इति भावः । उक्तञ्च, संवीतस्य हि लोकेऽस्मिन्न दोषान्वेषणं क्षमम् । शिवलिङ्गस्य संस्थाने कस्यासभ्यत्वभावनम् ॥ इति । संवीतं हि अदुष्टतया सर्वजनव्यवहृतम् । अन्यश्च, ग्राम्यं घृणावदश्नीलामङ्गलार्थं यदौरितम् । तत् संवीतेषु गुप्तेषु लक्षितेषु न दुष्यति ।। इति । गुप्तेषु असभ्यार्थेषु असिद्धेषु अपि भावेन तदर्थबोधकेषु यथा, करिहस्तेन सम्बाधे प्रविश्यान्तर्विलोड़िते । उपसर्पन् ध्वजः पुंसः साधनान्तविराजते ॥ इत्यत्र सम्बाधपदेन सङ्घटार्थप्रसिद्धेनापि भावेन अप्रसिद्धस्य स्त्रीलिङ्गस्य बोधनम् । लचितेषु लचणया असभ्यार्थप्रतिपादकेषु यथा जन्मभूमिपदेन कुत्रचित् भावेन योनिबोधनम् । इति उक्तप्रकारेण माधुर्य्यं विभक्त ं विभज्य दर्शितम् अधुना सुकुमारता उच्यते ॥ ६८ ॥
अनिष्ठुराणि अपरुषाणि अक्षराणि प्रायो बाहुल्येन यव ताणं पद्यं सुकुमारं सौकुमार्य्यगुणयुक्तमित्यर्थः प्रायः पदेन अन्तरान्तरा परुषाक्षराण्यपि निवेशनीयानौति सूचितम् । तुशब्दोऽत्र हेतुवाचकः । यतः सर्वकोमले केवलसुकुमाराचरप्रयोगे बन्धस्य रचनायाः शैथिल्यदोषः श्लथत्वरूपदोषः श्रगाढ़ता इति यावत् दर्शितः पूर्वोक्त मयैव मालतीमालालोलालि कलिला यथा इति शेषः । तथाच कोमलाक्षराणां बहूनां मध्ये परुषाक्षरविन्यासेन बन्धस्य गाढ़तया यत् सहृदयहृद्यत्वं .. तदेव सौकुमार्य्यपदवाच्यं माणिक्यखचितमुक्तादामवत् इति सुधोभिर्वि भाव्यम् ॥ ६८ ॥
४
३७
Page #44
--------------------------------------------------------------------------
________________
३८
काव्याद” मण्डलीकृत्य बर्हाणि कण्ठैमधुरगीतिभिः । कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥७॥ इत्यनूर्जित एवार्थो नालङ्कारोऽपि तादृशः । सुकुमारतयेवेतदारोहति सतां मनः ॥ ७१ ॥
अस्य उदाहरणमाह मण्डलौति। कलापिनः मयूराः जोमूतमालिनि काले वर्षासु बर्हाणि पुच्छानि मण्डलीकृत्य विस्तार्य मधुरगीतिभिः मधुरगौतिसदृशखनैः इत्यर्थः कण्ठैः उपलक्षिताः सन्त: विशेषणे तौया। प्रनृत्यन्ति। वन मकारककारादीनां कोमलाक्षराणां मध्ये डकार रकारादियुक्ताक्षराणां परुषाणां निवेशात् रचनेयं सौकुमार्यमाश्रयति। अत्र च कलापिषु नर्तकव्यवहारसमारोपात् समासोक्तिरलझारः । तदुक्त दर्पणकारण, समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः । व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुन ॥ इति ॥७०॥
उक्तरूपसौकुमार्यस्य गुणत्वमनङ्गोकुर्वतो नव्यान् प्रत्याह इतौति। इति उक्तविधः अर्थः मण्डलीकृत्येति पद्यप्रतिपाद्य इत्यर्थः न ऊर्जितः न तेजस्वल एव न अतिमनोरम इत्यर्थः, अलङ्कारश्च समासोक्तिरूपः तादृशः वैचित्राजनकः न, तथापि एतत् पद्यं सुकुमारतया तादृशमौकुमार्यगुणयुक्ताक्षरविन्यासेन सतां सामाजिकानां न तु साधारणानामिति ध्वनि: मनः आरोहति आश्रयति मोहयतीति यावत् । अयं भावः अर्थालङ्कारौ हि अन्यविधी पदार्थों गुग्णस्तु न तथा, यतः अर्थस्य अलङ्कारस्य च बोधनात् पूर्वमेव गुणकतवैशिष्ट्य प्रतीयते गुणस्य विन्यासविशेषरूपत्वात्। उक्वञ्च, तया कवितया किं वा तया वनितया तथा। पदविन्यासमात्रेण यया न हियते ।
Page #45
--------------------------------------------------------------------------
________________
प्रथमः परिच्छेदः ।
दीप्तमित्यपरेर्भूना कृच्छ्रोद्यमपि बध्यते । न्यक्षेण चयितः पक्षः क्षत्रियाणां चणादिति ॥७२॥ अर्थव्यक्तिरनेयत्वमर्थस्य हरिणोद्धृता ।
३८
मनः ॥ इति । असति गुणवैचित्रे अर्थालङ्कारौ न शोभते अतएवोक्त' भोजराजेन, अलङ्कृतमपि श्रव्यं न काव्यं गुणवर्जितम् । अन्यच्च यदि भवति वचतं गुणेभ्यो वपुरिव यौवनबन्ध्यमङ्गनायाः । अपि जनदयितानि दुर्भगत्व नियतमलङ्करणानि संश्रयन्ते इति ॥ ७१ ॥
रसविशेषे सौकुमार्यमनङ्गीकुर्वतां मतं दर्शयति दौतमिति । अपरैः गौड़ीयकविभिः वौरादिषु रसेषु दीप्तिरौज्ज्वल्यं तद्युक्त ं तदुद्व्यञ्जकमित्यर्थः दीप्तं समुत्तेजनमिति यावत् पदं कृच्छ्रेण कष्टेन उद्यम् उच्चाय्र्यमपि भूम्ना बाहुल्येन बध्यते विरच्यते । गौड़ीया हि वीररसादिध्वनौ परुषाक्षरविन्यासेन तद्व्यञ्जनस्य हृद्यतया सौकुमार्य्यं न अङ्गीकुर्वते इति भावः 1 यथा न्यक्षेण नेत्रहौनेन अन्येनेत्यर्थः धृतराष्ट्रेण क्षणात् अल्पेनैव कालेन क्षत्रियाणां पक्षः समूहः समग्रक्षत्रियकुलमित्यर्थः चयितः नाशितः कुरुक्षेत्रयुद्धे इति शेषः । अत्र वीररसवर्णनायां तातिकटुपरुषवर्णप्रयोग एव चमत्कारमातनोतीत्येवंविधे प्रयोगे सौकुमाय्यत्यागो गुण एवेति ध्येयम् । वैदर्भास्तु ईदृशेऽपि प्रयोगे सौकुमाय्र्यमाद्रियन्ते यथा कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिः निर्मर्थ्यादैः भवद्भिरुदायुधैः। नरकरिपुणा साईं तेषां सभौमकिरीटिनामयमह'मसृङ्मांसैः करोमि दिशां वलिमिति । अत्र रौद्रेऽपि रसे न अतिपरुषाक्षराणि विन्यस्तानि ॥ ७२ ॥
Page #46
--------------------------------------------------------------------------
________________
४.
काव्यादर्थे
भूः खुरक्षुमनागासृग्लोहितादुदधरिति ॥ ७३ ॥ मही महावराहेण लोहितादुतोदधेः । दूतीयत्येव निर्दिष्ट नेयत्वमरगासृजः ॥ ४ ॥ नेदृशं बहु मन्यन्ते मार्गयोरुभयोरपि । ___ अर्थव्यक्तिं नाम गुणं सोदाहरणमाह अर्थव्यक्तिरिति । अर्थस्य अनेयत्वम् अध्याहारादिकष्टकल्पनामन्तरेण प्रयुक्तापदेग्य एवोपस्थितिरित्यर्थः अर्थव्यक्तिः । उक्तश्च क्रमदीखरेण, यावहाच्याभिधानं यत्तदर्थव्यक्तिलक्षणम् इति। इयञ्च शब्दमावगा अर्थगायास्तु खभावीत्यलङ्कारेण परिरहौतत्वात् न पृथगुतिः। तदुक्तं दर्पणकारण, अर्थव्यक्तिः खभावोत्यलङ्कारेण तथा पुनः इति। अपरे तु पदानां झटित्यर्थबोधकत्वं शाब्दीमर्थव्यक्तिमाहुः । यदुक्तम्, अर्थव्यक्तिः पदानां हि झटित्यर्थसमर्पणम् इति । यथा हरिणा वराहरूपिणा विशुना खुरेः खीयैः इति भावः क्षुसानां नागानां पबगानां रसातलवासिनाम् असम्मिः शोणितैः लोहितात् रस्तात् उदधेः समुद्रात् भूः पृथ्वी उद्धृता जई नौता। अत्र यावन्त एव शब्दास्तावतामेव अर्थाः विना कष्टकल्पना प्रतीयन्ते इति ॥ ७३ ॥
अनेयत्वमर्थव्यक्तिमुत्ता तविपरीतं नेयत्वं दर्शयति महीति। महावराहेण उरगासृजः पबगशोणितात् हेतोः लोहितात् उदधेः मही उद्धृता, इतौयति एवंप्रकार निर्दिष्टे प्रयुक्ते सति मेयत्वं भवति। तथाहि उरगासृज इत्युक्त कथमिति हेतोः धाकाणीयत्वात् खुरक्षुम्मेत्यंशस्थ अध्याहारः कर्त्तव्यः अन्यथा पर्थस्य स्फुटता न स्यात् इति भावः । ७४ ॥
पत्र उभयोरपि मार्गयोः वैमत्वं दर्शयति नेति। उभयो
Page #47
--------------------------------------------------------------------------
________________
प्रथमः परिच्छेदः।
न हि प्रतीतिः सुभगा शब्दन्यायविलयिनी ॥७५॥ उत्कर्षवान् गुणः कश्चित् यस्मिन्नुक्ते प्रतीयते। तद्दाराह्वयं तेन सनाथा काव्यपद्धतिः ॥ ७६ ॥ अर्थिनां कृपणा दृष्टिस्त्वन्मुखे पतिता सकृत् । तदवस्था पुनर्देव ! नान्यस्य मुखमीक्षते ॥ ७७॥
रपि वैदर्भीगौद्योः मार्गयोः रौतिविशेषयोः कवय इति शेषः ईदृशं पूर्वोक्तरूपं नेयत्वयुक्त वाक्यं न बहु मन्यन्ते न आद्रियन्ते। हि यतः शब्दन्यायः शाब्दबोधनियमः तस्य विलचिनी व्यतिक्रमसाधनी प्रतीतिः अध्याहारादिकष्टकल्पनेन ज्ञानमित्यर्थः न सुभगा न साध्वोत्यर्थः ॥ ७५ ॥
'औदार्य गुणं निरूपयति उत्कर्षति । यस्मिन् वाक्ये उक्त कथिते सति कश्चित् उत्कर्षवान् वर्णनीयस्य विषयस्य उत्कर्षप्रतिपादको लोकोत्तरचमत्कारकः । गुणः धर्मविशेषः प्रतीयते बुध्यते तत् उदाराह्वयम्। औदार्यगुणयुक्त तेन छदारत्वगुणेन काव्यपद्धतिः गौड़वैदर्भीया काव्यरौतिः सनाथा पूर्णा उत्कर्षवतीति भावः । इदञ्च अर्थगतम् । शब्दगतन्तु विकटवलक्षणं विकटत्वञ्च पदानां नृत्यत्प्रायत्वं यथा खचरणविनिविष्टः नपुरैः नर्तकीनां झणिति रणितमासीत् तत्र चित्रं कलच्च इति विश्वनाथः ॥ ७६ ॥
. उदारत्वस्य उदाहरणं दर्शयति अर्थिनामिति। हे देव ! अर्थिनां कपणा दौमा दृष्टिः त्वन्मुखे असक्वत् वारंवारं पतिता पुनः किन्तु तदवस्था दौनेत्यर्थः अन्यस्य मुखं न ईक्षते। एतेन राजः एतादृशौ प्रभूतदानशक्तियत् दावन्तरोपसर्पणमर्थिनां
Page #48
--------------------------------------------------------------------------
________________
४२
. काव्यादर्श .
इति त्यागस्य वाक्येऽस्मिन्नुल्कर्षः साधु लक्ष्यते। अनेनैव पथान्यत्र समानन्यायमूह्यताम् ॥ ७८॥ श्नाध्यैर्विशेषणैर्युतामुदारं कैश्चिदिप्यते । यथा लीलाम्बुजक्रीड़ासरोहेमाङ्गदादयः ॥ ७६ ॥
नास्तीति सूचितं सहदयानाम् अतिशयेन चमत्कारोति इदयमिति ॥ ७७॥ ... इति उक्तरूपे त्यागस्य दानस्य अस्मिन् वाक्ये उत्कर्षः राजकीयदानस्य इति शेषः साधुः सम्यक् लक्ष्यते प्रतीयते । साधु इत्यत्र खस्विति पाठे खलु निचितमित्यर्थः । अन्यत्रापि पद्ये अनेन एव पथा रीत्या समानः सदृशः न्यायः नियमः यत्र तत् यथा तथा ऊह्यतां विभाव्यताम् एताम् एव रौतिमव.. लम्बा पद्य विरच्यतामित्यर्थः ॥ ७८ ॥ - मतभेदं दर्शयति माध्यैरिति। माध्यैः विशेष्वस्थ उत्कर्षाधायकत्वेन सामाजिकमनोरमैः विशेषणैः बहुवचनात् एकस्य इयोः वा विशेषणयोः सद्भावे न अयं गुण इति सूचितम्। युक्त समन्वितं वाक्यम् उदारम् औदार्यगुणयुक्तं कैश्चित् कविभिरिष्यते खमते तु अपुष्टार्थतादोषपरिहारेण परिकरालङ्कारस्य कीर्तनेन च अस्य ग्रहणात् न पृथगुतिरिति भावः। यथा लीलाम्बुजक्रीड़ासरो हेमाङ्गदादयः । लीलाम्बुज इत्यत्र लीलेति विशेषणन तदुपयोगिनो वर्णाकारसौरभ्यातिशयस्य, क्रीड़ासर इति कथिते तत्र क्रीड़ार्थककमलकैरवादिजनितशोभादिकस्य तथा हेमाङ्गदेत्युक्त अङ्गदस्य हेमनिर्मितत्वेन सुदृश्यत्वादिकस्य प्रतीतिः सहृदयमनोहारिणीति विभावनीया ॥ ७ ॥
Page #49
--------------------------------------------------------------------------
________________
प्रथम
प्रथमः परिच्छेदः। भोजः समासभूयस्त्वमेतद् गद्यस्य जीवितम्। पोऽप्यदाक्षिणात्यानामिदमेकं परायणम् ॥८०॥ तत् गुरूणां लघूनाच्च बाहुल्याल्पत्वमिश्रणैः । उच्चावचप्रकारं तत् दृश्यमाख्यायिकादिषु ॥८॥
पोजोगुणं निरूपयति भोज इति। समासः इयोबहनां वा पदानाम् एकीकरणं तस्य भूयस्त्वं बाहुल्यं दीर्घता इत्यर्थः बहुभिः पदैः समास इति यावत् प्रोजः एतत् गद्यस्य पूर्वोक्तस्य प्रबन्धविशेषस्य जीवितं प्राणभूतम् । इदच उभयोरपि मार्गयोः सामान्यम् । अदाक्षिणात्यानां दाक्षिणात्यव्यतिरिक्तानां गौड़ानाम् इत्यर्थः पद्य ऽपि इदम् एकम् अहितीयं परायणं परमा गतिः तेषां बन्धनाढताप्रियत्वादिति भावः । इदच शब्दगतं समासस्य शब्दमावगतत्वात्। केचित्तु भोजः प्रौढ़ि: सा च पञ्चविधा यथा पदार्थे वाक्यरचनं वाक्यार्थे च पदाभिधा। प्रौढिक्ससमासौ च साभिप्रायत्वमस्य चेति। तत्र पदार्थे वाक्यरचनं यथा चन्द्र इत्येकस्मिन् पदार्थे वक्तव्ये अनेर्नयन समुत्थं ज्योतिरिति वाक्यरचनम्। वाक्यार्थे पदाभिया यथा निदाघशीतलहिमकालोणशरौरा सुकुमारी वरयोषिदिति वाक्यार्थे वक्तव्ये वरवर्णिनौति पदाभिधानम् । एवमेकस्य वाक्यार्थस्य किञ्चिविशेषाभिधित्सया बहुवाक्यैरभिधानं व्यासः बहुवाक्यप्रतिपाद्यस्य एकवाक्येन प्रतिपादनं समासः, एतत् चतुर्विधं प्रौढ़िरूपमोज: शब्दगुणः, साभिप्रायन्तु अर्थगुण इत्याहुः ॥ ८० ॥
तत् समासभूयस्त्वरूपम् ओजः गुरूणां महाप्राणाक्षराणां लघूनाम् अल्पप्राणाक्षराणाञ्च बाहुल्येन क्वचित् अल्पत्वेन
Page #50
--------------------------------------------------------------------------
________________
४४
काव्यादर्भ
अस्तमस्तकपर्यास्तसमस्ताकीशुसंस्तरा। पौनस्तनस्थिताताम्रकमवस्त्रेव वारुणी ॥ २ ॥ इति पद्येऽपि पौरस्त्या बघ्नन्त्योजखिनौरिरः । अन्ये त्वनाकुलं हृद्यमिच्छन्त्योजो गिरां यथा ॥३॥ क्वचित् मिश्रणेन च क्वचित् उच्चावचप्रकारं बहुविधं तत् आख्यायिकादिषु गद्यग्रन्येषु दृश्यं लक्षणीयम् । गौड़ीयानान्तु पद्यप्रन्थेऽपि सूर्यशतकादौ समासबाहुल्यं पूर्वमुक्तमवधेयम् इति ॥८१॥
गौड़ाभिमतं पद्यऽपि समासभूयस्त्वप्रकारं दर्शयति अस्तमिति। अस्तमस्तके अस्ताचलशृङ्गे पर्यस्ताः पतिताः समस्ता ये अकांशवः सूर्यकिरणा: तैः संस्तरः आच्छादनं यस्थाः तादृशी वारुणी वरुणाधिष्ठिता दिगिति शेषः पीनस्तने स्थितम् पातामम् ईषत् लोहितं सायंकालौनसौरकिरणस्य तथात्वात् इति भावः कमें कमनीयं वस्त्रं यस्याः तथाभूता कामिनीव राजते इति शेषः। अत्र हयोः अप्यर्थयोः समासबाहुल्यम् ॥ ८२॥
पौरस्त्याः गौड़वासिनः इति पूर्वोक्तप्रकारे पद्यऽपि भोजखिनौः समासबहुलाः गिरः बध्नन्ति । अन्ये तु पण्डिताः गिरां वाचाम् अनाकुलम् अत्र भावनिर्देशः, अनाकुलत्वमित्यर्थः दौर्घसमासादीनां झटिति प्रतीतेरन्तरायत्वात् तद्राहित्यरूपमिति यावत् हृद्य सहृदयमनोहारि च ओजः इच्छन्ति तथा च समासस्य दीर्घत्वम् अल्पत्वम् अभावो वा तु श्रोतृणां बुद्धेरमाकुलत्वसम्पादनेन तन्मनोहारित्वम् ओजःपदार्थ इति निष्कर्षः ॥ ८३॥ .
Page #51
--------------------------------------------------------------------------
________________
प्रथम: परिच्छेदः ।
४५
४५
पयोधरतटोत्सङ्गलग्नसन्ध्यातपांशुका । कस्य कामातुरं चेतो वारुणी न करिष्यति॥८॥ कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्रमात् । तच्च वार्ताभिधानेषु वर्णनाखपि दृश्यते ॥८५ ॥
प्रत्र उदाहरति यथेति। पयोधरो मेघ एव स्तनः स एव तट: प्रदेशः तस्य उत्सङ्गे लग्नं सन्ध्यातपः सायंकालौनसौरकिरण एव अंशुकं यस्याः तादृशी वारुणी कस्य चेत: कामातुरं न करिष्यति इत्यन्वयः । अत्र पूर्वाः समासबाहुल्यमपि पूर्ववत् न श्रोटबुद्धिमाकलयति परं श्रोत्रमनोहरत्वेन चमत्कारातिशयमुग्धां करोतीति विभावनौयम् ॥ ८४ ॥
कान्तिगुणं निरूपयति कान्तमिति । लौकिकस्य लोकसिहस्य अर्थस्य अनतिक्रमात् अत्यागात् तन्मात्रस्यैव वर्णनात् इत्यर्थः सर्वजगतां कान्तं साधारणमनोरममित्यर्थः पद्य कान्तं कान्तिगुणविशिष्टं तथाच सहृदयमनोरञ्जकलोकसिहवस्तुवर्णनमेव कान्तिगुण इति। उक्तञ्च क्रमदौखरेण यथा, वर्णनात्युतिशून्या या सा कान्तिरभिधीयते इति। इयमर्थगा विना अर्थानुसन्धानमस्याः प्रतीतिविरहात्। तच्च कान्तिमत् वाक्यं वार्ता अनामयप्रियालापः अनामयप्रियालापो वर्तिर्वाता च कथ्यते इति वचनात् तस्या अभिधानेषु कथनेषु तथा वर्णनासु वस्तुखरूपमात्रनिरूपणेषु दृश्यते अनामयप्रियालापेषु वर्णनासु च यथावत् सत्यनिरूपणस्यैव औचित्यात् अयथावर्णने लौकिकव्यवहारविसंवादः स्यादिति भावः । केचित्तु वार्ताभिधानेषु इतिहासवर्णनेषु, इतिहासानां यथावहर्णस्य एव पौचित्यात् अयथावर्णने असत्यताप्रतिभामनेन विनेयानां प्रवृत्त्य
Page #52
--------------------------------------------------------------------------
________________
काव्यादर्श
४६ गृहाणि नाम तान्येव तपोराशिर्भवादृशः । सम्भावयति यान्येव पावनैः पाहमांशुभिः ॥८॥ अनयोरनवद्याङ्गि ! स्तनयोजृम्भमाणयोः । अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥ ८७॥ इति सम्भाव्यमेवैतत् विशेषाख्यानसंस्कृतम् । कान्तं भवति सर्वस्य लोकयावानुवर्तिनः ॥८८॥
७
॥
सम्भवात् प्रबन्धस्य रामादिवत् प्रवर्तितव्यं न रावणादिवत् इत्युपदेशपर्यवसायित्वानुपपत्तेरित्याहुः ॥ ८५ ॥
वार्ताभिधाने कान्तिं दर्शयति गृहाणौति। तानि एव गृहाणि गृहपदवाच्यानि प्रशंसनीयानि गृहाणि इत्यर्थः, सपोराशिः भवादृशः पावनैः पादपांशुभिः चरणरजोभिः यानि सम्भावयति संशोधयति। पत्र ग्रहपदेन लक्षणया प्रशस्तग्रह महात्माजनपदस्पर्शेन च स्थानस्य प्राशस्त्यञ्च लोकसिद्दमेव प्रतीयत इति अवधेयम् ॥ ८६ ॥
वर्णनायां कान्तिं दर्शयति अनयोरिति। हे अनवद्याङ्गि सुन्दरि ! जुम्भमाणयोः वईमानयोः अनयोः स्तनयोः तव बाहुलतान्तरे वक्षसि अवकाशः स्थानं न पर्याप्तः न प्रभूतः स्तनयोरतिपौनोबततया वक्षसश्च क्षुद्रतया यथेष्ट स्थानालाभात् इति भावः। अत्र स्तनयोरतिपौनत्ववर्णनं लोकसिद्धमिति विभावनौयम् ॥ ८७॥ ____ उक्तयोः पद्ययोः कान्तिं सङ्घटयति इतीति। इति पूर्वोक्ताश्लोकहयप्रतिपाद्यं वस्तु सम्भाव्यमेव भवितुमर्हति एव न तु प्रौढ़ोक्त्या कल्पनीयम्। एतच्च विशेषाख्यानेन विशेषस्य
Page #53
--------------------------------------------------------------------------
________________
.
प्रथमः परिच्छेदः।
लोकातीत इवात्यर्थमध्यारोप्य विवक्षितः । योऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे जनाः ॥६॥ देवधिषणामिवाराध्यमद्यप्रभृति नो गृहम् । युष्मत्यादरजःपातधौतनिःशेषकिल्विषम् ॥६० ॥
उत्कर्षस्य आख्यानेन कथनेन संस्कृतं शोभितं सत् लोकयात्रानुवर्तिनः लौकिकाचारपरायणस्य सर्वस्य जनस्य कान्तं मनोरमं भवति। कान्तत्वमेव गुणपदार्थः न तु लोकसिद्धवस्तुवर्णनमान कान्तिः तथात्वे सूर्योऽस्तं याति गौः शेते इत्यादेरपि कान्तिमत्त्वात् काव्यत्वापत्तिः गुणालङ्कारादिमत्त्वस्येव काव्यत्वादिति सुधीभिर्विभाव्यम् ॥ ८८ ॥ ___निरुक्तकान्ती गौड़ानां वैमत्यमाह लोकेति। इवशब्दोऽत्र अभ्यर्थकः । अत्यर्थम् अतिशयेन लोकातीत: अलौकिकः अपि योऽत्यर्थः अध्यारोप्य कल्पयित्वा विवक्षितः वक्तुमिच्छया प्रयुक्त इत्यर्थः तेन विदग्धाः सहृदयाभिमानिन इति सोल्लुण्ठनोक्तिः । गौड़ीया इत्यर्थः अतितुष्यन्ति तेषां प्रौढोक्तिप्रियत्वात् इति भावः । इतरे जनाः वैदर्भीयाः कवयः न तेषां यथावहर्णनप्रियत्वादिति भावः। सुतरामुक्तलक्षणा कान्तिौड़ेः न अङ्गीक्रियते इति फलितार्थः ॥ ८८ ॥ ___ वार्तायां निरुक्तकान्तेर्वैपरौत्यं वर्णयति। देवेति अद्यप्रभृति नोऽस्माकं ग्राहं युष्माकं पादरजःपातेन चरणरेणुपातेन धौतं निःशेषं समस्तं किल्विषं पातकं यस्य तथाभूतं सत् देवधिणं दैवतास्थानमिव आराध्यं सेवनीयं भविष्यति इति शेषः । अत्र महात्मनां चरणरजःस्पर्श एहस्य पावनत्वं लोक
Page #54
--------------------------------------------------------------------------
________________
काव्यादर्श
अल्पं निर्मितमाकाशमनालोच्यैव वेधसा । इदमेवंविधं भावि भवत्याः स्तनजृम्भणम् ॥ ६१ ॥ इदमत्युक्तिरित्युक्तमेतत् गौड़ोपलालितम्। '. प्रस्थानं प्राक् प्रणौतन्तु सारमन्यस्य वर्त्मनः ॥६२॥ अन्यधर्मस्ततोऽन्यव लोकसीमानुरोधिना। सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ॥३॥
सिद्धमपि देवावासस्येव आराध्यकौर्तनमारोपितमिति कान्तिः विपर्ययोऽवगन्तव्यः ॥ ८ ॥
वर्णनायां निरुक्तकान्तेर्वैपरीत्यं वर्णयति अल्पमिति । भवत्याः स्तनयोजृम्भणं वृहिः एवंविधं व्यापकमित्यर्थः भावि भविषति इदम् अनालोचैव अविचार्यैव वेधसा विधाना आकाशम् अल्पं निर्मितम्। अत्र विधातुरनालोचनपूर्विका आकाशनिर्मितिरतिशयोनिविजृम्भितैव न तु लोकप्रसिद्धेति विभाव्यम् ॥१॥ - इदम् ईदृशं काव्यम् अत्युक्तिः इति उक्तं कथितं कविभिः इति शेषः । उक्तञ्च भोजराजेन यथा, लौकिकार्थमतिक्रम्य प्रस्थानं यत्र वर्ण्यते। तदत्युक्तिरिति प्रोक्तं गौड़ानां मनसो मुदे। इति। एतत् पद्यं गौड़ेः कविभिः उपलालितं हृद्यतया गृही. तम्। प्राक् पूर्वं कथितं प्रस्थानं लोकसिहवस्तुवर्णनरूपं प्रकष्ट स्थानं स्थितिर्मयादा इति यावत् अन्यस्य वर्त्मन: वैदर्भीयस्य मार्गस्य सारं मनोहरम् । अयमेव गौड़वैदर्भयोर्भेद इति भावः ॥८ ॥
समाधि सोदाहरणं निरूपयति अन्यधर्म इत्यादि। लोक
Page #55
--------------------------------------------------------------------------
________________
प्रथमः परिच्छेदः ।
कुमुदानि निमौलन्ति कमलान्युन्मिषन्ति च । इति नेत्रक्रियाध्यासाल्लब्धा तद्दाचिनी श्रुतिः ॥६४॥
४८
सौमानुरोधिना लोकस्थितिमनुवर्त्तमानेन जनेन अन्यस्य अपरस्य अप्रकृतस्य यो धर्मः गुणक्रियादिः ततः तस्मात् अन्यत्र तद्भिद्ये प्रक्कृते इत्यर्थः यत्नेति अव्ययं यत् इत्यर्थः सम्यक् आधीयते आरोप्यते स समाधिः सम्यगाधानरूपत्वात् तदाख्यो गुण इत्यन्वयः । तथाच प्रकृते वस्तुनि अप्रकृतस्य धर्मारोपो लोकसिद्धिः सहृदयचमत्कारको गुणः समाधिरिति फलितार्थः धर्म इत्यनेन धर्मिण: समारोपे न अयं गुणस्तत्रातिशयोक्तिरलङ्कार एवेति सूच्यते ॥ ८३ ॥
1
यथा कुमुदानि उत्पलानि निमीलन्ति कमलानि उन्मिषन्ति विकाशन्ते च प्रभातवर्णनमिदं दिवाकुमुदनिमौलनस्य कमलोन्मेषस्य च कविसमयप्रसिडत्वात् । अत्र निमीलनोन्मेषौ अप्रकृतस्य नेत्रस्य धर्मी कुमुदकमलयोः सङ्कोचविकाशतादात्मान आरोपितौ सादृश्यातिशयमहिम्ना लोकसिद्दौ च । एतदेव स्वयं निर्दिशति इतीति । इति उक्ताभ्यां नेत्रक्रियाभ्यां निमीलनोन्मेषाभ्यां सह अध्यासात् अभवत्वे इति शेषः सङ्कोचविकाशाभ्यां तद्दाचिनौ तयोः निमौलनोन्मेषयोः वाचिनी प्रतिपादिका श्रुतिः निमौलन्तीत्यादि तत्तत्क्रियावाचकः शब्द इत्यर्थः लब्धा प्राप्ता । श्रयञ्च श्रर्थगत एव प्रकृतेऽर्थे अप्रक्कृतस्यार्थस्यैव आरोपादिति । अन्ये तु समाधिरर्थदृष्टिरूपोऽर्थगुण एव स च द्विविधः अयोनिरन्यच्छायायोनिच । तत्र अयोनिरर्थः कविप्रसिद्धिमन्तरेणापि स्वकपोलकल्पितः यथा सद्योमुण्डितमत्तहूनचिवुक प्रस्पषिनारङ्गकमिति श्रत्र नचिव
५
Page #56
--------------------------------------------------------------------------
________________
काव्यादर्श
५०
निष्ठा तोद्गीर्णवान्तादिगौणवृत्ति व्यपाश्रयम् । अतिसुन्दरमन्यव ग्राम्यकक्षां विगाहते ॥ ८५ ॥
केन सह नारङ्गकस्य श्रपम्यभावः केनापि न प्रदर्शितः । केवलं खबुद्या उद्भावितः । अन्यच्छायायोनिः कविसमयप्रसिद्धोऽपि किञ्चित् वैचित्रप्रभावेन रचितः । यथा निजनयनप्रतिविम्बेरम्बुनि बहुशः प्रतारिता कापि । मीलोत्पलेऽपि विसृशति करमर्पयितुं कुसुमलावी इति पत्र नयननौलोत्पलयोः साम्यं कविप्रसिद्धमपि किञ्चिद्वैचित्रेण विरचितम् इत्याहुः । अन्यैस्तु शब्दगुणोऽपि समाधिरुक्तः स च आरोहावरोहक्रमरूप एवं आरोहस्तु अनुप्रासादिना वाचामुत्कर्षः, अवरोहस्तदसद्भावादपकर्षः तयोः क्रमः वैरस्यानावहो विन्यास: यथा चञ्चद्भुजभ्भ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयो धनस्य । स्यानावनद्दघन शोणितशोणपाणिरुत्तंसयिष्यति कचस्तव देवि ! भीमः ॥ इत्यत्र पादत्रये बन्धस्य गाढ़ता, चतुर्थ - पादे तु अपकर्षः सोऽपि तीव्रप्रयत्नोच्चाय्र्यतया न वैरस्यमावहतीति समाहितश्च ॥ ८४ ॥
समाधिं गौणलक्षणाक्रान्तं दर्शयति निष्ठप्रतेति । निष्ठतम् उद्गीर्णं वान्तम् इत्यादिपदं गौणौ या वृत्तिर्लक्षणा गुणयोगात् इति भावः सैव व्यपाश्रयः विशिष्टः श्राश्रयो यस्य तत् मुख्यार्थ - सदृशेऽर्थे प्रयुक्तमित्यर्थः अतिसुन्दरम् अतिमनोरमं तदेव समाधिस्थानमिति भावः । अन्यत्र तदभावे गौणवृत्त्याश्रयाभावे इत्यर्थः ग्राम्यकक्षां ग्राम्यतादोषकालुष्यं विगाहते लभते, तथाच मुख्यार्थे प्रयुक्तं निष्ठप्रतादिपदं ग्राम्यमेव लाक्षणिकेऽर्थे तु तादात्मप्रारोपात् गुणवदिति फलितार्थः ॥ ८.५ ॥
Page #57
--------------------------------------------------------------------------
________________
प्रथम: परिच्छेदः। ५१ पद्मान्यकांशुनिष्ठाताः पीत्वा पावकविग्रषः । भूयो वमन्तीव गुरुगीर्णारुणरेणुभिः ॥ ६६ ॥ इति हृद्यमहृद्यन्तु निष्ठीवति बधूरिति । युगपन्नैकधर्माणामध्यासश्च स्मृतो यथा ॥ १७॥ गुरुगर्भभरल्लान्ताः स्तनन्या मेघपतयः ।
उक्तमर्थमुदाहरति पद्मानौति। पद्मानि अकांशुनिष्यताः सूर्यमयखनिक्षिप्ताः पावकविपुषः अग्निस्फुलिङ्गान् पौत्वा उदौर्णा अरुणा रेणवः परागाः यैः तादृशैः मुखैः विशेषणे तृतीया। भूयः पुनःपुनः वमन्तीव। सायंकालौनपवनासङ्गेन स्खलत्परागाणां पनानां वर्णनमिदम् । अत्र निष्ठूयतोहीर्णशब्दो दैहिककफादिनिक्षेपे शक्ती अपि सामान्यनिक्षेपरूपेऽर्थे लाक्षषिको सन्तौ सहृदयहृदयङ्गमता प्राप्ताविति समाधिरव्याहतः। वमन्ति इवेत्युत्प्रेक्षायामपि न ग्राम्यता प्रत्युत समाधिगुणयोगात् गुण एवेति पूर्वोक्तगौणवृत्तिपदस्य उत्प्रेक्षोपलक्षकत्वमवमन्तव्यम् ॥८६॥ ___ इति पूर्वोक्तं निष्ठातादिपदं हृद्यं गौणलक्षणयोगेन समाधिमत्त्वादिति भावः। बधूः निष्ठीवति कफादिकं त्यजतीति वाक्यन्तु अहृद्यं ग्राम्यतादोषकलुषिततया सहृदयानाम् अप्रियम् । तत्र नैकधर्माणां बहूनाम् अन्यधर्माणां युगपत् समकालमेव न तु कालभेदेन अन्यत्र अध्यास: समारोपश्च स्मृतः । तथाच एकस्य अन्यधर्मस्य अन्यस्मिन्, तथा बइनामपि अन्यधर्माणामन्यत्र समारोपः समाधिरिति फलितार्थः ॥ ८७ ॥
उक्तामर्थसुदाहरति गुर्विति। गुरवः महत्यः स्थूलकलेवरा
Page #58
--------------------------------------------------------------------------
________________
५२
काव्यादर्थे
अचलाधित्यकोत्सङ्गमिमाः समधिशेरते ॥ ६८ ॥ उत्सङ्गशयनं सख्याः स्तननं गौरवं नमः । इतौमे गर्भिणोधर्मा बहवोऽप्यव दर्शिताः ॥६६॥
इल्मर्थः उभयत्त्र समानम् । तथा गर्भस्य अन्तर्वर्त्तिजलपूरस्य अन्यत्र कुक्षिखजीवस्य भरेण क्लान्ताः मन्यराः स्तनन्त्यः गर्जन्त्यः अन्यत्र क्लान्तिजनितशब्दविशेषं कुर्वत्यः इमा मेघपङ्क्तयः अचलस्य पर्वतस्य अधित्यका ऊर्द्ध भूमिः, उपत्यकाद्रेरामन्ना भूमिरुद्ध मधित्यका इत्यमरः । तस्या उत्तङ्कं मध्यभागम् अन्यत्र संख्या: क्रोडं समधिशेरते । अन्यत्र मेघपतिधर्मेषु गर्भिणधर्माणां बहूनां युगपदध्यासात् वैचित्रयातिशयः सहृदयहृदयहारौति भाव्यम् अलङ्कारय समासोक्तिरिति ॥ ८८ ॥
उक्तश्लोके गर्भिणोधर्मं दर्शयति उमाङ्गेति । चढ़ उक्रे लोके सख्या उतङ्गशयनं स्तननं गौरवं क्लम इति उक्तरूपा इमे बच्चत्रः मर्भिणोधर्माः दर्शिताः श्रारोपितत्वेनेति शेषः । यदि च स्तनितं गर्जितं मेघनिर्घोषे इत्याद्यमरोक्त्या स्वननशब्देन मेघगर्जितमेव बुध्यते तथापि शब्दमात्रार्थक स्तनधातुनिष्पवत्वेन स्तनन्त्य इति पदस्य गर्भिस्यास्तादृशेऽपि शब्दप्रयोगो युज्यते । अन्यच मनोरादिषु रणितप्रायं पक्षिषु च कूजितप्रभृति स्तनितर्माणितादि सुरते मेघादिषु गर्जितप्रमुखमिति वचनान्तरेण स्तमितशब्दस्य सुरतवाचकत्वमपि सिद्ध तस्मात् स्तनधातोः केवलं मेघमर्जितमेवार्थो न अपितु सामान्यशब्दमावमपि । ननु शब्दमात्त्रार्थकतायां सिहायामपि कथं स्तनत्य इति पदेन गर्भिण्या असाधारणशब्दविशेषस्य उपपत्तिरिति क्षेत्र, गर्भिच्या अन्येषाम् असाधारणधर्माणाम्
Page #59
--------------------------------------------------------------------------
________________
प्रथमः परिच्छ ेदः ।
तदेतत् काव्यसर्वखं समाधिर्नाम यो गुणः । कविसार्थः समग्रोऽपि तमेनमनुगच्छति ॥ १०० ॥ इति मार्गद्दयं भिन्नं तत्खरूपनिरूपणात् । तद्भेदास्तु न शक्यन्ते वक्तुं प्रतिकविस्थिताः ॥१०१॥
५.३
अन्तःपातात् अस्यापि गर्भिणौधर्मत्वस्य युक्तत्वात् वैचित्रयजनकत्वेन अतौवहृद्यत्वात् इति विवेचनीयम् ॥ ८८ ॥
उपसंहरति तदिति । तत् तस्मात् उक्तप्रकारेण अत ववैचित्त्रप्रावहत्वात् समाधिर्नाम यो गुणः एतत् काव्यस्य सर्वं स्वं धनं सारभूतमित्यर्थः समग्रः अपि सकलः कविसार्थः कविसम्प्रदायः गौड़ीयः वैदर्भीयो वा इत्यर्थः तं तथाभूतम् एनं समाधिम् अनुगच्छति एतदनुसारेण काव्ये प्रवर्त्तते इत्यर्थः । यदि च एतेषां गुणानां दशानां मध्ये केचित् तत्तद्दोषाभावरूपतया केचिच्च अलङ्कृतिरूपतया नव्यैः अनाहताः केवलं चय एव गुणा दर्शिताः यथा, माधुर्य्योजः प्रसादाख्यास्त्रयस्ते न पुनदेश इति तथापि प्राचां मतमनुसृत्य ग्रन्थक्कृतोक्ता इति अत्रध्येयम् ॥ १०० ॥
इत्थं गौड़वैदर्भयोर्भेदं वर्णयित्वा उपसंहरति इतौति । इति उक्तप्रकारेण तयोः गौड़वैदर्भयोः खरूपनिरूपणात् लक्षणकीर्त्तनात् मार्गद्दयम् उल्लिखितरौतिद्दयं भिन्नं परस्परविलक्षणम् । तद्भ ेदाः ताभ्यां मार्गाभ्यां भेदाः भिन्ना इत्यर्थः क्वदभिहितो भावो द्रव्यवत् प्रकाशते इति न्यायात् । लाटपाञ्चालादयः प्रतिकवि तत्तद्द शौयकविषु स्थिताः तु किन्तु ते वक्तुं न शक्यन्ते अतिविस्तारादिति भावः । अथवा तदाः तयोः गौड़वैदर्भयोः भेदाः अन्तर्गतविशेषा इत्यर्थः ॥ १०१ ॥
Page #60
--------------------------------------------------------------------------
________________
५४
काव्यादर्श
इक्षुक्षौरगुड़ादीनां माधुर्यस्यान्तरं महत् । तथापि न तदाख्यातुं सरखत्यापि शक्यते ॥१०२॥ नैसर्गिको च प्रतिभा श्रुतञ्च बहु निर्मलम् । अमन्दश्चाभियोगोऽस्याःकारणं काव्यसम्पदः॥१०३॥ . उक्तमर्थं दृष्टान्तेन समर्थयति इविति। इक्षुक्षौरगुड़ादीनामपि माधुर्यास्त्र अन्तरं भेदः तथा महत् पतिविस्तरमित्यर्थः बथा सरखत्यापि किमु वक्तव्यमन्येषामिति भावः वाग्देव्यापि तत् पाख्यातुं कथयितुं न शक्यते । एवं काव्यमार्गाणां मधुरिम्णः प्रानन्त्यात् अनिर्वचनीयतया भेदहयमेव विशिष्य निरूपितमिति तात्पर्य्यार्थः ॥ १०२॥
इत्थं काव्यखरूपं निरूप्य तत्कारणमाह नैसर्गिकौति । नैसर्गिको स्वभावसिद्धा प्रतिभा स्फुरन्तौ मति: बहु नानाविधं निर्मलं विशवं श्रुतं शास्त्रज्ञानं लोकाचारादिजामञ्च तथा अमन्दः प्रगाढ़ः अभियोगः अभिनिवेशश्च एतत् त्रयम् अस्याः काव्यसम्पदः काव्यरूपायाः सम्पत्तेः कारणं हेतुः, कारणमिति एकवचननिर्देशेन समस्तस्यैव कारणता न तु प्रत्येकस्य इति सूचितम् । उक्तञ्च प्रकाशकारीण, शक्तिनिपुणता लोकशास्त्रकाव्याद्यवेक्षणात्। काव्यनशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥ इति वयः समुदिता न तु व्यस्ताः तस्य काव्यस्य उद्भवे निर्माण समुल्लासे च हेतु न तु हेतव इति। केचित् तु प्रतिभा एव काव्यकरणं व्युत्पत्तिस्तु तस्य चारुत्वे हेतुः, अभ्यासो वृद्धि हेतुश्च प्रतिभा च कचित् स्वतः प्रसरति कचित् वा देवानुग्रहात् भाविकवीनां बालानां सत्यामपि प्रतिभायां काव्यानुदयात् कालस्य तत्सहकारित्वमङ्गीकार्यमित्याहुः। उक्तञ्च, कवित्वं
Page #61
--------------------------------------------------------------------------
________________
प्रथमः परिच्छदः।
५५
न विद्यते यद्यपि पूर्ववासना गुणानुबन्धि प्रतिभानमद्भुतम् । श्रुतेन यत्नेन च वागुपासिता ध्रुवं करोत्येव कमप्यनुग्रहम् ॥ १०४ ॥ तदस्ततन्द्ररनिशं सरस्वती श्रमादुपास्या खलु कीर्तिमीसुभिः । कृश कवित्वेऽपि जनाः कृतश्रमा विदग्धगोष्ठीषु विहर्तुमौशते ॥ १०५ ॥ इति आचार्य्यदण्डिनः कृती काव्यादर्श मार्ग
विभागो नाम प्रथमः परिच्छेदः ।
जायते शक्तोर्वईतेऽभ्यासयोगतः । तस्य चारुत्वनिष्पत्ती व्युत्पत्तिस्तु गरीयसौ ॥ इति सर्वमनवद्यम् ॥ १०३ ॥
उक्तकारणानां सर्वेषामभावेऽपि यत्नवतां शास्त्रानुशीलनपराणां कथञ्चित् फलसिद्धिरित्याशयेनाह नेति। यद्यपि पूर्ववासना प्राक्तनसंस्कारः स्वाभाविको शक्तिरित्यर्थः तथा अद्भुतम् अलौकिकं गुणानुबन्धि वैचित्रवावहं प्रतिभानं सुचिक्कणा बुद्धिः न विद्यते, तथापि श्रुतेन शास्त्रानुशीलनेन काव्यज्ञोपदेशेन वा यत्नेन अभिनिवेशेन उपासिता सेविता वाक् ध्रुवं निश्चितं कमपि अनुग्रहं करोति एव अवश्यमेव काव्यनिर्माण किञ्चित् सामर्थ्य मातनोति इत्यर्थः । सम्यक् सामर्थ्य तु उक्तत्रितयमेव हेतुरिति न परस्परं विरोध इति ॥ १०४ ॥
उपसंहरति तदिति । तत् तस्मात् अस्ततन्द्रैः अस्ता तन्द्रा
Page #62
--------------------------------------------------------------------------
________________
५६
काव्यादर्शे
द्वितीयः परिच्छेदः ।
काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते । ते चाद्यापि विकल्पान्ते कस्तान् कार्त्स्न्येन वक्ष्यति १ येषां तैः आलस्यरहितैः इत्यर्थः कीर्त्तिं कवित्वजनितयशः ईसुभिः जनैः इति शेषः श्रमात् परिश्रमेण अनिशं सरखतो खलु निश्चयेन उपास्या सेव्या, अवश्यमेव शास्त्रं परिशोलितव्यमिति भावः कथमित्याह कृश इति । कवित्वे काव्यकरणसामर्थ्ये कशे अल्पेऽपि कृतश्रमाः कृतशास्त्रपरिशीलन प्रयासा जनाः विदग्धगोष्ठीषु कविसमाजेषु विहर्तुम् ईशते प्रभवन्ति । अल्पस्यापि अस्य ज्ञाने करणे च ऐहिकामूत्रिकफलसिद्दिभवति, एकः शब्दः सुप्रयुक्तः सम्यक् ज्ञातः स्वर्गे लोके च कामधुग् भवतीति श्रुतेः ॥ १०५ ॥
इति श्रीजीवानन्दविद्यासागर भट्टाचाय्र्यविरचितायां काव्यादर्शटीकायां प्रथमः परिच्छेदः ।
परिच्छेदेऽस्मिन् अलङ्कारान् निरूपयिष्यन् प्रथमं तेषां सामान्यलक्षणं निरूपयति काव्यशोभाकरानिति । काव्यस्य पूर्वोक्तलचणस्य शोभा सौन्दर्य्यं तत्तद्विशेषकृतचमत्कारजनकवैचित्रामित्यर्थः तत्करान् तत्साधनानि धर्मान् गुणविशेषान् अलङ्कारान् प्रचक्षते वदन्ति कवय इति शेषः । यथा हारकुण्डलादयः शरीरं शोभयन्ति तथा अनुप्रासोपमादयः काव्यशरीरभूतौ शब्दार्थौ शोभयन्तीति भावः । पूर्वोक्तगुणास्तु काव्यस्यान्तः शोभाधायकाः अलङ्कारास्तु वाह्यशोभाकरा इति
Page #63
--------------------------------------------------------------------------
________________
हितीयः परिच्छेदः । किन्तु वीज विकल्पानां पूर्वाधायें प्रदर्शितम् । तदेव परिसंस्कर्तुमयमस्मत्परिश्रमः ॥ २ ॥ काश्चिन्मार्गविभागार्थमुक्ताः प्रागप्यलविया । साधारणमलङ्कारजातमन्यत् प्रदर्श्यते ॥ ३ ॥ खभावाख्यानमुपमा रूपकं दोपकाती। पाक्षेपोऽर्थान्तरन्यासो व्यतिरेको विभावना ॥४॥
गुणालङ्कारपदार्थयोर्भेद इति ध्येयम् । ते च अलङ्काराः अद्यापि विकल्पान्ते विविधरूपेण उद्भाव्यन्ते कविभिरिति शेषः, अतः कः पण्डितः तान् कार्बेन साकल्येन वक्ष्यति निरूपयिष्यति न कोऽपि निरूपयितुं शक्ष्यतीत्यर्थः, उक्तिचित्रास्यैवालङ्कारत्मात् तस च कल्पनैकमूलत्वात् कल्पनायाश्च कदाप्यविरामात् इति भावः ॥ १॥ .
किन्तु विकल्पानां विविधकल्पनानां वीजं मूलं सादृश्यम् उपमेत्यादिसामान्यलक्षणं पूर्वाचार्ये प्रदर्शितं निरूपितं यत् उपजीव्य नव्यानां वैचित्राभेदेन नाना कल्पना इति भावः । नदेव पूर्वाचार्यप्रदर्शितवीजीभूतम् अलङ्कारलक्षणम् इत्यर्थः परिसंस्कर्तुं सम्यक् स्फुटीकर्तुम् अयम् अस्माकं परिश्रमः प्रयासः ॥ २॥ ___ काश्चित् अलङ्गियाः अलङ्काराः गुल्यनुप्रासादयः मार्गविभागार्य रीतिविभेददर्शनार्थं प्रागपि पूर्वमेव उक्ताः, इदानी-" मन्यत् साधारण सामान्यं सर्वसम्मतमित्यर्थः अलङ्कारजातं प्रदर्श्यते निरूप्यते ॥ ३॥
अलङ्कारान् निर्दिशति खभावत्यादि। खभावाख्यानं
Page #64
--------------------------------------------------------------------------
________________
५८
काव्यादर्श
समासातिशयोक्षा हेतुः सूमो लवः क्रमः । . प्रयो रसवदूर्जखि पयायोक्तं समाहितम् ॥ ५ ॥ उदात्तापहृतिश्लेषविशेषास्तुल्ययोगिता। विरोधाप्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने ॥ ६ ॥ सहोक्तिः परिवृत्त्याशीः सौर्णमथ भाविकम् । इति वाचामलकारा दर्शिता: पूर्वसूरिभिः ॥ ७॥ नानावस्थं पदार्थानां रूपं साक्षात् विवृण्वती। खभावोक्तिश्च' जातिश्चेत्याद्या सालङ्कतिर्यथा ॥८॥ खभावोक्तिः, दीपकच्च आवृतिरावृत्तिश्च ते दीपकाकृती, समासः समासोक्तिः, अतिशयः अतिशयोक्तिः, समाहितं समाधिः, अप्रस्तुतस्तोत्रम् अप्रस्तुतप्रशंसा, इति उक्तप्रकारेण नामतो निर्दिष्टाः खभावोत्यादिभाविकपर्यन्ताः पञ्चविंशत्संख्यकाः वानां वाक्यानाम् अलङ्काराः पूर्वमूरिभिः प्राचीनकविभिः दर्शिताः, वाचाम् इत्यनेन वाक्यगता एवैते अलङ्कारा इति सूचितम् ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥ . खभावोक्तिं निरूपयति नानेति। स्वभावोतिश्च जातिश्च इति नामहयवती पाद्या प्रथमा सर्वाग्रा वा यथार्थनिरूपणसारत्वादिति भावः। पदार्थानां जातिगुणक्रियाद्रव्याणां नाना अवस्था दशा यस्य तादृशं रूपं प्रकारं साक्षात् प्रत्यक्षमिव वितखती प्रदर्शयन्ती सा प्रसिद्धा अलङ्गतिः अलङ्कारः, तथाच पदार्थानां नानावस्थवरूपस्य वैचित्रेषण वर्णनं स्वभावोक्तिरिति निष्कर्षः। एकरूपाया अवस्थायाः कीर्तने न अयमलङ्कारः वैचित्रवाभावात् वैचित्रांस्य एव अलङ्कारत्वात्
Page #65
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छ ेदः ।
तुण्डेराताम्रकुटिलैः पचैर्हरितकोमलैः । विवर्णराजिभिः कण्ठैरेते मञ्जुगिरः शुकाः ॥ ६ ॥ कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः ।
पूट
पारावतः परिभ्रम्य रिरंसुचुम्बति प्रियाम् ॥ १० ॥ बभ्रन्नङ्गेषु रोमाञ्चं कुर्वन् मनसि निर्वृतिम् । नेवे चामौलयन्नष प्रियास्पर्शः प्रवर्त्तते ॥ ११ ॥
इति सूच्यते । यथा अम्भोदमुदितं दृष्ट्वा मुदा नृत्यन्ति वर्हिण इत्यत्र वस्तुस्वरूपनिरूपणेऽपि वैचित्रयाभावात् न अलङ्कारता । उक्तञ्च प्रकाशकारेण यथा, स्वभावोक्तिस्तु डिम्भादे: स्वक्रियारूपवर्णनम् इति । यथेति परोक्तस्य उदाहरणस्य सूचकम् ॥८॥
प्रथमं जाती उदाहरति तुरिति । एते गिरः मधुरप्रलापिनः शकाः आताम्राणि आलोहितानि कुटिलानि च तैः तुण्डः मुखेः, हरिताः पालाशवर्णाः कोमलाच तैः पतेः तथा त्रयाणां वर्णानां हरितरक्तधूमराणां राजयः रेखाः येषु तादृशैः कण्ठैः सर्वत्र विशेषणे तृतीया । उपलक्षिता इत्यर्थः । अत्र शुकजातैः तादृशतुण्डत्वादिकम् असाधारणधर्मः वर्णनावैचित्रेण साचादिव प्रतीयते इति जातिगता स्वभावोक्तिः ॥ ॥
क्रियायामुदाहरति कलेति । कलं मधुरं क्वणितं गर्भे यस्य तादृशेन कण्ठ ेन विशेषणे तृतीया, पारावतः आघूर्णिते ईक्षणे नेत्रे यस्य तथाभूतः रिरंसुः रन्तुमिच्छुः सन् परिभ्रम्य प्रियां चुम्बति । पारावतानामुक्तविधचुम्बनं स्वाभाविकमिति क्रियागता स्वभावोक्तिरिति अवगन्तव्यम् ॥ १० ॥
गुणोदाहरणं दर्शयति बध्नन्निति । एष प्रियाया: स्पर्शः
Page #66
--------------------------------------------------------------------------
________________
काव्यादर्श
कण्ठे कालः करस्थेन कपालिनेन्दुशेखरः। जटाभिः स्निग्धताम्राभिराविरासीत् वृषध्वनः॥१२ जातिक्रियागुणद्रव्यखभावाख्यानमीदृशम् । शास्त्रेष्वस्यैव साम्राज्यं काव्येष्वप्येतदीप्सितम् ॥१३ यथा कथञ्चित् सादृश्यं यवोद्भूतं प्रतीयते। अङ्गेषु रोमाञ्चं बनन् जनयन् मनसि नितिं सातिशयानन्दं कुर्वन् तथा नेत्रे मिमौलयन् मुद्रयंव प्रवर्त्तते प्रसरति। अत्र लणे गुणः ॥ ११ ॥
द्रव्योदाहरणं दर्शयति कण्ठ इति। कण्ठ कण्ठदेशे काल: नौलः कण्ठ कालशब्द: अलुक्तत्पुरुषनिष्पनः । करस्थेन कपालेन स्निग्धताम्राभिः जटाभिरिति च विशेषणे द्वतीया। इन्दुशेखरः चन्द्रचूड़ः वृषध्वज आविरासौदित्यन्वयः । अत्र वृषध्वजशब्दो द्रव्यवाचकः संज्ञाशब्दस्य द्रव्यवाचकत्वात् इति वृषध्वजगतासाधारणधर्मस्य कीर्तनात् द्रव्यगता स्वभावोक्तिरिति ॥ १२ ॥ __स्वभावोक्तिमुपसंहरबाह जातीति। अत्र द्रव्यपदेन संज्ञावाचकचैत्रमैनादौनां ग्रहणं न तु क्षित्यादेः तस्य जातिपदेन एव उपादानात् । जातिक्रियागुणद्रव्याण स्वभावाख्यानं स्वभावोक्तिः ईदृशम् एवम्प्रकारम् अनयैव रौत्या स्वभावो वर्णनीय इति भावः। अस्यैव अलङ्कारस्य शास्त्रेषु काव्यतन्वेषु साम्राज्यम् आधिपत्यं काव्यशास्त्रषु अस्यैव बहुलप्रचार इत्यर्थः एतच काव्येषु ईप्सितं प्रियं कवीनामिति शेषः, कवयः सभावोक्तिमेव विशेषेण आद्रियन्ते इति भावः ॥ १३ ॥
उपमां निरूपयति यथेति। यत्र काव्यधर्मे यथाकथञ्चित्
Page #67
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छदः ।
उपमा नाम सा, तस्याः प्रपञ्चोऽयं निदर्श्यते ॥ १४ ॥ अम्भोरुहमिवाताम्म्रं मुग्धे ! करतलं तव । इति धर्मोपमा साचात् तुल्यधर्मप्रदर्शनात् ॥ १५ ॥ राजीवमिव ते वक्त नेत्रे नीलोत्पले दूव । इयं प्रतीयमानैकधर्मा वस्तूपमैव सा ॥ १६ ॥
येन केनापि प्रकारेण उद्भ ूतं सादृश्यं प्रतीयते सा उपमा नाम, तथाच काव्यनिविष्टमलौकिक चमत्कारजनकं सादृश्यमुपमेति तात्पर्यं चमत्कारित्वासद्भावे नायमलङ्कारः यथा गौरव गवय इत्यादि । उक्तञ्च रसगङ्गाधरे, सादृश्यं सुन्दरं वाक्यार्थोपस्कारकम् उपमालङ्घतिरिति । व्याख्यातञ्च तत्रैव सुन्दरमिति सादृश्यविशेषणं सौन्दर्य्यचमत्कृत्याधायकत्वं चमत्कृतिश्च आनन्दविशेष इति । तस्याः प्रपञ्चः विस्तरः विविधभेदः अयं वक्ष्यमाणरूपः निदर्श्यते प्रदर्श्यते ॥ १४ ॥
धर्मोपमाख्यभेदमुदाहरति अम्भोरुहमिति । हे मुग्धे ! तव करतलम् अम्भोरुहमिव कोकनदमिव आताम्रम् आलोहितम् । इति उक्तवाक्ये साक्षात् श्राताम्म्रमिति पदोपात्तस्य तुल्यधर्मस्य साधारणधर्मस्य आताम्रत्वस्य प्रदर्शनात् कीर्त्तनात् धर्मोपमा ॥ १५ ॥
वस्तूपमां लचयति राजीवमिति । ते तव वक्त्रं मुखं राजीवं पद्ममिव तथा नेत्रे नौलोत्पले इवं । प्रतीयमानः गम्यमानः न तु अभिधीयमानः एकः सामान्यः धर्मः यस्यां सा तथाविधा इयम् अलङ्गतिः वस्तूपमा एव वस्तुनोरुपमानोपमेययोः एवोपादानात्। एवञ्च सामान्यधर्माप्रयोगेऽपि स्फुट
Page #68
--------------------------------------------------------------------------
________________
ક્રૂર
काव्यादर्शे
तवाननमिवोन्निद्रमरविन्दमभूदिति । सा प्रसिद्धिर्विपर्य्यासात् विपर्य्यासोपमेष्यते ॥१७॥ तवाननमिवाम्भोजमम्भोजमिव ते मुखम् । इत्यन्योन्योपमा सेयमन्योन्योत्कर्षशंसिनी ॥ १८ ॥ मौपम्यप्रत एव इयमलङ्कृतिः न तु स्फुटप्रतीतौ इति बोद्धव्यम् ॥ १६ ॥
विपय्यासोपमां लक्षयति तवेति । उन्निद्रम् अरविन्दं तवाननमिव उन्निद्रं विकसितमभूत् । इत्यत्र प्रसिद्धेः विपय्यासात् वैपरीत्यात् सा प्रसिद्धा विपय्यासोपमा इष्यते कविभिरिति शेषः । तथाच प्रस्तुतानां मुखादीनाम् उपमेयत्वम् अप्रस्तुतानां चन्द्रादीनाम् उपमानत्वमेव प्रसिद्धिः । तां विहाय प्रस्तुतानां मुखादौनाम् अत्युत्कर्षप्रतिपादनाय उपमानत्वस्य चन्द्रादीनाञ्च उपमेयत्वस्य च कल्पनं विपय्यासोपमा इति बोद्धव्यम् । दर्पणकारस्तु इयं प्रतीपालङ्कार इत्याह । यथा, प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् । निष्फलत्वाभिधानं वा प्रतीपमिति कथ्यते ॥ इति । उदाहृतञ्च तेनैव,, यत्त्ववेत्त्रसमानकान्तिसलिले मग्नं तदिन्दीवरं मेघैरन्तरितः प्रिये ! तव मुखच्छायानुकारी शशी । येऽपि त्वगमनानुकारिगतयस्वे राजहंसा गतास्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते
॥ १७ ॥
व
अन्योन्योपमां निरूपयति तवेति । अम्भोजं 'तव आननमित्र, ते मुखम् अम्भोजमिव । इत्यत्र अन्योन्यस्य परस्परस्य अम्भोजोपमानत्वेन मुखस्य मुखोपमानत्वेन अम्भोजस्य दत्यर्थः यः उत्कर्षः वैचित्रं तस्य शंसिनी सूचयित्री सा प्रसिद्धा इयम्
Page #69
--------------------------------------------------------------------------
________________
हितीयः परिच्छेदः। ६३ त्वन्मुखं कमलेनैव तुल्यं नान्येन केनचित् ।। इत्यन्यसाम्यव्यावृत्तेरियं सा नियमोपमा ॥ १६ ॥ पद्म तावत् तवान्वेति मुखमन्यच्च तादृशम् । अस्ति चेदस्तु तत्कारीत्यसाबनियमोपमा ॥ २० ॥ समुच्चयोपमाप्यस्ति न कान्त्यैव मुखं तव । ह्लादनाख्येन चान्वेति कर्मणेन्दमितीदृशौ ॥२१॥
अन्योन्योपमा, एतेन पर्यायेण उपमानोपमेयभावस्य एव एतत् अलङ्कारविषयत्वमवधेयं तस्यैव वैचित्राजनकत्वात् मुखमम्भोजन तुल्यमित्यादौ तथाप्रतीतौ अपि वैचित्रवाभावात् न अयमलङ्कारः । दर्पणकारस्तु एतामेव उपमेयोपमामाह । यथा, पर्यायेण हयोरेतत् उपमेयोपमा मता इति ॥ १८ ॥
नियमोपमां लक्षयति त्वदिति। तन्मुखं कमलेन एव तुल्यम् अन्येन केनापि नेति अत्र अन्यस्य साम्यं सादृश्यं तस्य व्यावृत्तिः निरासः तस्याः हेतोः इयं सा प्रसिद्धा नियमोपमा, उपमानबाहुल्यम् उपमेयस्यापकर्ष गमयति, तव्याहत्त्वा एकेन प्रकृष्टतमेन सादृश्यकल्पनात् उत्कर्षातिशयः समधिकवैचित्रवम् प्रावहतौति ध्येयम् ॥ १८ ॥
अनियमोपमा निरूपयति पद्ममिति । पचं तावत् तव मुखम् अन्वेति अनुकरोति, अन्यच्च तादृशं पद्मवत् सुन्दरं वस्तु . चन्द्रादि तत्कारि तव मुखानुकारि अस्ति चेत् पस्तु। इत्यव असौ अनियमोपमा पद्मस्य तदन्यस्य च यस्य कस्यचित् अपि उपमेयत्वकल्पनात् कल्पनायाश्च नियमाभावात् इति ॥ २० ॥
समुच्चयोपमामाह, समुच्चय इति। तव मुखं कान्स्यैव
Page #70
--------------------------------------------------------------------------
________________
काव्यादरों
त्वय्येव वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः । । इयत्येव भिदा नान्येत्यसावतिशयोपमा ॥ २२ ॥ मय्येवास्या मुखश्रीरित्यलमिन्दार्विकत्वनैः । पद्मऽपि सा यदस्त्येवेत्यसावुत्प्रेक्षितोपमा ॥२३॥
केवलया कान्त्या न, वादनाख्येन प्रवादनजनकेन कर्मणा च चकारः समुच्चयद्योतकः, इन्, चन्द्रम् अन्वेति अनुगच्छति अनुकरोतीत्यर्थः । इति ईदृशी एवम्प्रकारा समुच्चयोपमा अपि अस्ति, ईदृशीत्यनेन केवलगुणकेवलक्रियासमुच्चये वा साधारणसमुच्चयेऽपि वा अयमलङ्कारो बोदव्यः ॥ २१ ॥
अतिशयोपमा निरूपयति त्वयोति। तव मुखं त्वयि एव दृष्टं, चन्द्रमा: दिवि प्राकाशे दृश्यते, इयती आश्रयनिबन्धना एव भिदा प्रभेदः मुखचन्द्रमसोरिति शेषः, न अन्या न गुणक्रियादिक्कता इति भावः, असौ अतिशयोपमा, भिवाश्रयत्वेन प्रौपम्यस्य सातिशयचमत्कारित्वात् । अत्र साम्यमिव आदिशब्दाप्रयोगात् व्यञ्च न च अत्र रूपकध्वनिः आत्रयभेदेन पभेदप्रतीतेरभावादिति ध्येयम् ॥ २२॥
उत्प्रेषितोपमां लक्षयति मयोति। अस्या मुखत्रीः मुखकान्तिः सुखसदृशकान्तिरित्यर्थः मयि एव न अन्यत्र, इन्दोः चन्द्रस्य इति एवं विकथनैः प्रात्मश्लाघनैः प्रलं, यत् यस्मात् सा कान्तिः पद्मऽपि अस्ति पद्ममपि तसदृशकान्तीत्यर्थः असौ उत्प्रेषितोपमा, इन्दौ प्रात्मश्लाघाया प्रतात्त्विकत्वेन नायकस्य चाटूक्त्या तथा सम्भावितत्वात् सम्भावनायाच उत्प्रेक्षात्वात् इति। साम्यञ्च पत्र व्यङ्ग्यम् ॥ २३ ॥
Page #71
--------------------------------------------------------------------------
________________
हितीयः परिच्छेदः । ११ यदि किञ्चित् भवेत् पद्मं सुभ्र ! विधान्तलोचनम्। तत् ते मुखश्रियं धत्तामित्यसावद्भुतोपमा ॥२४॥ शशीत्युत्प्रेक्ष्य तन्वनि ! त्वन्मुखं त्वन्मुखाशया । इन्दुमप्यनुधावामौत्येषा मोहोपमा स्मृता ॥२५॥ किं पद्ममन्तर्धान्तालि किं ते लोलेक्षणं मुखम् ? - अद्भुतोपमामाह यदीति। हे सुभ्र ! यदि पद्मं विधान्तलोचनं विचूर्णितनयनं भवेत्, तत् तदा ते तव मुखश्रियं वदनकान्तिं धत्तां धारयतु। इत्यत्र असौ अद्भुतोपमा, यद्यर्थबलेन सादृश्यस्य समधिकचमत्कारद्योतनात्। उक्तच्च, यत्रोपमेयधर्माः स्युरुपमानेऽधिरोपिताः। चमत्कारविधानार्थं तामाहुरङ्ग तोपमाम् ॥ इति । प्रकाशकारस्तु एनामतिशयोक्तिमाह। यथा, निगोर्याध्यवसानन्तु प्रकृतस्य परेण यत् । प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ॥ इति । उदाहृतञ्च विश्वनाथेन यथा, यदि स्यान्मण्डले सक्तमिन्दोरिन्दीवरदयम्। तदोपमीयते तस्या वदनं चारुलोचनम् ॥ २४ ॥
मोहोपमा निरूपयति शशौति। हे तन्वणि कशाङ्गि ! तव मुखं शशौति उत्प्रेक्ष्य सम्भाव्य धान्या अभिनं बुद्धा इत्यर्थः तव मुखाशया वदनस्पृहया इन्दुमपि अनुधावामि । इत्यत्र मोहोपमा स्मृता कविभिरिति शेषः, मोहेन इन्दोर्मुखत्वेन ज्ञानात्। तथाचोक्त, प्रतियोगिनमारोप्य तदमेदेन कोर्त्तनम् । उपमेयस्य यन्मोहोपमासो भ्रान्तिमद्दचः ॥ इति । दर्पणकारस्तु एनां भ्रान्तिमदलङ्कारमाह यथा, साम्यादतस्मिंस्तबुदिर्धान्तिमान् प्रतिभोस्थितः इति। साम्यञ्चात्र व्यङ्ग्यम्
Page #72
--------------------------------------------------------------------------
________________
建成
काव्यादर्थे
मम दोलायते चित्तमितीयं संशयोपमा ॥ २६ ॥ न पद्मस्येन्दुनियाह्यस्येन्दुलज्जाकरौ द्युतिः । अतस्त्वन्मुखमेवेदमित्यसौ निर्णयोपमा ॥ २७ ॥ शिशिरांशुप्रतिस्पर्द्दि श्रीमत् सुरभिर्गान्धि च । अम्भोजमिव ते वक्वमिति श्लेषोपमा स्मृता ॥२८॥
संयोपमां निरूपयति किमिति । अन्तर्भ्रान्त अलौ यस्य तत् पद्मं किम् ? ते तव लोले चञ्चले ईक्षणे नेत्रे यस्मिन् तत् मुखं किम् ? मम चित्तम् इति इत्थं दोलायते संशेते । इयं संशयोपमा संशयस्य औपम्यपय्र्यवसायित्वात् । दर्पणकारस्तु एनां सन्देहालङ्कारमाह यथा, सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थित इति । अत्रापि साम्यं व्यञ्जनया गम्यते ॥ २६ ॥
निर्णयोपमां निरूपयति नेति । इन्दुना निग्राह्यस्य निग्टहौतस्य तिरस्कृतस्य इत्यर्थः पद्मस्य द्युतिः इन्दुलज्जाकरी न पराजितस्य पराजेतृलज्जाजनकत्वादिति भावः । अतः इदं तव मुखमेव न पद्मं तव मुखस्यैव इन्दुपराजेयत्वात् इति भावः । असौ निर्णयोपमा निर्णयेन उपमानोपमेययोः सादृश्यावगमात् । मुखं वा पद्मं वा इत्यादिसंशयात् परं निश्चयज्ञान एवायमलङ्कारो बोद्धव्यः । उक्तञ्च, उपमेयस्य संशय्य निश्चया ब्रियोपमा इति ॥ २७ ॥
शेषोपमां निरूपयति शिशिरेति । ते वक्त्र ं वदनम् अम्भोजमिव शिशिरांशप्रतिस्पर्द्धि शिशिरांशुः चन्द्रः प्रतिस्पर्धी विरोधौ यस्य तत् श्रीमत् सुश्रीकं तथा सुरभिगन्धि च विशेषणत्रयम् उभयत्र समानम् । अथवा वक्त्रपचे शिशिरांशुप्रति
Page #73
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः।
सरूपशब्दवाच्यत्वात् सा समानोपमा यथा। बालेवोद्यानमालेयं सालकाननशोभिनी ॥ २६ ॥ पद्म बहुरजश्चन्द्रः क्षयौ ताभ्यां तवाननम् । समानमपि सोत्सेकमिति निन्दापमा स्मृता ॥३०॥ स्पाईनी या श्रीः शोभा तहत् । इत्यत्र श्लेषोपमा स्मता कविभिरिति शेषः। श्लेषण उपमानोपमेयगततत्तत्साधर्म्यस्य द्योतनात् श्लेषश्च अत्र अर्थश्लेष एव समानोपमायाः शब्दश्लेषविषयत्वादिति ॥ २८ ॥ ___ समानोपमां लक्षयति सरूपेति । सरूपशब्दैः समानरूपैः श्लेषात् भित्रैरपि अभिन्नवत् प्रतीयमानैः शब्दः वाच्यत्वात् साधय॑स्य प्रतिपाद्यत्वात् सा प्रसिद्धा समानोपमा, यथाशब्दः उदाहरणप्रदर्शनार्थः । इयम् उद्यानमाला उपवनराजिः बाला कामिनीव सालकाननशोभिनी सालानां वृक्षभेदानां काननेन वनेन समूहेन इत्यर्थः शोभते इति तथोक्ता, अन्यत्र सालकम् अलकालङ्कतं यत् आननं तेन शोभते इति अत्र साधारणधर्मस्य सालकाननशोभित्वस्य शब्दश्लेषेण द्योतनात् शब्दश्लेषमूलैवेयं दोषगुणालङ्काराणां शब्दार्थगतत्वव्यवस्थितेः शब्दपरिवृत्तिसहत्वासहत्वमेव मूलम् अत्र सालकाननेत्यत्र सर्जकाननेति परिवृत्तौ न श्लेषः, पूर्वत्र शिशिरांशु इत्यत्र शौतगु इति परिवृत्ती . पपि न क्षतिरिति सुधौभिर्भाव्यम् ॥ २८ ॥
निन्दोपमां लक्षयति पद्ममिति। पद्मं बहुरजः परागपूर्ण रजोगुणबहुलच्च, चन्द्रश्च क्षयौ क्षयरोगी, पक्षान्तर क्षयशौलच, अत: आननं समानमपि साधर्म्यान्तरेण तुल्यमपि ताभ्यामिति शेषः सोत्सेकं समधिकोत्कर्षशालि । इत्यत्र निन्दो
Page #74
--------------------------------------------------------------------------
________________
काव्याद”
ब्रह्मणोऽप्युद्भवः पद्मश्चन्द्रः शम्भुशिरोधृतः । तो तुल्यौ त्वन्मुखेनेति सा प्रशंसोपमोच्यते ॥३१॥ चन्द्रेण त्वन्मखं तुल्यमित्याचिख्यासु मे मनः । स गुणो वास्तु दोषो वेत्याचिख्यासोपमा विदुः३२ पमा स्मृता, उपमाननिन्दया साम्यस्य कीर्तनात्। साम्यमात्रपर्यवसायित्वादस्या व्यतिरेकात् भेदः व्यतिरेके तु भेद एव पर्यवसानमिति बोयम् ॥ ३० ॥ .
प्रशंसोपमां निरूपयति ब्राह्मण इति। पद्मः ब्रह्मणोऽपि उद्भवः उत्पत्तिस्थानं नारायणस्य नाभिकमलजातत्वात्, तथा चन्द्रः शम्भुशिरोतः तौ पद्मचन्द्रौ वन्मुखेन तुल्यौ इति पद्मचन्द्रयोः प्रशंसितयोरपि त्वन्मखसादृश्य न प्रशंसातिशयात् मुखस्य च समधिकोल्कर्षव्यञ्जनात् प्रशंसोपमा उच्यते। अत्र मुखस्य उपमेयत्वप्रसिद्धावपि, उपमानत्वकल्पनात् प्रतीपालकारोऽपि। यदुक्तं, प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् । निष्फलत्वाभिधानं वा प्रतीपमिति कथ्यते ॥ इत्यनयोः सङ्करः । खमते विपर्यासोपमा च मुखस्योपमानतया प्रसिद्धोपमेय. खण्डनादिति तयोः सङ्कर इति, पद्म इति पुंस्त्वनिर्देशन अप्रयुक्ततादोषश्चेति बोध्यम् ॥ ३१ ॥
आचिख्यासोपमां लक्षयति चन्द्रेणेति। त्वन्मुखं चन्द्रेण तुल्यम् इति आचिख्यासु आख्यातुमिच्छु मे मनः । स आख्या- . नाभिलाषः गुणो वा दोषो वा अस्तु इत्यत्र आचिख्यासोपमां विदुः। आख्यानकामनाविषयत्वेन मुखस्य चन्द्रेण उपमितत्वेऽपि गुणो वा दोषो वा इति कथनम् अधिकचमत्कारित्वं द्योतयतीति बोध्यम् ॥ ३२ ॥
Page #75
--------------------------------------------------------------------------
________________
हितीयः परिच्छेदः ।
६६.
शतपत्वं शरच्चन्द्रस्त्वदाननमिति वयम् । परस्परविरोधीति सा विरोधोपमा मता ॥ ३३ ॥ न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितम् ।। कलसिनो जड़स्येति प्रतिषेधोपमैव सा ॥ ३४ ॥ मृगक्षणावं ते वक्त मृगणैवाशितः शशी। तथापि सम एवासी नोत्कर्षीति चटूपमा ।। ३५॥
विरोधोपमा निरूपयति शतपत्रमिति। शतपत्रं पद्म शरच्चन्द्रः शारदीयचन्द्रः तव आननञ्च एतत् वयं परस्परविरोधि अन्योन्यस्पईि शतपत्रे शोभिते चन्द्रस्य मालिन्यं चन्द्र च शोभिते शतपत्रस्य मालिन्यं प्रसिद्ध तवानने शोभिते च इयोरेव मालिन्यं स्यादिति वाग्वैचित्राशालिनी। सा प्रसिद्धा विरोधोपमा ॥ ३३ ॥ __ प्रतिषेधोपमामाह नेति । इन्दोः चन्द्रस्य ते तव मुखेन जातु कदाचित् प्रतिगर्जितुं प्रतिस्पर्दितुं सदृशौभवितुम् इत्यर्थः शक्ति: सामर्थ्य नास्ति, यत: कलङ्गिन: तथा जड़स्य, इत्यत्र प्रतिषेधोपमा सादृश्यप्रतिषेधेन अधिकवैचित्राप्रकटनात् निन्दोपमायां निन्दया, इह तु प्रतिषेधेन इत्यनयोर्भेदः ॥ ३४ ॥
चटूपमा निरूपयति मृगक्षणति । ते वक्त मृमस्य ईक्षणाभ्याम् अवयवविशेषाभ्याम् अकं चिह्नितं, शशी तु मृगण सर्वावयवसम्पनेनेति भावः अङ्कितः । तथापि अधिकसामग्रीसत्त्वेऽपि असौ सम एव तव मुखेनेति शेषः न उत्कर्षी नाधिक वैचिनाजनकः । इत्यत्र चटुः प्रियोक्तिः तइटितत्वात् चटूपमा अत्र सत्यपि उत्कर्ष कारण न उत्कर्ष इति प्रतिपादनात् विशे
Page #76
--------------------------------------------------------------------------
________________
काव्यादर्णे
न पद्म मुखमेवेदं न भृङ्गो चक्षुषी इमे । इति विस्पष्टसादृश्यात् तत्त्वाख्यानोपमैव सा ॥३६ चन्द्रारविन्दयोः कान्तिमतिक्रम्य मुखं तव। आत्मनेवाभवत्तुल्यमित्यसाधारणोपमा ॥ ३७॥ सर्वपद्मप्रभासारः समाहृत दूव क्वचित् । षोक्तिः। तदुक्तं दर्पणकारण, सति हेतौ फलाभावो विशेषोक्तिस्तथा द्विधा इति तन्मूला च इयं समधिकवैचित्रा द्योतयति नान्यथा, सर्वत्रैवोपमाभेदेषु चाटूक्तिसद्भावादिति ध्येयम् ॥ ३५ ॥ __ तत्त्वाख्यानोपमा लक्षयति नेति । इदं पद्मं न मुखमेव भृङ्गौ भमरौ न इमे चक्षुषी नेत्रे, इति इत्यं विशेषेण सादृश्यस्य स्पष्टत्वात् सुव्यक्तत्वात् सा प्रसिद्धा तत्त्वाख्यानोपमा इयमिति शेषः भ्रमनिरासेन तत्त्वस्य पाख्यानात् निर्णयोपमायां तत्त्वाख्यानस्य संशयपूर्वकत्वम् इह तु भ्रान्तिपूर्वकत्वम् इत्यनयोआंदः ॥ ३६ ॥
असाधारणोपमां लक्षयति चन्द्रेति। तव मुखं चन्द्रारविन्दयोः कान्तिं शोभाम् अतिक्रम्य आत्मनैव तुस्थम् अभवत् इति प्रसाधारणोपमा, चन्द्रपद्मयोः कान्त्यतिक्रमेण प्रकृतस्य मुखस्य पात्मनैव साम्यकोर्त्तनेन च औपम्यस्य असाधारणत्वात् । दर्पणकारस्तु एनामन्वयाख्यमलङ्कारमाह। यथा, उपमानोपमेयत्वमेकस्यैव त्वनन्वय इति । एवञ्च हयोः साम्यमुपमा न तु एकस्य इति बोडव्यम् ॥ ३७॥ ___ अभूतोपमा निरूपयति सर्वेति। त्वदाननं क्वचित् सर्वेषां पद्मानां प्रभासारः कान्तिपुनः समाहृत इव विभाति, इत्यत्र
Page #77
--------------------------------------------------------------------------
________________
हितीयः परिच्छेदः।
त्वदाननं विभातीति तामभूतोपमां विदुः ॥३८॥ चन्द्रविम्बादिव विषं चन्दनादिव पावकः । परुषा वागितो वक्त्रादित्यसम्भावितोपमा ॥३६॥ चन्दनोदकचन्द्रांशचन्द्रकान्तादिशीतलः । स्पर्शस्तवेत्यतिशयं बोधयन्ती बहूपमा ॥ ४० ॥
ताम् अभूतोपमा विदुः, प्रभासारसमाहरणस्य तत्त्वतः अभूतत्वात् सम्भावनया औपम्यस्य कीर्तनाच्च। दर्पणकारस्तु इमाम् उत्प्रेक्षालङ्कारमाह। यथा, भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना इति । प्राञ्चस्तु प्रकृते अप्रकृतस्य धर्मिण: सम्भावनमुत्प्रेक्षा, इह तु धर्मस्य सम्भावमया हयोः साम्यमित्यनयोः भेदः ॥ ३८ ॥
असम्भावितोपमां निरूपयति चन्द्रेति। इतः अस्मात् वनात् परुषा वाक् चन्द्रविम्बात् विषमिव, चन्दनात् पावक इव, इति अत्र उपमाभ्यां विषपावकनिःसरणमिव वदनात् परुषवानिःसरणस्य असम्भावित्वात् असम्भावितोपमा ॥३८॥
बहूपमा लक्षयति चन्दनेति । तव स्पर्शः चन्दनवत् उदकवत् चन्द्रांशुवत् चन्द्रकान्तवत् प्रादिपदेन एवंविधपदार्थवत् शीतल इति अतिशयम् अधिकशैत्यम् अधिकवैचिबंध वा बोधयन्ती द्योतयन्ती बहूपमा। एकस्य उपमानबाहुल्यकीर्तनात् बहुपदेन हयोरप्युपमानयोः सद्भावे न इयमुपमा वैचित्रयाणाम् अबाहुल्यात् इति बोध्यम् । दर्पणकारस्तु इमां मालोपमामाह। यथा, मालोपमा यदेकस्योपमानं बहु दृश्यते इति ॥ ४०॥
Page #78
--------------------------------------------------------------------------
________________
०२
काव्यादर्श चन्द्रविम्बादिवोत्कीर्णं पद्मग दिवोद्धृतम् । तव तम्बङ्गि ! वदनमित्यसौ बिक्रियोपमा ॥४१॥ पुष्णाातप वाहीव पूषा व्योम्नीव वासरः । विक्रमस्त्वय्यधालक्ष्मीमिति मालोपमा मता॥४२॥ वाक्यार्थेनैव वाक्यार्थः कोऽपि यद्युपमीयते । एकानेकवशब्दत्वात् सा वाक्यार्थोपमा विधा॥४३॥
विक्रियोपमा लक्षयति चन्द्रेति। हे तन्वनि ! तव वदनं चन्द्रविम्बात् उत्कीर्णमिव, अथवा पद्मगर्भात् उद्धृतमिव इति अत्र चन्द्रविम्बपद्मगौं प्रकतीभूतौ वदनस्य प्रस्तुतस्य ताभ्याम् उत्कीर्णत्वात् उद्धृतत्वात् वा विकृतिभावप्रतिपादनात् विक्रियोपमा। उक्तञ्च, उपमेयस्य यत्र स्यादुपमानविकारता। प्रकृतेविक्कते: साम्यात् तामाहुर्विक्रियोपमाम् ॥ इति। अत्र च उत्कीर्णत्वोघृतत्वयोः धर्मयोः उत्प्रेक्षणात् धर्मिणोश्च साम्यप्रतोतरुपमैव न तु उत्प्रेक्षा तस्या धर्मिगतत्वेन कीर्तनात् इति बोध्यम् ॥ ४१ ॥
मालोपमां निरूपयति पुष्णोति। पुणि सूर्ये आतप इव, अङ्गि दिवसे पूषा सूर्य इव, व्योम्नि आकाशे वासरः दिवसः इब विक्रमः त्वयि लक्ष्मी अधात् । इत्यत्र मालायां यथा एकेन पुष्येण अपरस्य पुष्यस्य योगः, तथा उपमानानां परस्परसम्बधात् मालोपमा, एवंविधवैचित्रे एव अस्याः सत्त्वात्, बइपमायाञ्च केवलमुपमानबाहुल्यात् अनयोर्भेदः ॥ ४२ ॥
वाक्यार्थोपमां लक्षयति वाक्यार्थेनेति । वाक्यं पदसमुदायः तस्यार्थः वाक्यार्थः तेन कोऽपि अपरो वाक्यार्थः यदि अनु.
Page #79
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः ।
त्वदाननमधीराचमाविर्दशनदीधिति ।
भ्रमद्भृङ्गमित्रालक्ष्यकेसरं भाति पङ्कजम् ॥ ४४ ॥ नलिन्या इव तन्वयास्तस्याः पद्ममिवाननम् । मया मधुव्रतेनेव पायं पायमरम्यत ॥ ४५ ॥ वस्तु किञ्चिदुपन्यस्य न्यसनात् तत्मधर्मणः । साम्यप्रतीतिरस्तौति प्रतिवस्तूपमा यथा ॥ ४६ ॥
मीयते सा वाक्यार्थोपमा, वाक्यार्थयेोरुपमानोपमेयत्वकौर्त्तनात्, सा द्विधा एकानेकेवशब्दत्वात् क्वचिदेकेवशब्दघटिता, क्वचिञ्च अनेकेवशब्दघटिता इति ॥ ४३॥
एकेवशब्दां वाक्यार्थोपमाम् उदाहरति त्वदिति । अधोरे चञ्चले अक्षिणौ यत्र तत्, आविर्भवन्त्यः दशनानां दीधितयो यत्र तादृशं तव आननं भ्रमन्तौ भृङ्गौ यत्र तत् तथा अलक्ष्या ईषल्लक्ष्याः केसराः किञ्जल्काः यस्य तादृशं पङ्कजमिव भाति । अत्र पूर्वार्द्धवाक्यं परार्डेन एकेवशब्दघटितेन वाक्येन उपमौयते ॥ ४४ ॥
अनेकेवशब्दम् उदाहरति नलिन्या इति । नलिन्या इव तस्याः तन्दद्भ्याः पद्ममिव आननं मधुव्रतेनेव मया पायं पायं पुन: पुन: पौत्वा श्ररम्यत । अत्र नलिन्या पद्ममिव इति वाक्येन तन्वङ्ग्या आननमिवेति वाक्यार्थस्य उपमितत्वात् अनेकेवशब्दघटितत्वाच्च अनेकेवशब्दा वाक्यार्थोपमा इति बोध्यम् ॥ ४५ ॥
प्रतिवस्तूपमां निरूपयति वस्त्विति । किञ्चित् वस्तु किमपि प्रक्कृतम् उपन्यस्य तस्य संधर्मणः समानधर्मस्य कस्यचित्
Page #80
--------------------------------------------------------------------------
________________
७४
काव्याद”
नैकोऽपि वादृशोऽद्यापि जायमानेषु राजसु। ननु द्वितीयो नास्त्येव पारिजातस्य पादपः ॥४७॥ अधिकेन समीकृत्य हीनमेकक्रियाविधौ। यत् ब्रुवन्ति स्मृता मेयं तुल्ययोगोपमा यथा ॥४८॥
अप्रकृतस्य न्यप्तनात् प्रकृतस्य समर्थनाय उपादानात् साम्यप्रतीतिः सादृश्यावबोधो भवति इति इत्थं या साम्यप्रतीतिः प्रतिवस्तूपमा इत्यन्वयः। दर्पणकारस्तु इमाम् अलङ्कारान्तरमाह। यथा, प्रतिवस्तूपमा सा स्यात् वाक्ययोर्गम्यसाम्ययोः । एकोऽपि धर्मः सामान्यो यत्र निर्दिश्यते पृथक् ॥ इति । यथेति वक्ष्यमाणोदाहरणप्रदर्शनार्थम् ॥ ४६ ॥
उदाहरणं दर्शयति नेति। जायमानेषु राजसु मध्ये अद्यापि त्वादृशः तव सदृशः एकोऽपि नास्ति, ननु भोः पारिजातस्य पादपः वृक्षः द्वितीयो नास्त्येव। अत्र सदृशो नास्ति हितौयो नास्तौति साधारणधर्म एव पुनरुक्तिभिया शब्दान्तरेण उपन्यस्तः, साम्यञ्चात्र गम्यमिति दर्पणकारण अस्या वैधयेणापि उदाहरणं दर्शितम्। यथा, चकोर्य एव चतुराश्चन्द्रिकापानकर्मणि। विनावन्तीनं निपुणा: सुदृशो रतनर्मणि ॥ अत्र चातुर्यानैपुण्याभ्यामपि वाक्यहयस्य साम्यप्रतीतिरस्तौति बोध्यम् ॥ ४७ ॥
तुल्ययोगोपमां लक्षयति अधिकेनेति। एकक्रियाविधौ एकजातीयक्रियाविधाने होनं न्यूनं वस्तु अधिकेन अधिकगुणेन समीक्वत्य सदृशौकत्य यत् ब्रुवन्ति सा इयं तुल्ययोगोपमा क्रियायामधिकहीनगुणयोः समीकरणादित्यर्थः । तथाच
Page #81
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः ।
दिवो जागर्त्ति रचायै पुलोमारिर्भवान् भुवः । असुरास्तेन हन्यन्ते सावलेपास्त्वया नृपाः ॥ ४८ ॥ कान्त्या चन्द्रमसं धाम्ना सूर्य्यं धैर्य्येण चार्णवम् । राजन्ननुकरोषौति सैषा हेतूपमा मता ॥ ५० ॥ न लिङ्गवचने भिन्ने न हीनाधिकतापि वा । उपमादूषणायालं यत्त्रोद्देगो न धीमताम् ॥ ५१ ॥
७५
एकजातीयक्रियया प्रस्तुताप्रस्तुतयोः साम्यकीर्त्तनं तुल्ययोगोपमा इति लक्षणम् । यथेति उदाहरणप्रदर्शनार्थम् ॥ ४८ ॥
तुल्ययोगोपमामाह दिवइति । पुलोमारिः इन्द्रः दिवः स्वर्गस्य रक्षायै, भवान् भुवः पृथिव्याः रक्षायै जागर्त्ति, तेम इन्द्रेण असुरा हन्यन्ते, त्वया सावलेपाः गर्विताः नृपाः हन्यन्ते । श्रत्र हीनस्य प्रस्तुतस्य राज्ञः गुणाधिकेन इन्द्रेण एकजातीय क्रियाकरणेन समीकरणात् तुख्ययोगोपमा इति
॥ ४८ ॥
हेतूपमाम् उदाहरति कान्त्येति । सुगमम् । अत्र राज्ञः चन्द्रादिभिः सादृश्यस्य कान्त्यादिहेतुकत्वात् ऐषा हेतूपमा इति ॥ ५० ॥
इत्थमुपमां तद्भेदांच निरूप्य प्रसङ्गतस्तगतान् दोषाम् विवक्षुः तेषाञ्च कदाचित् अदूषकत्वमाह नेति । यत्र धीमतां सामाजिकानाम् उद्देगः प्रतीतिविघातः न भवति तादृशे भिन्न पृथग्भूते लिङ्गवचने तथा होनाधिकता होनपदत्वम् अधिकपदत्वं वा उपमादोषाय न अलं नः प्रभवन्तीत्यर्थः 1 दोषाच प्राचौनैरुक्ताः । यथा होनाधिकत्वं वचनलिङ्गभेदो
Page #82
--------------------------------------------------------------------------
________________
७६
काव्यादर्श . स्त्रीव गच्छति षण्डोऽयं वक्त्येषा स्त्री पुमानिव । प्राणा व प्रियोऽयं मे विद्या धनमिवार्जिता॥५२॥
विपर्ययः। असादृश्यासम्भवौ च दोषाः सप्तोपमा गता इति। होनाधिकता च उपमानस्य उपमेयापेक्षया इति बोध्यम्। लिङ्गवचनव्यत्यासे साधर्म्यस्य उभयान्वयाभावेन साम्यस्य सम्यगप्रतीतिः, हौनतायाम् उपमानस्य अपकृष्टत्वाव बोधात् प्रस्तुतस्य उपमेयस्य अनुत्कर्षः, अधिकपदत्वे च उपमेयस्य निकृष्टत्वप्रतीतिरेतदेव दोषकारणं, यत्र तु एतानि कारणानि न सन्ति तत्र एतेषां न दोषावहत्वमिति भावः । केचित् तु कालपुरुषविध्यादिभेदानपि उपमादोषानाहुः उदाहरन्ति च क्रमेण । यथा, काप्यभिख्या तयोरासीत् व्रजतोः शुद्धवेशयोः । हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥ पत्र चित्राचन्द्रमसोरभिख्याया न प्रतीतत्वम् अपितु सार्वकालिकत्वम् । लतेव राजसे तन्वि ! अत्र लतापक्षे राजते इति योज्यम् । चिरं जीवतु ते सूनुर्मार्कण्डेयमुनिर्यथा इति। अत्र मार्कण्डेयमुनिर्यथा जीवतीति प्रयोज्यम् । एते दोषाश्च प्रायशः कविभिरगणिता इति बोध्यम् ॥ ५१ ॥ __लिङ्गवचनभेदस्य अदूषकत्वं दर्शयति स्त्रीति। अयं षण्डः स्त्रीव गच्छति, एषा स्त्री पुमानिव वति। अत्र क्रियाइयस्य साधारणधर्मस्य उभयत्रान्वयात् लिङ्गभेदेऽपि न दोषः । अयं जनः मे प्राणा इव प्रियः, तथा विद्या धनमिव अर्जिता। इत्येतयोरुपमानयोः वचनभेदेऽपि साधारणधर्मवयस्य वचनविपरिणामेन अन्वये धीमतां न प्रतौतिव्याघात इति न दोषावसरः। एवमुभयत्र अन्वययोग्यक्रियया वचनभेदेऽपि न
Page #83
--------------------------------------------------------------------------
________________
. द्वितीयः परिच्छेदः । भवानिव महीपाल । देवराजो विराजते। ।। अलमंशुमतः कक्षामारोढुं तेजसा नृपः ॥ ५३ ॥ इत्येवमादौ सौभाग्यं न जहात्येव जातुचित् । अस्त्येव क्वचिदुद्देगः प्रयोगे वाग्विदां यथा ॥५४॥ दोषः। यथा, तद्देशोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः । दधते स्म परां शोभां तदीया विभ्रमा इव ॥ अत्र दधते इति क्रियापदं धाधातोबहुवचननिष्पन्न तथा दधधातोरेकवचननिष्पन्नञ्चेति उभयत्रान्वये न कश्चिद् बाधः । एवमन्यान्यपि महाकविप्रयुक्तानि सन्तीति अवधेयम् ॥ ५२ ॥
हीनतायामधिकतायाञ्च दोषाभावं दर्शयति भवानिति । हे महीपाल ! देवराजः भवानिव विराजते। अत्र उपमानस्य राजः मनुष्यत्वात् उपमेयदेवराजापेक्षया न्यूनत्वं स्वत: सिद्धमपि रानः लोकपालांशसम्भूतया न अत्यन्तं वैरस्यम् आवहतौति न दोषः, राज्ञश्च लोकपालांशसम्भूतत्वे प्रमाणं यथा अष्टानां लोकपालानां वपुर्धारयते नृप इति । इयन्तु विपयासोपमालङ्गतिः अस्याञ्च प्रायशः एवं दोषः सम्भवतीति बोध्यम् । अपिच, उत्सङ्गितकुरङ्गोऽयमृक्षमण्डलमध्यगः । विधु
र्व्याघ्र इवाभाति हन्तुं विरहदुर्बलान् ॥ इति। अत्र लिष्टविशेषणेन निकृष्टस्यापि व्याघ्रस्य उपमानत्वं न दोषायेति । नृपः तेजसा अंशुमतः सूर्य्यस्य कक्षां सादृश्यमिति यावत् आरोढुम् अलं समर्थः । अत्र नृपस्य उपमानम् अंशुमान् देवत्वादधिक इति । एवमन्यत्रापि द्रष्टव्यम् ॥ ५३॥
इत्येवमादौ उत्कर्ष एवमादिप्रयोगे जातुचित् कदाचित् सौभाग्यम् न जहाति त्यजति एव, क्वचित् प्रयोगे तु वाग्
Page #84
--------------------------------------------------------------------------
________________
. काव्यादर्श ।
हंसीव धवलचन्द्रः सरांसीवामलं नमः । भभितो भटः श्वेव खद्योतो भाति भानुवत्॥५५ ईदृशं वय॑ते सद्भिः कारणं तब चिन्त्यताम् । गुणदोषविचाराय स्वयमेव मनीषिभिः ॥ ५६ ॥ इववत् वा यथाशब्दाः समाननिभसन्निभाः । तुल्यसङ्काशनीकाशप्रकाशप्रतिरूपकाः ॥ ५७ ॥ प्रतिपक्षप्रतिद्वन्दिप्रत्यनीकविरोधिनः ।। सट्टक्सदृशसंवादिसजातीयानुवादिनः ॥ ५८ ॥ विदां विदुषाम् उद्देगः प्रतीतिव्याघातः अस्ति। यथेति उदाहरणार्थम् ॥ ५४ ॥ - उदाहरति हंसीवेति। चन्द्रः हंसीव धवलः, नभः सरांसीव अमलं, भटः सैनिकः खा इव भर्तृभक्तः, स्वाम्यनुरक्तः तथा खद्योतः भानुवत् भाति। अत्र यथाक्रमम् उपमानानां लिङ्गभेद: वचनभेदः न्यूनत्वम् अधिकत्वञ्च सामाजिकानां वैरस्यमावहतौति एतेषां दूषकत्वं नैयायिकमिति भावः ॥५५॥ - उपसंहरति ईदृशमिति। सद्भिः सुधौभिः ईदृशं काव्यं वर्धते त्यज्यते न प्रयुज्यते नाद्रियते च इति भावः । मनो. षिभिः सहृदयैः स्वयमेव तत्र वर्जने गुणदोषविचाराय चिन्त्य
ताम् ॥ ५६ ॥ - उपमाप्रतीतिरभिधया लक्षणया व्यन्जनया च भवतीति तस्या वाचकादौनि निरूपयति इवेत्यादि। इवाद्युपमान्ताः शब्दाः बाचकाः, वदिति, कल्पदेश्यदेशीया इति च तहितप्रत्ययाव वाचकेषु अन्तर्भवन्ति । वा इत्यस्योपलक्षणत्वात् च.
Page #85
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः ।
प्रतिविम्बप्रतिच्छन्द सरूपसमसम्मिताः । सलक्षणसदृचाभसपक्षोपमितोपमाः ॥ ५६ ॥ कल्पदेशीयदेश्यादिप्रख्यप्रतिनिधी अपि । सवर्णतुलितौ शब्दौ ये चान्यूनार्थवादिनः ॥ ६० ॥ समासश्च बहुब्रीहिः शशाङ्कवदनादिषु । स्पर्द्धते जयति द्वेष्टि दुह्यति प्रतिगर्जति ॥ ६१ ॥ आक्रोशत्यवजानाति कदर्थयति निन्दति । विडम्बयति सन्धत्ते हसतौर्ष्यत्यसूयति ॥ ६२॥ तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति । तेन साईं विगृह्णाति तुलां तेनाधिरोहति ॥६३॥ तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते । तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति ॥ ६४ ॥ तस्य चानुकरोतीति शब्दाः सादृश्यसूचकाः । उपमायामिमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः ॥६५॥ इत्युपमाचक्रम् ।
৩
शब्दोऽपि तस्यापि औपम्यवाचित्वात् । निभादयः शब्दाः समासान्तर्गता एव निर्दिश्यन्ते । अन्यूनार्थवादिन: अहीनार्थवाचकाः । समासश्च बहुब्रौहिः, कर्मधारयश्चेति वक्तव्यम्, यथा, पुरुषव्याघ्र इत्यादि । शशाङ्क इव वदनं यस्या इति बहुव्रीहौ मध्यपदलोपः । स्पर्धते इत्याद्यसूयतीत्यन्ताः शब्दाः लक्षकाः तस्या मुष्णातीत्यादिनिषेधतीत्यन्ताः व्यञ्जकाः ।
Page #86
--------------------------------------------------------------------------
________________
काव्याद”
उपमैव तिरोभूतभेदा रूपकमुच्यते । यथा बाहुलता पाणिपद्म चरणपल्लवः ॥ ६६ ॥
तच्छौलमिति, तस्य शीलं स्वभावमित्यर्थः अनुबध्नाति अनुकरोति इत्यर्थः । तत् तच्छोलमित्यर्थः निषेधति तहत् आचरितुं वारयति इत्यर्थः । इमे कवीनां बुद्धिसौख्यदा मनःसौख्यविधायिनः सादृश्यसूचकाः सादृश्यबोधकाः शब्दा: उपमायां प्रोक्ताः निर्दिष्टा: औपम्यद्योतनाय प्रयुज्यन्ते इत्यर्थः ॥५७-६५॥ __ इति उक्तरूपम् उपमायाश्चकं प्रकरणमित्यर्थः ।
सम्प्रति रूपकं निरूप्यते उपमेति। तिरोभूतः अन्तर्भूतः भेदः प्रकताप्रकतयोः विशेषज्ञानं यत्र तादृशौ उपमा एव रूपकम् उच्यते कविभिः इति शेषः । तथाच उपमानोपमेययोः अभेदप्रतौतिपूर्वकसाम्यं रूपकमिति लक्षणम् उपमायान्तु अभेदप्रतीतिर्नास्तीत्यनयोर्भेदः। इह तु अभेदप्रतीति: साध्यरूपा, अतिशयोक्तौ च सिद्धरूपति अनयोर्भेदश्च बोद्धव्यः । यथा, बाहुलतेत्यादि बाहुरेव लता बाहुलता, पाणिरेव पचं पाणिपगं, चरण एव पल्लवः चरणपल्लवः । अत्र रूपककर्मधारयः व्यासे यथा, बाहुरेव लतेत्यादि। अत्र बाही लतात्वारोपः बाहुलता इवेत्याद्युपमापेक्षया समधिकं वैचित्रम् पावहति इति बोध्यम् । मुखचन्द्रं पश्यामौत्यादौ मुखं चन्द्र इव इत्युपमितसमासस्य तथा मुखमेव चन्द्र इति रूपकसमास. स्यापि सम्भवात् उभयोः सङ्कर इति। यत्र तु साधयं उपमेये मुख्यतया, उपमाने तु उपचरितत्वेन स्थितं तत्र उपमायाः प्राधान्यं यत्र च उपमाने मुख्यतया, उपमेये च उपचारण स्थितं तत्र रूपकस्य प्राधान्यं यथा, मुखचन्द्रं चुम्बतीत्यादी
Page #87
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः ।
८१.
अङ्गुल्यः पल्लवान्यासन् कुसुमानि नखार्चिषः । बाहू लते वसन्तश्रीस्त्व' नः प्रत्यक्षचारिणौ ॥६७॥ इत्येतदसमस्ताख्यं समस्तं पूर्वरूपकम् ।
स्मितं मुखेन्दोर्ज्योत्स्नेति समस्तव्यस्तरूपकम् ॥६८॥ ताम्राङ्गुलिदलश्रेणि नखदौधितिकेसरम् ।
उपमा एव तथा मुखचन्द्रः प्रकाशते इत्यादी रूपकमेव न तु उभयोः सङ्कर इति बोध्यम् ॥ ६६ ॥
नः
व्यस्तरूपकस्य उदाहरणमाह अङ्गुल्य इति । त्वं अस्माकं प्रत्यक्षचारिणी परिदृश्यमाना वसन्तश्रीः । तथाहि, ते अङ्गुल्यः पल्लवानि, नखार्चिषः कुसुमानि, बाह लते । अत्र लिङ्गभेदप्रदर्शनेन । रूपके लिङ्गभेदो न दोषोवह इति सूच्यते । कदाचित् वचनभेदोऽपि न दोषाय । यथा, शास्त्राणि चक्षुर्नवमित्यादि । अत्र शास्त्राणि इत्यनेन सर्वशास्त्रज्ञानस्य लाभात् ज्ञानस्य च एकजातीयत्वात् बहुवचनान्तमपि एकवचनान्तवत् भासते । अनोदृशस्थाने तु दोषाय । यथा, मुखं पद्मानीत्यादि ॥ ६७ ॥
इतीति । इति पूर्वोक्तमेतत् अङ्गुल्य इत्यादि असमस्ताख्यम् असमस्तरूपकम् इत्यर्थः, तत्पूर्वरूपकन्तु बाह्र लतेत्यादि समस्तरूपकम् । स्मितं मृदुहास्यं मुखेन्दोः मुखमेव इन्दुः तस्य ज्योत्स्ना इति । समस्तव्यस्वरूपकम् उभयमिश्ररूपकम् इत्यर्थः । तथाच, स्मितं ज्योत्स्ना इति व्यस्तं मुखेन्दोरिति समस्तम् ॥ ६८ ॥
सकलरूपकं निरूपयति ताम्त्रेति । ताम्राङ्गुलय एव दलश्रेणयः यस्य, तथा नखानां दीधितयः किरणा एव केसरा यस्य
Page #88
--------------------------------------------------------------------------
________________
काव्यादर्थे
त्रियते मूर्ध्नि भूपालैर्भवञ्चरणपङ्कजम् ॥ ६१ ॥ अङ्गुल्यादौ दलादित्वं पादे चारोप्य पद्मताम् । तद्योग्यस्थानविन्यासादेतत् सकलरूपकम् ॥७०॥ अकस्मादेव ते चण्डि ! स्फुरिताधरपल्लवम् । मुखं मुक्तारुचो धत्ते घर्माम्भःकणमञ्जरीः ॥ ७१ ॥ तादृशं भवच्चरण एव पङ्कजं तत् भूपालैः मूर्ध्नि त्रियते । अव अङ्गुल्यादौ दलादित्वं दलश्रेणित्वं तथा पादे चरणे पद्मतां पङ्कजत्वम् आरोप्य तस्य पङ्गजस्य योग्ये स्थाने शिरसि इत्यर्थः विन्यासात् धारणात् एतत् सकलरूपकं सम्पूर्णरूपकं सर्वावयवस्य रूपणात् । अत्र मूर्ध्नि धारणरूपस्य साधारणधर्मस्य उपमाने पङ्कज एव औचित्यात् रूपकसमासः न तु उपमितसमासः उपमेयस्य चरणस्य मूर्ध्नि धारणायोग्यत्वात् इत्युक्तमेव प्राक् । दर्पणकारस्तु इदं साङ्गरूपकमाह । यथा, अङ्गिनो यदि साङ्गस्य रूपणं साङ्गमेव तत् । यथा, रावणावग्रहक्लान्तमिति वागमृतेन सः । अभिवृष्य मरुच्छस्यं कृष्णमेघस्तिरोदधे ॥ इति ॥ ६८ ॥ ७० ॥
احد
अवयवरूपकं निरूपयति अकस्मादित्यादि । हे चण्डि ! अतिकोपने ! चण्ड स्त्वत्यन्त कोपन इत्यमरः । ते तव मुखम् अकस्मादेव स्फुरितः कम्पितः अधर एव पल्लवः यत्र तादृशं सत् मुक्तानां रुच इव रुचः कान्तयो यासां तादृशीः घर्मान्भसां कणा एव मञ्जर्य्यः ताः धत्ते धारयति । अत्र घर्माम्भः मञ्जरीकृत्य मञ्जरौत्वेन आरोप्य तथा अधरं पल्लवीकृत्य पल्लवत्वेन आरोप्य आस्यं मुखं न अन्यथाक्कतं पद्मत्वेन न आरोपितम् । अतः अवयवमात्त्ररूपणात् अवयवरूपकम् । मुखे पद्मत्वारो
Page #89
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः।
मञ्जरीकृत्य धर्माम्भः पल्लवीकृत्य चाधरम् । नान्यथाकृतमवास्यमतोऽवयवरूपकम् ॥७२॥ वलिातभु गलहर्म जलमालोहितेक्षणम्। ' विवृणोति मदावस्थामिदं वदनपङ्कजम् ॥ ७३ ॥ अविकृत्य मुखाङ्गानि मुखमेवारविन्दताम् । आसीत् गमितमवेदमतोऽवयविरूपकम् ॥ ७४॥ मदपाटलगण्डेन रक्तनेत्रोत्पलेन ते । मुखेन मुग्धः सोऽप्य ष जनो रागमयः कृतः ॥७॥ पस्तु अर्थवशात् उन्नयः। दर्पणकारस्तु इदमेकदेशविवर्ति: रूपकमाह। यथा, यत्र कस्यचिदार्थत्वमेकदेशविवर्ति तत् इति ॥ ७१ ॥ ७२ ॥ - अवयविरूपकं निरूपयति वलिातेति। वलिाते भुवौ यत्र तत् चलितयुगलं गलन्ति धर्मजलानि यस्मात् तादृशं तथा आलोहिते आरक्ते ईक्षणे यस्य तथाभूतम् इदं वदनमेव पङ्कजं मदावस्थां मद्यपानजनितां दशां विवृणोति। अत्र मुखानि अविश्वत्य पङ्कजाङ्गत्वेन अनारोप्य मुखमेव अरविन्दतां गमितं पवाजत्वेन आरोपितम्, अतः अवयविमानस्य रूपणात् अवयविरूपकमिदम् । अत्र उपमा एव साधीयसी न रूपकं साधारणधर्मस्य भूवलानादिकस्य उपमेये वदने एव मुख्यतया वर्त्तनात् पङ्कजे च उपचरितत्वात्. अत: वदनमम्बुजम् इति पाठ एव साधीयानिति सुधौभिः विचार्थम् । दर्पणकारस्तु इदं निरङ्गरूपकमाह ॥ ७३ ॥ ७४ ॥
अवयवरूपकस्य विशेषान् दर्शयति मदेत्यादि। स एष
Page #90
--------------------------------------------------------------------------
________________
काव्यादर्श एकाङ्गरूपकञ्चैतदेवं हिप्रभृतौन्यपि । अङ्गानि रूपयन्त्यत्र योगायोगी भिदाकरौ ॥७६ ॥ स्मितपुष्पोज्ज्वलं लोलनेवभृङ्गमिदं मुखम् । इति पुष्पदिरेफाणां सङ्गत्या युक्तरूपकम् ॥ ७७ ॥ इदमाईस्मितज्योत्स्न स्निग्धनेत्रोत्पलं मुखम् । इति ज्योत्स्नोत्पलायोगादयुक्तं नाम रूपकम् ॥७॥
जनोऽपि ते तव मदेन पाटलौ गण्डौ यस्य तेन तथा रक्ते नेते एव उत्पले यस्य तादृशेन मुखेन मुग्ध: तथा रागमयः अनुरागपूर्ण इत्यर्थः कृत इत्यन्वयः । अत्र रक्तनेत्रोत्पलेनेति एकाङ्गमात्ररूपणात् एकाङ्गरूपकमिदम् । एवं यत्र अङ्गहयेन रूपणं तत्र ह्यङ्गरूपकम् । एवं वाङ्गरूपकादि। अत्र अवयवरूपके अङ्गानि रूपयन्ति अप्रस्तुतत्वेन आरोपयन्ति न तु अङ्गिनम् इति शेषः, अत: अङ्गस्य अङ्गयोः अङ्गानां वा योगः अयोगश्च भिदाकरौ भेदकौ ॥ ७५ ॥ ७६ ॥
अथ युक्तरूपकं निरूपयति स्मितेति। स्मितमेव पुष्प स्मितपुष्प तेन उज्वलं लोले नेत्रे एव भृङ्गौ यत्र तादृशम् इदं मुखमित्यत्र पुष्पहिरेफाणां सङ्गत्या योगेन स्मिते पुष्यत्वस्य नेत्रे भ्रमरस्य समारोपणेत्यर्थः युक्तरूपकमिदम् ॥७॥ - अयुक्तरूपकमाह इदमिति। आ, स्मितमेव ज्योत्स्ना यत्र तत् तथा स्निग्धे नेत्रे एव उत्पले पद्म यत्र तादृशं मुखम् इत्यत्र ज्योत्स्रोत्यलायोगात् ज्योत्स्रया उत्पलस्य अयोगात् भित्रकालीनत्वादुभयोरिति भावः, अयुक्तं नाम रूपकम् ॥ ७८॥
Page #91
--------------------------------------------------------------------------
________________
हितीयः परिच्छेदः ।
८५.
रूपणादङ्गिनोऽङ्गानां रूपणारूपणाश्रयात्।। रूपकं विषमं नाम ललितं जायते यथा ॥७॥ मदरताकपोलेन मन्मथस्त्वन्मुखेन्दुना। नर्तित लतेनालं मर्दितुं भुवनवयम् ॥ ८ ॥ हरिपादः शिरोलम्नजङ्ग कन्याजलांशुकः। । जयत्यसुरनिःशङ्कसुरानन्दोत्सवध्वनः ॥ ८१॥ " विशेषणसमग्रस्य रूपं केतोर्यदीदृशम् । पादे तदर्पणादेतत् सविशेषणरूपकम् ॥ २ ॥
विषमरूपकमुदाहरति रूपणादिति। पङ्गिनः रूपसात् तया अङ्गानां तदवयवानां रूपणारूपणात् कस्यचि. दङ्गस्य रूपणात् कस्यचित् वा अरूपणात् ललितं सुन्दरं वैचिताजनकमित्यर्थः विषमं नाम रूपणं जायते, यथा मदेन रतो कपोलौ यस्य तेन तथा नर्त्तिते ध्रुवौ एव लते यत्र ताहशेन त्वन्मुखमेव इन्दुस्तेन मन्मथः भुवनवयं मर्दितुं जेतुम् अलं समर्थः । अङ्गिनि मुखे इन्दुत्वारोपः तथा तदङ्गीभूतयोर्बुवोः लतात्वारोपः कपोलयोस्तु नारोप इति वैषम्यम् ॥ ८ ॥ ___ सविशेषणरूपकं निर्दिशति हरौति । शिरसि अप्रभाग लग्न अङ्गुकन्याया गङ्गाया जलमेव अंशकं श्वेतवसनाचलं यस्य सः तथा असुरेभ्यः निःशङ्का ये सुराः देवा: वलिदमनात् इति भावः तेषामानन्दोत्सवस्य ध्वज: हरिपादः वामनधरणः जयति। विशेषणसमग्रस्य सविशेषणस्थ केतोवंजस्य यत्' ईदृशम् उक्तरूपं रूपं, पादे चरणे तस्य अर्पणात् पारीपात् सविशेषणरूपकमिदम् ॥८१॥२॥
Page #92
--------------------------------------------------------------------------
________________
काव्यपदार्ग न मौलयति मनातिन नमोऽयवगाहते। ...... खन्मुखेद्धर्ममासूनां हरणायैक कल्पतेमा८३॥ अक्रिया चन्द्रकाऱ्याणामन्यकार्यस्य च क्रिया। अब सन्दश्यते यस्माद् विरुई नाम रूपकम्॥८॥ गाम्भीर्येण समुद्रोऽसि गौरवेणासि पर्वतः । कामदखाच लोकानामसि त्वं कल्पपादपः॥८॥ गाम्भीर्यप्रमुखैरन हेतुभिः सागरो गिरिः । कल्पद्रुमश्च क्रियते तदिदं हेतुरूपकम् ॥ ८६ ॥,
विरुरूपकं निरूपयति नेत्यादि। तव मुखमेव इन्दुः पद्यानि न मोलयति न सङ्कोचयति अप्रकाशादिति भावः, नभन.. आकाशच न भवगाहते न उत्तिष्ठति अवनतत्वात इति भावः । केवलं मम असूनां प्राणानां हरणाय एवं कल्पते यतते । मानिनी प्रत्युक्तिरियम्। अत्र चन्द्रस्य आरोप्यमाणस्य कार्याणां पद्मनिमौलनादौनामक्रिया अननुष्ठानं प्रत्युत अन्यस्य यमस्य कार्यस्य प्राणहरणरूपस्य क्रिया यस्मात् सन्दर्यते तस्मात् इदं विरुडं नाम रूपकम् उपमेयस्य मुखस्य उपमानाभिन्नतया उपूमान कार्यकारित्वस्य एवौचित्यात् .. तदन्यकार्यकरणाच विरोधाभास इति बोध्यम् ॥ ८३ ॥ ८४ ॥..
हेतुरूपकं निरूपयति गाम्भीर्येणेत्यादि। गाम्भीर्येण दुरीगाहाशयत्वेन समुद्रः असि, गौरवेण सारवत्तया पर्वतः पसि. तथा लोकानां कामदत्वात्. कल्पपादपः असि, सर्वत्र . हेतौ ढतीया। अत्र गाम्भीर्यप्रमुखैः हेतुभिः उपमेये सागरः
Page #93
--------------------------------------------------------------------------
________________
हितीयः परिच्छदः ।
राजहंसोपभोगाह भ्रमरप्रायसौरमम्।.. सखि ! वत्वाम्बुजमिदं तवेति श्लिष्टरूपकम् ॥८॥ दृष्टं साधयंवैधयंदर्शनाट् गोगामुख्ययोः । उपमाव्यतिरेकाख्यं रूपकद्वितयं यथा ॥ ८८॥ अयमालोहितच्छायो मंदेन मुखचन्द्रमाः। सन्नहोदयरागस्य चन्द्रस्य प्रतिगर्जति ॥ ६ ॥
गिरिः तथा कल्पद्रुमः क्रियते आरोप्यते तत् तस्मात् हेतुनिबन्धनारोपणात् हेतुरूपकमिदम् ॥ ८५ ॥ ८६ ॥
निष्टरूपकं निरूपयति राजेति। हे सखि ! तव इटं वमेव अम्बुजं राजहंसः राजश्रेष्ठः हंसविशेषश्च तस्य उपभोगाई सम्भोंगयोग्यं भ्रमरः कामुकः षट्पदश्च तस्य प्रार्थ्य सहणीय सौरमं यस्य तादृशं, 'राजहंसस्तु कादग्ने कलईस नृपोत्तमे । भ्रमरः कामुके भृङ्ग इति च मेदिनी। इत्यत्र विष्टरूपकं साधारणधर्मस्य राजहंसोपभोगार्हत्वादिरूपस्य श्रेषमूलकत्वात् इति ॥ ८७॥
उपमारूपकं व्यतिरेकरूपकञ्च निरूपयति इष्टमिति । गुणयोगात् पारोप्यमाण: चन्द्रादिगौण: आरोपविषयः सुखादिश्च मुख्यः तयोः साधर्म्यदर्शनात् साधारणधर्मोंगात् उपमारूपकं वैधय॑योगात् व्यतिरेकरूंपकम् इष्ट कविभिः इति शेषः । यथेति उदाहरणार्थम् ॥.८८॥
उपमारूपकमुदाहरति अयमिति। मदेने मद्यपाननं पालोहिता भारता छाया यस्य तादृशः अयं मुखमेव चन्द्रमा: सत्रहः समुज्ज्वल: उदयरागः उदयकालौनलौहित्यं यस्य तथा
Page #94
--------------------------------------------------------------------------
________________
८८
.. काबादणे चन्द्रमाः पीयते देवैर्मवा वन्मुखचन्द्रमाः । .. असमग्रोऽप्यसौ शश्वदयमापूर्णमण्डलः ॥ १० ॥ मुखचन्द्रस्य चन्द्रवमित्यमन्योपतापिनः । न ते सुन्दरि ! संवादोत्येतदापरूपकम् ॥१॥ मुखेन्दुरपि ते चण्डि ! मां निर्दहति निर्दयम् ।
भूतस्य चन्द्रस्य प्रतिगर्जति, चन्द्रस्येति कर्मणि षष्ठी। तथाभूतं चन्द्रं स्पईते न तु अनुकरोतीत्यर्थः । अत्र चन्द्राभिवतया पारोपविषयस्य मुखस्य प्रौपम्यसूचकप्रतिगर्जनरूपसाधर्म्य सम्बन्धात् उपमारूपकमिदम् ॥ ८॥ .. व्यतिरेकरूपकमुदाहरति चन्द्रमा इति। देवैः असमयो ऽपि असौ चन्द्रमाः शश्वत् पोयते, मया तु आपूर्णमहल: सम्पूर्णप्रकाशः पयं तव मुखमेव चन्द्रमाः पोयते। पत्र मुख्यगौरयोर्मुखचन्द्रयोः सम्पूर्णत्वासम्पूर्णवरूपवैधर्म्ययोगात् व्यतिरेकरूपकमिदम् । अयश्च व्यतिरेकः उपमेयस्य उपमानात् समधिकमुत्कर्ष व्यन्नयति ॥८॥
पाक्षेपरूपकं निरूपयति मुखेति। हे सुन्दरि! पन्योपतापिनः कमलसन्तापकस्य अथवा विरहिजनपौड़कस्य चन्द्रस्य इति शेषः, चन्द्रवते तव मुखमेव चन्द्रः तस्य न संवादि नानु. कारकं न सदृशमित्यर्थः । चन्द्रः परोपतापकरः त्वमुखन्तु सर्वावादकमिति भावः। एतत् प्राक्षेपो निन्दा, चन्द्रस्य उपमानभूतस्य परपौड़कत्वेन निन्दाप्रकटनात् पाशुपाख्यं रूपकम् ॥ ८१॥ ... समाधानरूपकं निर्दियति मुखेन्दुरिति। हे चलि!
Page #95
--------------------------------------------------------------------------
________________
हितीयः परिच्छेदः। भाग्यदोषात् ममैवेति तत्समाधानरूपकम् ॥२॥ मुखपङ्कजरङ्गेऽस्मिन् भूलतानर्तकी तव । लोलानृत्यं करोतीति रम्यं रूपकरूपकम् ॥६॥ नैतन्मुखमिदं पद्मं न नेवे भ्रमराविमौ । एतानि केसराण्येव नैता दन्तार्चिषस्तव ॥६४॥ मुखादित्वं निवत्यै व पद्मादित्वेन रूपणात्। उद्भावितगुणोत्कर्षं तत्त्वापङ्गवरूपकम् ॥६५॥ कोपने ! ममैव भाग्यदोषात् ते मुखमेव इन्दुरपि मां निर्दयं निर्दहति तापयति। इति अत्र समाधानात् भाग्यदोषाअमेति खयं हेतुवादप्रदर्शनात् एतत् समाधानरूपकम् ॥ ८२ ॥ ___रूपकरूपकं लक्षयति मुखेति। अस्मिन् तव मुखमेव पङ्कजं तदेव रङ्गः नृत्यशाला तस्मिन् भूरेव लता सा एव नर्तकी लोलानृत्यं करोति एतत् रम्यम् अतिमनोहरं रूपकरूपकं रूपितस्यापि रूपणात्, तथाच प्रथमं मुखे पनजत्वारोपः तदनन्तरञ्च मुखपङ्कजे रङ्गत्वारोप: एवं ध्रुवि लतावारोपः तदनन्तरं लतायां नर्तकीत्वारोप इति। इदञ्च समावे एव बोध्यम्, असमासे तु एकस्मिन् बहूनामारोपे हेतुमति हेतुरूपकम् अहेतुके मालावयविरूपकमिति ॥ ३ ॥
तत्त्वापङ्गवरूपकं निरूपयति नेत्यादि। एतत् तव मुखं न पञ, न नेत्रेदमौ भ्रमरी, एतानि केसराणि किचल्काः, एता दन्तार्चिषः न। अत्र मुखादित्वं मुखत्वादिकं निवर्व प्रतिषिध्य एव पद्मादित्वेन पद्मवादित्वेन :रूपणात् मुखादिषु पनत्वादिभिरध्यासात् एतत् उद्भावितः व्यनित: गुणस्त्र उप
Page #96
--------------------------------------------------------------------------
________________
काव्यांदमें
न पर्यन्तो विकल्पानां रूपकोपमयोरतः । दिद्मावं दर्शितं धीरैरनुक्तमनुमीयताम् ॥ १६ ॥ रूपकचक्रम् । जातिक्रियागुणद्रव्यवाचिनैकव वर्त्तिना । सर्बवाक्योपचारश्चेत् तमाहुर्दीपकं यथा ॥ १७ ॥ मेयगतस्य उत्कर्षः वैचित्रयातिशयः यत्र तत् तत्त्वापह्नवरूपकं तत्त्वस्य याथार्थ्यास्य मुखत्वादिकस्य अपवमूलकत्वादित्यर्थः । दर्पणकारस्तु इदमपतिमेवाह । यथा प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्नुतिरिति । रूपकलक्षणञ्च निरपह्नुतिरेवाह । यथा, रूपकं रूपितारोपो विषये निरपह्नवे इति ॥ ८४ ॥ ८५ ॥
रूपकं संहरति नेति । रूपकस्य उपमायाश्च विकल्पानां विशेषाणां पय्र्यन्तः शेषः न अस्तीति शेषः, अत: दिना प्रदर्शनमात्रं दर्शितं मया इति शेषः, अनुक्तम् अकथितं धीरैः धीमद्भिः अनुमीयताम् अनुमानेन ज्ञायताम् ॥ ८६ ॥
रूपकाणां चक्रं संहतिः इदमिति शेषः ।
अथ दीपकमाह जातीति । एकत्र प्रबन्धस्य यस्मिन् कस्मिंश्चित् श्रंशे आदावन्ते मध्ये वा इत्यर्थः । वर्त्तिना स्थितेन जातिवाचकेन क्रियावाचकेन गुणवाचकेन वा द्रव्यवाचकेन एकेन पदेन यदि सर्वस्य वाक्यस्य प्रबन्धघटकस्य उपचारः उपकारः अन्वयोपपत्तिरित्यर्थः । यदि भवति तं दौपकम्
हः दीपस्य एकदेशस्थितस्य अपि देशान्तरीयपदार्थ प्रकाशनवत् 'अस्य सर्वोपकारकपदमूलकत्वात् इति भावः । दर्पणकारस्तु प्रस्तुतप्रस्तुतयोर्दोपकन्तु निगद्यते । श्रथ कारकमेकं स्वादनेकासु क्रियासु चेति लक्षणमाह ॥ ८७ ॥
Page #97
--------------------------------------------------------------------------
________________
द्वितीय: परिष्छेदः । १ पवनो दक्षिणः पर्ण जीर्ण हरति वीरुधाम् । स एवावनताङ्गीनां मानभङ्गाय कल्पते . चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः। .. चक्रवाकाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते ॥६॥ श्यामलाः प्रावृषेण्याभिर्दिशो जीमूतपतिभिः । भुवश्च सुकुमाराभिर्नवशाहलराजिभिः ॥१०॥
तत्र जातिगतदीपकमुदाहरति पवन इति। दक्षिणः पवनः वीरुधां लतानां जीणं पणं पत्रं हरति । स एव पवन: अवनताङ्गीनां मानभङ्गाय कल्पते प्रभवति तस्य अतीवोद्दीपकत्वात् इति भावः । अत्र पूर्वाईवाक्ये पवन इति जातिवाचक पदम् उत्तराईवाक्ये च स एवेति तच्छब्दपरामर्शात् पवन एव अवगम्यते अतः एकेम पवनेन पद्यस्थसर्वपादैरेव समन्वयात् जातिगतं दीपकमिदम् ॥१८॥
क्रियादीपकमाह चरन्तीति। दन्तिनः दिग्गजाः ते तव कुन्दभास: शुभ्राः गुणाश्च चतुरम्भोधिवेलोद्यानेषु तथा चक्रवाकाद्रिकुञ्जेषु चरन्ति, तव यशांसि विश्वव्यापकानौति भावः। अत्र एकेन चरन्तीति क्रियापदेन चकारबलयोगात् उभयाईयोः वाक्यान्वयोपपत्ते: क्रियादीपकमिदम् ॥ ८॥
गुणदीपकमाह श्यामला इति। दिशः प्रावषेण्याभिः वार्षिकोभिः जौमूतपङ्क्तिभिः मेघराजिभिः भुवश्च सुकुमाराभिः कोमलाभि: नवशाहलराजिभिः श्यामलाः। अत्र थामला इति गुणवाचकेन दिश इति पदस्य तथा चकारबलयोगात् भुव इति पदस्य समन्वयात् गुणदीपकमिदम् ॥१००
Page #98
--------------------------------------------------------------------------
________________
बाबादर्श विष्णुना विक्रमस्थेन दानवानां विभूतयः । कापि नीताः कुतोऽप्यासन्नानौता दैवतईयः १०१ इत्यादिदोपकान्यतान्येवं मध्यान्तयोरपि । वाक्ययोदर्शयिष्यामः कानिचित्तानि तद्यथा॥१०२॥ नत्यन्ति निचुलोत्सङ्गे गायन्ति च कलापिनः । बधन्ति च पयोदेषु दृशो हर्षाश्रुगर्भिणीः ॥१०३॥
द्रव्यदीपकमाह विष्णुनेति। विक्रमस्थेन त्रिविक्रमेण विष्णुना दानवाना बलिप्रभृतौनां विभूतयः क्वापि नौताः, तथा दैवतानाम् इन्द्रादीनाम् ऋद्धयः कुतोऽपि आनीता पासविति। अत्र विष्णुनेति एकव्यक्तिवाचितया द्रव्येण पूर्व वाक्ये अन्वितेऽपि पुनरुत्तरवाक्येन अन्वयात् द्रव्यरूपकमिदम्
इत्यमादिदोपकान्युका मध्यान्तयोरपि दोपकानि वक्तं प्रतिजानौते इतीति। इति उक्तप्रकारेण आदिदीपकानि पादिपदगतानि जात्यादिदीपकानि उक्तानि, एवं आदिदीपकवत् मध्यान्तयोरपि वाक्ययोः कानिचित् तानि दोपकानि दर्शयिष्यामः यथेति वक्ष्यमाणोदाहरणार्थम् ॥ १०२ ॥ ___ जातिगतमध्यदीपकमाह नृत्यन्तौति। कलापिनः मयूराः निचुलस्य स्थलवेतसस्य उत्सङ्गे अधोभागे नृत्यन्ति, गायन्ति केकाध्वनि कुर्वन्ति तथा पयोदेषु मेधेषु हर्षाश्रुगर्भिणीः पानन्दवाष्पवाहिनीः दृशः चक्षुषि बध्नन्ति । अत्र मध्यवाकागतेन कलापिन इति पदेन चकारबलात् वाक्यान्तरान्वयात् कलापिन इत्यस्य जातिवाचकवाच जातिगतमध्यदीपकमिदम् ॥ १०३ ॥
Page #99
--------------------------------------------------------------------------
________________
.८३
द्वितीयः परिच्छेदः । मन्दो गन्धबहः क्षारो वहिरिन्दुश्च नायते। चर्चाचन्दनपातश्च शस्त्रपातः प्रवासिनाम् ॥१०४॥ जलं जलधरोद्गौणं कुलं गृहशिखण्डिनाम् । चलञ्च तड़ितां दाम बलं कुसुमधन्वनः ॥१०॥ त्वया नौलोत्पलं कर्ण स्मरेणास्त्रं शरासने। मयापि मरणे चेतस्त्रयमेतत् समं कृतम् ॥१०६ ।
क्रियागतमध्यदीपकमाह मन्द इति। मन्दः मृदुः गन्धवहः वायुः क्षार: तीक्ष्णः असह्य इत्यर्थः, इन्दुश्च वह्निः अग्निः चर्चा शैत्यक्रिया, तद्रूपः चन्दनपातः चन्दनानुलेपनच शस्त्रपात: जायते, प्रवासिनां विरहिणामिति सर्वत्र योज्यम्। अब मध्यवाक्यगतेन जायते इति क्रियापदेन सर्ववाक्यान्वयात् क्रियागतमध्यदीपकमिदम् । गुणद्रव्यगते मध्यदीपके यथायथमूहनीये इति ॥ १०४ ॥ ___जातिगतमन्तदीपकमाह जलमिति। जलधरोहोणं जलं वृष्टिरित्यर्थः, गृहशिखण्डिनां गृहमयूराणां कुलं तथा चलं चञ्चलं तड़ितां दाम एतत् वयं कुसुमधन्वन: कामस्त्र बलं सैन्यम् उद्दीपकत्वात् एतेषाम् इति भावः। अत्र बलमिति जातिवाचकेन अन्तवाक्यस्थेन पदेन सर्ववाक्यसमन्वयात् जातिगतान्तदीपकमिदम् ॥ १०५ ॥
क्रियागतान्तदीपकमाह त्वयेति। त्वया कर्णे नौलोत्पलं परेण कामेन शरासने अस्त्र, मयापि मरणे चेतः चित्तम् एतत् वयं समं युगपत् कृतम्। मानिनी प्रति नायकस्य उक्तिरियम्। अन्तवाक्यस्थेन कृतमिति क्रियापदेन सर्ववाकासम
Page #100
--------------------------------------------------------------------------
________________
२४
काँबादर्श
शुकः खितार्चिषी हा पक्षः पञ्चशरस्य सः ।। स च रागस्य रागोऽपि यूनां रत्युत्सवश्रियः १०७ इत्यादिदीपकत्वेऽपि पूर्वपूर्वव्यक्षिणी। वाक्यमाला प्रयुक्तति तन्मालादीपकं मतम्॥१०८॥ अवलेपमनङ्गस्य बर्द्धयन्ति बलाहकाः । कर्शयन्ति तु धर्मस्य मारुतीतशीकराः ॥१६॥
वयात् क्रियागतान्तदीपर्कमिदम्। गुणद्रव्यगते अन्तदीपके तु खयमूहनौये ॥ १०६ ॥
अथ मालादीपकमाह शुक्ल इत्यादि। शुक्तः पक्षः खितार्चिषः खेतकिरणस्य चन्द्रस्य वृय भवति, सः पक्षः पञ्चशरस्य कामस्य वृत्रि, स च कामः रागस्य अनुरागस्य वृदय रागोऽपि यूनां तरुणानां रत्युत्सवे श्रियः वैद्य । इति पत्र प्रादिदीपकत्वेऽपि आदिवाक्यस्थेन शुक्लः पञ्चः इति जातिगुणवचिकेन सर्ववाक्यान्वयेऽपीत्यर्थः पूर्वपूर्वव्यपेक्षिणी पूर्वपूर्ववाक्यमपेक्षमाणा वाक्यमाला वाक्यसमूहः प्रयुक्ता इति वैचित्रवातिशयात् प्रति भावः मालादीपकं मतम् । तथाच उन्नदीपकस्य पूर्वपूर्वसापेक्षोत्तरोत्तरवाक्यगतत्वं मालादीपकमिति तात्पर्यम् ॥ १०७ ॥१०८॥
विरुद्धार्थदीपकं निरूपयति अवलेपमिति। बलाहका मेघाः अनङ्गस्य कामस्य प्रवलेपं वईयन्ति, धर्मस्य प्रौयस्य तु अवलयं कर्शयन्ति गौमं कशौकुर्वन्तीत्यर्थः। मारतोद्दतशीकरी रति बलाहका इति पदस्य विशेषणम्। अत्र अवलेपपदैन बलाहकपदेन च वईनकर्शनरूपक्रिययोः कर्मभूतेन कर्तुमूर्तन
Page #101
--------------------------------------------------------------------------
________________
हितीय परिच्छेदः। अवलेपपदेनाव बलाहकामदेना चः। क्रिये विरुङ्गे संयुक्त तद्विरुद्धार्थदीपकम् ॥११॥ हरत्याभोगमाशानां गृह्णाति ज्योतिषां गणम् । आदत्ते चाद्य मे प्राणानसौ जलधराबली ॥१११॥ अनेकशब्दोपादानात् क्रियैकैवान दीप्यते । यतो जलधराबल्या तस्मादेकार्थदीपकम् ॥११२॥ हृद्यगन्धवहा स्तुङ्गा स्तमालश्यामलत्विषः । दिवि भ्रमन्ति जोमूता भुवि चैते मतङ्गजाः ११३ चः विरुहे वईनकर्शनरूपे क्रिये संयुक्त अन्विते, तत् तस्मात् विरुद्धार्थदीपकमिदम्। एतच्च आदिवाक्येन अवलेपमिति पदेन बलाहका इति पदेन च सर्ववाक्यात्वयात् बलाहकस्य जातिवाचकत्वात् अवलेपस्य च - गुणवाचित्वात् आदिगतः जातिदीपकगुणदीपकयोः सङ्कर इति ध्येयम् ॥ १०८ ॥ ११० ॥ ____ एकार्थदीपकमुदाहरति हरतीत्यादि। असौ जलधरावली पाशानां दिशाम् आभोगं विस्तारं हरति, ज्योतिषां गणं ग्रहाति, अद्य - मे मम प्राणांश्च आदत्ते। अत्र अनेकेषां. शब्दानां हरति गृहाति आदत्ते इति क्रियावाचकानाम् उपादानात् ग्रहणात् अपिरत ऊहनीयः । यतः जलधरावत्याः एका एव-क्रिया एकार्थकत्वात् त्रयाणामेव क्रियावाचकपदाना. मिति भावः दोश्यते, तस्मात् एकार्थदीपकमिदम् ॥१११॥११२॥
निष्टार्थदीपकमुदाहरति हृद्येति। हृद्यः शीतलत्वात् . मनोरमः गन्धवहो, येषु ते, इति जीमूतविशेषणम् । इद्यं गन्धं मदजनितं वहन्तीति तथोक्ता. इति मतङ्गजविशेषणम्,।
Page #102
--------------------------------------------------------------------------
________________
काव्यादर्श
अव धर्मेरभिन्नानामधाणां दन्तिनां तथा । भ्रमणेनैव सम्बन्ध इति निष्टार्थदीपकम् ॥११४॥ अनेनैव प्रकारेण शेषाणामपि दीपके। विकल्पानामवगतिर्विधातव्या विचक्षणैः ॥११५॥
इति दीपकचक्रम् । अर्थात्ति: पदावृत्तिभयावृत्तिरेव च । दीपकस्थान एवेष्टमलद्धारवयं यथा ॥११६॥ वगन्धवहाः तमालवत् श्यामला: विषः कान्तयः येषां मादृशाः नौमूताः दिवि आकाशे, एते मतङ्गजाश्च भुवि भ्रमन्ति। अत्र धर्मः साधारणैः हृद्यगन्धवहत्वादिभिः अभिबानाम् अभ्राणां तथा दन्तिनाम् एकया भ्रमणक्रियया एव वाक्यहये सम्बन्ध इति लिष्टार्थदीपकं हृद्यगन्धवहत्वरूपनिष्टार्थस्य प्रकटनात् इति भावः ॥ ११३ ॥ ११४ ॥
दीपकं संहरति अनेनेति । अनेन एव प्रकारेण वैचित्राविशेषवरीन दौपके शेषाणाम् उक्तावशिष्टानां विकल्पानां भेदानाम् अवगतिः जानं विचक्षणैः सुधीरैः विधातव्या ॥११॥
इति उक्तविधं दोपकानां चक्र समूहः। अथ प्राकृत्तिं निरूपयति अर्थाहत्तिरिति । दीपकस्थाने दीपकस्य सम्भवे अर्थावृत्तिः पदावत्तिः उभयावृत्तिश्च इदम् अलकारत्रयम् इष्टं कविभिरिति शेषः । अर्थस्य एकस्य वाक्यार्थस्य पात्तिः वाक्यान्तरे पुनरुपस्थितिः, पदावृत्तिः वाक्यातरीयपदस्य वाक्यान्तरे पुनरुपस्थितिः, उभयात्तिः वाक्यार्थस्य पदस्य च वाक्यान्तरे पुनरुपस्थितिः। दीपके तु वाक्या
Page #103
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः ।
विकसन्ति कदम्बानि स्फुटति कुटजद्रुमाः । उन्मीलन्तिच कन्दल्यो दलन्ति ककुभानिच ११७ उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम् । यूनाञ्च्चोत्कण्ठयत्येषः मानसं मकरध्वजः ॥ ११८ ॥ जित्वा विश्व भवानव विहरत्यवरोधनैः । न्तरे तत्पदस्यानुपादानेऽपि वाक्यान्तरीयपदस्य अनुषङ्गादिना अन्वयनिर्वाह इह तु तदर्थकपदान्तरस्य तत्पदस्यैव वा पुनरुपादानमित्यनयोर्भेदः । भोजराजेन तु श्रवृत्तित्रयं दीपकस्यैव भेद इत्युक्तम् । यथां दोपकनिरूपणे, अर्थावत्तिः पदावृत्तिरुभयावृत्तिरावली । सम्पुटं रसना माला चक्रवालच सदा ॥ इति ॥ ११६ ॥
अर्थावृत्तिमुदाहरति विकसन्तौति । कदम्बानि विकसन्ति कुटजद्रुमाः स्फुटन्ति, कन्दल्यः उन्मीलम्ति ककुभानि दलन्ति । वर्षावर्णनमिदम् । अव विकसन्तीत्यादिपदं भिन्नप्रकृतिकमपि एकार्थत्वेनेति श्रर्थस्य पुनरावर्त्तनात् अर्थाष्टत्तिस्थिम्
॥ ११७ ॥
पदावृत्तिमाह उत्कण्ठयतीति । मेघानां माला कलापिनां वृन्दम् उत्कण्ठयति, एषः मकरध्वजः यूनां मानसम् उत्कण्ठयति च मेघानाम् उद्दीपकत्वात् इति भावः । अत्र प्रथमम् उत्कण्ठयति इति पदस्य श्रानन्दोदयात् दिदृचया उदग्रोव - करणरूपोऽर्थः, अपरम् उत्कण्ठ्यतीति पदस्य श्रीसुकावशीकरणरूपोऽर्थः तस्मात् उत्कण्ठयतीति पदमावस्य पुनरावृत्तिः न तु अर्थस्येति पदावृत्तिः ॥ ११८ ॥
उभयावृत्तिमाह नित्वेति । अत्र भुवि भवान् विश्व' जित्वा
·
Page #104
--------------------------------------------------------------------------
________________
काव्यादर्थे
विहरत्यप्सरोभिस्ते रिपुवर्गों दिवं गतः ॥ ११६ ॥ इत्यावृत्तिगणः ।
έτ
प्रतिषेधोक्तिराक्षेप स्वैकाल्यापेक्षया विधा । अथास्य पुनराक्षेप्यभेदानन्त्यादनन्तता ॥ १२०॥ अनङ्गः पञ्चभिः पुष्पैर्विश्व' व्यजयतेषुभिः । इत्यसम्भाव्यमथवा विचिता वस्तुशक्तयः ॥ १२१ ॥
अवरोधनैः अन्तःपुरिकाभिः विहरति, ते तव रिपुवर्गः दिवं गतः सन् अप्सरोभिर्विहरति युद्धमरणे स्वर्गलाभादप्सरः प्राप्तिरिति भावः । अत्र विहरतौति पदस्य तदर्थस्य च उत्तरवाको पुनरावृत्तेः उभयावृत्तिरिति बोध्यम् ॥ ११८ ॥
इति उक्तप्रकारः आवृत्त्यलङ्कारस्य गणः प्रभेद इत्यर्थः । आक्षेपं निरूपयति प्रतिषेधेति । प्रतिषेधस्य उक्तिः कथनं नं तु तत्त्वतः प्रतिषेधः, तात्त्विकत्व वैचित्राभावात् अलङ्कारः त्वाभावप्रसङ्गात् इति भावः । आक्षेपः प्रतिषेधाभास इत्यर्थः 1 उक्तञ्च आग्नेयपुराणे, प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया । तमाक्षेपं ब्रुवन्तौति । स च त्रैकाल्यापेक्षया त्रैकालिक वस्तुगतत्वेन विधा वर्त्तमानाक्षेपः अतीताक्षेपः भविष्यदाक्षेप इति अस्य च त्रिधिस्थापि आक्षेपस्य पुनः आक्षेप्यस्य आक्षेपविषयस्य भेदात् अनन्ततो अनन्तप्रभेद इत्यर्थः ॥ १२० ॥
वृत्ताक्षेपं निर्दिशति अनङ्ग इत्यादि । अनङ्गः कामः इषुभिर्वाणभूतैः पञ्चभिः पुष्पैः अरविन्दादिभिः । उक्तञ्च, अरविन्दमशोकञ्च चूतञ्च नवमल्लिका । नीलोत्पलञ्च पञ्चैते पचबाणस्य सायंकाः ॥ इति । विश्वं व्यजयत विजितवान् इति
Page #105
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः ।
इत्यनङ्गजयायोगबुद्धिर्हेतुबलादिह । प्रवृत्तैव यदाक्षिप्ता वृत्ताक्षेपः स ईदृशः ॥ १२२ ॥ कुतः कुवलयं कर्णे करोषि कलभाषिणि । । किमपाङ्गमपर्य्याप्तमस्मिन् कर्मणि मन्यसे ? १२३ स वर्त्तमानाक्षेपोऽयं कुर्वत्येवासितोत्पलम् । कर्णे काचित् प्रियेणैवं चाटुकारेण रुध्यते ॥ १२४॥ असम्भाव्यम् अविश्वास्यमित्यर्थः तथाच विजेतुस्तावदनङ्गत्व वाणानाञ्च पञ्चसंख्यता तेषाञ्च पुष्पमयत्वं न तु दृढ़त्व जेतव्यञ्च प्रकाण्डपदार्थो विश्वमिति विजयोऽश्रय एवेति भावः । अथवा वस्तूनां पदार्थानां शक्तयः विचित्रा: अचिन्त्यस्वरूपाः, बस्तुशक्त्या सर्वमेव सम्भाव्यते इति तत्त्वम् । इत्यत्र प्रवृत्ता जाता अनङ्गस्य विश्वजयासम्भाव्यत्वबुद्धिः हेतुबलात् वस्तुशक्तेः यत् आक्षिप्ता प्रतिषिा, अतः ईदृशः एष इत्यर्थः सः प्रसिद्धः वृत्ताक्षेपः वृत्तस्य अतीतस्य सञ्जातस्य इत्यर्थः असम्भवबुद्धिरूपस्य आक्षेप इति ॥ १२१ ॥ १२२ ॥
1
वर्त्तमानाक्षेपमुदाहरति कुत इत्यादि । हे कलभाषिणि । कर्णे कुवलयं नौलोत्पलं करोषि धारयसि कुतः कस्मात्, अस्मिन् कर्मणि कर्णशोभाकर्मणि अपाङ्ग किम् अपर्याप्तम् अक्षमं मन्यसे ? अपाङ्गनैव कर्णशोभासम्पादनात् कुवलयधारणं व्यर्थमिति भावः । सः अयं वर्त्तमानाक्षेपः, यतः असितोत्पलं नीलोत्पलं कर्णे कुर्वतौ एव न तु कृतवती वा करिष्यन्ती काचित् नायिका चाटुकारेण प्रियेण एवं रुध्यते प्रतिषिध्यते । अतोऽत्न वत्र्त्तमानस्य असितोत्पलधारणस्य आक्षेपात् वर्त्तमानाक्षेप इति भावः ॥ १२३ ॥ १२४ ॥
ہے
Page #106
--------------------------------------------------------------------------
________________
१००
काव्यादर्श सत्यं ब्रवीमि न त्वं मां द्रष्टुं वल्लभ ! लप्स्यसे । अन्यचुम्बनसंक्रान्तलाक्षारतोन चक्षुषा ॥ १२५ ॥ सोऽयं भविष्यदाक्षेपः प्रागवातिमनखिनी। . कदाचिदपराधोऽस्य भावीत्येवमरुन्ध यत् ॥१२६॥ तव तन्वनि ! मिथ्यैव रूढ़मङ्गेषु मार्दवम् । यदि सत्यं मृदून्येव किमकाण्डे रुजन्ति माम्१२७ धर्माक्षेपोऽयमाक्षिप्तमङ्गनागावमार्दवम् । कामुकेन यदत्वैवं कर्मणा तद्विरोधिना ॥ १२८॥
भविष्यदाक्षेपमाह सत्यमित्यादि। हे वल्लभ ! सत्यं ब्रवीमि, त्वम् अन्धस्था नायिकायाः जुम्बनेन संक्रान्तया लाक्षया रक्तेन चक्षुधा मां द्रष्टुं न लसासे महर्शनं न प्राप्मासीत्यर्थः । अत्र अतिमनखिनौ प्रतिमानवती काचित् नायिका कदाचित् अस्य नायकस्य अपराधो भावी भविष्यतीति आशक्य यत् एवं मायकम् अरुन्ध नाविकान्तरप्रसक्तौ निषिद्धवती अतः अयं स प्रसिद्धः भविष्यतः मायिकान्तरानुरागस्य आक्षेपात् प्रतिषेधात् भविष्यदाक्षेप इति निष्वार्षः ॥ १२५ ॥ १२६ ॥
पाक्षेपस्य भेदामामानन्धेऽपि कतिचित् मेदान् दर्शयिथन् प्रथमं धर्माक्षेषमाह तक्त्यादि। हे तन्वङ्गि ! तव अङ्गेषु मार्दवं रूढ़ स्थितं मिय क, यदि सत्यं तव अङ्गानि मृदूनि एव, तदा प्रकाडे अकारणं मां किं रजन्ति लापयन्ति । पत्र कामुकेन एवम् उक्लिनैपुण्येन इत्यर्थः तहिरोधिना मार्दवविरोधिमा कर्मणा ताफ्नरूपेण प्रशनाया गावस्ख मार्दवम्
Page #107
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः ।
सुन्दरी सा न वेत्यष विवेकः केन जायते । प्रभामात्रं हि तरलं दृश्यते न तदाश्रयः ॥ १२६ ॥ धर्म्याचे पोऽयमाक्षिप्तो धर्मों धर्मं प्रभाह्वयम् । अनुज्ञायैव यद्रूपमत्याश्चर्यं विवचता ॥ १३० ॥ चक्षुषौ तव रज्येते स्फुरत्यधरपल्लवः ।
वौ च भुग्नौ न तथाप्यदृष्टस्यास्ति मे भयम् १३१ स एष कारणाक्षेपः प्रधानं कारणं भियः । खापराधो निषिsisव यत् प्रियेण पटीयसा १३२
१०१.
आक्षिप्तं प्रतिषिद्धं तस्मात् अयं धर्मस्य मार्दवरूपस्य आक्षेपात् धर्माक्षेपः ॥ १२७ ॥ १२८॥
धर्म्याचेपमुदाहरति सुन्दरीत्यादि । अत्र सा सुन्दरी नायिका वर्त्तते इति शेषः न वा इत्येषः विवेकः निश्चयज्ञानं केन कथं जायते न कथमपीत्यर्थः, हि यतः तरलं चञ्चलम् इतस्ततः विसृमरमित्यर्थः प्रभामात्रं दृश्यते, तस्य प्रभामात्रस्य आश्रयः आधारभूता नायिका न । अत्र अत्याश्वर्यं रूपं विवक्षता नायकेन प्रभाह्वयं प्रभारूपं धर्मम् अनुज्ञाय एव संस्थाप्यैव धर्मी तदाश्रयभूता नायिका आक्षिप्तः प्रतिषिद्ध इति अयं धर्म्याक्षेपः ॥ १२८ ॥ १३० ॥
कारणाक्षेपमुदाहरति चक्षुषी इत्यादि । तव चक्षुषी रज्यते आरक्ते भवतः, अधरः पल्लव इव स्फुरति, भ्भ्रुवौ च भुग्नt वक्रकृतौ, तथापि भयकारणे सत्यपीत्यर्थः दुष्टस्य निरपराधस्य मे भयं नास्ति । अत्र पटीयसा सुनिपुणेन थियेल भियः प्रधानं कारणं वापराधः निजकृतदोषः यत् यस्मात्
Page #108
--------------------------------------------------------------------------
________________
१.२
कायादों .
टूरे प्रियतमः सोऽयमागतो जलदागमः । दृष्टाश्च फुल्ला निचुलानमृता चास्मि किं न्विदम्१३३ कार्याक्षेपः स कार्य्यस्य.मरगास्य निवर्त्तनात् । तत्कारणमुपन्यस्य दारुणं जलदागमम् ॥१३४॥ न चिरं मम तापाय तव याना भविष्यति । यदि यास्यसि यातव्यमलमाशङ्कयाऽत्र ते ॥१३॥
निषिद्धः अतः एषः स प्रसिद्धः कारणाक्षेपः । अत्र न भयम अस्तौति कथनेन भयरूपकार्यस्य प्रतिषेधात् अयं कार्याक्षेपखेत्यनयोः सङ्करः। विभावना च स्फुटतया लक्ष्यते, विभावना विना हेतु कार्योत्पत्तियंदुच्यते इति तल्लक्षणात् अतस्त्रयाणामेव सङ्कर इति ज्ञेयम् ॥ १३१ ॥ १३२ ॥ ___ कार्याक्षेपं दर्शयति दूरे इत्यादि। प्रियतमः दूरे तिष्ठति इति शेषः, सः अयं जलदागमः वर्षासमयः आगतः, यतः फुल्ला निचुला: स्थलवेतसाः दृष्टाश्च, तथापि न मृता च अस्मि, नु वितर्क, किमिदम् अत्यसम्भाव्यमिदम् इति भावः, विरहियुक्तिरियम्। पत्र तस्य कारणं दारुणं जलदागमम् उपन्यस्थ कार्यस्य मरणस्य निवर्तनात् प्रतिषेधात् सः प्रसिद्धः कार्याक्षेपोऽयम् । अत्र सति कारणे फलस्य मरणस्य अभावकीर्तनात् विशेषोतिरपि। तदुक्तं दपणकारेण, सति हेती फलाभावो विशेषोक्तिस्तथा हिधा इति तदनयोः सङ्कर इति बोध्यम् ॥ १३३ ॥ १३४ ॥
पनुन्नाक्षेपमुदाहरति नेत्यादि। तव यात्रां प्रवासगमनं मम चिरं सापाय न भविष्यति, विरहेण मम झटिति प्राणा
Page #109
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः ।
इत्यनुज्ञामुखेनैव कान्तस्याचिप्यते गतिः । मरणं सूचयन्त्यैव सोऽनुज्ञाक्षेप उच्यते ॥ १३६ ॥ धनञ्च बहु लभ्यं ते सुखं चेमञ्च वर्त्मनि ।
न च मे प्राणसन्देहस्तथापि प्रिय । मामगाः १३७
•
१०३
इत्याचक्षाणया हेतून् प्रिययात्रानुबन्धिनः । प्रभुत्वेनैव रुइस्तत् प्रभुत्वाक्षेप उच्यते ॥ १३८॥ जीविताशा बलवती धनाशा दुर्बमा मम । गच्छ वा तिष्ठ वा कान्त ! स्वावस्था तु निवेदिता १३६ त्ययस्य अवश्यम्भावादिति भावः । यदि त्वं यास्यसि तदा यातव्यं याहीत्यर्थः, ते तव अत्र मद्दिषये आशङ्कया अलम् । va विरहवेदनया मरणं सूचयन्त्या कयाचित् अनुज्ञामुखेन विदेशगमनानुमत्या एव कान्तस्य गतिः विदेशगमनम् अक्षिम्यते निषिध्यते, अतः सः अनुज्ञाक्षेप इत्युच्यते ॥ १३५ ॥ १३६ ॥
प्रभुत्वाक्षेपमुदाहरति धनञ्चेत्यादि । हे प्रिय ! ते विदेशगमने इति अध्याहार्य्यं बहु धनं सुखञ्च तथा वर्त्मनि पथि क्षेमं कुशलञ्च लभ्यम्, अत्र च मे प्राणसन्देहः न तव शीघ्र - प्रत्यागमनस्य बहुधनलाभस्य च सम्भवादिति भावः, तथापि मास्म गा मा मच्छ । अत्र प्रिययात्रायाः प्रियस्य विदेशगमनस्य अनुबन्धिनः पोषकान् हेतून् आचक्षाणया कौर्त्तयन्त्या कयाचित् स्वाधीनपतिकया इति शेषः प्रभुत्वेन स्वाधीनतया एव पतिः रुद्धः विदेशगमनात् निवर्त्तितः तस्मात् एषः प्रभुत्वाक्षेप उच्यते ॥ १३७ ॥ १३८ ॥
अनादराक्षेपमुदाहरति जीवितेत्यादि । हे कान्त ! मम
Page #110
--------------------------------------------------------------------------
________________
काव्यादर्श
असावनादराचेपो यदनादरवद् वचः । प्रियप्रयाणं रुन्धत्या प्रयुक्तमिह रक्तया ॥ १४० ॥ गच्छ गच्छसि चेत् कान्त ! पन्थानः सन्तु ते शिवाः । ममापि जन्म तवैव भूयाद् यव गतो भवान्॥ १४१ इत्याशीर्वचनाक्षेपो यदाशीर्वादवर्त्मना । स्वावस्थां सूचयन्त्यैत्र कान्तयावा निषिध्यते ॥ १४२॥
१.४
जीवितामा जीवनेच्छा बलवती दोर्घकालं जीवितुमिच्छामि इत्यर्थः धनाशा मम दुर्बला तव विदेशगमने धनलाभो भवयति इत्येषा आकाङ्क्षा मम नास्तीत्यर्थः अतः गच्छ वा तिष्ठ, स्वस्य अवस्था अभिप्राय इत्यर्थः निवेदिता कथिता । इह रक्तया अनुरागिण्या प्रियप्रयाणं पत्युर्विदेशगमनं रुन्धत्या वारयन्त्या कयाचित् यत् यस्मात् अनादरवत् अनास्थाव्यञ्जकं वचः प्रयुक्तम् अतः असौ अनादराक्षेप इति ॥ १३८ ॥ १४० ॥ आशीर्वचनाक्षेपमुदाहरति गच्छेत्यादि । हे कान्त ! गच्छसि चेत् गच्छ, ते तव पन्थानः शिवाः निर्विघ्नाः सन्तु, किन्तु, यत्र भवान् गतः तत्रैव ममापि जन्म भूयात्, अयं भावः तव गमनानन्तरमेव मम मरणं भविष्यति, मृतायाश्च 'अवश्यं जन्म भविता, तत् तु तव सन्निधौ भवति चेत् पुनस्त्वद्दर्शनं लप्सा इति । अत्र आशीर्वादवर्त्मना आशीर्वचनरीत्या स्वावस्थां सूचयन्त्या कान्तया यत् यस्मात् कान्तस्य यात्रा विदेशगमनं निषिध्यते अतः अयम् श्राशीर्वचनाचेपः
॥ १४१ ॥ १४२ ॥
Page #111
--------------------------------------------------------------------------
________________
हितीयः परिच्छदः ।
१०५
यदि सत्य बयावा ते काप्यन्या मृग्यतां त्वया। अहमद्यैव मडास्मि रधापक्षण मृत्यु ना ॥१४३॥ इत्येष परुषाक्षेपः परुषाक्षरपूर्वकम् । कान्तस्याक्षिप्यते यस्मात् प्रस्थानं प्रेमनिधया॥१४४ गन्ता चेत् गच्छ तूर्णं ते कर्णी यान्ति पुरा रवाः आतंबन्धमुखोद्गी: प्रयाणपरिपन्थिनः ॥१४॥ साचिव्याक्षेप एवैष यदव प्रतिषिध्यते । प्रियप्रयाणं साचिव्यं कुर्वत्येवानुरतया ॥ १४६ ॥
परुषाक्षेपमुदाहरति यद त्यादि। यदि ते तव यात्रा विदेशगमनं सत्यैव, तदा त्वया अन्या कापि प्रियतमा मृग्यताम् अन्विष्यताम्। अहं रन्धापेक्षेण छिद्रानुसन्धायिना मृत्युना अद्यैव न तु कालान्तरे, रुहा. आक्रान्ता अस्मि, अद्यैव मम मृत्युभविष्यति इति भावः। इत्यत्र प्रेमनिघ्नया अनुरागवशवर्तिन्या कयाचित् परुषाक्षरपूर्वकं निष्ठुरवचनमुक्त्वा इत्यक यस्मात् कान्तस्य प्रस्थानं विदेशगमनम् आक्षिप्यते निषिध्यते अतः एष परुषाक्षेपः ॥ १४३ ॥ १.४४ ॥
साचिव्याचेपमुदाहरति मन्तेत्यादि। है कान्त ! गन्ता गामी चेत् गमिष्यसि यदीत्यर्थः भविष्यदर्थे उन्। तूर्ण मच्छ पार्तानां शोकाकुलानां मन्मरणेनेति भावः, बन्धूनां मुखोद गोर्णा मुखोच्चरिताः प्रयाणपरिपन्थिनः विदेशयात्राप्रतिरोधिनः रवाः ममृत्युसूचका वर्णाः ते कौँ पुरा यान्ति श्रवणगोचरीभविष्यन्ति इत्यर्थः । पुरायोगे भविष्यदर्थे लट् । अत्र अनुरन्या कयाचित् साचिव्यं सहायतां तूर्णं गच्छोल्यनेनेति भाव:
Page #112
--------------------------------------------------------------------------
________________
१०६
काव्यादर्श गच्छति वक्तुमिच्छामि त्वप्रियं मयियैषिणी । निर्गच्छति मुखादाणी मागा इति करोमि किम्१४७
यत्नाक्षेपः स, यत्नस्य कृतस्यानिष्टवस्तुनि । विपरीतफलोत्पत्तेरानर्थक्योपदर्शनात् ॥१४८॥ क्षणं दर्शनविघ्नाय पक्ष्मस्पन्दाय कुप्यतः । प्रेम्णः प्रयाणं त्वं ब्रूहि मया तस्येष्टमिष्यते ॥१४॥ सोऽयं परवशाक्षेपो यत्प्रेमपरतन्त्रया। तया निषिध्यते यात्रत्यन्यार्थस्योपदर्शनात्॥१५०॥ कुर्वत्या यत् यस्मात् प्रियप्रयाणं प्रियस्य विदेशयात्रा प्रतिषिध्यते अत एव साचिव्याक्षेपः ॥ १४५ ॥ १४६ ॥
यत्नाक्षेपं निरूपयति गच्छेत्यादि। त्वप्रियं तव अनुकूलं गच्छ इति वचः वक्तुम् इच्छामि, किन्तु मुखात् मा गा इति मप्रियैषिणी वाणी निर्गच्छति किं करोमि तव रहे अवस्थानस्यैव मत्प्रियत्वात् इति भावः। अत्र अनिष्टवस्तुनि गच्छति गमनविधाने कृतस्यापि यत्नस्य विपरीतस्य फलस्य मा गा इति वाणौनिःसरणरूपस्य उत्पत्तेः नातत्वात् भानर्थ क्योपदर्शनात् अनर्थसम्भवद्योतनात् विदेशगमनमाक्षिप्यते इति अयं यत्नाक्षेपः ॥ १४७ ॥ १४८ ॥ ___ परवशाक्षेपमुदाहरति क्षणमित्यादि। हे कान्त ! त्वं क्षणं व्याप्य दर्शनविघ्नाय दर्शनप्रतिबन्धकाय पक्ष्मस्पन्दाय कुप्यतः पक्ष्माणां नेत्रलोम्नां स्पन्दनमपि असहमानात् प्रेम्ण: अनुरागापरनाम्न: प्रणयात् प्रयाणं यात्रानुमतिं ब्रूहि प्रार्थय, मया तस्य प्रेम्णः एव 'इष्टम् इष्यते। प्रेमाधौनाया मम अनुज्ञया
Page #113
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः ।
सहिष्ये विरहं नाथ ! देह्यदृश्याञ्जनं यथा । यदतवां कन्दर्पः प्रहतु मां न पश्यति १५१ ॥ दुष्करं जीवनोपायमुपन्यस्योपरुध्यते । पत्य : प्रस्थानमित्याहुरुपायाक्षेपमीदृशम् ॥ २५२॥ प्रवृत्तैव प्रयामीति वाणी वल्लभ ! ते मुखात् । अयतापि त्वयेदानों मन्दप्रेम्णा समास्ति किम् १५३ रोषाक्षेपोऽयमुद्रिक्त स्नेहनियन्त्रितात्मना । संरख्वया प्रियारब्ध प्रयाणं यन्निषिध्यते ॥ १५४॥
१०७
अलं प्रेम्णः अभिमतञ्चेत् तव गमनं तदा गच्छेति भावः । प्रयाणानुमतिं कामयमानं पतिं प्रति कस्याश्विदुक्तिरियम् । यत्र प्रेमपरतन्त्रया नायिकया अन्यार्थस्य प्रेमानुमतिग्रहणरूपस्य उपदर्शनात् उपदेशात् यात्रा कान्तस्य विदेशगमनं निषिध्यते इति श्रयं सः प्रसिद्धः परवशाक्षेपः ॥ १४८ ॥ १५० ॥
उपायाक्षेपमाह सहिष्ये इत्यादि । हे नाथ ! तव विरहं सहिष्ये, मम अदृश्याञ्जनम् अदर्शनजनकं कज्जलविशेषं देहि, किं तत इत्याह यदिति । कन्दर्पः येन कज्जलेन अक्ते लिप्ते नेत्रे यस्याः तादृशीं मां प्रहर्तुं न पश्यति, तव विरहे कन्दर्पो मां व्यथयिष्यति, यदि तस्याशङ्का न स्यात् तदा तव प्रयाणे न हानिरिति भावः । अत्र दुष्करं जीवनोपायं कामादर्शनजनक सिद्धाज्ञ्जनविशेषदानरूपं जीवनोपायम् उपन्यस्य तदमम्भवात् पत्युः प्रस्थानं विदेशयात्रा उपरुध्यते प्रतिषिध्यले इति ईदृशम् उपायाचेपम् आहुः कवय इति शेषः ॥ १५१ ॥ १५२ ॥
रोषाचेपमुदाहरति प्रवृत्तैवेत्यादि । हे वल्लभ ! ते तब
Page #114
--------------------------------------------------------------------------
________________
काव्यादर्णे
मुग्धा कान्तस्य याबोक्तिश्रवणादेव मूर्छिता । बुध्वा वक्ति प्रियं दृष्ट्वा किं चिरेणागतो भवान्१५५ इति तत्कालसम्भूतमूच्छयाक्षिप्यते गतिः । कान्तस्य कातराच्या यन्मू.क्षेपः स ईदृशः॥१५६
मुखात् प्रयामि गच्छामि इति वाणी प्रवत्ता उच्चरिता एव दृशे प्रेणि तव प्रयाणं दुरापास्तं, तदर्थकाणौनिःसरणमपि असम्भवमिति भावः, अतः अनुरागस्तादृशोऽपि त्वया शिथिलीकत इत्याशयेनाह अयतेति। इदानीं मन्दप्रेम्णा शिथिलितानुरागंण अयता गच्छतापि त्वया मम, किम् अस्ति न किमपि प्रयोजनमस्तीत्यर्थः । अयतेति इगतादित्यस्मात् भौवादि. कात् निष्पन्नम्। अत्र उद्रितेन अतिरिक्तेन रोहन प्रेम्णा नियन्त्रितः आक्रान्सः प्रात्मा यस्यास्तादृश्या संरब्धया कुपितया कयाचित् प्रियेण आरब्धम् उद्युक्तं प्रयाणं प्रियकृतविदेशगमनोद्योग इत्यर्थः यत् यस्मात् निषिध्यते अतः अयं रोषाक्षेपः ॥ १५३ ॥ १५४ ॥
मूर्छाक्षेपं निरूपयति मुग्धेत्यादि। काचित् मुन्धा कान्तस्य यात्राया विदेशगमनस्य उक्तिश्रवणात् एव न तु विदेशगमनात् मूर्च्छिता मोहं प्राप्ता, अथ बुवा संज्ञां लब्ध्वा बुद्धेति पाठ सञ्जातचैतन्या प्रियं दृष्ट्वा वक्ति भवान् किं कथं चिरेण भागतः, एतादृशं विलम्ब कत्वा कथमागतोऽसौत्यर्थः । इत्यत्र तत्काले गमनश्रवणकाले सम्भूता मूर्छा यस्या: तया कातराक्ष्या मुग्धया कान्तस्य मतिः यत् आक्षिप्यते निषिध्यवे सं ईदृशः मूर्छाक्षेपः ॥ १५५ ॥ १५६ ॥
Page #115
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः।
१०६
नाघ्रातं न कृतं कर्णे स्त्रीभिर्मधुनि नार्पितम् ।। त्वदृद्दिषां दौर्षिकाखेव विशौर्णं नीलमुत्पलम्१५७ असावनुक्रोशाक्षेपः सानुक्रोशमिवोत्पले । व्यावर्त्य कर्म तद्योग्यं शोच्यावस्थोपदर्शनात्॥१५॥ अमृतात्मनि पद्माना इष्टरि स्निग्धतारके । मुखेन्दौ तव सत्यस्मिनपरेण किमिन्दुना ॥१५६॥ इति मुख्येन्दुराक्षिप्तो गुणान् गौणेन्दुवर्तिनः। तत्समान् दर्शयित्वेह श्लिष्टाक्षेपस्तथाविधः ॥१६॥
अनुक्रोशाक्षेपं निरूपयति नेत्यादि। तव हिषां शत्रूणां स्त्रीभिः नौलम् उत्पलं न आघ्रातं न कर्णे कृतं मधुनि च न अर्पितं सुतरां दीर्घिकासु एव विशीर्ण विशुष्कम्। अत्र राजविषया रतिव॑न्यते, तेषां पराजयेन मरणात् पलायनाच्चेति भावः । अत्र उत्पले सानुक्रोशमिव सदयमिव तस्य उत्पलस्य योग्यं कर्म स्त्रीजनकर्तृकाघ्राणादिकं व्यावर्त्य निषिध्य शोच्याया अवस्थाया अनुपभोगेन वापौषु विशौर्णतारूपाया उपदर्शनाम् प्रदर्शनात् असो अनुक्रोशाक्षेपः ॥ १५७ ॥ १५८ ॥
निष्टाक्षेपमुदाहरति अमृतात्मनीत्यादि। अमृतस्येक आत्मा स्वभावो यस्य तादृशे परमावादके इत्यर्थः अन्यत्र अमृतं जलं तदात्मके, पद्माना इष्टरि पराजयकारिणि, अन्यत्र सङ्गोचकत्वात् शत्री तथा निग्धे तारके अक्षिकनौनिके यस्यः तस्मिन् तव अस्मिन् मुखेन्दौ सति अपरण इन्दुना किं न किमपि प्रयोजनमस्तीत्यर्थः । इत्यत्र तत्समान् तस्य मुख्येन्दोः मथान् गौणम् आरोपितं यत् इन्दुः मुखमित्यर्थः तार्तिनः
Page #116
--------------------------------------------------------------------------
________________
काव्यादर्श
अर्थो न सम्भूतः कश्चिन्न विद्या काचिदर्जिता। न तपः सञ्चितं किञ्चिद् गतञ्च सकलं वयः॥१६॥ असावनुशयाक्षेपो यस्मादनुशयोत्तरम् । अर्थार्जनादेावृत्तिर्दर्शितह गतायुषा ॥ १६२ । किमयं शरदम्भोदः किंवा हंसकदम्बकम् । रुतं नूपुरसंवादि श्रूयते तन्न तोयदः ॥ १६३ ॥ इत्ययं संशयाक्षेपः संशयो यन्निवयते। धर्मेण हंसमुलभेनास्पष्टधनजातिना ॥ १६४ ॥
तदीयान् गुणान् दर्शयित्वा मुख्यः इन्दुः प्राक्षिप्तः प्रतिषिहः इत्यतः तथाविधः तादृशः श्लिष्टाक्षेपः अयम् अस्य श्लेषमूलकत्वात् इति भावः ॥ १५८ ॥ १६० ॥ ___ अनुशयाक्षेपमुद्दिशति अर्थ इति। कश्चित् अर्थः धनं न सम्भृतः, काचित् विद्या च न अर्जिता, किञ्चित् तपः न सञ्चितं सकलं वयश्च गतम् । अत्र यस्मात् अनुशयोत्तरं पश्चा. त्तापबहुलं यथा तथा गतायुषा जनेन अर्थार्जनादेः व्यावृत्तिः अभावः दर्शिता तस्मात् अयम् अनुशयाक्षेपः ॥ १६१ ॥ १६२ ॥
संशयाक्षेपमुदाहरति किमित्यादि। अयं किं शरदम्भोदः, शरत्कालीन: जलापगमात् शुभ्रः मेघः, किंवा हंसानां कद. म्बकं समूहः, किन्तु नूपुरसंवादि नूपुरध्वनिसदृशं रुतं श्रूयते, तस्मात् तोयदः मेघः न। अत्र अस्पृष्टा घनजातिर्येन तादृशेन हंससुलभेन केवलहंससम्बन्धिना धर्मेण तादृशरुतेन यत् यस्मात् संशयः निवर्त्यते तस्मात् अयं संशयाक्षेपः ॥१६३॥१६४॥
Page #117
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः ।
१११
चिवमाक्रान्त विश्वोऽपि विक्रमस्ते न शाम्यति । कदा वा दृश्यते तृप्तिरुदीर्णस्य हविर्भुजः ॥ १६५ ॥ अयमर्थान्तराक्षेपः प्रक्रान्तो यन्निवार्य्यते । विस्मयोऽर्थान्तरस्येह दर्शनात् तत्सधर्मणः ॥ १६६॥ न स्तूयसे नरेन्द्र ! त्व ं ददासीति कदाचन । स्वमेव मत्वा गृह्णन्ति यतस्त्वद्दनमर्थिनः ॥ १६७॥ इत्येवमादिराक्षेपः हेत्वाक्षेप इति स्मृतः । अनयैव दिशान्योऽपि विकल्पः शक्य ऊहितुम् १६८ इति आक्षेपचक्रम् ।
अर्थान्तराचेपमुद्दिशति चित्रमिति । ते तव विक्रमः - क्रान्तं विश्वं येन तादृशोऽपि न शाम्यति एतत् चित्रमाश्चर्यम् । वा अथवा उदीर्णस्य उद्दीप्तस्य हविर्भुजः अग्नेः तृप्तिः कदा दृश्यते न कदापि इत्यर्थः । इह अत्र तत्तधर्मणः तस्य विक्रमस्य सधर्मणः समानधर्मस्य अर्थान्तरस्य हविर्भुक्लृप्त्यभावरूपस्य दर्शनात् प्रदर्शनात् प्रक्रान्तः चित्रमिति पदेन प्रस्तुतः विस्मयः यत् निवार्यते, अयम् अर्थान्तराक्षेपः अर्थान्तरेण प्रस्तुतस्याक्षेपात् । अत्र राजविषयिणी रतिर्ध्वन्यते ॥ १६५ ॥ १६६ ॥
हेत्वाक्षेपमुद्दिशति नेत्यादि । हे नरेन्द्र ! त्वं ददासौति कृत्वा कदाचन न स्तूयसे, यतः अर्थिनः तव धनं स्वं निजस्वत्वास्पदोभूतमेव बुड्वा इति शेषः गृह्णन्ति । एतेन राजोsaraदानशीलत्वं सूचितम् । इत्यत्र स्वमेवेति हेतुवशात् प्रस्तुतराजस्तवस्य आक्षेपात् हेत्वात्क्षेपः अयम् आक्षेपस्य हेतुसाध्य
1
Page #118
--------------------------------------------------------------------------
________________
११२
काव्यादमें
ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किञ्चन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ॥ १६६॥
त्वात् । अनया एव दिशा रौत्या अन्योऽपि विकल्पः आक्षेपस्य भेदः ऊहितुं निरूपयितुं शक्यः धीमद्भिरिति शेषः । कारणाक्षेषे तु कारणस्यैव आक्षेप इह तु कारणेन आक्षेप इत्यनयोभेद इति बोध्यम् ॥ १७७ ॥ १६८ ॥
इति उक्तरूपम् आक्षेपालङ्काराणां चक्रं समूहः । अर्थान्तरन्यासमाह ज्ञेय इति । किञ्चन किमपि वस्तु प्रकृतं प्रस्तुत्य उपन्यस्य तस्य साधने प्रमाणीकरणे समर्थस्य अन्यस्य अप्रक्कृतस्य वस्तुनः विषयस्य कोर्त्तनं सः अर्थान्तरन्यासः शेयः । अत्र प्रस्तुत्य इति क्वाप्रत्ययेन प्रथमं प्रकृतस्य कीर्त्तनं ततस्तत्समर्थकस्य उपन्यास इति सूचितम् । कदाचित् वैपरौत्यमपि दृश्यते । भोजराजेन स विपरीतार्थान्तरन्यासोऽभिहितः । यथा, प्रतिकूलतामुपगते हि विधी विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपति 1 अत्र पूर्वार्द्धवाक्यं परार्द्धस्य समर्थकमपि प्रागुपन्यस्तम् । वस्तुतस्तु प्रस्तुतस्य पूर्वोक्तस्य परोक्तस्य वा अप्रस्तुतेन समर्थनमर्थान्तरन्यास इति निष्कर्ष: । अत्र समर्थ - समर्थकयोः सामान्यविशेषभावः कार्य्यकारणभावश्च साधर्म्येण वैधर्म्येण वा भवतीति दर्पणकारः । यथा, सामान्यं वा विशेषेण विशेषस्तेन वा यदि । काञ्च कारणेनेदं कार्य्येण च समर्थ्यते । साधर्म्येणेतरेणार्थान्तरन्यासोऽष्टधा ततः ॥ इति । उदाहरणन्तु यथायथमूहनीयम् इति ॥ १६८ ॥
Page #119
--------------------------------------------------------------------------
________________
हितीयः परिच्छेदः । ११३ विश्वव्यापी विशेषस्थः श्लेषाविदो विरोधवान् । अयुक्तकारी युक्तात्मा युक्तायुक्तो विपर्ययः ॥१७॥ इत्येवमादयो भेदाः प्रयोगेष्वस्य लक्षिताः । उदाहरणमालैषां रूपव्यक्ती निदर्श्यते ॥ १७१॥ भगवन्तौ जगन्नेवे सूर्याचन्द्रमसावपि । पश्य गच्छत एवास्तनियतिः केन लाते॥१७२॥
अर्थान्तरन्यासस्य भेदानाह विश्वव्यापीत्यादि । विश्वव्यापी सर्वतः सम्भवशील:, विशेषस्थः अप्सर्वगः श्लेषाविद्यः श्लिष्टपदान्वितः, विरोधवान् प्रकृतविरोधी, अयुक्तकारी अनुचितकार्यकर्ता युक्तात्मा औचित्ययुक्तः, युक्तायुक्तः कियदंशेन युक्तः कियता वा अयुक्तः, तथा विपर्ययः वैपरीत्यगुणयुक्तः । अस्य अर्थान्तरन्यासस्य प्रयोगेषु इत्येवमादयः एवम्प्रकाराः भेदाः विशेषाः लक्षिता: अनुभूताः एषाम् उक्तभेदानां तादृशानाम् अन्येषाञ्च रूपस्य स्वरूपस्य व्यक्ती व्यक्तीकरण वक्ष्यमाणा उदाहरणमाला निदर्श्यते ॥ १७० ॥ १७१ ॥ - विश्वव्यापिनमुदाहरति भगवन्ताविति । भगवन्तो षड़े
यशालिनौ जगतां नत्रे नयनवरूपी सूर्याचन्द्रमसौ अपि का कथा अन्येषामिति अपिना सूच्यते। अस्तं गच्छत एव, पश्य । इममर्थं समर्थयति नियतिरिति । केन नियतिर्भाग्य लवयते अतिक्रम्यते न केनाप्रीत्यर्थः । अत्र चतुर्थपादवाक्यरूपस्य समर्थकस्य विश्वव्यापित्वं ब्रह्मादिकोटपर्यन्तानां सर्वेषामेव नियत्यधीनत्वात् इति सामान्येन पूर्वोक्तत्रिपादगतवाक्यस्य विशेषस्य समर्थनात् विश्वव्यापिनामार्थान्तरन्यरन्यासः ॥१७२॥
Page #120
--------------------------------------------------------------------------
________________
११४
काव्याद”
पयोमुचः परीतापं हरन्त्येव शरीरिणाम् । नन्वात्मलाभो महतां परदुःखोपशान्तये ॥ १७३॥ उत्पादयति लोकस्य प्रौतिं मलयमारुतः । ननु दाक्षिण्यसम्पन्नःसर्वस्य भवति प्रियः ॥१७४॥ जगदानन्दयत्येष मलिनोऽपि निशाकरः । अनुष्टह्णाति हि परान् सदोषोऽपि विजेश्वरः॥१७॥
विशेषस्थमुदाहरति पयोमुच इति। पयोमुचः जलदाः शरीरिणां परौतापं हरन्त्येव । उक्तमर्थं समर्थयति नन्विति । महताम् आत्मलाभ: जन्मग्रहणं परेषां दुःखस्य उपशान्तये नाशाय ननु निश्चितम् । अत्र महताम् इत्युक्तेन साधारणप्राणिनामिति विशेषलाभात् उत्तरवाक्यरूपेण सामान्येन पूर्ववाक्यरूपस्य विशेषस्य समर्थनात् विशेषस्थनामार्थान्तरन्यासः ॥ १७३ ॥ ___ श्लेषाविद्धमुदाहरति उत्पादयतीति । मलयमारुतः लोकस्यः प्रोतिम् उत्पादयति। तथाहि, दाक्षिण्य सम्पन्नः दाक्षिण्येन दक्षिणदिक्सम्पर्केण मलयस्य दाक्षिणात्यत्वात् इति भावः । अन्यत्र औदार्येण सम्पन्नः युक्त: लोकः सर्वस्य प्रियो भवति ननु । अत्र श्लेषमूलत्वेनैव उत्तरवाक्यस्य पूर्ववाक्यसमर्थनात् श्लेषाविधनामार्थान्तरन्यासः ॥ १७४ ॥
' विरोधवन्तमुदाहरति जगदिति। एष निशाकरः मलि नोऽपि सक तङ्कोऽपि जगत् आनन्दयति। तथाहि विजेश्वरः ब्राह्मणश्रेष्ठः सदोषोऽपि परान् अन्यान् अनुग्रह्णाति उपदेशदानादिना इति भावः । अव निशाकरस्यापि हिजराजवेन
Page #121
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः ।
११५"
मधुपानकलात् कण्ठान्निर्गतोऽप्यलिनां ध्वनिः । कटुर्भवति कर्णस्य कामिनां पापमीदृशम् ॥ १७६॥ अयं मम दहत्यङ्गमम्भोजदल संस्तरः । हुताशनप्रतिनिधिर्दाहात्मा ननु युज्यते ॥१७७॥ क्षिणोतु कामं शोतांशुः किं वसन्तो दुनोति माम्
द्विजेश्वरानुग्रहरूपेण सामान्येन विशेषस्य समर्थनं तच्च सामानाधिकरण्यात्
सदोषत्वानुग्राहकरूपयोर्विरुद्धधर्मयोः
विरोधयुक्तमिति विरोधवदर्थान्तरन्यासः ॥ १७५ ॥
1
अयुक्तकारिणमुदाहरति मध्विति । मधुपानेन कलात् मधुरात् अलिनां भ्रमराणां कण्ठात् निर्गतोऽपि ध्वनिः कामिनां कर्णस्य कटुर्भवति । तथाहि, पापम् ईदृशं दुःखदमित्यर्थः । एतेन कामित्वस्य पापत्वमुक्तम् । अत्र पापस्य दुःखकररूपसामान्येनार्थेन मधुरस्यापि भ्रमरध्वनिरूपविशेषस्य समर्थनात् तस्य सयुक्तत्वात् अयुक्तकारिनामार्थान्तरन्यासः
॥ १७६ ॥
युक्तात्मानमुदाहरति श्रयमिति । अयं हुताशनप्रतिनिधि: अग्निसदृशः अम्भोजानां पद्मानां दलैः संस्तरः शय्या मम अङ्गं दहति । तथाहि, दाहः दाहकता आत्मा स्वभावः दाहकत्वरूपा प्रकृतिरित्यर्थः अग्नेरिति शेषः युज्यते, अत्र पद्मदलरूपशय्यायाः हुताशनप्रतिनिधित्वेन अङ्गदाहकत्वं युक्तम् इति सामान्येन विशेषस्य समर्थनात् । युक्तात्मनामार्थान्तरन्यासः
॥ १७७ ॥
युक्तायुक्तमुदाहरति क्षिणोत्वित्यादि । शीतांशुः कामं
Page #122
--------------------------------------------------------------------------
________________
काव्यादर्थे
मलिनाचरितं कर्म सुरभेर्नन्वसाम्प्रतम् ॥ १७८ ॥ कुमुदान्यपि दाहाय किमयं कमलाकरः । न होन्दु ग्रेषु सूर्य्यगृह्यो मृदुर्भवेत् ॥ १७९ ॥ इत्यर्थान्तरन्यासचक्रम् ।
११६
क्षिणोतु पौड़यतु, तस्य कलङ्गित्वात् परपीड़नं युक्तमिति भावः, वसन्तः किं कथं मां दुनोति तापयति । तथाहि, सुरभेः सुविख्यातनामधेयस्य अथच वसन्तस्य, मधौ कामदुघायाञ्च्च विख्याते सुरभिर्द्दयोरिति कोषः । मलिनेन पापिना आचरितं कर्म परपीड़नरूपम् असाम्प्रतम् अयुक्तं ननु, अत्र उत्कृष्टस्य अपकर्मकरणेन अयुक्तत्वम् अपकृष्टस्य अपकर्मकरणेन युक्तत्वम् इति युक्तायुक्तनामार्थान्तरन्यासः । सुरभेरित्यस्य श्लिष्टत्वेन च श्लेषाविद्धोऽपौत्यनयोः सङ्करः ॥ १७८ ॥
विपर्ययमुदाहरति कुमुदानीति । कुमुदान्यपि अतिशौतलान्यपौत्यर्थः, दाहाय, दाहकानौत्यर्थः, श्रयं कमलानामाकरः पद्मानीत्यर्थः किं का कथा पद्मेषु सूर्यग्टह्यत्वात् नातिशौतेषु इत्यर्थः, इन्दुह्येषु चन्द्रपक्षेषु उग्रेषु दाहकेषु इत्यर्थः सूर्य्यग्टह्यः सूर्य्यपक्षः न हि मृदुः भवेत् यस्य इन्दुपक्षोऽपि क्लेशावहः तस्य सूर्य्यपक्षस्य क्लेशावहत्वं किमु वक्तव्यमिति भावः । अत्र अयुक्तस्य कुमुदस्यापि अयुक्तकरणात् विपर्ययनामायमर्थान्तरन्यासः । स च इन्दु ग्टह्य सूर्य ग्टह्य पदघटितवाक्यरूप सामान्येन पूर्वार्द्धवाक्यरूपविशेषः, समर्थित इत्यवधेयम् ॥ १७८ ॥
इति उक्तरूपम् अर्थान्तरन्यासस्य चक्रं समूहः ।
Page #123
--------------------------------------------------------------------------
________________
हितीयः परिच्छेदः । ११७ शब्दोपात्ते प्रतीते वा सादृश्ये वस्तुनोईयोः । तब यद् भेदक वन व्यतिरेक: स कथ्यते ॥१८॥ धैर्यलावण्यगाम्भीर्यप्रमुखस्त्वमुदन्वतः । गुणैस्तुल्योऽसि भेदस्तु वपुषैवेदृशेन ते ॥ १८१ ॥ इत्ये कव्यतिरेकोऽयं धर्मेणैकत्र वर्तिना। प्रतीतिविषयप्राप्तर्भेदस्योभयवर्तिनः ॥ १८२ ।
.- व्यतिरेकमाह शब्दोपात्ते इति। योर्वस्तुनोः उपमानोपमेययोः सादृश्ये शब्दोपात्ते साधारणधर्मप्रतिपादकशब्दप्रयोगेण बोधिते वा प्रतीते साधारणधर्मवाचकशब्दानुपादानात् व्यञ्जनया सूचिते सति तत्र तयोरित्यर्थः, षष्ठयर्थे सप्तमी। यत् भेदकथनं विशेषप्रतिपादनं स व्यतिरेकः कथ्यते। तथाच, उपमानोपमेययोः उत्कर्षापकर्षद्योतकवैशिष्ठ्यकथनं व्यतिरेकः. इत्युक्तम् । अत एवोक्तं विखनाथन यथा, आधिक्यमुपमयस्योपमानान्यूनताथवा। व्यतिरेक इति । तत्र उत्कर्षोदाहरणानि वक्ष्यमाणानि, अपकर्षोदाहरणं दर्पणकारेणोक्तम्। यथा, क्षीणः क्षीणोऽपि शशी भूयोभूयोऽभिवईते नित्यम् । विरम प्रसीद सुन्दरि! यौवनमनिवर्त्ति बातन्तु ॥ अत्र उपमेयस्य यौवनस्य उपमानात् चन्द्रादचिरस्थायित्वेनापकर्षः ॥ १८० ॥
तत्रैक यतिरेकमाह धैर्येत्यादि। धैर्यम् अनौद्धत्यम् अनतिक्रान्तवेलवञ्च, लावण्यं सौन्दर्य लवणमयत्वञ्च, गाम्भीर्य दुरवगाहस्वभावत्वम् अगाधत्वञ्च इत्यादिभिर्गुणैः त्वम् उदन्वतः समुद्रस्य तुल्योऽसि केवलम् ईदृशेन अतिमनोहरेण इत्यर्थः वपुषा शरीरेण ते तव मेदः उदन्वत इति शेषः। अत्र एकत्र
Page #124
--------------------------------------------------------------------------
________________
काव्याद” अभिनवेलौ गम्भीरावम्बुराशि वानपि । असावञ्जनसङ्काशस्त्वन्तु चामौकरद्युतिः ॥१८३॥ उभयव्यतिरेकोऽयमुभयोर्भेदको गुणी। काण पिशङ्गता चोभौ यत् पृथग्दर्शिताविह१८४ त्व समुद्रश्च दुर्वारौ महासत्त्वौ सतेजसौ। अयन्तु युवयोर्भेदः स जड़ात्मा पटुर्भवान् ॥१८५॥
उपमेये एव वर्त्तिना स्थितन धर्मेण प्रतिमनोहरवपुमत्त्वरूपेण उभयवर्तिनः उपमेयोपमानस्थितस्य भेदस्य उपमेयोत्कर्षस्य उपमानापकर्षस्य चेत्यर्थः प्रतीतिविषयप्रातः प्रतीतत्वात् इत्यर्थः अयम् एकव्यतिरीकः, एकमात्रगतधर्मस्य एव उभयोआंदकत्वात् इति भावः ॥ १८१ ॥ १८२॥ __ उभयव्यतिरेकमुदाहरति अभिनेत्यादि। अम्बुराशिः भवान् अपि उभौ अभिनवेलौ अनतिक्रान्तमयादी तथा गम्भीरौ दुरवगाहखभावः अगाधश्च इत्यर्थः । किन्तु असौ अम्बुराशि: अननसङ्काश: सामुद्रिकजलस्य कृष्णवादिति भावः, त्वन्तु चामौकरद्युतिः काञ्चनवर्ण: अतिसुन्दर इत्यर्थः । इह उभयोः उपमानोपमेययोः काणं पिशङ्गता च इमौ उभौ भेदको भेदसाधने गुणौ यत् पृथक् दर्शिती, अतः अयम् उभयव्यतिरेकः उभयनिष्ठत्वादनयोर्भेदकयोरिति भावः ॥ १८३॥ १८४ ॥ ___ सश्लेषव्यतिरेकमुदाहरति त्वमित्यादि । त्वं समुद्रश्च दुर्वारी दुर्धषः अवार्यवेगश्च, महासत्त्वौ सत्त्वगुणाधिकः प्रबलजलजन्तुश्च, सतेजसौ महाप्रतापः सवाड़वानलश्च इत्यर्थः, अयन्तु युवयोः भेदः स समुद्रः जड़ात्मा जलमयस्वरूपः अन्यत्र शीतल
Page #125
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः ।
स एष श्लेषरूपत्वात् सश्लेष इति गृह्यताम् । साक्षेपश्च सहेतुश्च दर्श्यते तदपि इयम् ॥ १८६॥ स्थितिमानपि धौरोऽपि रत्नानामकरोऽपि सन् । तव कक्षां न यात्येव मलिनो मकरालयः ॥ १८० ॥ वहन्नपि महीं कृत्स्नां सशैलद्दीपसागराम् । भर्त्तृभावाद् भुजङ्गानां शेषस्त्वत्तो निकृष्यते॥१८८॥
११६
स्वभावः, भवांस्तु पटुः सुनिपुणः अन्यत्र अतिवेगवान् । अत्र भेदकयोः धर्मयोः श्लेषरूपत्वात् श्लिष्टत्वात् इत्यर्थः एषः सश्लेषव्यतिरेक इति न च अत्र साधारणधर्माणां श्लिष्टत्वे मश्लेषव्यतिरेक इति वाच्यं तथात्वे सर्वत्रैव सश्लेषव्यतिरेकत्वप्रसङ्गात् क्वचित् शब्दश्लेषस्य क्वचिदा अर्थ श्लेषस्य सद्भावस्य दुर्वारत्वात् इति सुधीभिर्भाव्यम् । पुनश्च अस्य भेदद्दयं दर्श्यते साक्षेपः सहेतुश्च, उदाहरणे तु अनयोर्वक्ष्यमाणे इति ॥ १८५ ॥ १८६ ॥
मकरालयः
साक्षेपव्यतिरेकमुदाहरति स्थितिमानिति । समुद्रः यतः मलिनः, अतः स्थितिमान् अनुल्लङ्घितमय्याद: अपि, धौरोऽíप गभौरोऽपि अन्यत्र दुरवगाहस्वभावोऽपि तथा रत्नानाम् आकरः उत्पत्तिस्थानमपि अन्यत्र गुणरत्नानाम् श्राधारोऽपि इत्यर्थः तव कक्षां सादृश्यं न यात्येव न प्राप्नोति एव । अत्र उपमानगतेन मालिन्यरूपधर्मेण साम्यप्राप्तेराक्षेपात् साक्षेपव्यतिरेकः ॥ १८७ ॥
सहेतुव्यतिरेकमाह षहत्रिति । सशैलद्दीपसागरां कृत्स्नां समग्रां महीं वहनपि शेषः अनन्त: भुजङ्गानां पऩगानाम् अथच विटानां, भुजङ्गो विटसर्पयोः इति कोषः । भर्तृभावाव्
Page #126
--------------------------------------------------------------------------
________________
१२०
काव्यादयें
शब्दोपादानसादृश्यव्यतिरेकोऽयमौदृशः ।। प्रतीयमानसादृश्योऽप्यस्ति सोऽप्यभिधीयते॥१८॥ वन्मुखं कमलञ्चेति योरप्यनयोभिदा। कमलं जलसंरोहि त्वन्मुखं त्वदुपाश्रयम् ॥ १६० ॥ अभ्र विलासमस्पृष्टमदरागं मृगेक्षणम् । इदन्तु नयनहन्दू तव तद्गुणभूषितम् ॥ १६१ ॥ स्वामित्वात् त्वत्तः निकृष्यते निकष्टो भवति। अत्र भुजङ्गपतित्वरूपधर्मस्य त्वदपेक्षया उपमानभूतानन्तापकर्षे हेतुत्वकीर्तनात् सहेतुव्यतिरेकः ॥ १८८॥ .
इत्थं शब्दोपात्तसादृश्यव्यतिरेकमुत्ता प्रतीयमानसादृश्य निरूपयति। शब्दोपादानेति शब्दस्य साधारणधर्मवाचकस्य उपादानेन यत् सादृश्यं तस्य व्यतिरेकः अयं पूर्वोक्तप्रकारः । प्रतोयमानं सादृश्यं यत्र तादृशोऽपि व्यतिरेकोऽस्ति अध्रुना सः अभिधीयते इत्यन्वयः ॥ १८८॥
वन्मुखमिति। तव मुखं कमलञ्च, अनयोईयोः इति भिदा भेदः, कमलं जलसंरोहि जलजं त्वन्मुखन्तु त्वदुपाश्रयं त्वदेकाधारम्। अत्र साधर्म्यस्य अप्रयोगेऽपि मुखकमलयोः साम्यं प्रसिद्धिवशात् प्रतीयते इति प्रतीयमानव्यतिरेकः ॥१८०॥
अभूविलासेति। मृगस्य ईक्षणं नयनम् अभ्रविलासं भू. विलासरहितं तथा अस्पृष्टः मदरागो येन तादृशम् अप्राप्तमद्यपानजनितलौहित्यमित्यर्थः, तव इदं नयनहयन्तु तद्गुणभूषितं भूबिलासयुक्तं स्पृष्टमदरागञ्च इत्यर्थः । अत्र उपमानमरीक्षणोपमेयनयनहयानां विरुधधर्मवत्त्वमेव दर्शितं सादृश्य प्रतीयः मानव्यतिरेकः ॥ १८१॥
Page #127
--------------------------------------------------------------------------
________________
हितीयः परिच्छेदः। १२१ पूर्वस्मिन् भेदमावोतिरस्मिन्नाधिक्यदर्शनम् । सदृशव्यतिरेकश्च पुनरन्यः प्रदर्यते ॥ १८२॥ त्वन्मुखं पुण्डरीकञ्च फुल्ले सुरभिगम्धिनी । भ्रमभ्रमरमम्भोज लोलनेवं मुखन्तु ते ॥ १६३ ॥ चन्द्रोऽयमम्बरोत्तंसो हंसोऽयं तोयभूषणम् । नभो नक्षत्रमालीदमुत्फुल्लकुमुदं पयः ॥ १६४ ॥
उक्तोदाहरणयोः फलं दर्शयति पूर्वस्मिन्निति। पूर्वस्मिन् उदाहरणे त्वन्मुखमित्यत्र भेदमावस्य उपमानोपमेययोर्भेदकधर्ममात्रस्य उक्तिः, न तु उत्कर्षस्य अपकर्षस्य वा, भेदश्च विधा विरुद्धधर्माध्यासः कारणभेदश्च, अत्र तु कारणभेद एवेति बोध्यम् । अस्मिन् अव्यवहिते उदाहरणे अभूविलासमित्यत्र आधिक्यस्य उपमानोपमेययोनिकर्षोल्कर्षरूपस्य दर्शनम् अत्र तु विरुद्धधर्माध्यास एव भेदकारणमित्यवधेयम्। अन्यश्च सदृशव्यतिरेकः प्रदीते उदाङ्गियते ॥ १८२ ॥
सदृशव्यतिरेकं शाब्दमुदाहरति त्वन्मुखमिति। तव मुखं पुण्डरीकं पद्मञ्च फुल्ले विकसिते, फुल्लत्वमेकत्र मितशोभितत्वम् अन्यत्र प्रकाशमानं, तथा सुरभिगन्धिनी, अत्र फुल्लत्वसुरमिगन्धित्वयोः साधारण्यात् सादृश्यमत्रं शाब्दम् । अम्माज भ्रमन्तः भ्रमरा यस्मिन् तत्, ते मुखन्तु लोले नेत्रे यस्मिन् तादृशम् । अत्र असामान्यमपि भ्रमभ्रमरवत्त्वं लोलनेत्रत्वञ्च प्रायशः सदृशमेव न तु विरुद्धमिति सदृशव्यतिरेकोऽयं शादः ॥ १८३॥
सदृशव्यतिरेकमार्थसुदाहरति चन्द्र इति। अयम् अम्ब- .
Page #128
--------------------------------------------------------------------------
________________
.१२२
काव्यादों प्रतीयमानशौयादिसाम्ययोश्चन्द्रहंसयोः । कृतः प्रतीतशुद्धयोश्च भेदोऽस्मिन् वियदम्भसो:१६५ पूर्वव शब्दवत् साम्यमुभयवापि भेदकम् । भृङ्गनेवादितुल्यं तत् सदृशव्यतिरीकता ॥ १६६ ॥ अरत्नालोकसंहार्यमवायं सूर्यरश्मिभिः ।
रोत्तंस: आकाशभूषणं चन्द्रः, अयं हंसः तोयस्य भूषणम्, इदं नभः आकाशं नक्षत्रमालि ताराविराजितं, पयश्च उत्फुल्लानि कुमुदानि यस्मिन् तादृशम्। नभो नक्षत्रमालोदमिदमुत्कुमुदं पय इति च पाठः क्वचित् दृश्यते। अत्र चन्द्रहंसयोराकाशपयसोश्च उपमानोपमेययोः सादृश्यमर्थतः प्रतीयते इति सदृशव्यतिरेक आर्थः ॥ १८४ ॥ . प्रतीयमानेति। अस्मिन् चन्द्रोऽयमित्यत्र उदाहरण प्रतीयमानं वाचकशब्दाप्रयोगात् आर्थं शौक्लयादिसाम्यं ययोः ताभयोः चन्द्रहंसयोः प्रतीता प्रसिद्धा शुद्धिर्ययोस्तथाभूतयोः वियदम्भसोः आकाशजलयोः उपमानोपमेययोः मेदः कृतः दर्शित इति सादृश्यस्य शब्दानुपात्तत्वात् सदृशव्यतिरेक आर्थ इति भावः ॥ १८५॥ - पूर्वत्रेति । पूर्वत्र पूर्वस्मिन् त्वमुखमित्यत्र उद्दाहरणे उभयनापि उपमानोपमेययोरुभयोरपौत्यर्थः शब्दवत् शब्दोपालं मान्यं भेदक, भृङ्गनेत्रादिभ्रमभ्रमरत्वं लोलनेत्रत्वञ्च तुल्यं विम्बानुविम्बतया सादृश्यबोधकं, तत् तस्मात् सदृशव्यतिरेकः
शाब्द इति भावः ॥ १८६ ॥ ... सजातिव्यतिरेकं दर्शयति अरत्नेति। यूनां यौवनप्रभवं
Page #129
--------------------------------------------------------------------------
________________
.. हितोय: परिच्छेदः। १२३ दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ॥ १७॥ सजातिव्यतिरेकोऽयं तमोजातेरिदं तमः । दृष्टिरोधितया तुल्ये भिन्नमन्यैरदर्शि यत् ॥१८॥
___ व्यतिरेकचक्रम् । प्रसिद्धहेतुव्यावृत्त्या यत् किञ्चित् कारणान्तरम् । यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना १६६
तमः मोहः अन्धकारच अरत्नालोकसंहार्य रबानाम् आलोकेन असंहार्य हर्तुमशक्यं सूर्यरश्मिभिः अवार्यम् अनाश्य तथा दृष्टिः चक्षुः ज्ञानञ्च तस्या रोधः आवरणं तत्करम् । अत्र शेषेण . तमःपदोपात्तयोर्मोहान्धकारयोविरुद्धधर्मत्वकीर्तनेऽपि दृष्टि रोधकत्वसाम्यात् सजातिव्यतिरेकः ॥ १८७॥
सजातिव्यतिरेकं घटयति सजातीति। यत् यस्मात् दृष्टिरोधितया तुल्यम् इदं तमः मोहरूपम् अन्यैः साधारणधर्म: रत्नालोकहार्यत्वादिभिः तमोजाते: अन्धकारजातित: भिवम् प्रदर्शि प्रदर्शितम्, अतः अयं सजातिव्यतिरेकः ॥ १८८॥
विभावनां निरूपयति प्रसिद्देति। यत्र वैचित्रे प्रसिदस्य विख्यातस्य हेतोः कारणस्य व्यावृत्त्या अभावप्रदर्शनेन यत् किञ्चित् कारणान्तरं वा स्वाभाविकत्वं स्वतःसिद्धत्वं विभाव्यं विशेषण अभिनिवेशेन भाव्यं चिन्तनीयं सा विभावना। तथाच, प्रसिद्ध हेतुमन्तरेम फलोत्पत्तिदर्शनात् तस्य यत् किञ्चित् गूढकारणान्तरस्य वा तदनुपपत्त्या स्वाभाविकत्वस्य वा भावनावैचित्रा विभावनेति बोध्यम् । दर्पणकारस्तु, विभाबना विना हेतुं कार्योत्पत्तिर्यदुखते, इत्याह ॥ १८८ ॥
Page #130
--------------------------------------------------------------------------
________________
काव्यादमें
अपीतची कादम्बमसंसृष्टामलाम्बरम् । अप्रसादितशुद्धाम्बु जगदासोन्मनोहरम् ॥ २०० ॥ अनञ्जिताऽसिता दृष्टिभ्रूरनावर्जिता नता । अरञ्जितोऽरुणश्चायमधरस्तव सुन्दरि ! ॥ २०१ ॥ यदपीतादिजन्यं स्यात् क्षीवत्वाद्यन्यहेतुजम् । चहेतुकञ्च तस्येह विवक्षेत्यविरुद्धता ॥ २०२ ॥
कारणान्तरविभावनामाह अपौतेति । जगत् अपीताः अकृतमधुपानाः अथच क्षौवाः मत्ताः कादम्बा: हंसविशेषा यस्मिन् तत्, असंसृष्ट ं मार्जन्या अपरिष्कृतम् अथच अमलं निर्मलम् अम्बरम् आकाशं यस्मिन् तत्, तथा अप्रसादितं केनाप्यपरिष्कृतम् अथच शम् अम्बु जलं यस्मिन् तथाभूतम् अतएव अतिमनोहरम् आसीदित्यन्वयः । अत्र प्रसिदस्य चौवत्वकारणस्य पानस्य, श्रमलत्वकारणस्थ मार्जनस्य, शुद्दिकारशस्य प्रसादनस्य असद्भावेऽपि तत्तत्फलोत्पत्तिः शरत्कालरूपं कारणान्तरं विभावयतीति कारणान्तरविभावना ॥ २०० ॥
स्वाभाविकत्वे विभावनामाह अनञ्जितेति । हे सुन्दरि ! तब दृष्टि: अमञ्जिता अञ्जनेन अननुलिप्तापि असिता श्यामला, भ्रूः नावर्जिता अनाकष्टापि नता वक्रोक्ता, श्रयमधरच अरञ्जितोऽपि अरुण: अत्र प्रसिद्धमसितत्वकारणम् अञ्जनं वक्रताकारणमार्जनम् अरुणताकारणं रञ्जनं तदभावेऽपि तत्तत्फलोपपत्तिः स्वाभाविकत्वमेव भावयतीति स्वाभाविकत्वविभावना ॥ २०९ ॥
उक्तयोरुदाहरणयोर्लक्षणं सङ्गमयन् विरोधं परिहरति यदिति । पूर्वोदारहणे अपीतादिजन्यं पानाद्यजन्यमित्यर्थः
१२४
Page #131
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः । १२५ वक्त्वं निसर्गसुरभि वपुरयाजसुन्दरम् । अकारणरिपुश्चन्द्रो निनिमित्तासुहृत् स्मरः ॥२०३॥ निसर्गादिपदैरव हेतुः साक्षानिवर्तितः । उक्तञ्च सुरभित्वादि फलं तत् सा विभावना॥२०४
इति विभावनाचक्रम् ।
क्षीवत्वादि अन्यहेतुजं शरत्कालरूपकारणान्तरजन्यं, द्वितीयोदाहरणे अञ्जितत्वाद्यजन्यम् असितत्वादि अहेतुकं स्वाभाविकम् । इह उदाहरणहये तस्य अन्यहेतुजत्वस्य अहेतुकस्य च विवक्षा वक्तुमिच्छा इत्यतः अविरुद्धता विरोधाभावः । अयं भावः कारणाभावे कथं कार्योत्पत्तिः, कारणत्वस्य कार्याव्यवहितपूर्ववर्त्तित्वनियमात् कार्यत्वस्य कारणाव्यवहितोत्तरवर्तित्वनियमाच्च अत: आपाततः विरोधावगतावपि वनुरिच्छावशात् कारणान्तरस्य स्वभावरूपालौकिककारणस्य चानुसन्धानात् वैचित्राजनकत्वाच्च न विरोध इति सुधौभिर्विवेच्यम्॥२०२॥ ___ पूर्व स्वभावस्यार्थत्वमुक्त सम्पति शाब्दं स्वाभाविकत्वमुदाहरति वक्त्रमित्यादि। वक्त्र मुखं निसर्गेण स्वभावेन सुरभि सुगन्धि, वपुः शरीरम् अव्याजेन अंकपटेन सुन्दरं स्वभावसुन्दरं न तु आहार्य्यशोभयेत्यर्थः, चन्द्रः अकारणरिपुः अहेतुकशत्रुः तथा स्मरः कामः निर्निमित्तासुहृत् अकारणशत्रुः अत्र निसर्गादिपदैः साक्षात्प्रत्यक्षीभूतः लौकिक इत्यर्थः हेतुः निवर्त्तितः, सुरभित्वादिरूपं फलञ्च उक्तं, तत् तस्मात् सा प्रसिद्धा शब्दगतखाभाविकत्वलक्षणा विभावना इति ॥ २०३ ॥ २०४॥
इति उक्तरूपं विभावनाचक्र विभावनासमूहः ।
Page #132
--------------------------------------------------------------------------
________________
१२५
काव्यादमें
वस्तु किचिदभिप्रेत्य तत्त ुल्यस्यान्यवस्तुनः । उक्तिः संक्षं परूपत्वात् सा समासोक्तिरिष्यते ॥२०५ पिवन्मधु यथाकामं भ्रमरः फुल्लपङ्कजे । अप्यसन्नहसौरभ्यं पश्य चुम्बति कुट्मलम् ॥ २०६॥ इति प्रौढ़ाङ्गनाबद्धरतिलोलस्य रागिणः । कस्याञ्चिदपि बालायामिच्छावृत्तिर्विभाव्यते ॥२०७
समासोक्तिमाह वस्तु इति । किञ्चित् किमपि वस्तु अभिप्रेत्य संकल्पा तत्तुल्यस्य तत्सदृशस्य अन्यस्य वस्तुनः उक्तिः कथनं सा संक्षेपरूपत्वात् संक्षेपेण उक्तत्वात् समासोक्तिरिष्यते संक्षेपस्यैव समासत्वादिति । अयं भावः, दयोः प्रस्तुताप्रस्तु तयोः शब्देन प्रतिपादने भूयान् विस्तारः, स च न वैचित्रामावहतीति एकस्याप्रस्तुतस्य शब्देन प्रतिपादने व्यञ्जनया प्रस्तुतार्थस्य बोधनमतीवचमत्कारपदवौमारोहतौति संचेपोक्तिरिति । उक्तञ्च ध्वनिकृता, वाच्चोऽर्थो न तथा वदते प्रतौयमानः स यथेति । दर्पणकारस्तु समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः । व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुन
इत्याह ॥ २०५ ॥
समासोक्तेः कार्य्यलिङ्गविशेषणघटितत्वात् प्रथमं कार्यघटितां समासोक्तिमुदाहरति पिवन्नित्यादि । भ्रमरः फुल्लपङ्कजे विकसितारविन्दे यथाकामं मधु पिवन् असन्नडसौरभ्यम् अजातमधुगन्धम् अपि कुझलं चुम्बति पश्य । इत्यत्र प्रौढ़ायाम् अङ्गनायाम् भावचा रतिलीला येन तादृशस्य रागिणः अनुरागवतः कामिनः कस्याञ्चित् बालायां मुग्धायाम् इच्छावृत्तिः
Page #133
--------------------------------------------------------------------------
________________
हितौयः परिच्छेदः ।
विशेष्यमावभिन्नापि तुल्याकारविशेषणा । अस्य सावपराप्यस्ति भिन्नाभिन्नविशेषणा ॥ २०८ ॥ रूढ़मूलः फलभरैः पुष्णन्ननिशमर्थिनः । सान्द्रच्छायो महावृक्षः सोऽयमासादितो मया२०६ अनल्पविटपाभोगः फलपुष्पसमृद्धिमान् । सुच्छायः स्थैर्यवान् दैवादेष लब्धो मया द्रुमः २१० अभिलाषोदयः विभाव्यते ध्वन्यते इति अप्रस्तुतात् भ्रमरकार्य्यात् प्रस्तुतस्य कामुककाय्र्यस्य प्रतीतिः ॥ २०६ ॥ २०७ ॥ विशेषणघटितभेदं दर्शयति विशेष्येति । विशेष्यमात्रं विशेष्यपदमात्रं भिन्नं श्लेषाभावात् एकमात्रबोधकं यत्त्र सा तुल्याकारविशेषणा तुल्याकारं श्लेषवशात् वाच्यव्यङ्ग्योभयधर्मबोधकं विशेषणं यत्त्र सा इत्येकविधा अस्ति, अपरा च भिन्नच्च अभिन्नञ्च विशेषणं यत्र तादृशी इति द्वितीयाऽपि अस्ति ॥ २०८॥
यथाक्रममुदाहरणे दर्शयति रूढ़ इति । रूढ़ प्रवृद्धं मूलं शिफा मूलधनञ्च यस्य सः, फलानां भरैः समूहैः बहुभिर्धनैख अनिशम् अर्थिनः पुष्णन् प्रतिपालयन्, तथा सान्द्रा घना छाया अनातपप्रदेश: कान्तिश्च यस्य तादृशः मः प्रसिद्धः अयं महान् वृक्षः मया आसादितः प्राप्तः ॥ २०८॥
अनल्पेति । अनल्पः, बहुल: विटपानां शाखानाम् आभोगः विस्तारः यस्य सः, फलानां पुष्पाणाश्च समृद्धि : विद्यते अस्य सः, शोभना छाया अनातपप्रदेशः कान्तिश्च यस्य सः, तथा स्थैर्य्यवान् स्थैर्य्यं सारवत्त्व ं तद्दान् दृढ़प्रतिज्ञश्च । उक्तच, व्यवसायादचलनं स्थैर्य्यं विघ्ने महत्यपीति । एवम्भूतः एषः द्रुमः मया दैवात् लब्धः ॥ २१० ॥
१२७
Page #134
--------------------------------------------------------------------------
________________
१२८
काव्यादर्श उभयव पुमान् कश्चिद् वृक्षत्वेनोपवर्णितः । सर्व साधारणा धर्माः पूर्ववान्यव तु इयम् ॥२११॥ निवृत्तव्यालसंस! निसर्गमधुराशयः । अयमम्मोनिधिः कष्टं कालेन परिशुष्यते ॥२१२॥ इत्यपूर्वसमासोक्तिः पूर्वधर्मनिवर्तनात् । समुद्रण समानस्य पुंसो व्यापत्तिसूचनात्॥२१३॥
इति समासोक्तिचक्रम् ।
उभयत्र लक्षणं सङ्गमयति उभयत्रेति । उभयत्र पद्ययोः कश्चित् पुमान् वृक्षत्वेन उपवर्णितः, पूर्वत्र उदाहरणे सर्वे धर्माः साधारणाः श्लेषमूलत्वात् विशेष्यपदमात्रं श्लेषस्पर्शाभावात् भिन्नमिति। परत्रोदाहरणे तु हयम् आद्यहितीये विशेषणे श्लेषाभावाद भिन्ने, टतौयचतुर्थे श्लेषोपष्टम्भात् अभिन्न इति भिन्नाभिनविशेषणत्वम् ॥ २११ ॥ __ अपूर्वसमासोक्तिमुदाहरति निवृत्तेत्यादि । निवृत्तः व्यालानां मर्पाणां खलानाञ्च संसर्ग: यस्मात् सः, निसर्गेण स्वावत: मधुराणां सुमिष्टजलानामाशयः प्राधारः अन्यत्र मधुरः मनोरमः आशयो यस्य सः, अयम् अम्भोनिधिः कालेन समयेन यमेन च परिशुष्यते शोषं नीयते विनाश्यते च कष्टं कष्टकरमेतदित्यर्थः । इत्यत्र पूर्वधर्मयोः व्यालसंसर्गित्वलवणजलत्वयोः निवर्त्तनात् अनुपादानेन तदैपरीस्वधर्मयोः कीर्तनादित्यर्थः समुद्रेण समानस्य पुंसः व्यापत्तिसूचनात् विनाशद्योतनात् अपूर्वा पूर्वविपरीता समासोक्तिरियमित्यन्वयः ॥ २१२॥२१३॥
Page #135
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छदः ।
1
विवक्षा या विशेषस्य लोकसोमातिवर्त्तिनी असावतिशयोक्तिः स्यादलङ्कारोत्तमा यथा ॥ २१४॥ मल्लिकामालधारिण्यः सर्वाङ्गीणार्द्रचन्दनाः । चौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसरिकाः २१५ चन्द्रातपस्य बाहुल्यमुक्तमुत्कर्षवत्तया ।
१२६
अतिशयोक्तिमाह विवक्षेति । विशेषस्य प्रस्तुतवस्तुगतस्य उत्कर्षस्य लोकसीमा लोकमर्य्यादा तस्या अतिवर्त्तिनी अलीकिकचमत्कारशालिनी या विवक्षा उक्ति:, अत्र स्वार्थे सन्प्रत्ययो बोद्धव्यः । असौ अलङ्कारेषु उत्तमा सर्वालङ्कारश्रेष्ठा इत्यर्थः अतिशयोक्तिः स्यादित्यन्वयः । उक्तञ्चाग्निपुराणे, लोकसोमातिवृत्तस्य वस्तुधर्मस्य कोर्त्तनम् । भवेदतिशयो नाम सम्भवोऽसम्भवो विधेति ॥ २१४ ॥
1
अतिशयोक्तिमुदाहरति मझिकेति । अभिसारिकाः कान्तार्थिन्यः, कान्तार्थिनौ तु या याति सङ्केतं साभिसारिकेति । मल्लिकानां माला मल्लिकामालं तस्य धारिण्यः, सर्वाङ्गीणं सर्वाङ्गव्याप्तम् आर्द्रं चन्दनं यासां ताः, तथा क्षौमं पट्टवसनं विद्यते यासां ताः परिहितश्वेतपट्टवसना इत्यर्थः, अतएव ज्योत्स्नायां न लक्ष्यन्ते । अत्र ज्योत्स्नावर्णनस्य प्रस्तुतत्वात् तस्याः श्वेतत्वं मल्लिकामालादिक्कतनायिका श्वेतत्वाभिन्नतया वर्णनात् समधिकत्वेन प्रतीयते, अथवा ताट्टशरजन्याम् अभिसारिकाणामलक्ष्यत्वासम्भवेऽपि अलक्ष्यत्वकथनात् प्रस्तुताया: ज्योत्स्नायाः श्वेतत्वस्य सम्यगुत्कर्षः प्रतीयते ॥ २१५ ॥
उक्तोदाहरणे लक्षणं योजयति चन्द्रातपस्येति ।
अत्र
Page #136
--------------------------------------------------------------------------
________________
१३०
काव्यादर्श संशयातिशयादीनां व्यक्ती किञ्चिन्निदर्यते ॥२१६॥ स्तनयोजघनस्यापि मध्ये मध्यं प्रिये । तव । अस्ति नास्तीति सन्देहोन मेऽद्यापि निवर्तते२१७ निर्णतुं शक्यमस्तीति मध्यं तव नितम्बिनि ।। अन्यथा नोपपद्येत पयोधरभरस्थितिः ॥ २१८॥ अहो विशालं भूपाल ! भुवनवितयोदरम् ।।
चन्द्रातपस्य ज्योत्स्रायाः उत्कर्षवत्तया बाहुल्यं गाढ़त्वमुक्तम् । इदानीं संशयातिशयादीनां व्यक्ती व्यक्तीकरणे किञ्चित् निदयते उदाहियते इत्यन्वयः ॥ २१६ ॥ __ संशयातिशयोक्तिमुदाहरति स्तनयोरिति। है प्रिये ! तव मध्यं स्तनयोः विपुलयोरिति शेषः, जघनस्यापि विपुलखेति शेषः मध्ये अस्ति वा नास्ति इति सन्देहः मे मम अद्यापि अस्तौति ज्ञाने सत्यपौत्यर्थः न निवर्त्तते। अत्र तथाविधसंशयस्य प्रभावनौयत्वेऽपि तत्कल्पनात् मध्यदेशस्यातिक्षीणत्वं ध्वन्यते इति संशयमूलातिशयोक्तिः ॥ २१७ ॥
निर्णयातिशयोक्तिमुदाहरति निर्णेतुमिति। है नितम्बिनि ! तव मध्यं निर्णेतुं शक्यम् अस्ति अन्यथा पयोधरयोः स्तनयोः भरस्य स्थिति: न उपपद्येत मध्य नास्ति चेत् कथं पयोधरौ तदुपरि वर्त्तताम् । अत्र पयोधरयोनिरवलम्बनस्थित्यनुपपत्तेः मध्यदेशस्त्र अस्तित्वनिर्णयासम्बन्धेऽपि तत्कल्पनेन प्रतिक्षीणत्वनिर्णयात् निर्णयातिशयोक्तिरियम्॥२१॥
पाश्रयाधिक्ये अतिशयोक्तिं दर्शयति अहो इति। है भूपाल : भुवनत्रितयोदरं त्रिभुवनाभोग इत्यर्थः विशालम्
Page #137
--------------------------------------------------------------------------
________________
हितीयः परिच्छदः । माति मातुमशक्योऽपि यशोराशिर्यदव ते॥२१६॥ अलङ्कारान्तराणामप्येकमाहुः परायणम् । वागीशमहितामुक्तिमिमामतिशयाह्वयाम् ॥२२०॥
इति अतिशयोक्तिचक्रम् । अन्यथैव स्थिता वृत्तिश्चेतनस्यतरस्य वा। अन्यथोत्प्रेक्ष्यते यत्र तामुत्यक्षां विदुर्यथा ॥२२१॥
अहो इति आश्चर्यसूचकमव्ययम्। त्रिभुवनस्य विशालत्वमत्य चयमित्यर्थः । यद् यस्मात् अत्र त्रिभुवनोदर मातुमशः क्योऽपि ते यशोराशि: माति पर्याप्ततां गच्छति। अत्र आक्र यस्य विभुवनोदरस्य विशालत्वप्रतिपादनेन आश्रितस्य यशो राशेराधिक्यवर्णनात् आत्रयाधिक्यातिशयोक्तिः ॥ २१८ ॥ -- अस्या अलङ्कारोत्तमत्वं दर्शयति । अलङ्कारेति वागौशमहितां वाक्पतिपूजिताम् इमाम् अतिशयायाम् अतिशयाख्याम् उक्तिम् अतिशयोक्तिमित्यर्थः अलङ्कारान्तराणाम् अन्येषाम् अलङ्काराणाम् अपि एकं परायणम् परमाश्रयम् आहुः कवय इति शेषः, अस्या एव वैचित्रवातिशयमहिम्ना सर्वेषामलङ्काराणां प्रादुर्भावादिति भावः, वैचित्रातिशयाभावे विद्यमानानामपि उपमादीनां नालङ्कारता यथा गौरिव गवय इत्यादि। उक्तञ्च, कस्याप्यतिशयस्योक्तिरित्यन्वर्थविचारणात् । प्रायेणामी अलङ्कारा भिन्ना नातिशयोक्तित इति ॥ २२० ॥ __अथोत्प्रेक्षां निरूपयति अन्यथेति। चेतनस्य इतरस्थ अवेतनस्य वा प्रस्तुतस्य अन्यथा अन्येन प्रकारेण स्थिता वृत्तिः साभाविको वृत्तिः गुणक्रियादिश्च यव वैचित्रा अन्यथा अन्य
Page #138
--------------------------------------------------------------------------
________________
१३३
काव्याद” मध्यन्दिनार्कसन्तप्तः सरसौं गाइते गजः । मन्ये मार्तण्डरचाणि पद्मान्युबर्तृमुद्यतः ॥२२२॥ प्रकारेण अप्रस्तुतखरूपत्वेन उत्प्रेक्ष्यते सम्भाव्यते तामुत्प्रेक्षा विदुः। यवेत्यत्र यत्त्विति पाठे क्रियाविशेषणम्। यदुत्प्रेक्षणमित्यर्थः। उक्तञ्च प्रकाशकारण, सम्भावनमथोत्प्रेक्षा इति। संभावनं हि उत्कटकोटिकः संशयः, तच्च प्रस्तुतस्य निगरणेन भवति, निगरणच कचित् प्रस्तुतस्य अनुपादान क्वचिदुपात्तस्यापि अधःकरणम् । यथा, विषयस्यानुपादानऽप्युपादानेऽपि सूरयः । अधःकरणमात्रेण निगौर्णत्वं प्रचक्षते इति। दर्पणकारस्तु भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना। वाच्या प्रतीयमाना सेति लक्षणं कृत्वा जातिगततया चास्या विविधभेदानाह ॥ २२१ ॥
चेतनागतामुत्प्रेक्षामुदाहरति मध्येति। मध्यन्दिनार्केण मध्याह्नसूर्येण सन्तप्तः गजः सरसी गाहते अवतरति। पत्रोत्प्रेक्ष्यते मन्ये इति, मातंगहरयाणि सूर्यपक्षान् पद्मानि उद्दतुम् उन्मूलयितुम् उद्यतः इति मन्ये सम्भावयामौत्यर्थः । अत्र सन्तप्तस्य चेतनस्य गजस्य मानपानाद्यर्थकतया स्थितं सरोऽवगाहनं शत्रुपक्षोद्धरणार्थत्वेनोत्प्रेक्षितम्। मन्ये इति पदमुत्प्रेक्षाव्यचकम् । अत्र च सन्तापकस्य प्रतीकाराक्षमण गजेन तत्पक्षस्योद्धरणात् प्रत्यनीकालङ्कारः । तदुक्तां, प्रत्यनौकमशोन प्रतीकारे रिपोर्यदि। तदीयस्य तिरस्कारस्तस्यैवोत्कर्षसाधक इति। तदनयोः सङ्कर इति कैश्चिदुक्तं तन मनोरमं तत्पक्षोहरणस्य सम्भावनामावविषयत्वेन कविनोक्तत्वेन प्रतात्त्विकत्वात्, यत्र तु तत्पक्षापकारस्तात्त्विकस्तवैव तदलङ्कार इति सुधीभिश्चिन्तनीयम् ॥ २२२ ॥
Page #139
--------------------------------------------------------------------------
________________
हितीयः परिच्छेदः। . १.३३ स्नातुं पातुं विसान्यत्तुं करिणो जलगाहनम् । वहरनिष्क्यायेति कविनोत्प्रेक्ष्य वर्ण्यते ॥२२३॥ कर्णस्य भूषणमिदं ममायतिविरोधिनः । इति कर्णोत्पलं प्रायस्तव दृष्ट्या विलङ्घयते ॥२२४॥ अपाङ्ग-भागपातिन्या दृष्टरंशुभिरुत्पलम् । स्पश्यते वा न वेत्येवं कविनोत्प्रेक्ष्य वर्ण्यते॥२२५॥ लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः । इतीदमपि भूयिष्ठमुत्प्रेक्षालक्षणान्वितम् ॥२२६ ।।
लक्षणं घटयति स्नातुमिति। करिणः स्नातुं पातु विसानि च अत्तुं भक्षयितुं जलगाहनं कविना तस्य वैरनिष्कृयाय इति उत्प्रेक्ष्य सम्भाव्य वर्ण्यते ॥ २२३ ॥ - अचेतनगतामुत्प्रेक्षामुदाहरति कर्णस्येत्यादि। तव दृष्ट्या मम आयतिः देयं तस्य विरोधिनः बाधकस्य कर्णस्य इदं भूषणम् इति कर्णोत्पलं विलयते प्रायः निजांशुभिः ताद्यते इव, प्राय इति उत्प्रेक्षाव्यञ्जकम् । अत्र अपाङ्गभागपातिन्याः आकर्णायताया दृष्टेः अंशुभिः उत्पलं स्पृश्यते वा न वा इति असबपि विषयश्चमत्कारजनकत्वेन कविना उत्प्रेक्ष्य सम्भाव्य वयते। उत्प्रेक्षाद्योतकेवादिप्रयोगाभावेऽपि क्वचित् प्रतीयमानोत्प्रेक्षा भवतीत्युक्तं दर्पणकारण उदाहृतञ्च तेनैव । यथा, तन्वयाः स्तनयुग्मेन मुखं न प्रकटीकृतम्। हाराय गुणिने स्थानं न दत्तमिति लज्जयेति। अत्र स्तनयोरचेतनखेन लज्जाया असम्भवात् लनयेवेत्युत्प्रेक्षा ॥ २२४ ॥ २५ ॥ लिम्पतीति । नोकाईमिदम्, असत्पुरुषसेवेव दृष्टिविफलता
१२
Page #140
--------------------------------------------------------------------------
________________
काव्यादर्श कषाश्चिटुपमाभान्ति रिव शुखेह जायते। नोपमानं तिङन्तेनेत्यतिक्रम्याप्तभाषितम् ॥२२७॥ उपमानोपमेयत्वं तुल्यधर्मव्यपेक्षया । लिम्पतेस्तमसश्चासौ धर्मः कोऽत्र समीक्ष्यते॥२२८॥ गतेत्यपराई मृच्छकटिकनाटके वर्षावर्णनप्रकरणोक्तम् । तमः अन्धकारम् अङ्गानि शरीराणि लिम्पतीव, नभः आकाशम् अञ्जन वर्षतौव । इतीदमपि पद्याई भूयिष्ठं सम्यक् उत्प्रेक्षाया लक्षणेन अन्वितं युक्तम्। अत्र अचेतनस्य तमसः व्यापनरूपो धर्मः लेपनत्वेन तथा तादृशस्य तमसः सम्पातरूपो धर्मो नमःकर्तकाञ्जनवर्षणरूपत्वेन सम्भावित इति उभयत्रैव विषयस्यानुपादानम् ॥ २२६ ॥ __ मन्ये शङ्के इत्यादिपदप्रयोगे एवोत्प्रेक्षा इव प्रयोगेतूपमैवेति केषाञ्चिन्मतं दूषयति केषाञ्चिदिति । इह लिम्पतीति पो इवश्रुत्या इवशब्दप्रयोगेण तिङन्तेन उपमानं न इति प्राप्तानां प्रामाणिकानां सुधियां भाषितं वचनम् अतिक्रम्य अनादृत्य केषाञ्चित् अज्ञानामित्यर्थः उपमाभ्रान्ति: उपमालकार एवात्रेति भ्रमः जायते इत्यन्वयः । अयं भाव: उपमानस्य सिद्धत्व साध्यत्वञ्च उभयोर्भेदकम् । उपमायाम् उपमानस्य सिद्धत्वमावश्यकम् इह तु साध्यत्वम् । तथाच तिङन्तपदप्रतिपाद्यस्य लेपनस्य वर्षणस्य च साध्यत्वाबात्रीपमाशङ्केति। उताञ्च, सिद्दमेव समानार्थमुपमानं विधीयते। तिङन्तार्यन्तु माध्यत्वादुपमानं न जायते इति ॥ २२७ ॥
उपमाशङ्कानिराशाय युक्तिमपि दर्शयति उपमानोपमेय. त्वमिति। तुल्यधर्मस्व समानगुणादिरूपसाधारणधर्मस्य बपे
Page #141
--------------------------------------------------------------------------
________________
हितीयः परिच्छदः। यदि लेपनमेवेष्टं लिम्मतिर्नाम कोऽपरः ।.. स एव धर्मो धर्मों चेत्यु नात्तोऽपि न भाषते २२८ कर्ता बापमानं स्यात् न्यग्भूतोऽसौ क्रियापदे । खक्रियासाधनव्यग्रो नालमन्यदपेक्षितुम् ॥२३०॥ च्या अनुरोधेन उपमानोपमेयत्वं भवतीति भेषः। अब पिम्पतेः लिम्पतौति क्रियावाचकस्य पदस्य, नामवानुकरणात् पोति बोध्यम्। तमसच असौ धर्मः साधारण इत्यर्थः । क: समोसते लक्ष्यते न कोऽपौत्यर्थः तस्मात् साधाभावाच मोपमाशरेति भावः ॥ २२८ ॥
पुनवापत्तिमुद्भावयन् खण्डयति यदौति। यदि लेपनश्रीव र साधारणधर्मतया अभिलषितं तदा लिस्पतिः नाम पारः साधारणधर्मवान् उपमानरूपो धर्मीत्यर्थः कः न बोऽपौत्यर्थः। वैयाकरापारस्यैव विशेष्यतया तिजन्तपदप्रतिपाद्यत्वेनोक्तत्वात्। तदुक्तं, फलव्यापारयोर्धातुरावे तु तिङः स्मृताः। फले प्रधानं व्यापारस्तिर्थस्तु विशेषणमिति । तथाच, लेपनस्यैव धर्मिलं न तु धर्मत्वमिति व्यतीपतम्। लिम्पतिरित्यत्र अनुकरण प्रथमेति बोध्यम्। ननु एकरीव लेपनस्य धर्मित्वं धर्मवञ्चास्तु इत्याशयाहस एवेति। स एव लिम्पतिरेव धर्मो धर्मी चेति उन्मत्तोऽपि वातुलोऽपि न भाषते, उन्मत्तेनापि एकस्य धर्मित्वं धर्मत्वं नोचते का कथा सुधिषामिति भावः ॥ २२८ ॥
पुनरप्यापत्तिं खण्डयति कर्तेति। यदि कर्ता तिला प्रतिपाद्य: लेपनरूपव्यापाराश्रयः उपमानं स्वात् तमस -प्रमानलेन मन्येत, तदपि न इति शेषः, यतः असौ कर्ता
Page #142
--------------------------------------------------------------------------
________________
काव्यादर्श
यो लिम्पत्यमुना तुल्यं तम इत्यपि शंसतः । अङ्गानीति न सम्बद्धं सोऽपि मृग्यः समो गुण:२३१ ययेन्दरिव ते वक्त्रमिति कान्तिः प्रतीयते।।। क्रियापदे व्यापाररूपे न्यग्भूतः विशेषणत्वात् तिरस्कृतः, तिङर्थस्य विशेषणत्वं पूर्वमुक्तम् । न हि विशेषणमुपमान भवति विशेषणस्य साध्यतया उपमानस्य च सिद्धतया सर्व सम्मतत्वादिति भावः । तथाहि, स्वक्रियाया लेपनरूपाया. साधने व्यग्रः व्यापूतः असौ कर्ता अन्यत् कार्यान्तरम् अपेक्षितुं द्रष्टुं साधयितुमित्यर्थः न अलं न समर्थः । अयं भाव एकस्याधीनो यथा अन्यस्य कार्य न कत्तुं शक्नोति तथा एकस्य विशेषणतया अधीनः कर्ता अन्यस्य उपमानरूपविशोषणतामाप्तुं न प्रभवतीति। उक्तञ्च दौधितिकारण, इसर विशेषणत्वेनोपस्थितस्यान्यन विशेषणत्वेनान्वयायोमादिलिन अतो नात्र कत्तुंरुपमानत्व सङ्गच्छत इति ॥ २३० ॥
तिर्थप्राधान्यवादिनैयायिकमतानुसारिणीमपि भापति खण्डयति य इति। यो लिम्पति, तमः अमुना तुल्यम्, पत्र यददःशब्दप्रयोग उपमानोपमेयत्वसूचकः, इत्यपि भंसतः कथयतः वादिनः मते इति शेषः, अङ्गानि इति कर्मपदं न न सम्बई न सङ्गतम् उपमेयतमःकर्तृकतदन्वययोग्यक्रियान्तराभावात् उपमेयांश अनन्वयाच्चेति। ननु अङ्गकर्मकलेपनकर्त तम इत्येवं शाब्दबोधे का क्षतिरिति चेत् तत्राह स इति। सः समः साधारणः गुणोऽपि मृग्यः अन्वेष्टव्यः अवश्यं वाथ इत्यर्थः तदप्रयोगे उपमाया असम्भवादिति भावः ॥२३१॥ . ननु साधारणधर्माप्रयोगे लुप्तोपमापि भवतीति चेन् ।
Page #143
--------------------------------------------------------------------------
________________
हितीयः परिच्छदः ।
न तथा लिम्पती लेपादन्यदव प्रतीयते ॥२३२॥ तदुपश्लेषणार्थोऽयं लिम्पतिर्धान्तकर्तृकः । अङ्गकर्मा च पुंसेवमुत्प्रेक्ष्यत इतोष्यताम् ॥२३३॥ मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः॥२३४॥
इति उत्प्रेक्षाचक्रम् ।
तत्राह यथेति। ते वक्त्रम् इन्दुरिव इत्यत्र यथा कान्तिः सौन्दर्यं साधारणधर्मतया प्रतोयते पत्र लिम्पती लेपात् अन्यत् किमपि तथा तहत् न प्रतीयते। तथाच, साधारणधर्माप्रयोगेऽपि यत्र सादृश्यस्य प्रसिद्धतया साधारणधर्मस्य स्फुटत्वं तत्रैव लुप्तोपमा, अत्र तु तमसः लेपनकर्तुश्च न तथात्वमिति काचिद् विप्रतिपत्तिरिति भावः ॥ २३२ ॥
उपसंहरति तदिति। तत् तस्मात् उपश्लेषणं व्यापनमेव अर्थो यस्य तथाभूतः ध्वान्तकर्तृकः तमःकर्तृकः तथा अङ्गकर्मा अयं लिम्पतिः लेपनक्रिया पुंसा कविनिबन्धनवना उत्प्रेक्ष्यते सम्भाव्यते इति दृष्थताम् इष्टत्वेन गृह्यताम् । तथाच, तमःकर्तृकमङ्गव्यापनम् उत्प्रेक्षाया विषयः लेपनञ्च विषयि, ततश्च प्रस्तुतस्तमोव्यापनरूपो विषयः अप्रस्तुततादृशलेपनरूपविषयित्वेन उत्प्रेक्ष्यते न तूपमानभूतेन तेन उपमीयते इति भाष्यम् ॥ २३३ ॥
इवशब्दस्य उत्प्रेक्षाया व्यञ्जकत्वमाह मन्ये इति। मन्ये इत्यादिभिः शब्दः उत्प्रेक्षा व्यज्यते, इवशब्दोऽपि तादृश उत्प्रेक्षाव्यञ्जक इत्यर्थः ॥ २३४ ॥
Page #144
--------------------------------------------------------------------------
________________
काव्यादर्भे
१३८
हेतुश्च सूक्ष्मलेशौ च वाचामुत्तमभूषणम् । कारकज्ञापको हेतू तौ चानेकविधौ यथा ॥ २३५॥ अयमान्दोलितप्रौढ़चन्दनद्रुमपल्लवः ।
हेतुसूक्ष्मलवाख्यानलङ्गारानुद्दिशति हेतुरिति । हेतु: सूक्ष्मः तथा लेशः लव इत्युद्देशवाक्येनोक्तः एते त्रयः वाचाम् उत्तमभूषणम् उत्कृष्टालङ्काराः एतेषामलङ्कारत्वमनङ्गीकुर्वतो भामहादीन् प्रति कटाक्षोक्तिरियम् । तत्र हेतू द्विविधौ कारकः ज्ञापकश्च हेतुत्वञ्च, सिषाधयिषितार्थसाधकत्वम् । उक्तञ्च, सिषाधयिषितार्थस्य हेतुर्भवति साधकः । कारको ज्ञापक इति द्विधा सोऽप्युपजायते । प्रवर्त्तते कारकाख्यः प्राक् पश्चात् कार्य्यजन्मतः । पूर्वः शेष इति ख्यातस्तयोरेव विशेष्यता । कार्य्यकारणभावाद् वा स्वभावाद् वा नियामकात् । अविनाभावनियमादविनाभावदर्शनात् । ज्ञापकस्य च भेदोक्तिर्वेद्या पूर्वोक्तिदर्शनात् इति । भोजराजेनाप्युक्तं यः प्रवृत्तिं निवृत्तिञ्च प्रयुक्तिञ्चान्तराविशन् । उदासीनोऽपि वा कुर्य्यात् कारकं तं प्रचक्षते । द्वितीया च तृतीया च चतुर्थी सप्तमी च यम् । क्रियानाविष्टमाचष्टे लक्षणं ज्ञापकश्च सः इति । तौ च कारकज्ञापकौ अनेकविधौ बहुप्रकारौ उदाहरणेषु ज्ञातव्यौ इति शेषः अस्मिंश्व हेत्वलङ्कारे मतान्तरोक्तस्य काव्यलिङ्गस्य कार्य्यकारणभावोक्तार्थान्तरन्यासस्य तथा अनुमानस्य अन्तर्भावात् न पृथगुक्तिरिति बोध्यम् । दर्पणकारस्तु अभेदेनाभिधा हेतुर्हेतोर्हेतुमता सहेति लक्षणमाह । स चास्मिन् मते अतिशयोक्तिरेवेति ध्येयम् ॥ २३५ ॥
•
कारकहेतुमुदाहरन्नाह अयमित्यादि अयम् आन्दोलिताः
Page #145
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छ ेदः ।
१३८
उत्पादयति सर्वस्य प्रीतिं मलयमारुतः ॥ २३६ ॥ प्रीत्य ुत्पादनयोग्यस्य रूपस्यावोपवृंहणम् । अलङ्कारतयोद्दिष्टं निवृत्तावपि तत्समम् ॥ २३७॥ चन्दनारण्य माधूय स्पृष्ट्रा मलयनिर्झरान् । पथिकानामभावाय पवनोऽयमुपस्थितः ॥ २३८॥ अभावसाधनायालमेवम्भूतो हि मारुतः । विरहज्वरसम्भूतमदनाग्न्यातुरे जने ॥ २३६ ॥
आधूताः प्रौढ़ाः परिणताः चन्दनद्रुमस्य पल्लवा येन तादृशः मलयमारुतः सर्वस्य प्रीतिम् उत्पादयति । अत्र मलयमारुतस्य प्रौत्युत्पादने कारकत्वम् आन्दोलितेत्यादिविशेषणवत्तया समधिकं वैचित्त्रप्रमावहति सहृदयानामिति । अत्र प्रीत्युत्पादनयोग्यस्य रूपस्य वैचित्राजनकतया कौर्त्तनम् अलङ्कारतया उद्दिष्टं कथितं तत् उपबृंहणं निवृत्तावपि निषेधेऽपि समं तुल्यम् । यथा, मुग्धे ! तव मुखामोदलोलुपो मधुपो भ्रमन् । कर्णिकाकमलं फुल्लमपि नाभिसरत्ययमिति । अत्र अभिसरणक्रियाया निषेधः ॥ २३६ ॥ २३७ ॥
पूर्वं भावसाधने उदाहरणं दर्शयित्वा इदानीम् अभावसाधनाय उदाहरति चन्दनेति । अयं पवनः चन्दनारस्यं चन्दनवनम् आधूय कम्पयित्वा तथा मलयनिर्झरान् स्पृष्ट्वा पथिकानाम् अभावाय नाशाय उपस्थितः तादृशस्य पवनस्य विरहिणामतौव दुःसहत्वादिति भावः ॥ २३८ ॥
अभावेति । एवम्भूतः उक्तगुणसमन्वितः मारुतः विरहज्वरेण सम्भूतः यः मदनाग्निः तेन आबुरे जने अत्र षष्ठयर्थे
Page #146
--------------------------------------------------------------------------
________________
१४.
काव्यादर्श निर्वत्यै च विकार्ये च हेतुत्वं तदपेक्षया। . प्राप्येतु कर्मणि प्रायः क्रियापजैव हेतुता ॥२४॥ हेतुनिर्वर्तनीयस्य दर्शितः शेषयोईयोः । सप्तमौ। तादृशस्य जनस्य इत्यर्थः अभावसाधनाय अलं समर्थः, अत्र अभावसाधको हेतुरिति भावः ॥ २३८ ॥
हेतुत्वस्य क्रियाकर्मोभयापेक्षिता, तत्र क्रियापेक्षित्वे उदाहृतं सम्प्रति कर्मापेक्षित्वमाह निर्वत्यै चेति। निवर्त्य च विकार्ये च कर्मणि तदपेक्षया हेतुत्वं तत्तत्कर्मापेक्षी हेतुरित्यर्थः, प्राप्ये तु कर्मणि प्रायः बाहुल्येन हेतुता क्रियापेक्षैव क्रियापेक्षी हेतुरित्यर्थः । तत्र निर्वत्यै पूर्वमसदेव क्रियया जन्यम् अथवा पूर्व सदेव क्रियया प्रकाश्यमानमिति विविधम । यथा, कटं करोति, पुत्रं प्रसूते इत्यादि। विकाS क्रियया रूपान्तरमापाद्यमानम्। यथा, काष्ठं दहति सुवर्णं कुण्डलं करोति इत्यादि। दहति भस्मीकरोतीति भस्मैव काष्ठस्य रूपान्तरं बोध्यम्। उक्तञ्च, यदसज्जायते पूर्व जन्मना यत् प्रकाशते। तनिवर्त्य विकार्यच्च कर्म इंधा व्यवस्थितम् । प्रकृत्युच्छेदसम्भूतं किञ्चित् काष्ठादिभस्मवत्। किञ्चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् इति। प्राप्यन्तु क्रियाव्याप्तमेव न तु विकत्यादिगुणान्तरितम् । तदुक्तं, क्रियाकतविशेषाणां सिद्धिर्यत्र न गम्यते। दर्शनादनुमानाद् वा तत् प्राप्यमिति कथ्यते इति । जोमरास्तु अनौप्सितमपि कर्मेच्छन्ति । यथा, दुःसंसर्ग परिहरतीत्यादि । अवापि क्रियापेक्षो हेतुरिति बोध्यम् ॥ २४० ॥
हेतुरिति। निर्वर्तनीयस्य कर्मण: हेतुः दर्शित: अय
Page #147
--------------------------------------------------------------------------
________________
हितीयः परिच्छी दः ।
१४१
दत्त्वोदाहरगहन्द जामको वर्णयिष्यते ॥ २४१ ॥ उत्प्रबालान्यरण्यानि बाप्यः संफुल्लपसनाः । चन्द्रः पूर्णश्च कामेन पान्यष्टविषं कृतम् ॥२४२॥ मानयोग्यां करोमौति प्रियस्थानस्थितां सखीम्। बालाभ भङ्गजिह्माक्षी पश्यति स्फुरिताधरा॥२॥३॥ मान्दोलितेत्यायुदाहरणे इति शेषः । शेषयोः उक्तावशिष्टयोः इयोः विकार्यप्राप्ययोरित्यर्थः उदाहरणहन्द दत्वा दर्शयित्वा ज्ञापको हेतुः वर्णयिष्यते। प्रतिज्ञेयं शिष्याणामुत्कण्ठावारणायेति बोध्यम् ॥ २४१ ॥
विकार्यहेतुं दर्शयति उत्प्रबालानौति। अरण्यानि उत्प्रबालानि उगतपल्लवानि, वाप्यः दीर्घिका: संफुल्लानि पकजानि यासु ताः, तथा चन्द्रः पूर्णश्च, अत: कामेन पान्थदृष्टेः पथिकनयनस्थ विषं कृतम् उक्तानामेव त्रयाणामतीवोद्दीपक तया सन्तापकत्वादिति भावः । अत्र उक्तत्रयं विषं कृतं विषी भावरूपं विकारमापादितमिति आरोपरूपवैचित्रास्यैव हेत्वलङ्कारत्वम् अनेवंविधे सुवर्णं कुण्डलं करोतीत्यादी विकारस्य सत्यतया वैचित्रवाभावाबालङ्कारतेति बोध्यम् ॥ २४२ ॥
प्राप्यतुं दर्शयति मानयोग्यामिति। बाला मुग्धा काचित् भुवोर्भङ्गेन जिह्मे अक्षिणी यस्याः सा, तथा स्फुरितः कम्पितः अधरो यस्यास्तादृशी सती मानयोग्यां मानाभ्यामम् अभ्यासः खुरली योग्येत्यमरमाला। करीमीत्यभिप्रेत्येति शेषः प्रियस्य स्थाने सकाशे स्थिता सखीं पश्यति निरीक्षते । अत्र सखौमिति प्राप्यकर्मापेक्षी बालायास्तादृशसकोपनिरीक्षणे हेतुरिति बोध्यम् ॥ २४३ ॥
Page #148
--------------------------------------------------------------------------
________________
काब्बादमें
गतोऽस्तमर्को भातीन्दर्यान्ति वासाय पचिणः । इतीदमपि साध्वेव कालावस्थानिवेदने ॥ २४४॥ अबध्यैरिन्दुपादानाम साध्यैश्चन्दनाम्भसाम् । देहोष्मभिः सुबोधं ते सखि ! कामातुरं मनः २४५ इति लक्ष्याः प्रयोगेषु रथ्या ज्ञापकहेतवः । अभावहेतवः केचिद् व्याहियन्ते मनोहराः ॥ २४६॥
१४२
ज्ञापकहेतुमुदाहरति गत इति । अर्कः अस्त ं गतः, इन्दुः भाति, पक्षिणः वासाय वासस्थानाय यान्ति गमनार्थयोगे कर्मणि चतुर्थी । इति उक्तरूपम् इदं गतोऽस्तमर्क इत्यादिकं कालावस्थायाः कालविशेषस्य सन्ध्याया इत्यर्थः निवेदने ज्ञापने साधु एव वैचित्राजनकत्वात् उत्कृष्टोप्राय इत्यर्थः, अर्कस्यास्तमितत्वादिः ज्ञापको हेतु:, ज्ञाप्या च सन्ध्या अत्र तु ज्ञाप्यस्य अशब्दत्वात् प्रतीयमानत्वम् । सन्ध्या वर्त्तते इत्यादौ तु नालङ्कारता वैचित्रयाभावादिति बोध्यम् ॥ २४४ ॥
नाप्यस्य शाब्दत्वे उदाहरति अबध्यैरिति । हे सखि ! ते तव कामातुरं विरहाकुलं मनः इन्दुपादानां चन्द्रकिरणानाम् अबध्यैः अनाश्यैः, तथा चन्दनाम्भसां चन्दनाक्तजलानाम् असाध्यैः अप्रतिकार्यैः देहस्य उष्मभिः सन्तापैः सुबोधं सुखेन ज्ञेयम् । अत्र कामातुरं मनोरूपं ज्ञाप्यं शब्द देहतापाच ज्ञापकाः । अत्र च वैचित्त्रयविशेषवत्त्वा एवास्यालङ्कारस्य विषय इति ॥ २४५ ॥
इतीति । इति एवंरूपा: ज्ञापक हेतवः रम्याः सहृदयचम कारकाः प्रयोगेषु कवीनां निबन्धेषु लक्ष्याः ज्ञातव्याः,
Page #149
--------------------------------------------------------------------------
________________
हितीयः परिच्छेदः ।
अनभ्यासेन विद्यानामसंसर्गेण धीमताम् । अनिग्रहेण चाक्षाणां जायते व्यसनं नृणाम्॥२४७॥ गतः कामकथोन्मादो गलितो यौवनज्वरः । गतो मोहता तृष्णा कृतं पुण्याश्रमे मनः ॥ २४८ ॥
१४३
3
अभावरूपाः मनोहराः केचित् हेतवच व्याक्रियन्ते उच्चन्ते
॥ २४६ ॥
अभावरूपाश्च हेतवश्चतुर्विधाः प्रागभावः ध्वंसाभावः अन्योन्याभावः अत्यन्ताभावश्चेति मनसि कृत्वा क्रमेण उदाहरिष्यन् प्रथमं प्रागभावमाह अनभ्यासेनेति । विद्यानाम् अनभ्यासेन अशिक्षया, धीमतां साधूनाम् असंसर्गेण तथा अक्षाणाम् इन्द्रियाणाम् श्रनिग्रहेण असंयमेन हेतुना नृणां व्यसनं स्त्रोपानाद्यष्टादशविधं दुष्षु वृत्तिरिति यावत् जायते । उक्तञ्च मनुना व्यसनप्रस्तावे, मृगयाक्षो दिवास्वप्नः परीवादः स्त्रियो मदः । तौर्य्यत्रिकं वृथाव्या च कामजो दशको गणः । पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजञ्च पारुष्यं क्रोधजोऽपि गणोऽष्टक इति । अत्र पूर्वं विद्याभ्यासाद्यभाव व्यसनोत्पत्तिरिति विद्याभ्यासादीनां व्यसनं प्रति प्रागभावरूपहेतुत्वम् ॥ २४७ ॥
प्रध्वं समुदाहरति गत इति । कामकथया उन्मादः उन्मतता गतः, यौवनन्वरः गलितः, मोह: अज्ञानं गतः, तृष्णा वासना च्युता, अतः पुण्याश्रमे सन्यासाश्रमे मनः कृतम् अर्पितम् । अत्र कामकथादीनां ध्वंसरूपस्य अभावस्य पुण्याश्रमगमने हेतुत्वम् ॥ २४८ ॥
Page #150
--------------------------------------------------------------------------
________________
१४४
काव्यादर्भ
बनान्यमूनि न गृहाण्येता नद्यो न योषितः । . मृगा इमे न दायादास्तन्मे नन्दति मानसम् २४६ अत्यन्तमसदाऱ्याणामनालोचितवेष्टितम् । अतस्तेषां विवईन्ते सततं सर्वसम्पदः ॥ २५० ॥ उद्यानसहकाराणामनुझिन्ना न मञ्जरी। दयः पथिकनारीणां सतिलः सलिलाञ्जलिः॥२५१
अन्योन्याभावमुदाहरति वनानौति। अमूनि वनानि, गृहाणि न, एता नद्यः, योषितः न इमे मृगाः, दायादाः न, तत् तस्मात् मे मम मानसं नन्दति, ग्रहाश्रमाद वानप्रस्थाश्रम गतस्योक्तिरियम् । अत्र वनग्रहादीमाम् अन्योन्यभेदेन मानसनन्दने अन्योन्याभावरूपहेतुत्वम् ॥ २४८ ॥
अत्यन्ताभावमुदाहरति अत्यन्तमिति। आर्याणां साधनाम् अनालोचितचेष्टितम् अविमृष्यकारित्वम् अत्यन्तम् असत् अविद्यमानं नास्तीत्यर्थः, अतस्तेषां सर्वसम्पदः सततं विवईन्ते। अत्र अविमृष्थकारिताया अत्यन्ताभावः सर्वसम्पदृष्टी हेतुरिति ॥ २५० ॥
सम्प्रति अभावाभावरूपं हेतुं दर्शयति उद्यानेति । उद्यान सहकाराणाम् उपवनचूतानां मञ्जरी न अनुद्भिवा अपितु उद्भिन्ना, अतः पथिकनारीणां प्रोषितभर्तृकाणां सतिलः सलिलाञ्जलि: देयः, चूतमचर्युद्धेदेन वसन्तोदयात् तस्य च सातिशयोद्दीपकत्वात् तादृशीनां मरणमुपस्थितमिति ध्वन्यते। अत्र मनरीणामुद्भेदाभावस्य अभावरूपो हेतुरिति अभावा: भावस्य हेतुत्वम् ॥ २५१ ॥
Page #151
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः ।
प्रागभावादिरूपस्य हेतुत्वमिह वस्तुनः । भावाभावस्वरूपस्य कास्योत्पादनं प्रति ॥ २५२ ॥
१४५
दूरकायैस्तत्सहनः कार्य्यानन्तरजस्तथा । अयुक्तयुक्तकार्य्यं चेत्यसंख्याश्चिवहेतवः ॥ २५३ ॥ तेऽमो प्रयोगमार्गेषु गौणवृत्तिव्यपाश्रयाः । अत्यन्तमुन्दरा दृष्टास्तदुदाहृतयो यथा ॥ २५४ ॥
अभावहेतुमुपसंहरति प्रागिति । इह उदाहरणेषु इत्यर्थः । भावाभावस्वरूपस्य भावरूपस्य अभावरूपस्य च काय्र्यस्य उत्पादनं प्रति प्रागभावादिरूपस्य वस्तुनः विषयस्य हेतुत्वं दर्शितमिति शेषः ॥ २५२ ॥
इति ।
अधुना चित्राख्यहेतुभेदान् निर्दिशति दूरका दूरे कार्य्यं यस्य सः, तत्सहजः तेन कार्येण सह जातः, , कार्यान्तरजः कार्य्यान्तरं जातः, अयुक्तकार्य्यः त्रयुक्तम् अनुचितं कार्य्यं यस्य सः, तथा युक्तकाय्र्यः युक्तम् उचितं कार्यं यस्य सः, इति एवंप्रकाराः असंख्या: संख्यातीताः बहुविधा इत्यर्थः चित्रहेतवः चित्राख्याः हेतवः । उक्तञ्च भोजराजेन, क्रियायाः कारणं हेतुः कारको ज्ञापकस्तथा । प्रभाववित्रहेतुख चतुविध इष्यते इति ॥ २५३ ॥
तेऽमीति । ते पूर्वोक्ता अमी चित्रहेतवः गौणी या वृत्तिः सादृश्यनिबन्धना लक्षणा सैव व्यपाश्रयः अवलम्बनं येषां तादृशाः तादृशलक्षणा वृत्तिनिबन्धनाः प्रयोगाणां निबन्धानां मार्गेषु रीतिषु अत्यन्तसुन्दराः अतिमनोहराः दृष्टाः, यथा तेषामुदाहृतयः उदाहरणानि वच्यमाखानीत्यर्थः ॥ २५४ ॥
१३
Page #152
--------------------------------------------------------------------------
________________
१४६
काव्यादर्श
त्वदपाङ्गावयं जैवमनङ्गास्वं यदङ्गने ! ।
मुक्तं तदन्यतस्तेन सोऽप्यहं मनसि क्षतः ॥ २५५ ॥ आविर्भवति नारीणां वयः पर्यस्तशैशवम् । सहैव विविधैः पुंसामङ्गजोन्मादविभ्रमैः ॥ २५६ ॥ पश्चात् पर्य्यस्य किरणानुदौर्गं चन्द्रमण्डलम् । प्रागेव हरिणाक्षीणामुदोर्णो रागसागरः ॥ २५७॥
दूरकार्य्यमुदाहरति त्वदपाङ्गाह्वयमिति । हे अङ्गने ! चार्वङ्गि ! यत् तत् प्रसिद्धं जैत्रं जयसाधनं तव अपाङ्गाख्यम् अपाङ्गरूपम् अनङ्गस्य कामस्य अस्त्रम् अन्यतः अन्यस्मिन् जमे मुक्तं पातितं त्वयेति शेषः तेन अस्त्रेण सः लक्ष्यभूतः जनः तथा अहमपि अलक्ष्यभूत इत्यर्थः मनसि चतः विचः । अत्र अस्त्रस्य लक्ष्यवेधरूपं कार्य्यं विहितम् अलक्ष्यवेधरूपन्तु दूरवर्त्ति इति हेतोरस्तस्य दूरकार्यत्वं तस्य चासम्भवाञ्चितमिति ।। २५५ ॥
तत्सहज मुदाहरति आविर्भवतीति । नारीणां पर्य्यस्तं निराकृतं शैशवं येन तादृशं वयः यौवनमित्यर्थः पुंसां विविधैः अङ्गजेन कामेन यः उन्मादः तस्य विभ्रमैः सहैव आविर्भवति । अव नारीणां यौवनरूपस्य हेतोस्तत्काय्यभूत पुरुषविश्वमैः महाविर्भावात् तत्सहजत्वं तच्च कार्यकारणयोर्योगपद्येन वैचिवयातिशयसूचनात् चित्रम् ॥ २५६ ॥
कार्य्यानन्तरजमुदाहरति पञ्चादिति ।
हरिणाक्षीणां
रामसागरः प्रमानुरागसमुद्रः प्रागेव उदीर्णः उच्छलितः स्फीत इत्यर्थः, पञ्चात् किरणान् पर्यस्य उत्क्षिप्य चन्द्रमण्डलम्
Page #153
--------------------------------------------------------------------------
________________
हितीयः परिच्छेदः ।
१४७ राज्ञां हस्तारबिन्दानि कुट्मलीकुरुते कुतः । देव ! त्वच्चरणहन्दुरविबालातपः स्मशन् ॥ २५८ ॥ पाणिपद्मानि भूपानां सङ्कोचयितुमौशते । त्वत्पादनखचन्द्राणामर्चिषः कुन्दनिर्मलाः ॥२५६॥ इति हेतुविकल्पानां दर्शिता गतिरीदृशी।
इति हेतुचक्रम् । उदौर्णम् उदितम् । अत्र चन्द्रोदयस्य रागोहीपकत्वात् कारपस्य तत्कार्य्यस्य च रागस्य पश्चाजातत्वेन कार्यानन्तरनत्व तञ्च कार्यकारणयोरग्रपश्चाद्भावप्रतिपादनेन समधिकं वैचित्रामावहतौति चित्रम् ॥ २५७ ॥
अयुक्त कार्य्यमुदाहरति राज्ञामिति। हे देव ! तव चरणइन्वमेव रविः तस्य बालातप: नवोदितार्कमयूखः अत्र चरणराग बालातपत्वारोषात् अतिशयोक्तिरूपालङ्कारो व्यज्यते । राज्ञां हस्ता एव अरविन्दानि तानि स्पृशन् कुतः कुद्मलोकुरुते मुकुलौकरोतीत्यर्थः बालातपस्पर्शात् अरविन्दानां विकास एव भवति न तु सङ्कोचः, अत्र कारणस्य तस्य तत्सङ्कोचरूपकार्यमयुक्तमिति अयुक्त कार्यत्वं तच राजविषयकरतिभावस्य सातिशयचमत्कारविषयत्वात् अतिमनोरममिति चित्रम् ॥२५८॥
युक्तकार्यमुदाहरति पाणिपद्मानौति। कुन्दनिर्मलाः कुन्दपुष्पधवलाः तव पादनखरूपचन्द्राणाम् अर्चिषः भूपानां पाणिरूपाणि पद्मानि सङ्कोचयितुम् ईशते प्रभवन्ति। अत्र चन्द्रकिरणरूपकारणस्य पद्मनिमोलनकायं युक्तं तच्च राजविषयिणो रतिभावस्थ व्यसकतया सातिशयां चमत्कतिपदवीमारोहतौति चित्रम् ॥ २५८ ॥
Page #154
--------------------------------------------------------------------------
________________
काव्यादर्थे
इङ्गिताकारलक्ष्योऽर्थः सौक्ष्मात् सूक्ष्म इति स्मृतः
॥२६०॥
कदा नौ सङ्गमो भावीत्याकीर्णे वक्तुमक्षमम् । अवेक्ष्य कान्तमबला लीलापद्मं न्यमीलयत् ॥ २६१ पद्मसम्मौलनादव सूचितो निशि सङ्गमः । श्राश्वासयितुमिच्छन्त्या प्रियमङ्गजपौड़ितम् ॥ २६२॥
१४८
हेतुमुपसंहरति इतीति । हेतोर्विकल्पानां प्रभेदानाम् इति पूर्वोक्तप्रकारा गतिः दर्शिता । अनयैव रीत्या अन्येऽपि प्रभेदाः ज्ञातव्या इति भावः ।
इति हेतुचक्रम् |
अथ सूक्ष्मं निरूपयति इङ्गितेति । अभिप्रायप्रकाशकचेष्टाविष्कारः इङ्गितं हृतो भाव इति विश्वः । आकारः अवस्थाविशेषव्यच्चकमुखरागादिः, स्यादाकारोऽङ्गवैकृतमिति वोपालितः । एताभ्यां लक्ष्यः अनुमेयः अर्थः विषयः सौक्ष्मात् दुर्ज्ञेयत्वात् सूक्ष्म इति स्मृतः । प्रकाशकारस्तु, कुतोऽपि लक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश्यते । धर्मेण केनचिद यत्र तत् सूक्ष्मं परिचचते इत्याह । संलक्षितस्तु सूक्ष्मोऽर्थ आकारेणेङ्गितेन वा । कयापि सूच्यते भया यत्र सूक्ष्मं तदुच्यत इति दर्पणकारः ॥ २६० ॥
S
इङ्गितलक्ष्यं सूक्ष्ममुदाहरति कदेत्यादि । कदा कस्मिन् समये नौ आवयोः सङ्गमो भावी इति आकीर्णे जनबहुले स्थाने वक्तुमचमं कान्तम् अवेक्ष्य अवला कामिनी लीलापद्मं क्रीड़ाकमल न्यमीलयत् समकोचयत्। अत्र अङ्गजपौड़ितं
Page #155
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छ ेदः ।
मदर्पितस्तस्या गीतगोष्ठप्रामंबईत ।
उद्दामरागतरला छाया कापि मुखाम्बुजे ॥ २६३ ॥ इत्यनुङ्गिन्नरूपत्वात् रत्युत्सवमनोरथः । अनुल्लङ्घय व सूक्ष्मत्वमभूदव व्यवस्थितः ॥ २६४ ॥ इति सूक्ष्मम्
१४८
कामार्त्तं प्रियम् श्राश्वासयितुम् इच्छन्त्या अनया कामिन्या पद्मसम्मौलनात् निशि रात्रौ सङ्गमो भावौति शेषः सूचितः । पद्मनिमोलनमिह इङ्गितं निशि प्रियसङ्गमरूपसूक्ष्मोऽर्थ इति बोध्यम्, अस्य च सहृदयचमत्कारितया अलङ्कारत्वमवगन्तव्यम् ॥ २६९ ॥ २६२ ॥
आकारलक्ष्यं सूक्ष्मं दर्शयति मदर्पितदृश इति 1 गीतमोष्ठयां सङ्गीतसंसदि मयि अर्पिते दृशौ यया तादृश्याः तस्याः मुखाम्बुजे उद्दामः अतिप्रवृद्धः यः रागः रमणाभिलाषः तेन तरला विकस्वरा कापि अनिर्वचनीया छाया कान्तिः अवर्द्धत, अत्र मुखच्छायावैलक्षण्येन नायिकाया रत्युत्सवाभिलाषस्त्र लचितत्वात् सूक्ष्मत्वम् ॥ २६३ ॥
नन्वत्र तादृशमनोरथस्य सुव्यक्ततैव कथं तर्हि सूक्ष्मत्वमित्याशङ्क्याह इतीति । अत्र रत्युत्सवमनोरथः अनुद्भिन्नरूपत्वात् आकारलक्षितत्वेन स्फुटतया प्रतीयमानत्वाभावात् सूक्ष्मत्वम् अनुल्लङ्घैत्रव अपरित्यज्यैव व्यवस्थितः वर्णितः अभूदित्यन्वयः । तथाच तादृशौ मुखच्छाया अवश्यमेव रत्युत्सवमनोरथं व्यञ्जयतीति न तावत्रियमः अन्यविधमनोरथेऽपि तत्सम्भवात् अतोऽत्र विशेषपर्य्यालोचनया तादृशसुनिपुणो लक्ष
Page #156
--------------------------------------------------------------------------
________________
१५०
काव्यादर्श लेशो लेशेन निर्भिन्नवस्तुरूपनिगृहनम् । 'उदाहरणमेवास्य रूपमाविर्भविष्यति ॥ २६५ ॥ राजकन्यानुरक्तं मां रोमोङ्देन रक्षकाः । अवगच्छेयुरा जातमहो शीतानिलं वनम् ॥२६६॥ आनन्दाश्रु प्रवृत्त मे कथं दृष्ट्वैव कन्यकाम् । यिता कथञ्चितू इममर्थं लक्षयितुं शक्नोतोति सूक्ष्मालङ्कारस्थावकाश इति बोध्यम् ॥ २६४ ॥ ___ इदानीमुद्देशवाक्यप्राप्तलवापरपर्सायं लेशं निरूपयति लेश इति। लेशेन किञ्चिन्मावतया निर्भिवस्य प्रकटितस्य वस्तुन: यद् रूपं तस्य निगूहनं गोपनं लेशः, उदाहरणम् एव अस्य अलङ्कारस्य रूपं स्वरूपम् आविर्भविष्यति प्रकाशिष्यते । इममेव व्याजोक्तिं वदन्ति केचित्। यथा, व्याजोक्तिश्छद्मनोशिववस्तुरूपनिगूहनम् इति। अपहृतौ लेशनिर्भिन्नवस्तुनः नापङ्गवः, इह तु तथेत्यनयोर्भेदः ॥ २६५ ॥
अनिष्टसम्भावनायां लेशमुदाहरति राजकन्येति । रोमीदभेदेन रोमहर्षेण, राजकन्याया दर्शनजनितेनेति भावः । मां राजकन्यायाम् अनुरक्तम् अभिलाषुकं रक्षका: राजान्तःपुररक्षिण: अवगच्छेयुः, सम्भावनायां विधिलिङ् । प्रा ज्ञातम्, श्रा इति सम्भमद्योतकमव्ययम् । ज्ञातं विदितं निगूहनप्रकारो ज्ञायत इत्यर्थः । ज्ञातमिति वर्तमाने क्तप्रत्ययः । अहो वनं शीत: अनिलः यत्र तत्, शौतानिलस्पर्शेन रोमाञ्चोदय इति भावः । अत्र रोमोझेदस्य शौतानिलजत्वेन अनुरागनिगूहनं वैचित्रामावहतीति अस्यालङ्कारत्वम् ॥ २६६ ॥
लज्जायां लेशमुदाहरति आनन्दाशु इति। कन्यका दृष्देव
Page #157
--------------------------------------------------------------------------
________________
हितीयः परिच्छेदः। १५१ अक्षि मे पुष्परजसा वातोडूतेन दूषितम् ॥२६७॥ इत्येवमादिस्थानेऽयमलकारोऽतिशोभते । लेशमेक विदुर्निन्दा स्तुतिं वा लेशतः कृताम् २६८ युवैष गुणवान् राजा योग्यस्ते पतिरूर्जितः । रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि ॥२६॥ मे मम कथम् आनन्दाश्रु प्रवृत्तम् अत्र कन्यादर्शनेन अनुरागोदयात् आनन्दाश्रुप्रवृत्तिर्लज्जाकरोति भावः । अत्र निगूहनप्रकारमाह अक्षौति । वातोडूतेन पवनचालितेन पुष्परजसा कुसुमपरागण मे अक्षि दूषितम्। अत्र आनन्दाश्रुणोऽक्षिदूषणजत्वप्रतिपादनेन अनुरागः संवृत्त इति ॥ २६७ ॥
अस्यालङ्कारत्वं प्रतिपादयवाह इतौति । इत्येवमादिस्थाने एवमायुदाहरणे अयम् अलङ्कारः अतिशोभते सहृदयचमत्कारितया समुल्लसति। एके पण्डिताः लेशं लेशत: छलेन कतां निन्दां वा स्तुतिं व्याजस्तुतिमित्यर्थः विदुः। तदुक्तं, दोषस्य यो गुणीभावो दोषीभावो गुणस्य यः। स लेश: स्यात् ततो नान्या व्याजस्तुतिरपोष्यत इति। अनेनैव व्याजस्तुत्यलकारोऽभिहित इति भावः ॥ २६८ ॥
स्तुतिव्याजेन निन्दामाह युवेति । एष राजा युवा गुणवान् तथा ऊर्जितः विक्रान्तः, अतः ते तव योग्यः पतिः। यस्य मनः कामोत्सवादपि रणोत्सवे सक्तम्। स्वयंवरां कन्यां प्रति तत्सख्या उक्तिरियम् । अत्र हितीयाः महावीरत्वेन स्तुतिर्बोधितापि कामोत्सवे अनासक्तत्वप्रतिपादनव्याजेन तव सम्भोगसुखं दुर्लभम् प्रतो नायं वरणीय इति द्योतयतीति स्तुत्या निन्दावगमात् व्याजस्तुतिः ॥ २६८ ॥
Page #158
--------------------------------------------------------------------------
________________
१५२
काव्यादर्श वीर्योत्कर्षस्तुतिनिन्दैवास्मिन् भावनिवृत्तये । कन्यायाः कल्पते भोगानिर्विविक्षोर्निरन्तरम्॥२७० चपलो निर्दयश्चासी जनः किन्तेन मे सखि ।। आग:प्रमार्जनायैत्र चाटवो येन शिक्षिताः ॥२७१॥ दोषाभासो गुणः कोऽपि दर्शितश्चाटुकारिता। मानं सखीजनोद्दिष्टं कत्तुं रागादशक्तया ॥२७२॥
इति लेशचक्रम् । पत्रालङ्कारं सङ्गमयति वीर्येति। अस्मिन् उदाहरणे निरन्तरं भोगान् रतोत्सवान् निर्विविक्षोः भोक्नु मिच्छोः, निर्वेशो भृतिभोगयोरिति कोषः । कन्यायाः भावस्य वरणाभिप्रायस्य निवृत्तये वीर्योत्कर्षस्य वौर्याधिक्यस्य स्तुतिः निन्दैव कल्पते, निन्दारूपेणैव पर्यावस्यतीत्यर्थः ॥ २७० ॥
निन्दाव्याजेन स्तुतिमाह चपल इति। हे सखि ! असौ जन: चपल: अस्थिरः, निर्दयः परपौड़ानभिज्ञतया दयारहितच, येन आग:प्रमार्जनाय अपराधक्षालनाय चाटवः प्रियवादाः शिक्षिताः, अतस्तेन युष्माभिरुपदिष्टेन मानेन किम् । प्रेयसि मानो गौरवजनकत्वेन विधेय इत्युपदिशन्तीं सखी प्रति कस्याश्चिन्नायिकाया उक्तिरियम् ॥ २७१ ॥ ___ दोषाभास इति। रागात् प्रियानुरागाधिक्यात् सखीजनेन उद्दिष्टम् उपदिष्टं मानं कर्तुम् अशक्तया नायिकया चाटुकारितारूपः कोऽपि स्त्रीजनहृद्यः गुणः दोष इव आभासते इति तथोक्तः दर्शितः दोषरूपेण कथित इत्यर्थः । अत्र निन्दाव्याजेन स्तुतिर्गम्यते इति व्याजस्तुतिः ॥ २७२ ॥...
Page #159
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः ।
उद्दिष्टानां पदार्थानामनुद्देशो यथाक्रम् | यथासंख्यमिति प्रोक्तं संख्यानं क्रम इत्यपि ॥ २७३ ॥ ध्रुवन्ते चोरिता तन्वि ! स्मितेक्षणमुखद्युतिः । स्नातुमम्भः प्रविष्टायाः कुमुदोत्पलपङ्कजैः ॥ २७४॥ प्रेयः प्रियतराख्यानं रसवद्रसपेशलम् । ऊर्जखि रूढ़ाहङ्कारं युक्तोत्कर्षञ्च तत्त्रयम् ॥२७५॥
१५३
क्रमालङ्कारं निरूपपति उद्दिष्टानामिति । उद्दिष्टानाम् उक्तानां पदार्थानां यथाक्रमम् अनु पश्चात् उद्देशः पश्चादुक्तपदार्थैः सङ्गतिः यथासङ्खयम् इति, सङ्ख्यानमतिक्रम्य इत्यपि प्रोक्त, यथासंख्यं संख्यानं क्रम इति पय्यायशब्दा इत्यर्थः
॥ २७३ ॥
क्रममुदाहरति ध्रुवमिति । हे तन्वि ! स्नातुम् अम्भः जलं प्रविष्टायाः ते तव स्मितेक्षणमुखद्युतिः कुमुदोत्पलपङ्कजैः ध्रुवं निश्चितं चोरिता अपहृता कियदंशेनेति शेषः । समग्र - हरणे नायिकायां तदसत्त्वन चारुत्वापायादिति भावः । तत्र स्मितद्युतिः कुमुदेन, ईक्षणद्युतिः उत्पलेन, मुखद्युतिः पङ्कजेनेति यथाक्रममुक्तपदार्थानां यथाक्रमं पश्चादुक्तपदार्थेः समन्दयश्चारुत्वातिशयमापादयतीति अस्थालङ्कारत्वम् ॥ २७४ ॥
सम्प्रति प्रेयोरसवदूर्जखिनामकमलङ्कारचितयं निरूपयति प्रेय इति । प्रियतरं भावाभिव्यक्त्या अतिप्रीतिकरम् श्रास्ख्यानं प्रेयः अतिप्रियत्वादन्वर्थसंज्ञेयम् । तथा रसपेशलं रसेन रत्यादिस्थायिभावरूपेण पेशलं सहृदयानन्दजननं रसवत् । भावरसपदार्थो विश्वनाथेनोक्तौ । यथा, सञ्चारिणः प्रधानानि
Page #160
--------------------------------------------------------------------------
________________
१५४
काव्यादर्थे
अद्य या मस गोविन्द । जाता त्वयि गृहागते ।
देवादिविषया रतिः । उदबुद्दमात्रः स्थायी च भाव इत्यभिधीयते ॥ विभावैरनुभावैश्व सात्त्विकैर्व्यभिचारिभिः । रसतामेति रत्यादिः स्थायी भावः सचेतसामिति । अनयोर्विस्तारश्च ग्रन्थबाहुल्यभिया न लिखितः विस्तारदर्शनार्थिभिस्तत्तदुग्रन्थेषु अनुसन्धेय इति । तथा रूढ़: अभिव्यक्तः अहङ्कारः गर्वः यत्र तथोक्तम् आख्यानं गर्वप्रधानमाख्यानम् ऊर्जखि, ऊर्जा बलं तदस्यास्तौति योगबलात् अहङ्कारस्य च ऊर्जोधर्म - रूपत्वात् तथा व्यपदेश इति । तेषाम् उक्तानां प्रेयःप्रभृतीनाम् अलङ्काराणां त्रयं युक्तः समुचितः उत्कर्षो यस्मिन् तादृशम् अतएवैषामलङ्कारत्वकीर्त्तनं न दोषावहमिति भावः । उल्लिखितेषु भावेषु च देवादिविषयकरतिभावस्यैव प्रयोनामालङ्कारव्यपदेशः, अन्येषां भावानां रसाभासभावाभासभावशान्तिभावोदय भावशबलतानाञ्च रस्यमानपदार्थत्वेन रसवदलङ्कारत्वम् । उक्तञ्च विश्वनाथेन, रसभावौ तदाभासौ भावस्य प्रशमोदयौ । सन्धिः शबलता चेति सर्वेऽपि रसनाद्रसा इति । पूर्वाख्यभावस्य तु ऊर्जस्विनामालङ्कारत्वमिति विशेषः । ध्वनिकारादयस्तु अङ्गिनो रसादेरलङ्काय्र्यत्वम् अङ्गस्य तु अलङ्कारत्वमाहुः । यथा, प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गन्तु रसादयः । काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ॥ विश्वनाथस्तु, रसभावौ तदाभासौ भावस्य प्रशमस्तथा । गुणीभूतत्वमायान्ति यदालङ्कृतयस्तदा । रसवत् प्रेय ऊर्जस्वि समाहितमिति क्रमात् । भावस्य चोदये सन्धौ मिश्रत्वे च तदाख्यका इत्याह ॥ २७५ ॥
प्रेय उदाहरति श्रद्येति । गोविन्द ! अद्य त्वयि गृहा
Page #161
--------------------------------------------------------------------------
________________
हितीयः परि
१५ काले नैषा भवेत् प्रीतितवैतागमतात् पुन:रित इत्याह युक्तं विदुरो नान्येहस्वादशी तिः । भक्तिमानसमाराध्यः सुप्रीतश्च तती हरित २७७॥ सोमः सूर्यो मरुद् भूमिकॊम होतानलो जलम् । इति रूपाण्यतिक्रम्य त्वां द्रष्टुं देव! के वयम् २७८ गते या मम प्रौति: जाता, कालेन समयान्तरेण तवैव नान्यस्य कस्यचित् साधोरित्येवकारेण ध्वन्यते। पुनरागमनात् एषा प्रीतिः भवेत् भविष्यतीत्यर्थः । अत्र भगवद्विषय करतिभावो वाक्यभझ्या सहृदयानां सातिशयचमत्कृतिमादधातीति प्रयोऽलङ्कारः ॥ २७६ ॥
एतदेव सङ्गमयति इतीति। विदुर इति युक्तम् आह, यतस्तस्य अन्यतः अन्यस्मात् आगन्तुकात् तादृशौ तिः सन्तोषः न आसौदिति शेषः, ततः भक्तिमात्रेण न तु केनाप्यन्येनोपचारेणत्यर्थः समाराध्यः हरिः तस्य सुप्रौतश्च अभवत् इति वाक्यशेषः । उद्योगपर्वीयश्लोकश्च अस्य प्रतिरूपो यथा, या प्रीतिः पुण्डरीकाक्ष ! तवागमनकारणात् । सा किमाख्यायते तुभ्यमन्तरात्मासि देहिनामिति ॥ २७७ ॥
पूर्व वक्तृबोद्धव्ययोः ग्रीतावुदाहृतम् इदानीं केवलं वक्तः प्रोताबुदाहरति सोम इत्यादि। हे देव ! सोमः चन्द्रः सूर्यः, मात् वायुः, भूमिः, व्योम आकाशं, होता यजमानः, अनलः अग्निः, तथा जलम् इति ते रूपाणि अष्टौ मूर्तीः अतिक्रम्य प्रतौल्य स्थितं परमात्मस्वरूपं त्वां द्रष्टुं वयं के ? न वयं योग्या इत्यर्थः, तथापि यद् दृष्टोऽसि स केवलं भक्तानुग्रह एवेति। देवे महेखर साक्षात्कृते तपसा प्रत्यक्षगोचरीकते सति राज
Page #162
--------------------------------------------------------------------------
________________
काव्यादर्श
इति साक्षात्कृते देवे राज्ञो यद्राजवर्मणः । प्रोतिप्रकाशनं तच्च प्रेय इत्यवगम्यताम् ॥ २७६ ॥ मृतेति प्रत्य सङ्गन्तुं यया मे मरणं मतम् । सैषा तन्वी मया लब्धा कथमवैव जन्मनि ॥२८॥
वर्मण: राजवर्माख्यस्य राज्ञः इति उक्तरूपं यत् प्रौतिप्रकाशनं तदपि प्रेय इति अवगम्यताम्, अनापि भगवहिषयकरतिभावव्यञ्जकस्य प्रियाख्यानस्य सत्त्वादिति ॥ २७८ ॥ २७८ ॥
अथ रसवदलङ्कारं दर्शयन् रसानाञ्च शृङ्गारादीनां प्राथम्येन सर्वजनहृद्यत्वेन च प्रथमं शृङ्गारमुदाहरति मृतेति। मृता इति निश्चित्य इत्यध्याहार्य प्रत्य परलोके यया कान्तया सङ्गन्तुं सङ्गमं कत्तुं मे मरणं मतम् इष्ट मरणावधारणं कृतमित्यर्थः, एषा सा तन्वी अत्रैव जन्मनि मरणं विनेत्यर्थः कथं मया लब्धा प्राप्ता। मृतां मदालसां नागानां प्रसादेन पुन: प्रत्युज्जीवितां प्राप्य तत्पत्युः कुवलयाश्वस्योक्तिरियम् । सैषा तन्वीत्यत्र सैवावन्तीति पाठोऽपि दृश्यते । तथात्वे आवन्तौ अवन्तिदेशभवा वासवदत्तेत्यर्थः, तस्याश्च दाहप्रवादेन मरणनिश्चयात् दुःखितस्य वत्सराजस्य पुनस्तां प्राप्यामन्दोक्तिरियम्'। अत्र सम्भोगशृङ्गाररसः। तल्लक्षणन्तक्तं विश्वनाथन। यथा, दर्शनस्पर्शनादीनि निषेवेते विलासिनौ । यत्रानुरक्तावन्योन्यं सम्भोगोऽयमुदाहृत इति। अयश्च विप्रलम्भानन्तर्यात् परां पुष्टि नीतः। उक्तञ्च विश्वनाथेन, न विना विप्रलम्भेन सम्भोगः पुष्टिमश्रुते। कषायिते हि वस्त्रादी भूयान् रागो विवईते । इति। विप्रलम्भश्च तेनैवोक्तः। यथा, यत्र तु रतिः प्रकष्टा नाभौष्टमुपैति विप्रलम्भोऽसाविति ॥२८॥
Page #163
--------------------------------------------------------------------------
________________
हितीवः परिछेदः ।
१५०
प्राकप्रीतिर्दर्शिता सेयं रतिः शृङ्गारतां गता। रूपबाहुल्ययोगेन तदिदं रसवद वचः ॥ २८१॥ निराह्य केशेष्वाकृष्टा कृष्णा येनाग्रतो मम । सोऽयं दुःशासनः पापो लब्धः किं जीवति क्षणं२८२ इत्यारुह्य परां कोटिं क्रोधो रौद्रात्मतां गतः । भीमस्य पश्यतः शत्रुमित्य तद्रसवद् वचः ॥२८३॥
नववापि नायिकाविषयकरतिभावो व्यन्यते तत् प्रेयो. ऽलकार एव कथमत्र न स्यादित्याशझ्याह प्रागिति। प्राक् पूर्वोक्तयोरुदाहरणयोः प्रीतिः भगवहिषयकरतिव्यन्निका एव न तु विभावादिपरिपुष्टा दर्शिता। उक्तञ्च, मनोऽनुकूलेवर्थेषु मुखसंवेदनं वचः । असंप्रयोगविषया सैव प्रीतिर्निगद्यत इति। इह तु सा रतिः कान्ताविषयकोऽनुराग इत्यर्थः । उतांच, रतिर्मनोऽनुकूलेऽर्थे मनसः प्रवणायितमिति। रूपाणां विभावानुभावव्यभिचारिणां बाहुल्यं विस्तारः तस्य योगेन शृङ्गारतां गता, तस्मात् इदं मृतेत्युक्तां वचः रसवत् रसवदलझारण अलङ्कतमित्यर्थः ॥ २८१ ॥
रौद्ररसमुदाहरति निग्रोति। येन मम अग्रत: मामनादृत्य इत्यर्थः कृष्णा द्रौपदी केशेषु अवच्छेदे सप्तमी। पालटा, स: अयं पापः दुःशासनः मया प्राप्तः क्षणं जीवति किम् ? मेष जीवतीत्यर्थः ॥ २८२॥
इतौति। शवं दुःशासनं पश्यतः भोमस्य क्रोधः इति उकप्रकारेण परां कोटिम् आरुह्य विभावादिभिः परिपोषं प्राप्य इत्यर्थः रौद्रतां रौद्रभाव गतः रौद्ररसत्वेन परिणत
१४
Page #164
--------------------------------------------------------------------------
________________
'काव्यादणे.....
पजिला सार्णवामुरूमनिष्ठा विविधैर्मखैः ।। -- मदत्त्वा चार्थमर्थियो भवेयं पार्थिवः कथम्॥२८४॥ इत्यु त्साहः प्रकृष्टात्मा तिष्ठम् वीररसात्मना । रसवत्वं गिरामासां समर्थयितुमीश्वरः ॥ २८५ ॥
An ..
इत्यर्थः । तथाच शत्रुरत्र आलम्बनविभाव: शाषणाकेशाकर्षणादिकमुद्दीपनविभावः, पाप इत्यधिक्षेपवाक्यमनुभावः, गर्वा दयव प्रतीयमाना व्यभिचारिण: एतैः पुष्टि नौतः क्रोधस्थायिभावः रौढरसत्वमापत्र इति एतत् वचः रसवत् रसवदलाकारणालङ्कृतमिति ॥ २८३॥
-बोररसमुदाहरति अजित्वेति । सार्णवा ससागराम् उर्वीम् अजित्वा जयेन अलब्ध्वा, विविधैः मखैः अश्वमेधादिमिः अनिष्टा देवाए अपरितोथ, तथा अर्थिभ्य अर्थम् अदत्त्वा कथं पार्थिव भवेयम् अनेवंविधस्य पार्थिवत्व विडम्बनैवेति भावः । एतेनास्य युद्धवीरत्वं धर्मवीरत्व दानवीरत्वञ्च सूचितम् ॥२८४॥ ...इतीति । उक्तरूपः प्रकृष्टः आत्मा यस्य सः विभावादिभिः परिपुष्ट इत्यर्थः उत्साहः कार्यारम्भेषु संरक्षः स्थेयानुसार इत्यत इत्युकालक्षणः संरम्भ इत्यर्थः वीररसामना तिष्ठन् वौररमाण परिणमन् मासां गिरां वाचां रसवत्त्व रसवदलकारमुकत्वं समर्थयितुं दृढ़ीकर्तुम् ईश्वरः समर्थः । अब बुझे जेतव्याः शत्रवः, धर्मे धर्मः दाने याचकाः पालम्बनविभावाः सहायाबेषणादयः . प्रतीयमाना: अनुभावाः, हर्षवृत्यादयो व्यभिचारिणः. एतैरभिव्यक्तः उत्साहरूपस्थायिभावः वीररसतां नभवति । २८५.. ... ... .:
Page #165
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः । यस्याः कुसुमशय्याधि-कोमलाया रुजाकरी। साधिशेते कथं तन्वी हुताशनवती चितामार८६॥ इति कारुण्यमुद्रितामलङ्कारतया स्मृतम् । तथा परेऽपि वीभत्सहास्यागुतभयानकाः ॥२८॥ पायं पायं तवारीणां शोणितं पाशिसम्पुटैः । कोणपाः सह नृत्यन्ति कबन्धेरवभूषणाः ॥२८८॥
करुणरसमुदाहरति यस्या इत्यादि। यस्याः कोमलाया: कसमशय्यापि रुजाकरी पीड़ाकरी, सा तली कथं हुताशनपती ज्वलन्तीमित्यर्थः चिताम् अधिशेते। इत्यत्र उदित विभावादिभिः परिपुष्टं कारुष करुणरसस्थायिभावः शोकः चित्तवैक्लव्यविशेष इत्यर्थः इष्टनाशादिभिश्वेतोवैलव्यं शोकशब्दभागिति लक्षणात् । अलङ्कारतया रसक्दलारत्वेन स्मृतम्। अत्र गतप्राणा तन्वी पालवनविभावः, कुसुमशखादिस्मरणम् उद्दीपनविभावः तादृशकरुणवचनम् अनुभावः कथमित्यनेन प्रतीयमानाश्चिन्तादयो व्यभिचारिण इति नेयं, तथा पर अन्ये वौभमहास्था तभयानका अपि रसा वैदितया इति शेषः ॥ २८६ ॥ २८७ ॥ . ..... -- तत्र वीभत्स मुवाहरबाह पायमिति। कौएपा: राक्षसाः कबन्धैः अशिग्स्कक्रियायुक्तकलेवरैः सह, कबन्धोऽस्त्री क्रियायुतामपमूईकलेवरमित्यमरः । अन्वं पुरीतत् भूषवं येतां तादृशाः सन्तः पाणिसम्पुटैः तकः परीणां शोणितं पायं पायं पुनः पुनः पौत्वा नृत्यन्ति। अत्र जुगुप्सारूपस्थायिभावः । जुगुप्सालक्षणन्तक्तं यथा, दोषेक्षणादिभिर्गर्दा जुगुप्सा विषयो
Page #166
--------------------------------------------------------------------------
________________
काव्यादणे
दूदमनाममानाया लग्नं स्तनतटे तव । छाद्यतामुत्तरोयेण नवं नखपदं सखि ! ॥ २८८ ॥ अंशुकानि प्रबालानि पुष्पं हारादिभूषणम् । शाखाश्च मन्दिराख्येषां चित्रं नन्दनशाखिनाम्२६८ हवेति। तस्य च शोणितपायिनः अन्नभूषणाः राक्षसाः पालम्बनविभावाः, पन्ये च अनुभावव्यभिचारिण आक्षिप्ताः तैय परिपुष्टः वोभारसत्वं भजते। अत्र राजविषयकरतिभावस्य प्राधान्यात् वौभापरिपुष्टतया तस्यैव चमत्कारित्वात् प्रेयोऽलकारत्वमेव युवमिति बोध्यम्। रसव यसोः सङ्कर इति केचित् ॥ २२८ ॥
हास्यमुदाहरबाह इदमिति। हे सखि ! अम्बान: अख ण्डितः मानो यस्याः तादृश्याः अस्माकं पुनः पुनराग्रहेणापि प्रविगतमामाया इत्यर्थः तव स्तनतटे इदं नवं न तु प्राचीनं नखपदं नखाघातचिहं लग्नम् उत्तरोयेण छाद्यताम्। सखीसविधौ मानवतीं रहसि कान्तेन सह कतविहारां काञ्चित् प्रति तमख्या उपहासोक्तिरियम्। पत्र हासः स्थायिभावः । तमक्षपन्ततम् । यथा, वागादिवैकतैथेतीविकाशो हास उच्चत इति। तादृशी मानवती नायिका आलम्बनविभावः, नखचतमुहीपनविभावः, तादृशवचनानि अनुभावाः , व्यभिचारिणच यथायथं प्रतीयमाना: एतैश्च परिपुष्टः अयं हासः हास्यरसखेन परिणमति ॥ २८॥ - पडतरसमुदाहरति अंशकानौति। एषां नन्दनशाखिनां प्रबालानि अंशकानि वसनानि, पुष्प हारादिभूषणं, शाखाच मन्दिराणि महावि, चित्र किमाचर्यमित्यर्थः । अत्र स्थायि
Page #167
--------------------------------------------------------------------------
________________
द्वितीयः परिदः।
इदं मघोनः कुलिशं धारासन्निहितानलम् । मारणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते ॥ २६१ ॥ वाक्यस्याग्राम्यता योनिर्माधर्म्य दर्शितो रसः। इह त्वष्टरसायत्ता रसवत्ता स्मृता गिराम् ॥२६२॥
इति रसपच्चक्रम् । भावो विस्मयः । तल्लक्षणं यथा, विविधेषु पदार्थेषु लोकसीमातिवर्त्तिषु। विमारश्चेतसो यस्तु स विस्मय उदाहृत इति । अलौकिकनन्दनशाखिभिरालम्बनविभावः तेषाञ्च तत्तगुणेरुद्दीपनविभावैः अन्यैश्च प्रतीयमानैरनुभावैः सञ्चारिभिश्च परिपुष्टः अद्भुतरमतया पर्यवस्यतीति ॥ २८० ॥
भयानकरम मुदाहरति इदमिति। इदं मघोन इन्द्रस्य कुलिशं वज्र धारासु सन्निहित: अनलः यस्य तादृशं, यस्य स्मरणं दैत्यस्त्रीणाम् असुरकामिनीनां गर्भपाताय कल्पते प्रभवति। अत्र दैत्यस्त्रीणां भयमेव स्थायिभावः । तल्लक्षणं यथा, रौद्रशक्त्या तु जनितं चित्तवैक्लव्यदं भयमिति। मघोना आलम्बनविभावेन तादृशकुलिशेन उद्दीपनविभावेन गर्मपातेन च अनुभावेन अन्यैश्च प्रतीयमानैः तत्तत्कालिकचित्तव्यापारैः परिपुष्ट: भयानकरसत्वं प्राप्नोतौति ॥ २८१ ॥ .. ननु माधुर्यनिरूपणे मधुरं रसवदित्युक्त रसवत्त्वस्य माधुर्यगुणत्वेन अभिहितम् अत्र तु अलङ्कारत्वं कथं सङ्गच्छंत इत्याह वाक्यस्येति । माधुर्ये माधुर्यनिरूपणे वाक्यस्य अग्राम्यता ग्राम्यत्वदोषाभाव एव योनिः कारणं यस्य तादृशः रमः दर्शितः अंग्राम्यताया एव रसत्वेन उपचारतः कोर्सममिति भावः । इह तु गिरा वाचा रसवत्ता रसवदलङ्कारत्वम् अष्टसु
Page #168
--------------------------------------------------------------------------
________________
१६२
काव्यादर्श अपकर्ताहमनौति हदि ते मास्म भूद् भयम् । : -विमुखेषु न मे खड्गः प्रहत्तुं जातु वाञ्छति २६३
एवमुक्ता परो युद्धे निरुद्दो दर्पशालिना। पुंसा केनापि तज्नेयमूर्जखीत्येवमादिकम्।।२६४॥ अर्थमिष्टमनाख्याय साक्षात् तस्यैव सिद्धये । यत् प्रकारान्तराख्यानं पायोक्तं तदिष्यते ॥२६५
रसेषु शृङ्गारादिषु प्रायत्ता स्मृता। तथाच, रसव्याकग्राम्यत्वदोषाभावसहकतालङ्कारादिमत्त्व माधुर्यगुणत्वं रसवदलकारस्तु रस एवेति भेदः ॥ २८२ ॥
ऊर्जस्वालङ्कारमुदाहरति अपकर्तेति । अहं ते अपकर्ता शत्रुरस्मि इति हेतोः ते भयं मास्म मूत् न भवतु, मे मम खडः विमुखेषु प्रहत्तुं जातु कदाचिदपि न वाञ्छति । तथाचोक्त हन्यादित्यनुवृत्तौ मनुना। यथा, नायुधव्यसनप्राप्तं नातं नातिपरिक्षतम्। न भीतं न परावृत्तं सतां धर्ममनुस्मरविति । युद्धे पलायनपरं शर्बु प्रति कस्यचित् वीरस्योक्तिः। अत्र गर्वरूपो व्यभिचारिभाव: स्थायिभावादपि उत्साहादुद्रिक्त इति ऊर्जखिनामालङ्कारः । यस्य तु तादृशोट्रेकाभावः तत्र वोरो रस एव रसवदलङ्कारतया परिणमतीति बोध्यम् ॥ २८ ॥ ___ एवमुवति। दर्पशालिना अहङ्कारवता केनापि पुसा एवम् उमरूपं वचनम् उक्ला युद्धे परः शत्रुः निरुतः । तस्मात् इत्येवमादिक रसान्तरेऽपि तादृशो गर्वः ऊर्जस्त्रीत्यर्थः ॥ २८४ ॥
पर्यायोक्त लक्षयति अर्थमिति। इष्टम् अभिलषितम्
Page #169
--------------------------------------------------------------------------
________________
हितीयः परिच्छेदः। १५३ दशत्यसौ परभृतः सहकारस्य मञ्जरीम् । तमहं वारयिष्यामि युवाभ्यां खैरमास्यताम्॥२६६॥ सङ्गमय्य सखौं यूना सङ्केते तद्रतोत्सवम् । निवर्तयितुमिच्छन्त्या कयाप्यपसृतं ततः ॥२६॥
इति पयायोक्तम् । किञ्चिदारभमाणस्य कायं दैववशात् पुनः ।
अर्थं साक्षात् वाचकशब्देन अनाख्याय अकथयित्वा तस्यैव इष्टार्थस्य सिद्धये प्रतिपत्तये यत् प्रकारान्तरण भङ्गिविशेषण आख्यानं व्यञ्जनया द्योतनं तत् पायोक्तम् इष्यते। समानार्थकशब्दान्तरस्यैव पर्यायत्वात् अन्धर्थसंज्ञेयमिति बोध्यम् ॥ २८५॥
पर्यायोक्तमुदाहरति दशतीति। असौ परभृतः कोकिल: सहकारस्य कुञ्जवहिस्थितस्येति शेषः मञ्जरी दशति, अहं तं निवारयिष्यामि युवाभ्यां खैरं स्वच्छन्दम् आस्यतां स्थ यतामिति कान्तकामिन्योः सुरतोत्सवस्य व्याघातो मा भूदिति विविच्य सख्यास्ततोऽपसरणस्यौचित्ये इतोऽहं गमिष्यामीति वाचकपदेनाभिधाने वैचित्रवातिशयस्याभावो जायते इति परभृतवारणव्याजेन तदपसरणं व्यक्तीकतमिति पयायोनाम् ॥ २८६ ॥
। सङ्गमय्येति । सङ्केते सङ्केतस्थावे सखीं यूना सह सङ्गमय तयोः रतोमवं निवर्तयितुं सम्पादयितुमिच्छन्त्या कयापि सख्या ततः अपमृतमित्यन्वयः ॥ २८७ ॥
समाहितं निरूपयति किञ्चिदिति। किचित् कार्यम्
Page #170
--------------------------------------------------------------------------
________________
काव्याद”
तत्साधनसमापत्तिर्या तदाहुः समाहितम् ॥२६॥ मानमस्या निराकतुं पादयोर्मे पतिष्यतः । उपकाराय दिष्ट्यैतदुदौर्ण घनगर्जितम् ॥ २६६ ॥ आशयस्य विभूतेर्वा यन्महत्त्वमनुत्तमम् । उदात्तं नाम तं प्राहुरलङ्कारं मनीषिणः ॥३०॥
पारभमाणस्य कत्तुमुद्युक्तस्य दैववशात् अकस्मात् पुनः तस्य * साधनस्य समाधानस्य या समापत्तिः संयोगः तत् समाहितम् माहुः । समाधानरूपत्वात् अन्वर्थसंज्ञेयमिति। दैववशादिति तु न नियमपरं बुद्धिपूर्वककारणान्तरालम्बनेन कार्यसमाधानऽपि अस्य सद्भावात् । तदुक्त भोजराजेन, कार्यारम्भे सहायाप्तिर्दैवाद् देवाकते च या। आकस्मिको बुद्धिपूर्वोभयो वा तत् समाहितम् इति ॥ २८८ ॥
समाहितमुदाहरति मानमिति। अस्याः मानिन्याः मानं निराकत्तु पादयोः पतिष्यतः मे मम उपकाराय दिट्या देवेन एतत् घनगर्जितम् उदौर्णम् । अत्र मानभङ्गाय पादपतनप्रहत्तस्य दैवादुदोर्णेन घनगर्जितेन तस्यातीवोहीपकत्वात् मलशन तत्समाधानमिति समाहितमलङ्कारः ॥ २८८ ॥
उदात्तं निरूपयति आशयस्येति। आशयस्य अभिप्रायस्य विभूतेः सम्पत्तेः वा यत् अनुत्तमम् अलौकिकं महत्त्वम् प्राधिक्य, मनीषिणः तम् उदात्तं नाम अलङ्कारं प्राहुः । तथाच, प्रस्तुतस्य उदाराशयत्ववर्णनेन लोकातिशयसम्पहर्णनेन च यद् वैचित्रा स एव उदात्तालङ्कार इति निष्कर्षः। केचित् तु, यहापि प्रस्तुतस्याङ्ग महतां चरितं भवेदिति बाहुः ।
Page #171
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः । गुरोः शासनमवेतुं न शशाक स राघवः । यो रावणशिरम्छदकार्यभारेऽप्यविक्लवः ॥ ३०१ । रत्नभित्तिषु संक्रान्तैः प्रतिविम्बशतैवतः । जातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥३०२॥ पूर्ववाशयमाहात्मामवाभ्युदयगौरवम् । सुव्यञ्जितमिति प्रोतमुदात्तद्वयमप्यदः ॥ ३०३ ॥
उदात्तम् । तमते प्रस्तुतस्य अङ्गत्वेन महतां चरित्रवर्णनमपि उदात्तालकार इति बोध्यम् ॥ ३०॥
प्राशयमहत्त्वे उदाहरति गुरोरिति। यः रावणस्य शिर छेदः कायं तस्य भारः तस्मिबपि अविलवः अव्याकुलः, स राघवः गुरोः पितुः शासनं राज्यत्यागपूर्वकवनगमनादेशम् प्रत्येतुम् अतिक्रमितुं न शशाक। अत्र रावणबधरूपासाध्यसाधनक्षमस्य तादृशगुरुनिदेशवर्त्तित्वेन अलौकिकं माहात्मा प्रतीयते इत्युदात्तत्वम् ॥ ३०१ ॥ _ विभूतिमहत्त्वे उदाहरति। रत्नभित्तिष्विति । आमनेयेन पचनासुतेन हनुमता वच्छात् अतिकष्टेन बहुपर्यालोचनया इत्यर्थः रबभित्तिषु संक्रान्तः प्रतिफलितः प्रतिविम्बानां शतैः वृत: लझेखरः रावणः तत्त्वतः ज्ञात: ईदृशैवर्यशालो नास्तौति अयमेव लङ्गेश्वर इति विदित इत्यर्थः । अत्र लखरस्य तादृशैश्वर्यमहत्त्वकीर्तनमेव उदात्तालङ्कार इति ॥३०२॥ .. :
विष्यमुपसंहरति पूर्ववेति। पूर्वत गुरोरित्युदाहरणे
Page #172
--------------------------------------------------------------------------
________________
कामादर्थे
अपह्नुतिरपह्न ुत्य किञ्चिदन्यार्थदर्शनम् । न पञ्चेषुः स्मरस्तस्य सहस्रं पविणामिति ॥ ३०४॥ चन्दनं चन्द्रिका मन्दो गन्धवाहश्च दक्षिणः । सेयमग्निमयी सृष्टिर्मयि शौता परान् प्रति ॥ ३०५ ॥ शैशियमभ्युपेत्यैव परेष्वात्मनि कामिना । पौष्णप्रकाशनात्तस्य सेयं विषयनितिः ॥ ३०६ ॥
244
अाशयस्य माहात्माम्, अत्र रत्नभित्तिष्वित्युदाहरणे अभ्युदयस्य गौरवं सुव्यञ्जितं सुप्रतीतमिति श्रदः उदात्तदयं प्रोक्तम् उभयत्रापि वैचित्रास्य सद्भावादिति भावः ॥ ३०३ ॥
अपकृतिं निरूपयति अपतिरिति । किचित् किमपि प्रकृतम् अपह्नुत्य अपलम्य अन्यस्य अर्थस्य दर्शनं व्यवस्थापनम् पति: । अत्र धर्मापह्नवेन धर्मान्तरारोपणं तवापवरूपके धर्मिनिषेधेन धर्म्यन्तरारोप इत्यनयोर्भेदः । उदाहरति नेति । स्मरः कामः पञ्चेषुर्न तन्मात्रेषुभिः समग्रजंगता - मेतादृशपौड़नासम्भवादिति भावः, अतस्तस्य पत्रिणां सहस्रम् प्रस्तौति शेषः । अत्र स्मरस्य पचेषुत्वधर्मं प्रतिषिष्य सहस्रेषुत्वरूपधर्मान्तरारोपरूपापह्नुतिरिति बोध्यम् ॥ ३०४ ॥
विषयापतिमुदाहरति चन्दनमित्यादि । चन्दनं चन्द्रिका तथा मन्दः दक्षिण: गन्धवाहः सा इयं मयि विरहिणौत्यर्थः अग्निमयो सृष्टि: अग्निवत् मया प्रतीयते इत्यर्थः परान् अन्यान् अविरहिण इत्यर्थः प्रति शौता शीतला सृष्टिः तेषा -
करत्वादिति भावः । अत्र कामिना परेषु भैशिय (भ्युपेत्य भारोप्य चात्मनि श्रौष्णाप्रकाशनात् चग्नि
Page #173
--------------------------------------------------------------------------
________________
हितीयः परिच्छेदः । अमृतस्यन्दिकिरणश्चन्द्रमा नामतो मतः। .. अन्य एवायमर्थात्मा विषनिष्यन्दिदीधितिः॥३०॥ इति चन्द्रत्वमेवेन्दी निवार्थान्तरात्मता। .... उक्ता स्मरातनत्ये षा खरूपापह्न तिर्मता ॥३०८॥ उपमापह्न ति: पूर्वमुपमाखेव दर्शिता।
मयत्वधर्मारोपणन चन्दनादीनां शैत्यदाहकत्खयोर्विषयभेदस्य कीर्तनात् विषयापङ्गुतिरियमित्यन्वयः ॥ ३०५ ॥ ३०६ ॥
स्वरूपापतिमाह अमृतेत्यादि। चन्द्रमा: अस्तस्यन्दिनः किरपा यस्य सः नामत: नाम्नैव मतः ख्यातः न तु अर्थत इत्यर्थः तस्य किरणानाम् अमृतस्यन्दित्वस्य प्रत्यक्षविरुद्धत्वादिति भावः। विरहिण उक्तिरियम्। विरहे चन्द्रकिरणस्य पतीवोद्दीपकबादसालमिति बोध्यम् । अयं चन्द्रमाः अन्यः पर्थात्मा वस्तुखरूप एव, अर्थोऽभिधेयरै वस्तुप्रयोजननिवृत्तिवित्यमरः । चन्दति आजादयतीति व्युत्पत्तिलभ्यार्थात् अन्यपदार्थ एवेत्यर्थः । यथा, मण्डपादिशब्दा व्युत्पत्तिलभ्येषु महपानकर्तृरूपेषु अर्थेषु अशक्का ग्रहादिरूपार्थवाचकास्तद्वदिति भावः, अतः विषनिष्यन्दिन्यो दीधितयो यस्य तथोक्तः। इत्यत्र स्मरान विरहिणा इत्यर्थः इन्दौ चन्द्रत्वम् आज्ञादकखखरूपत्वं निवर्त्य निषिध्य अपडत्य इत्यर्थः अर्थान्तरातमता वस्वन्तरखरूपत्वम् उन्ला आरोपिता, अतः एषा स्वरूपा. पडतिर्मता ॥ ३०७॥ ३०८॥ _ उपमापडतिरिति । उपमायाः सादृश्येन पद्धतिः पूर्वम् उपमा. उपमालङ्कारभेदेषु एव मध्ये दर्भिता प्रतिषेधोपमा
Page #174
--------------------------------------------------------------------------
________________
काव्यादर्श
"१८ इत्यपहतिभेदानां लक्ष्यो लक्ष्येषु विस्तरः ॥३०॥
- अपडतिचक्रम् । निष्टमिष्टमनेकार्थमेकरूपान्वितं वचः । तदभिन्नपदं भिन्नपदप्रायमिति विधा । ३१० ॥ ख्यया वर्णिता इत्यर्थः । इति उक्तरूपाया अपडत्या मैदानां विस्तरः लक्ष्येषु यथायथं लभ्येषु उदाहरणेषे लक्ष्यः अनुसन्धेय इत्यर्थः । ३०८॥
श्रेषं लक्षयति निष्टमिति। अनेकार्थम् अभिधया युगपदनेकार्थप्रतिपादकम् एकेन अभिवेन रूपेण आकारण अन्वितं युक्त वचः निष्टं श्लेषालङ्कारयुक्तम् इष्टं कविभिरभिलषितम् । तथाच, शब्दार्थयोरकतावभासहेतुः सम्बन्धविशेषः श्रेषः, स चात्र शब्दयोरेकप्रयत्नोचार्यत्वरूपः अर्थयोस्तु एकप्रयत्नोचार्यमाणशब्देन ऐककालिकत्वबोधरूपः। अन्ये तु शब्दयोर्जतुकाष्ठन्यायेन अर्थयोश्च एकवन्तगतफलहयन्यायेन मेष इत्याहुः। यत्र अभिनया वृत्त्या शब्दस्य अनेकार्थत्वं तत्रैव श्रेषः, यत्र तु अनेकार्थत्वेऽपि शक्तिसङ्कोचकानां संयोगादौनां सद्भावः । यदुक्त विश्वनाथेन, संयोगो विप्रयोगच साहचयं विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सविधिः । सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ यथा, सशङ्खचक्रो हरिरित्वव शहचक्रसंयोगेन हरिशब्दो विष्णुमेवाभिधत्ते इत्यादि। तव न भेषः अभिधया युगपदर्थहयप्रतीतरभावात्, तादृशस्यले संयोगादिना एकार्थबोधनात् अभिधायां विरतायां पश्चात् व्यवनया अर्थान्तरप्रतीतौ ध्वनित्वमेव । यथा, भद्रात्मनो
Page #175
--------------------------------------------------------------------------
________________
हितीयः परिच्छेदः।
१६८
पसावुदयमारुढ़ः कान्तिमान् रतमण्डलः । । राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥३११॥
दुरधिरोहतनोविशालवंशोबसे: कतशिलीमुखसंग्रहस्य । यस्यानुपमुतगतेः परवारणस्य दामाम्बुसेकसुभगः सततं करोऽभूदित्यत्र प्रकरणेन प्रथमं प्रकृतः पुरुषः प्रतीयते, पश्चात् व्यञ्जनया हस्तौति । तत्र अर्थस्य अनेकत्वं कचिद् वस्तुतः, क्वचिदेकरूपत्वेऽपि सम्बन्धिभेदेन इति बोध्यम्। आद्यस्तावत् शब्दमेषः द्वितीयस्तु अर्थश्लेष इति विश्वनाथादयः । तस्य हैविध्यमाह तदिति। तत् वचः अभिवपदं शक्यतावच्छेदकस्य विभिनत्वेऽपि एकप्रकृतिप्रत्ययसमासादिघटितत्वेन अभिबानि पदानि यस्मिन् तत्, तथा भिनानाम् अनेकप्रकृतिप्रत्ययादिघटितत्वेन विलक्षणानां पदानां प्रायो बाहुल्यं यत्र तत्। तथाच अभिवपदवाको प्रभङ्गलेश: भिनपदवाक्ये सभङ्गश्लेष इति विविधत्व शेषस्तु समधिकचमत्कारितया कविभिर्बाहुल्येन प्रयुज्यत इति प्रायपदाभिप्रायः । विश्वनाथस्तु, लिष्टैः पदैरनेकार्थाभिधाने शेष इष्यते। वर्गप्रत्ययलिङ्गानां प्रकृत्योः पदयोरपि। मेषाद विभक्तिवचनभाषाणामष्टधा च सः । तत्र वर्णश्लेषो यथा, प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता। अवलम्बनाय दिनभर्तुर भूब पतिथतः करसहस्रमपीत्यत्र विधाविति विधिविधुशब्दयोरिकारोकारयोर्वर्णयोः श्रेष इत्याधष्टधा भेदमाह ॥ ३१ ॥ ___ तवाभिवपदमुदाहरति असाविति। उदयमुबतिम् उदयाचलञ्च प्रारूढ़ः कान्तिमान् कमनीयमूर्तिः किरणमाली च. रतामण्डल: अनुरक्तप्रक्षतिः खोहितविम्बन्ध राजा नृपः
Page #176
--------------------------------------------------------------------------
________________
:: कावाद” दोषाकरेण सम्बधन् नचवपथवर्तिना। ... राजा प्रदोषोमामित्यमप्रियं किं न बाधते ॥३१२॥ उपमारूपकाक्षेपव्यतिरेकादिगोचराः । प्रागेव दर्शिताः श्लेषा दर्श्यन्ते केचनापरे॥३१३॥ शशी च मृदुभिः अल्पैः ..शीतलैश्च करैः राजस्वैः किरणैश्च लोकस्य हृदयं हरतिः पत्र संयोगिनियमाभावात् राजचन्द्रौ इम्वपि वायौ, उदयादिपदान्यपि एकप्रकृतिप्रत्ययसाधितत्वादभिवानीति अभङ्गश्लेषः ॥ ३११ ॥ . -भिवपदमुदाहरति -दोषाकरेणेति। प्रदोष: रजनौमुखं प्रकष्टदोषश्च कश्चित् पुरूषः दोषाकरेण दोषायाः करः तेन निशाकरेण दोषस्य पाकरेण च तथा नक्षत्रपथ आकाशपये वर्तत इति तथोओन क्षत्रपथ क्षत्रोचिताचार न वर्तमानेन च रामा चन्द्रेण नृपेण च सम्बन्धन संयोगं प्राप्नुवन् सन् अप्रियम् प्रियारहितं द्देश्यञ्च माम् इत्यम् एवंप्रकारेण किं कथं बाधते पौड़यति। अत्र दोषाकरणेत्यादिपदानि प्रकृतिप्रत्ययसमासैभिवानीनि मभङ्गश्लेषः... राख्नेत्यत्र तु अभङ्गः तदव सभङ्गाभङ्गभेष इति त्रैविध्यम् । उसञ्च, युनस्त्रिधा सभङ्गोऽथ भङ्गस्तदुभयावाकः इति । - केवलमभङ्गोदाहरग विश्वनाथेन दर्शितम्। यथा, पृथुकानवापान-भूषिननि . षपरिजनं देव !। विलसत्करगहनं मम्प्रवि-सम्मावयोः मदनमिति ॥ ३१२ ॥
श्रेषस्य प्राधान्यं दर्शविला अलङ्कारविशेषेषु प्रस्थानत्वं दर्शयिष्यवाह उपमेति । प्रागेक-उपमारूपकाक्षेपव्यतिरेकादिः गोचरो येषां ताहणाः मेषमः पर्शिता: अपरे केचन अपराकारानभूता - इत्या दर्शन्ते । तत्र साधारलधर्मप्रयोगे
Page #177
--------------------------------------------------------------------------
________________
हितीय: परिषदः ।
अस्य भिन्नक्रियः कश्चिदविरुदक्रियोऽपरः । विरुद्धकर्मा चास्त्यन्यः श्लेषो नियमवानपि ॥३१४॥ नियमाक्षेपरूपोक्तिरविरोधी विरोध्यपि। तेषां निदर्शनेष्वव रूपमाविर्भविष्यति ॥ ३१५ ॥ वक्राः खभावमधुराः शंसत्यो रागमुल्वणम् ।। दृशो दृत्यश्च कर्षन्ति कान्ताभिःप्रेषिताः प्रियान्३१६
धर्मोपमायां श्लेषोपमायाञ्च अर्थशेषः, समानोपमायान्तु शब्दशेषः, एवमन्यत्रापि बोध्यम् ॥ ३१३ ॥ - दर्शयिथमाणानां भेदानाह अस्तीति। कश्चित् श्रेषः अभिवकियः, कश्चित् अविरुदक्रियः अपरः विरुद्धकर्मा, अन्यः पनियमवान्, नियमाक्षेपरूपोलि, पविरोधी, तथा विरोधी निदर्शनेषु वक्ष्यमाणेषु उदाहरणेषु तेषां मेदानां रूपं स्वरूपम् आविर्भविष्यति प्रकाशिष्यते ॥ ३१४ ॥ ३१५ ॥
तत्र अभिवक्रियमुदाहरति वक्रा इति। कान्ताभिः प्रेषिताः प्रक्षिप्ताः आनेतुं प्रेरिताच वक्राः स्वभावकुटिला: कुटिलमार्गदर्शयिताच, स्वभावेन मधुराः मनोहारियः मिष्टभाषिण्यश्च तथा उल्वणम् अतिप्राइं रागं लौहित्यं प्रेमानुरागच्च शंसन्त्यः सूचयन्त्यः प्रकाशयन्त्यश्च दृश: नयनानि दूत्यस प्रियान् कर्षन्ति । अत्र वक्रादीनां निष्टता, कर्षणक्रिया तु उभयत्रैकैव इति अभिक्रियः मेषस्तुल्ययोगितालङ्कारस्य पोषकत्वात् तदङ्गम् । केचित् तु एकया क्रियया वाक्ययस्य दीपनात् प्रधानस्य दीपकस्य अङ्गमित्याहुः ॥ ३१६ ॥
Page #178
--------------------------------------------------------------------------
________________
१७२
बाब्वादथे । मधुरा रागवहिन्यः कोमलाः कोकिलागिरः । पाकर्ण्यन्ते मदकलाः निष्यन्ते चासिवेक्षणाः ३१७ रागमादर्शयन्नेष वारुणीयोगवर्द्धितम् । तिरोभवति धर्माशुरङ्गेजस्तु विजृम्भते ॥ ३१८ ॥ निस्त्रिंशत्वमसावेव धनुष्येवास्य वक्रता।
अविरुद्धक्रियमुदाहरति मधुरा इति। मधुराः मनोहारियः माधुर्य्याख्यखाभाविकाङ्गनालङ्कारवत्यश्च । माधुर्यलक्षणन्तु उक्तं यथा सर्वावस्थाविशेषेषु माधुयं रमणीयतेति । रागवहिन्यः उद्दीपकत्वात् प्रणयाविष्करणाञ्च अनुरामं वईयन्त्यः कोमला: सुखत्रवाः सहङ्ग्यश्च तथा मदकला: मदोमत्ताः सौभाग्यादिजनितगर्वान्विताच । मदलक्षणन्तुक्तं यथा मदो विकारः सौभाग्ययौवनायवलेपज इति। कोकिलानां गिरः वाचः असितेक्षणास पाकर्ण्यन्ते तथा निष्यन्ते पालियन्ते च। इत्यत्र पाकर्णनश्लेषणक्रिययोरेककालीनत्वसम्भवाम् अविरुद्ध क्रियोऽयमभनमेषः पूर्ववत् तुल्ययोगितामेव पुष्णातीति तदङ्गम् ॥ ३१७॥
विरुद्धक्रियमुदाहरति रागमिति। एष धमांशुः सूर्य: वारुण्याः परिमाथायाः मुरायाश्च योगेन समात्रयेण पानेन च वर्डितं रामं लौहित्यम् अनुरागच्च आदर्शयन् प्रकटयन् वईयंश्च तिरोभवति प्रस्तं गच्छति, अङ्गजस्तु कामस्तु विजुम्भते उद्योतते। अत्र तिरोभवनजृम्भणक्रिये परस्परं विरुद्ध इति विरुद्ध क्रियश्लेषस्तथैव तुल्ययोगितां परिपुष्णातीति तदनम् ॥३१८॥
नियमवन्समुदाहरति निस्त्रिंशत्वमिति । अस्य नरेन्द्रस्य
Page #179
--------------------------------------------------------------------------
________________
हितीयः परिच्छ ेदः ।
१७३
शरेष्वेव नरेन्द्रस्य मार्गगत्वञ्च वर्त्तते ॥ ३१८ ॥ पद्मानामेव दण्डेषु कण्टकस्त्वयि रक्षति । अथवा दृश्यते रागिमिथुनालिङ्गनेष्वपि ॥ ३२० ॥
असौ खड्ग एव न तु अन्यत्र निस्त्रिंशत्वं निर्गतस्त्रिंशतोऽङ्गलिभ्य इति व्युत्पत्त्या त्रिंशदङ्गुल्यधिकपरिमाणवत्त्व निर्दयत्वञ्च, अथ निस्त्रि ंशः खड़ े ना निर्दये त्रिषु इति मेदिनी । वक्रता कौटिल्यं प्रतिकूलता च धनुष्येव नान्यत्र मार्गणत्वं बाणत्व ं शरेषु एव न तु आत्मनि इत्यर्थः, वर्त्तते इति सर्वत्रान्वेतव्यम् । अत्र प्रत्येकमेवकारेण द्वितीयार्थानां व्यवच्छिन्नत्वात् नियमवानर्थश्लेषः परिसङ्ख्याऽलङ्कारं पुष्णातौति तदङ्गम् । परिसंख्यालङ्कारश्च ग्रन्थकृतानुक्तः परं वैचित्रासद्भावात् अपरैरुक्तः । यथा, प्रवादप्रश्नतो वापि कथितात् वस्तुनो भवेत् । ताट्टगन्यव्यपोहश्चेच्छाब्द आर्थोऽथवा तदा ॥ परिसंख्येति। यदि च, विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति । अत्र च अन्यत्र च प्राप्ते परिसंख्येति गीयते ॥ इति नियमपरिसंख्ययोर्भेदः प्रतीयते, किन्तु अत्र परिसङ्ख्या अन्धव्यपोहमात्त्रप्रतौतिरेव न तु ताट्टग्लक्षणेति अविरोध इति बोध्यम् ॥ ३१८ ॥
नियमाक्षेपरूपोक्तिमुदाहरति पद्मानामिति । त्वयि रक्षति सति पद्मानामेव दण्डेषु नालेषु न तु दण्डनामकोपायेषु, अथवा रागिणः अनुरक्तस्य मिथुनस्य स्त्रीपुंसयोरालिङ्गनेषु अपि कण्टकः तीक्ष्णाग्रावयवः रोमाञ्चः क्षुद्रशत्रुच, रोमाचे क्षुद्रशत्रौ च तरोरङ्गे च कण्टक इति कोषः । दृश्यते । अन पद्मानामेवेति नियमस्य अथवेत्यादिना श्रक्षेपरूपा उक्तिरिति
Page #180
--------------------------------------------------------------------------
________________
१५४
काव्याद”
महीभृद भूरिकटकस्तेजखी नियतोदयः । दक्षः प्रजापतिश्चासीत् स्वामी शक्तिधरश्च सः३२१ अच्युतोऽप्यषच्छेदी राजाप्यविदितक्षयः । देवोऽप्यविबुधो जज्ञे शङ्करोऽप्यभुजङ्गवान् ॥ ३२२॥
श्लेषचक्रम् । नियमापरूपोक्तिः पूर्वार्द्ध स्थितायाः परिसंख्यायाः हितीयाइँ च एकत्रनिहितकण्टकस्य वाक्यहयोद्दीपनात् प्राधान्येन स्थितस्य दीपकस्य अङ्गमित्यवधेयम् ॥ ३२० ॥
प्रविरोधिनमुदाहरति महौभृदिति। स: महीभृत् राजा पर्वतश्च भूरिकटकः बहुस्कन्धावार: विशालनितम्बश्च, तेजस्वी प्रतापवान् मयूखमाली च, नियतोदयः सततोन्नतिशाली प्रतिदिवसं जातोहमश्च, दक्षः निपुणः ऋषिविशेषश्च, प्रतापतिः प्रजापाल: सृष्टिकर्ता च, स्वामी प्रभुः विशाखश्च, स्वामी प्रभुविशाखयोरिति मेदिनी। शक्तिधरः प्रभावोत्साहमन्त्रजशक्तिसम्पनः अस्त्रविशेषवांश्च, प्रामौत् । अत्र महीभृदादिनिष्टपदार्थानां परस्परसम्बन्धे अविरोधात् अयम् अविरोधी श्रेषः ॥ ३२१ ॥
विरोधिनमुदाहरति अच्युत इति। अच्युतः सत्पथादभ्रष्टः विष्णुश्च अपि अषच्छेदी वष: धर्मः तदाख्योऽसुरश्च तस्य छेदी न भवतीति तथोक्तः, राजा नरपतिः चन्द्रश्च अपि अविदितः अज्ञातः क्षयः क्षीणता दुर्बलता इत्यर्थः रोगविशेषश्च येन तादृशः, देव: राजा अमरश्च अपि अविबुधः विगतपण्डित: देवश्च न भवतीति तथोक्तः, शङ्करः शुभवत् हरश्च अपि अभुजावान् दुर्जनरहितः सर्परहितच जन्ने, स इति कर्तृपद
Page #181
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः। १०५ गुग्णजातिक्रियादीनां यत् तु वैकल्यदर्शनम् । विशेषदर्शनायैव सा विशेषोतिरिष्यते ॥ ३२३ ॥ न कठोरं न वा तीक्षामायुधं पुष्पधन्वनः । तथापि जितमेवासीदमुना भुवनवयम् ॥ ३२४ ॥ मध्याहार्यम्। अत्र अच्युतादिपदानां हितीयार्थे विष्णादौ कृषच्छेद्यादिपदार्थान्वयो विरुद्धे इति विरोधवान् अयं श्लेषः विरोधाभासस्याङ्गम् ॥ ३२२ ॥
विशेषोक्तिं निरूपयति गुणेति। विशेषस्य प्रस्तुतस्य वाद्यतिशयः तस्य दर्शनाय प्रतिपत्तये गुणजातिक्रियाणाम् आदिपदेन द्रव्याणाञ्च यत् तु वैकल्यदर्शनं कार्यसिद्धावनुपयोगित्वप्रतिपादनं सा विशेषोक्तिर्नाम अलङ्कार इष्यते इत्यन्वयः। अतिशयोक्ती, प्रस्तुतस्य विशेषदर्शनसद्भावेऽपि गुणादौनां वैकल्यप्रतिपादनं नास्तीत्यनयोर्भेदः । एवकारेण विशेषदर्शनाभावे नायमलङ्कार इति ध्वनितम् । विश्वनाथादयस्तु, सति हेतौ फलाभावो विशेषोक्तिस्तथा विधेति लक्षणमाहुः ॥ ३२३ ॥
अत्र गुणवैकल्ये विशेषोक्तिमुदाहरति नेति। पुष्पधन्वनः पायुधम् अस्त्रं न कठोरं न वा तीक्ष्ण, पुष्पमयत्वादिति भावः, तथापि अमुना भुवनत्रयं जितमेव आसीत्। अत्र कामस्य वौर्योत्कर्षरूपविशेषप्रदर्शनाय आयुधस्य कठोरत्व- । तौरवत्वरूपयोर्गुणयोर्वैकल्यदर्शनरूपा विशेषोक्तिः । विभावनायां गूढकारणस्य स्वाभाविकत्वस्य वा विभावने तात्पर्यमस्ति भव तु विलोपकरणं कार्यनिष्पादकतया वर्णना यस्य उत्कर्षप्रतिपादने तात्पर्य्यमस्तीत्यनयोर्भेदः ॥ ३२४ ॥ .
Page #182
--------------------------------------------------------------------------
________________
काव्याद”
न देवकन्यका नापि गन्धर्वकुलसम्भवा । तथाप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम्॥३२५ ॥ न बद्धा भुकुटि पि स्फुरितो दशनच्छदः । न च रता भवदृष्टिर्जितच्च द्विषतां बलम् ॥३२६ ॥ न रथा न च मातङ्गा न हया न च पत्तयः । स्त्रीणामपाङ्गदृष्ट्यैव जीयते जगतां वयम् ॥३२७॥
जातिवैकल्ये विशेषोक्तिं दर्शयति नेति। एषा देवकन्यका न, गन्धर्वकुल पम्भवापि न, तथापि वेधमः बह्मणोऽपि तपोभङ्गविधालन अलं शता। अत्र टेवत्वगन्धर्वत्वरूपजातिनैरपेक्ष्येण तपोभङ्गमामर्थ्य वर्णनात् नायिकाया' मनोमोहित्वातिशयरूपविशेषः प्रतिपादित इति जातिवैकल्ये विशेषोक्तिः । ३२५ ॥ . लिया और ये विशेषोक्तिं दर्शयति नेति । भ्रकुटिः न बहा, दशनादः अधरश्च न स्फुरितः, न कल्पितः दृष्टिश्च न रता पभवत् नापि द्विषतां शत्रूणां बलं जितञ्च। पत्र बन्धनं स्फुरणं रचनत्र क्रिया, तेषाञ्च वैकल्यप्रतिपादनं वर्णनीयस्थ वीरस्य उत्कर्ष द्योतनाय, अतस्तत् क्रियावैकल्ये विशेषोलिरिति ॥ ३२६ ॥
ट्रक वैकल्ये विशेषोक्तिं दर्शयति नेति। स्त्रीणाम् अपाङ्गदृध्या एव का जगतां त्रयं जीयते, रथा न, मातङ्गा न, हया न, पत्तयश्च न उपयोमिन इति शेषः । अत्र रथादीनां ट्रव्याणां वैकल्यप्रतिपादनरूपविशेषोक्तिः ॥ ३२७ ॥
Page #183
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छ ेदः ।
f
एकचक्रो रथो यन्ता विकलो विषमा हयाः । आक्रामत्येव तेजखी तथाप्यर्को नभस्तलम् ॥३२८॥ सैषा हेतुविशेषोक्तिस्तेजस्वीतिविशेषणात् । अयमेव क्रमोऽन्येषां भेदानामपि कल्पने ॥ ३२६ ॥ विशेषोक्तिचक्रम् |
१७७
विवचितगुणोत्कृष्टैर्यत्समीकृत्य कस्यचित् । कीर्त्तनं स्तुतिनिन्दार्थं सा मता तुल्ययोगिता३३०
हेतुविशेषोक्तिं दर्शयति एकचक्र इति । रथः एकचक्रः, यन्ता सारथिः विकलः अङ्गहौन: अनरुत्वादिति भाव: हयाः अश्वाः विषमा: अयुग्माः सप्तसंख्यकत्वादिति भावः, तथापि अर्कः सूर्यः नभस्तलम् श्राक्रामति एव यतः सः तेजस्वीत्यन्वयः । अवापि रथादीनां द्रव्याणां वैकल्यप्रतिपादनरूपविशेषोक्तिस्तेजस्वित्वरूप हेतुकथनेन समधिकं वैचित्रामादधातीति हेत्वलङ्कारानुप्राणिता इति बोध्यम् ॥ ३२८ ॥
सैषेति । तेजखौति विशेषणात् हेतुगर्भादिति भावः सा एषा विशेषोक्तिः हेतुविशेषोक्तिः सहेतुका इत्यर्थः, अन्येषामपि भेदानां विशेषाणां कल्पने अयमेव क्रमः नियमः यथा हेत्वलवारसद्भावेनास्या भेदः तथान्येषामपि अलङ्काराणां सद्भावेनेति
भावः ॥ ३२८ ॥
तुल्ययोगितां निरूपयति विवक्षितेति । विवक्षिताः प्रस्तुतगतत्वेन इष्टा ये गुणाः तैरुत्कृष्टेः विख्यातः अप्रस्तुतैः समौ कृत्य तुल्यपचौक्कृत्य कस्यचित् प्रस्तुतस्य स्तुतिनिन्दार्थं स्तुत्यर्थं निन्दार्थं वा कीर्त्तनं सा तुल्ययोगिता मता इत्यन्वयः । विव
Page #184
--------------------------------------------------------------------------
________________
१७९
काव्यादर्श
यमः कुवेरो वरुणः सहस्राक्षो भवानपि। विधयनन्यविषयां लोकपाल इति श्रुतिम्॥३३१॥ सङ्गतानि मृगाक्षीणां तडिहिलसितानि च । क्षणहयं न तिष्ठन्ति धनारब्धान्यपि स्वयम् ॥३३२॥
__ तुल्ययोगिता। चितगुणोत्कृष्ट रिति बहुत्वमविवक्षितं हाभ्यामेकेन वा समो. करणेऽपि पस्या: सद्भावादिति बोध्यम् । दीपके वाक्यान्तरीयपदस्य अनुषङ्गादिना वाक्यान्तरार्थोहीपकत्वम् इह तु स्तुतिमिन्दार्थसमीकरणमित्यनयोर्भेदः। उपमायां वाच्यार्थस्य व्यङ्ग्यायस्य वा साम्यप्रतीतिः शाब्दी इह तु सर्वेषां समकक्षतयां शाब्दबोधविषयत्वात् पर्यवसाने सादृश्यप्रतीतिरित्यनयोर्भेदः । तथाच विवक्षितगुणशालित्वेन अप्रस्तुतैः सह प्रस्तुतस्य समकचतया तादृम्म णवत्त्वकीर्तनेन स्तुतिनिन्दा वा तुल्ययोगितेति निष्कर्षः ॥ ३३० ॥
तत्र स्तुतावुदाहरति यम इति। यमः कुवेरः वरुणः सहमाक्षः इन्द्रः तथा भवान् अनन्यविषयाम् अनन्यसतां लोकपाल इति श्रुतिम् प्राख्यां विभ्रति। अत्र लोकपालत्वरूपो गुणः प्रस्तुते रात्रि विवक्षितः, तेन च गुणेन उत्कृष्ट : यमादिभिः सह समकक्षतया कीर्तनेन स्तुतिरूपा तुल्ययोगिता ॥ ३३१॥
निन्दायामुदाहरति सङ्गतानौति। मृगाक्षीणां सङ्गतानि सङ्गमाः तडिहिलसितानि च स्वयं घनारब्धानि धनं निविडं गाढ़ यथा तथा अन्यत्र धर्मेधैरारब्धानि अपि क्षणहयं न तिष्ठन्ति हणमावस्थायित्वात्तेषामिति भावः । अव क्षणस्थायिस्वरूपो गुणो वर्णनीये मृगाक्षीसङ्गमे विवक्षितः, तेन च अप्र
Page #185
--------------------------------------------------------------------------
________________
१७८
हितीयः परिच्छेदः । विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् । । विशेषदशनायैव स विरोधः स्मृतो यथा ॥३३३॥ कूजितं राजहंसानां बईते मदमञ्जुलम् । क्षीयते च मयूराणां रुतमुत्क्रान्तसौष्ठवम् ॥३३४॥ स्तुततड़िहिलसितस्य समकक्षतया वर्णनेन निन्दाप्रतीयमाना तुल्ययोगिता, सा च धनारब्धानौति श्लेषानुप्राणिततया समधिकां चारुतां पुणातीति बोध्यम् ॥ ३३२ ॥ ___विरोध लक्षयति विरुहानामिति। विशेषस्य प्रस्तुतगतो. स्कर्षस्य दर्शनाय प्रतिपादनाय एव विरुद्धानां परस्परविरो. धिनां पदार्थानां यत्र वैचित्र संसर्गदर्शनं सम्बन्धप्रतिपादन सामानाधिकरण्यकीर्तनमित्यर्थः सः विरोधः स्मृतः। यथेति उदाहरणार्थम् । तथाच प्रस्तुतोत्कर्षप्रतिपत्तये प्रापाततः विरुद्धत्व न प्रतीयमानानां पदार्थानां सामानाधिकरखपतिपादनरूपं वैचित्रा विरोध इति निष्कर्षः । स च जात्यादिभिन तेरिति चतुर्विधः गुणादिभिर्गुणस्येति त्रिविधः, क्रियाद्रव्याभ्यां क्रियाया इति हिविधः, द्रव्यस्य द्रव्येणेति एकविध इति मिलित्वा दशविधो बोहव्यम् इति ॥ ३३३ ।। - कूजितमिति । राजहंसानां मदमचुलं मदमनोहरं कुजितं बईते वृद्धि गच्छतौति, मयूराणाञ्च उत्क्रान्तं सौष्ठवं मनोहारित्व यस्मात् तादृशं मत् क्षीयते च। अत्र एकस्मिवेव जिते रुते च शब्दरूपे कर्तरि विरुयोरपि हचिक्षययोः संसर्गदर्शनेन विरोधः सम्बन्धिभेदेन च तत्प्रशमनम् अनेन । प्रस्तुतस्य शरत्कालस्य एकजातीययोरपि बलाबलकारित्वेन वैभिब्य प्रतीयते इति ॥ ३३४ ॥
Page #186
--------------------------------------------------------------------------
________________
१८०
काव्यादर्श
प्रावृषण्यैर्जलधरैरम्बरं दुर्दिनायते । रागेन पुनराक्रान्त जायते जगतां मनः ॥३३५॥ तनुमध्य पृथुशोणि रक्तौष्ठमसितेक्षणम् । नतनाभि वपुः स्त्रीणां कं न हन्त्युन्नतस्तनम्॥३३६ मृणालबाहु रम्भोरु पद्मोत्पलमुखेक्षणम् । अपि ते रूपमम्माकं तन्वि ! तापाय कल्पते ॥३३७
प्रावृषण्यै रिति। प्रायः वार्षिकैः जलधरैः अम्बरम् पाकाशं दुर्दिनायते आच्छव श्यामलमित्यर्थः भवति, जगतां मनः पुनः रागेण अनुरागण लौहित्येन च आक्रान्त जायते । अत्र श्यामलत्वलौहित्ययोरेकजलधरसम्भवत्वरूपसंसर्गकीर्तनं विरोधः, तस्य श्रेषेण प्रशमनम्। अनेन च प्रस्तुतस्य वर्षासमयस्य वैशिष्ट्यं प्रतीयते ॥ ३३५ ॥
तनुमध्यमिति । स्त्रीणां तनुमध्यं पृथुश्रोणि विशालनितम्ब रतौष्ठम् असितेक्षणं कृष्णनयनं नतनाभि गभौरनाभि तथा • उन्नतस्तनं वपुः कं जनं न हन्ति न तापयति अपितु सर्वमेवे. त्यर्थः । अत्र तनुत्वपृथुत्वयोः रक्तवासितत्वयोः नतत्वोबतत्वयोर्गुणयोर्विरोधेन प्रस्तुतानां स्त्रीणां वैचित्रां प्रतीयते, पाश्रयभेदाच तेषां विरोधपरिहारः ॥ ३३६ ॥ __मृणालेति। हे तन्वि! ते रूपं मृणालवत् शीतलौ बाइ यस्य तत्, रम्भे इव ऊरू यस्य तत्, पद्ममिव उत्पले इव मुखम्
क्षणे च यस्य तादृशमपि अस्माकं तापाय कल्पते। प्रव पूर्वोक्त उपमितिगर्भबहुब्रीही शीतलत्वादिकं गुणः तस्य च तापक्रियया विरोधः । राणाले एव बाइ यस्य इत्यादिरूपक
Page #187
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छदः ।
उद्यानमारुतोद्धूताश्च तचम्प्रकरेणवः । उदश्रयन्ति पान्थानामस्पृशन्तोऽपि लोचने ॥ ३३८ ॥ कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी । याति विश्वसनीयत्वं कस्य ते कलभाषिणि । ३३६ इत्यनेकप्रकारोऽयमलङ्कारः प्रतीयते । विरोधचक्रम् ।
समासे तु मृणालत्वरम्भात्वादिभिर्जातिभिस्तापक्रिययोः विरोधः । वक्तुर्विरहित्वेन च तस्य परिहारः ॥ ३३७ ॥
१८१
उद्यानेति। उद्यानमारुतेन उपवनवायुना उडूताः चूतचम्पकानां रेणवः परागाः पान्यानां पथिकानां लोचने नेवे अस्पृशन्तोऽपि उदश्रयन्ति उद्गतवाष्ये कुर्वन्ति विरहित्वादिति भावः । अत्र स्पर्शनाभावेऽपि उदश्रयणक्रियेति विरोधः तत्परिहारश्च परागाणामुद्दीपकत्वादिति ॥ ३३८ ॥
कृष्णेति । हे कलभाषिणि मधुरवचने ! ते दृष्टिः कृष्णार्जुनानुरक्ता अपि कर्णावलम्बिनी कस्य विश्वसनीयत्वं याति, न कोऽपि विश्वसितीत्यर्थः । श्रव कृष्णार्जुनयोरनुरक्तिः कर्णावलम्बनमिति क्रिययोरापाततः प्रतीयमानोऽपि विरोधः श्लेषेण शाम्यति तद् यथा, कृष्णा श्यामला अर्जुना धवला अनु पश्चाद्भागे प्रान्ते इत्यर्थः रक्ता कर्णावलम्बिनी श्राकर्णविश्रान्तेति च ॥ ३३८ ॥
इतौति । इति एवंप्रकारेण अयम् अलङ्कारः विरोध इत्यर्थः अनेकप्रकारः बहुविधः प्रतीयते । प्रतीयते इत्यत्र प्रतिशोभते इत्यपि पाठः ।
१६
1
Page #188
--------------------------------------------------------------------------
________________
काव्यादयें
अप्रस्तुतप्रशंसा स्यादप्रक्रान्तेषु या स्तुतिः ॥ ३४० ॥
मुखं जीवन्ति हरिणा वनेष्वपरसेविनः । अन्नैरयत्नसुलभैस्तृणदर्भाङ्कुरादिभिः ॥ ३४१ ॥ सेयमप्रस्तुतैवाव मृगवृत्तिः प्रशस्यते । राजानुवर्त्तनक्लेशनिर्विमेन मनखिना ॥ ३४२ ॥ अप्रस्तुतप्रशंसा । यदि निन्दन्निव स्तौति व्याजस्तुतिरसौ स्मृता ।
११
इदानीम् अप्रस्तुतप्रशंसां लचयति अप्रस्तुतेति । अप्रक्रान्तेषु अप्रस्तुतेषु, षष्ठयर्थे सप्तमी बोध्या, बहुवचनमविवक्षितं द्दयोरेकस्य वा अप्रस्तुतत्वऽपि अस्याः सम्भवात् । या स्तुति: प्रस्तुतस्य निन्दार्थमित्यध्याहार्यम् । तथाच, अप्रस्तुतस्तवेन प्रस्तुतस्य निन्दा सूचनमप्रस्तुतप्रशंसेति ॥ ३४० ॥
अप्रस्तुतप्रशंसां दर्शयति सुखमित्यादि । श्रपरसेविन: परसेवानभिज्ञा इत्यर्थः हरिणाः वनेषु प्रयत्न सुलभैः अनायासलभ्यैरित्यर्थः तृणदर्भाङ्कुरादिभिः अन्नैः सुखं जीवन्ति । प्रभुसेवाविरक्तस्य भृत्यस्योक्तिरियम् । अव राजानुवर्त्तने राजसेवायां यः क्ल ेशः तेन निर्विसेन प्राप्तनिर्वेदेन केनचित् मनविना प्रशस्तमनसा इयम् अप्रस्तुता सा मृगवृत्तिः प्रशस्यते इति अप्रस्तुतप्रशंसा अप्रस्तुतस्य मृगस्य स्तुत्या स्वस्य निन्दा - सूचनात् । एवकारेण अप्रस्तुत प्रस्तुतयोरुभयोः प्रशंसायां नायमलङ्कार इति सूचितम् ॥ ३४९ ॥ ३४२ ॥
सम्प्रति व्याजस्तुतिं निर्दिशति यदोति । यदति यदि - त्यर्थे, निन्दन् इव यत् स्तौति असौ व्याजस्तुतिः स्मृताः । अव
Page #189
--------------------------------------------------------------------------
________________
हितीया परिच्छेदः । ४३ दोषाभासा गुणा एवं लभन्ते यव सन्निधिम् ३४३ तापसेनापि रामेण जितेयं भूतधारिणी। खया राज्ञापि सैवेयं जिता मा भून्मदस्तव॥३४४५ दोषा इव आभास्यन्ते आपाततः प्रतौयन्ते इति दोषाभासाः गुणा एव वस्तुतः अत्र सनिधिः लभन्ते गुणस्वरूपेणैव परिगमतीत्यर्थः। निन्दनिव स्तोतीत्यत्र स्तुवनिव निन्दतीत्यपि प्रत्ययविपरिणामेनान्वेतव्यं वैचित्रासाम्यात् वैचित्रयस्यैवालशारत्वादिति बोध्यम् । तथाच, व्याजेन निन्दाव्याजेन स्तुतिः स्तुतिव्याजेन च निन्दा व्याजस्तुतिरिति निष्कर्षः। उक्तञ्च प्रकाशकारेण, व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथेति। उदाहृतञ्च तेनैव। स्तुत्या निन्दायां यथा, हे हे लाजितबोधिसत्त्व ! वचसां किं विस्तरैस्तोयधे! नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । वृष्थत्पान्यजनोपकारघटनावैमुख्य ! लब्ध्वा यशो भारस्थोहहने करोषि कृपया साहायकं यन्मरोरिति। अत्र समुद्रस्य स्तुतिव्याजेन निन्दाप्रतिपादनं चारुतातिशयं दर्शयति ॥ ३४३ ॥ ___ व्याजस्तुतिमुदाहरति तापसेनेति। रामेण परशुरामिण तापसेनापि जयसाधनसामग्रौरहितेनापौति भावः, इयं भूतधारिणौ पृथ्वी जिता, त्वया राज्ञाऽपि प्रभूतजयसाधनसामग्रीमताऽपि सैव पृथ्वी न त्वतिरिक्ता जिता अतः तव मदः गर्वः मा भूत्। अत्र प्रस्तुतस्य राज्ञः आपातत: निन्दा प्रतीयत एव परं साक्षाद् भगवदंशावतारेण परशुरामण महादेवप्रसादलब्धपरशुना या पृथ्वी जिता, त्वया मानवेनापि सा. जितेति पर्यवसानात् महती स्तुतिर्गम्यत इति ॥ ३४४. ॥ ..
Page #190
--------------------------------------------------------------------------
________________
१४.
काव्यादर्श
पुंसः पुराणादाच्छिद्य श्रस्त्वया परिभुज्यते । राजन्निक्ष्वाकुवंशस्य किमिदं तव युज्यते ? ॥ ३४५॥ भुजङ्गभोगसंसक्ता कलवं तव मेदिनी । अहङ्कारः परां कोटिमारोहति कुतस्तव ? ॥ ३४६ ॥ इति श्लेषानुविद्यानामन्येषाञ्चोपलक्ष्यताम् । व्याजस्तुतिप्रकाराणामपर्यन्तस्तु विस्तरः ॥ ३४७ ॥ व्याजस्तुतिः ।
अर्थ श्लेषमूलां व्याजस्तुतिं दर्शयति पुंस इति । हे राजन् ! त्वया पुरणात् श्राद्यात् वृद्धाच्च पुंसः श्रच्छिद्य श्राकृष्य श्रीलक्ष्मीः सम्पत्तिश्च परिभुज्यते । इक्ष्वाकुवंशस्य इक्ष्वाकुवंशौयस्य तव इदं किं युज्यते ? आदिपुरुषादाच्छिन्नायाः लक्ष्याः सम्भोगः इक्ष्वाकुवंशीयस्य तव न योग्य इति निन्दया अतिप्रभूतास्ते सम्पद इति स्तुतिर्गम्यते अत्र पुराणपदे श्रीपदे च अर्थगतश्लेषवशात् ससधिकचारुता स्फुटं प्रतीयत इति बोध्यम् ॥ २४५ ॥
शब्दश्लेषमूलामुदाहरति भुजङ्गेति । भुजङ्गानां भोगाः शरीराणि तैः संसक्ता अन्यत्र भुजङ्गानां जाराणां भोगे संसक्ता मेदिनी तव कलत्र' भाय्या पाल्या च, तथापि तव अहङ्कारः परां कोटिम् प्ररोहति कुत: ? अत्र भुजङ्गादिशब्दानामनेकार्थत्वात् शब्दश्लेषमूला व्याजस्तुतिरियम् ॥ २४६ ॥ .
व्याजस्तुतिमुपसंहरति इतीति । इति उक्तरूपाणां श्लेषाविधानां तथा अन्येषाञ्च अलङ्कारमूलानां व्याजस्तुतिप्रकाराणाम् अपयन्तः अशेषः विस्तरः उपलक्ष्यतां ज्ञायताम् ॥३४७॥
Page #191
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छेदः ।
अर्थान्तरप्रवृत्तेन किञ्चित् तत् सदृशं फलम् । सदसद् वा निदर्थ्येत यदि तत् स्यान्निदर्शनम्३४८ उदयनेष सविता पद्मेष्वर्पयति श्रियम् । विभावयितुमृद्दोनां फलं सुहृदनुग्रहम् ॥ ३४८ ॥ याति चन्द्रांशुभिः स्पृष्टा ध्वान्तराजी पराभवम् । सद्यो राजविरुद्दानां सूचयन्तो दुरन्तताम् ॥ ३५० ॥ निदर्शनम् ।
१८५
सम्प्रति निदर्शनं लक्षयति अर्थान्तरेति । अर्थान्तरे कार्य्यान्तरे प्रवृत्तेन जनेन तस्य अर्थान्तरस्य सदृशं सत् उत्क्कष्टम् असत् अपकृष्टं वा किञ्चित् फलं निदर्श्यत प्रदर्खेत यत्, तनिदर्शनमित्यर्थः । यदीत्यस्य यदित्यर्थः । निदर्शने - त्यपि पाठः । दर्पणकारस्तु सम्भवन्वस्तुसम्बन्धोऽसम्भवम् वापि कश्चन । यव विम्बानुविम्बत्व दर्शयेत् सा निदर्शने -
त्याह ॥ ३४८ ॥
सत्फलनिदर्शनं दर्शयति उदयमिति । एषः सविता सूर्य्यः उदयन् उद्गच्छन् उन्नतिं प्राप्नुवंश्च ऋद्धीनां फलं सुहृदनुग्रहं विभावयितुं सत्याम् ऋडौ सुहृदामानुकूल्यं कार्य्यमिति ज्ञापयितुं पद्मेषु श्रियम् अर्पयति । अत्र पद्मेषु श्रौदानप्रवृत्तेन उदयशालिना सूर्य्येण सुहृदुपकाररूपमुदयफलं किञ्चित् निदर्श्यते इति फलञ्चात्र उत्कृष्टमेव ॥ ३४८ ॥
असत् फलनिदर्शनं दर्शयति यातीति । चन्द्रस्य अंशुभिः स्पृष्टा ध्वान्तराजो राजविरुद्धानां सद्यः दुरन्ततां दुःखजनकमवसानं सूचयन्ती प्रकटयन्ती सती पराभवं याति । अब
Page #192
--------------------------------------------------------------------------
________________
१८६
सहोक्तिः सहभाषन कथनं गुणकर्मणाम्। पर्वानां यो विनिमयः परिवृत्तिस्तु सा स्मृता॥३५१॥ सह दीर्घा मम खासैरिमाः सम्प्रति रावयः । पाण्डुराश्च ममेवाङ्गः सह ताश्चन्द्रभूषणाः ॥३५२ ॥ चन्द्रांशपरिभूयमाना तमस्ततिः राजविरोधिनां परिणामदुःखरूपमपक्कष्ट फलं निदर्शयतीति ॥ ३५० ॥ ___ सहोक्तिपरिहत्त्यलङ्कारी लक्षयति सहोक्तिरिति। गुणकर्मणाम् इति कर्मशब्देनात्र क्रियेते बोध्यं, सहभावेन कथनं सहोक्तिः, गुणकर्मणामित्युपलक्षणं द्रव्यानीनामपि सहभावस्य कौर्तनादिति बोध्यम्। उक्तञ्च दर्पणकारेण यथा सहार्थस्य बलादेकं यत्र स्याहाचकं हयोः । सा सहोक्तिरिति। सा च वैचित्रावहा चेत् तदैवालङ्कारत्व तस्याः नान्यथा। तथाहि, लमणेन समं रामः काननं गहनं ययावित्यत्र वैचित्रयाभावात् नायमलङ्कार इति बोध्यम् । तुल्ययोगितायां यौगपा नास्ति, अत्र तु तथेत्यनयोर्भेद इति। अर्थानां वस्तूनां विनिमयः प्रतिदानं सा परिवृत्तिः स्मृता। सा विधा क्वचित् समेन समस्य, क्वचिदधिकेन न्यूनस्य, क्वचित् न्यूनेन अधिकस्य इति । भवापि वैचित्रास्य आवश्यकत्व बोध्यम् । भोजदेवस्तु व्यत्ययमपि परिवत्तिमाह। यथा, व्यत्ययो वस्तु नोर्यस्तु यो वा विनिमयो मिथ इति। व्यत्ययस्तु, एकस्थानात् कस्यचिद् वस्तु नः अन्यत्र स्थापनम् । यथा, कुमुदवनमपथि श्रीमदभोजखण्डमित्यादि ॥ ३५१ ॥ ... गुणसहोक्ति दर्शयति सहेति। सम्पति विरहे इत्यर्थः इमा रावयः मम खासैः सह दीर्घाः, चन्द्रभूषणाः ताव रामयः
Page #193
--------------------------------------------------------------------------
________________
हितीवः परिच्छेदः । १८७ वईते सह पान्यानां मूर्छया चूतमञ्जरी। ... पतन्ति च समं तेषामसुभिर्मलयानिलाः॥३५३ ॥ कोकिलालापसुभगाः सुगन्धिवनवायवः । यान्ति साई जनानन्दै हिं सुरभिवासराः ॥३५४॥ ममैव अङ्गः सह पाण्डुराः । विरहिण्या उक्तिरियम्। प्रव दौर्घत्व पाण्डुरत्व गुणपदार्थों एककालीनतया उक्तौ। न च पाविर्भवति नारीणां वयः पर्यस्तशैशवम् । सहैव विविधैः पुंसामङ्गजोन्मादविभ्रमैरिति पूर्वोक्त कार्यसहजचित्रहेतूदाहररोऽपि क्रिययोः सहभावोऽस्ति तदनयोरभेद एवेति वाचं सहभावसाधारण्येऽपि कार्यकारणभावस्यैव चित्रनियामकत्वात् अत्र तु दीर्घखासदौरानयोन कार्यकारणभाव इति . बोध्यम् ॥ ३५२ ॥
क्रियासहोक्ति दर्शयति वईते इति। पान्यानां विरहिणामित्यर्थः मूळ्या सह चूतमञ्जरी वईते मलयानिलाच तेषाम् असुभिः प्राणैः समं पतन्ति च। असुभिरित्यत्र अश्रुभिरिति च पाठः । अत्र वईनं पतनञ्च क्रिये सहभावेनोक्त वैचित्राविशेषमावहत इति अवापि यदिच चूतमञ्जरौविकासमलयपवनपतनाभ्यामेव पान्थानां मूर्छा प्राणनाशश्च ध्वन्यते तथाप्यसौ न विवक्षित इति चिवहेतुत्वशङ्काया अनवकाशः ॥ ३५३ ॥ __कोकिलेति। कोकिलानाम् आलापेन रवेण सुभगाः सुरम्याः, सुगन्धिनः वनवायवः येषु तादृशाः सुरभिवासरा: वसन्तदिवसाः जनानामानन्दः साई वृद्धि यान्ति । सहशब्दप्रयोग एवायमलकार इति भ्रमनिरासार्थमिदसुदाहरणम् ।
Page #194
--------------------------------------------------------------------------
________________
१८८
. काबादमें इत्खुदाहतयो दत्ताः सहोलेरख काचन ।
सहोक्तिः । क्रियते परिवृत्तेश्च किञ्चिद्रूपनिदर्शनम् ॥ ३५५ ॥ शस्त्रप्रहारं ददता भुजेन तव भूभुजाम् । चिरार्जितं हृतं तेषां यशः कुमुदपाण्डुरम् ॥३५६॥
परिवृत्तिः । पोशीर्नामाभिलषिते वस्तुन्याशंसनं यथा । पातु वः परमं ज्योतिरवाङ्मनसगोचरम् ॥३५७ ॥
आशीः ।
पत्र यानम् प्रानन्दनञ्च क्रिये सहभावेन उक्त वैचित्रातिशयसुत्पादयत इति ॥ ३५४ ॥
इतीति। इति उक्तरूपाः सहोक्तः काश्चन उदाहतयः उदाहरणानि अत्र दत्ताः दर्शिता अनयैव रीत्या अन्यविधापि सहोक्तिरनुसन्धेया इत्यर्थः । परिवृत्तेश्च किञ्चित् अल्पमात्र रूपनिदर्शनं खरूपप्रकाशनं क्रियते इत्यन्वयः ॥ ३५५ ॥
शस्त्रप्रहारमिति। शस्त्रप्रहारं ददता तव भुजेन तेषां भूभुजां चिरार्जितं कुमुदपाण्डुरं यश: हतमित्वन्वयः। अव न्यूनेन अधिकस्य ग्रहणरूपो विनिमयः कृत इति। समेन समख अधिकेन न्यूनस्य यथायथमुदाहरणानि मुग्याणौति ॥ ३५६ ॥
पाशीरलङ्कारं निर्दिशति प्राशौरिति। अभिलषित वस्तुनि पाशंसनं प्राप्तीच्छाप्रकटनम् अथवा एभप्रार्थनम्
Page #195
--------------------------------------------------------------------------
________________
द्वितीय: परिच्छेदः ।
अनन्वयससन्देहावुपमाखेव दर्शिती । उपमारूपकञ्चापि रूपकेष्वेव दर्शितम् ॥ ३५८ ॥
१६
आशौर्नाम अलङ्कारः । अयमलङ्कारो वैचित्रप्रविशेषावहत्वाभावान्न्र बहुभिरादृतः, अपरे तु तादृशाशंसनेन वैचित्रामस्त्रीत्याहुः | उक्तञ्च, आशोरिति च केषाञ्चिदलङ्कारतया मता । सौहृद्यस्याविरोधोक्तौ प्रयोगोऽस्याश्च तादृश इति । कैचित्तु नाट्य एवास्याश्चमत्कारित्वात् नाट्व्यालङ्कारतया मण्यते । यथा, आशौरास्कन्दकपटा क्षमा गर्वोद्यमाश्रया इति । उदाहृतञ्च । यथा ययातेरिव शर्मिष्ठा पत्युर्बहुमता भव । पुत्रं त्वमपि सम्राजं सेव पूरुमवाप्नुहि इति । अन्ये तु प्रेयोऽलङ्कारस्य भेद एवायमित्याहुः । यथेति उदाहरणार्थम् । अवाङ्मनसगोचरं परमं ज्योतिः परमात्मा इत्यर्थः यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सहेति श्रवणात् वः युष्मान् पातु रक्षतु ॥ ३५७ ॥
सम्प्रति उद्देशक्रमप्राप्तानलङ्कारान् निरूप्य प्राप्तावसरतया मतान्तरोक्तानां केषाञ्चित् अलङ्काराणां स्वोक्तेष्वन्तर्भावं दर्शयति अनन्वयेति । अनन्वयः उपमानोपमेयत्वमेकस्यैव त्वनन्वय इत्युक्तलक्षणः, तथा ससन्देहः सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थित इत्युक्तप्रकारः, उपमासु उपमाभेदेषु एव दर्शितौ तथाच, चन्द्रारविन्दयोः कान्तिमतिक्रम्य मुखं तव । आत्मनैवाभवत् तुल्यमित्य साधारणोपमा इत्युक्तरूपायामसाधारणोपमायामनन्वयस्यान्तर्भावः । किं पद्ममन्तर्भ्रान्तासि किं ते लोलेचणं मुखम् । मम दोलायते चित्तमितीयं संशयोपमा इत्युक्तायां संशयोपमायां ससन्देहस्य अन्तर्भावः ।
Page #196
--------------------------------------------------------------------------
________________
१८०
काव्यादर्णे
उप चाभेद एवासाबु चावयवोऽपि च । नानालङ्कारसंसृष्टिः सङ्कीर्णन्तु निगद्यते ॥ ३५८ ॥
उपमारूपकञ्चापि यदुक्त वामनेन यथा, उपमाजन्य ं रूपकमुपमारूपकमिति। उदाहृतञ्च तेनैव यथा, जयति चतुर्दशलोकवल्लिकन्द इति । केचिदिदं परम्परितरूपकमाहुः । अपरे तु उपमासहितं रूपकम् उपमारूपकं यदुक्तम्, उपमानेन तद्भावमुपमेयस्य रूपयन् । यद् वदन्त्युपमाभेदमुपमारूपकं यथेति । अस्योदाहरणं यथा दिवाकरकरस्पर्शादुदयाद्रेः पयोधरात् । नीलांशुकमिव प्राच्यां यो गलति सम्प्रति ॥ अत्र नोलांशुकमिवेत्युपमया सहितमुदयाद्रेः पयोधरादिति रूपकमाचक्षते । रूपकेषु रूपकभेदेषु एव दर्शितम् । यथा दृष्ट साधर्म्यवैधर्म्यदर्शनाद गौणमुख्ययोः उपमाव्यतिरेकाख्यं रूपकहितयं यथेति । तस्मादेतेषां न पृथगुक्तिरिति भावः ॥ ३५८ ॥ उत्प्रेचेति । असौ अन्यैरुक्त इत्यर्थः उत्प्रेक्षावयवः तत्रामालङ्कारभेदः अपि उत्प्रेक्षाया भेदः विशेष एव । तल्लक्षणं यथा लिष्ट नार्थेन संस्पृष्टः किञ्चिचोपमयान्वितः । रूपकार्थेन वा युक्त उत्प्रेक्षावयवो यथेति । श्रयञ्च श्लेषादिसम्बन्धोत् प्रेक्षामात्रमतो नात्र प्रयास इति भावः । एवं नव्यैः परिगृहीतानामन्येषाञ्च अलङ्काराणामनयेव रीत्या उक्तालङ्कारभेदेष्वन्तर्भावो वेदितव्य इति ।
1
अथ सङ्कीर्णं निरूपयति नानेति । नानालङ्काराणां बहनामलङ्काराणां संसृष्टिः एकत्र समावेशः सङ्घौर्णं निगद्यते वैचित्रयविशेषवत्तया पृथक् निबध्यते यथा, लौकिकानां हारकुण्डलादीनां प्रत्येकस्य यादृशौ शोभा यादृशौ च समष्टि:,
"
Page #197
--------------------------------------------------------------------------
________________
द्वितीयः परिच्छदः ।
अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता । इत्यलङ्कारसंसृष्टेर्लक्षणीया दयो गतिः ॥ ३६० ॥ आक्षिपन्त्यरविन्दानि मुग्धे ! तव मुखश्रियम् । कोषदण्डसमग्राणां किमेषामस्ति दुष्करम् ॥३६१॥ लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्विफलतां गता ॥ ३६२ ॥ सङ्कीर्णम् ।
१८१
तथा काव्यालङ्काराणामपि प्रत्येकस्य यादृशं वैचित्रा सङ्कीर्णस्य तदपेक्षया समधिकमिति पृथग्व्यपदेश इति भावः ॥ ३५८ ॥
सङ्कीर्णस्य भेदावाह अङ्गेति । क्वचित् अङ्गाङ्गिभावेन प्रधानगुणभावेन अवस्थानं, क्वचित् सर्वेषां समकक्षता तुल्यबलत्वम् । इति अलङ्कारसंसृष्टः सङ्कीर्णालङ्कारस्य द्वयो गतिः हौ भेदौ लक्षणीया ज्ञातव्या इत्यर्थः । अपरे तु एकानुप्रवेशे सन्दिग्धत्वे अङ्गाङ्गिभावे च सङ्करसंज्ञा समकक्षतायान्तु संसृष्टिसंज्ञेत्याहुः ॥ ३६० ॥
अङ्गाङ्गिभावसङ्घौर्णमुदाहरति प्रचिपन्तौति । हे मुग्धे ! अरविन्दानि तव मुखश्रियम् अक्षिपन्ति तिरस्कुर्वन्ति जिगीवन्तीत्यर्थः । तथाहि, कोषदण्डसमग्राणां कोषो धनसमूहः कुशलश्च दण्डः चतुर्थोपायः नालञ्च ताभ्यां समग्राणां पूर्णानामित्यर्थः एषां दुष्करं किम् ? अत्र श्लेषः अर्थान्तरन्यासस्याङ्गम् अर्थान्तरन्यासच पूर्वाईस्थिताया उपमाया इत्यङ्गाङ्गिभावो बोध्यः ॥ ३६१ ॥
- सबकच्चतायां सङ्घीयं निदर्शयति लिम्पतीति । तमः
--
Page #198
--------------------------------------------------------------------------
________________
१६२ -
काव्यादरें श्रेषः सर्वासु पुष्णाति प्रायो वक्रोक्तिषु श्रियम् । भिन्नं द्विधा स्वभावोक्तिर्वक्रोक्तिश्चेति वाङ्मयम्३६३ तद भाविकमिति प्राहुः प्रबन्धविषयं गुणम् । भावः कवेरभिप्रायः काव्येष्वासिद्धि संस्थितः॥३६४ परस्परोपकारित्व सर्वेषां वस्तुपर्वणाम् । विशेषणानां व्यर्थानामकिया स्थानवर्णना ॥३६॥
अङ्गानि लिम्पतीव, नभः अञ्जनं वर्षतीव, दृष्टि: असत्पुरुषस्त्र नौचस्य सेवेव विफलतां गता। अत्र पूर्वार्द्ध उत्प्रेक्षायाः उत्तराई उपमायाश्च निरपेक्षतया परस्परं प्राधान्ये नावस्थानात् समकक्षतेति बोध्यम् ॥ ३६२॥
श्लेषस्य बहुषु सद्भावं दर्शयति श्लेष इ।। श्लेषः सर्वामु वक्रोक्तिषु वचनभङ्गिरूपासु अलङ्कृतिषु श्रियं शोभां पुष्णाति । अत: वाङ्मयं काव्यं स्वभावोक्तिर्वस्तुस्वभाववर्णनरूपा वक्रोलिच इति भेदहयात् विधा भिवं विविधं खभावोक्तिमत् वक्रोनिमञ्चेति ॥ ३६३ ॥
इदानीं सर्वालङ्कारसंग्राहकं भाविकं निरूपयति तदिति । प्रबन्धा महाकाव्यादयः तहिषयं तहतं गुणं चमत्कारजनकधर्मविशेषं तत् प्रसिद्ध भाविकं तदाख्यमलङ्कारं प्राइः । तथाहि कवेरभिप्रायः भावः तत्सम्बन्धितया भाविकमित्यर्थसंज्ञा। स च भाव: काव्येषु आसिहि समाप्तिपर्यन्तं स्थितः। एतेनास्य केवलं पदवाक्यगतत्वं न, महावाक्यघटितप्रबन्धगतत्वमपीति बोधम् ॥ ३६४॥
वपिरभिप्रायस्त्र प्रबन्धमतले उदाहरति परस्परीत्यादि।
Page #199
--------------------------------------------------------------------------
________________
हितीयः परिच्छेदः। २८३ व्यतिरुतिक्रमबलाद गम्भीरस्थापि वस्तुनः। . भावायत्तमिदं सर्वमिति तद् भाविकं विटुः ॥३६६॥ यञ्च सन्ध्यात्त्यङ्गलक्षणाद्यागमान्तरे । व्यावर्णितमिदश्चेष्टमलङ्कारतयैव नः ॥ ३६७ ॥
_ भाविकम्। सर्वेषां वस्तूनाम् आधिकारिकेतिवृत्तानां पर्वणां तदुपयोगिनां प्रासङ्गिकति वृत्तानाञ्च। उक्तञ्च, नख कुट्टेन, इदं पुनर्वस्तु बुधैर्हि विधं परिकल्पाते। आधिकारिकमेकं स्यात् प्रासङ्गिकमथापरमिति। परस्परोपकारित्वम् अस्तौति शेषः। यथा, रामायणे रामचरितम् आधिकारिक सुग्रीवादिचरितं प्रासङ्गिकं तयोश्च अङ्गाङ्गिभावेन परस्परोपकारित्वम् । एवमन्यवापि साक्षात् परम्परया वा वेदितव्यम्। तथा व्यर्थानां प्रकतानुपयोगिनां विशेषणानाम् प्रक्रिया अननुष्ठानम् अप्रयोग इत्यर्थः साभिप्रायविशेषणोपन्यास इत्यर्थः प्रयश्च परिकर इति प्रकाशकारः यथा विशेषणैर्यत् साकूतैरुक्तिः परिकरो मत इति । तथा स्थानानां प्रकतोपयोगिविषयाणां वर्णना। किञ्च, उतिक्रमबलात् वचनपरिपाट्या गम्भौरस्यापि वस्तुनः व्यलिः प्रस्फुटत्वं या हि नव्यैरलङ्कारभेदरूपेण निर्दिष्टेति भावः । तत् इदं सर्व भावायत्तम् अभिप्रायाधौनमिति भाविकं विदुः । भाविकालङ्कार एव तेषामन्तर्भाव इति भावः ॥ ३६५ ॥३६॥
यच्चेति । किञ्चेति चार्थः । सन्धयः मुखादयः पञ्च, सद प्रानि उपक्षेपादौनि चतुःषष्टिप्रकाराणि, हत्तयः कौशिकीत्यादयवतमः, तदङ्गानि नर्मादौनि षोड़श, लक्षवानि भूषसादौनि पत्रिंशत् प्रकाराणि भादिपदेन नावासहारादौनां
Page #200
--------------------------------------------------------------------------
________________
काष्यादर्शे
पन्थाः स एष विवृतः परिमाणवृत्त्या संहृत्य विस्तरमनन्तमलङ्कियाणाम् । वाचामतीत्य विषयं परिवर्त्तमानान् अभ्यास एव विवरीतुमलं विशेषान् ॥ ३६८ ॥ इति आचार्यदण्डिनः कृतौ काव्यादर्शे अर्थालङ्कारविभागो नाम द्वितीयः परिच्छेदः ।
ग्रहणं ते च शौरादयस्त्रयस्त्रिंशत्, वीथ्यङ्गानि उद्घात्यकादौनि त्रयोदश, लास्याङ्गानि गेयादीनि दश । एतत् सर्वं यत् आगमान्तरे ग्रन्थान्तरे व्यावर्णितं विशेषेण व्याख्यातं तदिदं नः अस्माकम् अलङ्कारतयैव इष्टम् अभिलषितम् अलङ्कारनाम्नव कथितमित्यर्थः तेषाञ्च यथायथमुक्तेष्वन्तर्भाव इति भावः ॥ ३६७ ॥
उपसंहरति पन्या इति । अलङ्क्षियाणां स्वभावोक्त्याद्यलङ्काराणाम् अनन्तम् अशेषं विस्तरं प्रपञ्चं संहृत्य संग्टह्य परिमाणवृत्त्या परिमितत्वेन एषः सः प्रसिद्धः पन्याः मार्गः विवृतः । अनेनैव पथा अनुसरणे अपरेऽपि ज्ञातव्या इत्याह वाचामिति । वाचां विषयम् अतीत्य परिवर्त्तमानान् वक्तुमशक्यानित्यर्थः तान् विशेषान् भेदान् विवरीतुं प्रकाशयितुम् अभ्यास एव अलं शक्तः । पुनः पुनरभ्यासेनैव अपरेऽपि वेदितव्या इति भावः ॥ ३६८ ॥
• इति श्रीजीवानन्द विद्यासागर भट्टाचाय्र्यविरचितायां काव्यादर्शटीकायां द्वितीयः परिच्छेदः ।
१८४
Page #201
--------------------------------------------------------------------------
________________
द्वतीयः परिच्छेदः ।
अश्यपेतव्यपेतात्मा व्यावृत्तिर्वर्गसंहतेः । यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥ १ ॥ एकदिविचतुष्पादयमकानां विकल्पनाः ।
आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः ॥ २ ॥ ___ सम्पति अर्थालङ्कारेषु निरूपितेषु प्रथमपरिच्छेदे सामान्यतो निरूपितेष्वपि शब्दालङ्कारेषु प्राप्तावसरतया तविशेषान् निरूपयिष्यन् प्रथमं यमकमनुवदति अव्यतेति। अव्यपेतः अव्यवहितः व्यपेतः व्यवहितश्च प्रात्मा स्वरूपं यस्यास्तथाभूताया वर्णसंहतेः खरव्यञ्जनसङ्घातस्य व्यावृत्तिः विशेषेण पुनरावृत्तिः यमकमित्यर्थः । अस्य विशेषेषु पूर्वोक्तेष्वपि अत्यहितत्वव्यवहितत्वभेदेन पुनर्वैविध्यं पूर्वोच्चारितवर्णसङ्घस्य क्वचिदव्यवधानेन, क्वचिद् व्यवधानेन पुनरावृत्तिरिति। तच्च पादा, नाम् आदिगतं मध्यगतम् अन्तगतञ्च । एतदुपलक्षणं पादगतमपि बोध्यम् उक्तञ्च वामनेन, पादः पादस्यादिमध्यान्तभागाः स्थानानीति। अत्रापि पाद इत्युपलक्षणं तेन पादः पादखण्डाः पद्याई समस्तपद्यच्च यमकस्य स्थानानौति बोध्यम् ॥ १॥
क्रमेण तत्तभेदान् निर्दिशति एकत्यादि। एकहिविचतु पादयमकानां विकल्पनाः प्रभेदाः पद्यस्य प्रतिपादं चत्वारबत्वारः भेदा इत्यर्थः ते च अमित्रयमके एव वेदितव्याः ।
Page #202
--------------------------------------------------------------------------
________________
१९६
काव्यादर्श
अत्यन्तबहवस्तेषां भेदाः सम्भेदयोनयः । मुकरा दुष्कराश्चैव दर्श्यन्ते तेऽत्र केचन ॥ ३ ॥ मानेन मानेन सखि ! प्रणयोऽभूत् प्रिये जने। खण्डिता कण्ठमाश्लिष्य तमेव कुरु सवपम् ॥ ४ ॥ मेघनादेन हंसानां मदनो मदनोदिना । तथाहि, अमिश्रितमादिभागयमकं प्रथमादिपादगतत्वात् चतुविधम् । तथा मध्यादिभागयमकमपि। अयञ्च भेदः अव्यपेतव्यपेतसाधारणः। सम्भेदः संमिश्रणं योनिर्येषां तादृशाः विमिश्रा इत्यर्थः तेषां यमकानां भेदाः आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः स्थितत्वेन अत्यन्तबहवः अतिविस्तराः जेया इत्यर्थः, पदच्छेदस्तु आदिमध्यान्तेषु मध्यान्तेषु मध्याद्येषु पाद्यन्तेषु सर्वेषु चेति। ते च सुकरा: सुमाध्याः सुबोधाच, दुष्करा: दुःसाध्याः दुर्बोधाश्च कविबोद्धृणामिति शेषः । अन्न केचन दर्श्यन्ते उदाङ्गियन्त इत्यर्थः ॥ २ ॥३॥
तत्र प्रथमपादस्थमव्यवहितममिश्रमादिभागयमकं निर्दिशति। हे सखि ! प्रिये जने अनेन ईदृशेन मानेन प्रणयः मा भूत्। प्रियजनं प्रति एतादृशं मानं मा कुरु इत्यर्थः । खण्डिता, पार्धमेति प्रियो यस्या अन्यसम्भोगचिह्नितः। सा खण्डितेति कथिता धौरैरोऑकषायितेत्युक्तलक्षणापि त्वं कण्ठमाश्लिष्य प्रालिङ्ग्य तं प्रियमेव सनपं सलज्नं कुरु, अपकारिणि प्रणयदर्शनमेव तस्य लज्जाकरत्वात् गुरुशासनमिति भावः । प्रतिमानिनी खण्डितां प्रति तत्सख्या उक्तिरियम्। अत्र मानेन मानेन इति अव्यवहितमादिपादमादिभागयमकम् ॥ ४ ॥
द्वितीयपादगतं निर्दिशति मेघनादेनेति । मदन; कामः
Page #203
--------------------------------------------------------------------------
________________
तृतीयः परिच्छेदः ।
१८०
नुन्नमानं मनः स्त्रीणां सह रत्या विगाहते ॥ ५ ॥ राजन्वत्यः प्रजा जाता भवन्तं प्राप्य सत्पतिम् । चतुरं चतुरम्भोधिरसनोर्वीकरग्रहे ॥ ६ ॥ अरण्यं कैश्चिदाक्रान्त' कैश्चित् सद्म दिवौकसाम् । पदातिरथनागाश्वरहितैरहितैस्तव ॥ ७ ॥
रत्या कामपत्नया अनुरागेण च सह पुंसानां मदनोदिना मदमपनयता मेघनादेन मेघगंर्जितेन नुनः अपनीतः मानो यस्मात् तथोक्तं स्त्रीणां मनः विगाहते आलोड़यति व्याकुलयतीत्यर्थः, मेघगर्जनस्य उद्दीपकत्वात् वर्षासु प्रमदानां मनः सानुरागं सकामञ्च भवतीति भावः । अत्र मदनो मदनो इति द्वितीयपादगतमव्यवहितमादिभागयमकम् ॥ ५ ॥
तृतीयपादगतमुदाहरति राजन्वत्य इति । चतुरम्भोधिरसनायाः चतुःसागरपरिच्छिन्न्राया उर्व्याः पृथिव्याः करग्रहे स्वप्राप्यांशग्रहणे पाणिग्रहे च चतुरम् आसमुद्रकरग्राहिणमित्यर्थः भवन्तं सत्पतिं प्राप्य प्रजाः राजन्वत्यः जाताः, सुराज्ञि देशे राजन्वान् स्यात् ततोऽन्यत्र राजवानित्यमरः । अत्र चतुरं चतुरमिति तृतीयपादगतमव्यवहितमादिभागयमकम् ॥ ६ ॥
चतुर्थपादगतं निर्दिशति अरण्यमिति । तव कैश्चित् अहितैः शत्रुभिः पदातिरथनागाश्वरहितैः चतुरङ्गबलविहीनैरित्यर्थः सद्भिः अरण्यम् आक्रान्त पलायितत्वादिति भावः, कैश्चित् तथाभूतैः दिवौकसां सद्म सुरलोकः आक्रान्तं युद्धमरणादिति भावः, जितो वा प्राप्मासे स्वर्गं जित्वा वा भोक्ष्यमे महौमिति महाभारतीयगीताध्याये भगवदुक्तः । अत्र रहितैरहितैरिति चतुर्थपादगतमव्यवहितमादिभागयमकम् ॥ ७ ॥
●
;
Page #204
--------------------------------------------------------------------------
________________
काव्यादर्थे
मधुरं मधुरम्भोजवदने । वद नेवयोः । ! विभ्रमं भ्रमरभ्रान्त्या विडम्बयति किं नु ते ॥८॥ वारणो वा रणोद्दामो यो वा स्मर ! दुर्द्धरः । न यतो नयतोऽन्तं नस्तदहो विक्रमस्तव ॥ ६ ॥ राजितैराजितैक्ष्णेान जौयते त्वादृशैर्नृपैः ।
१८८
अथ सम्भेदयोनीन् यमकभेदान् दर्शयन् त दान् क्रमेण दर्शयति मधुरमिति । हे अम्भोजवदने ! पद्ममुखि ! मधुर्वसन्तः भ्भ्रमरभ्रान्त्या भ्रमराविमौ इति भ्भ्रमेण ते तव नेत्त्रयोः मधुरं बिभ्रमं विडम्बयति अनुकरोति किम् ? वद कथय । वसन्तोदये समुत्पन्ने अम्भोजे भ्रमरविलाससम्भवात् नु इति वितर्कबोधकं पदमत्र युज्यत एव । वसन्तस्तव मुखपद्मं नेत्रभ्रमरविलसितं दृष्ट्वा निजमुखभूतमम्भोजं भ्रमरविलासेन शोभयतीति तर्कयामीति भावः । केचित् तु अम्भोजवदने इति सप्तम्यन्तं पदमुक्त्वा तत्र वर्त्तमानयोर्ने तयोरिति योज - यन्ति । नु इत्यत्र नेति च पाठः तदा न विडम्बयति किम् श्रपितु विडम्बयत्येवेत्यर्थः । अत्र मधुरं मधुरमिति वदने वदने इति च प्रथमद्दितीयपादगतमव्यवहितमादिभागयमकम् ॥८॥
वारण इति । हे स्मर ! यतः यस्मात् तव रणोद्दामो युद्धदुर्मदः वारण: हस्तौ वा दुईर: दुर्धर्षः हयः अश्वो वा न अस्तीति - शेषः, तत् तस्मात् युद्धोपकरणाभावादपीत्यर्थः नः अस्मान् विरहिणः इत्यर्थः अन्तं नाशं नयतः प्रापयतः तव विक्रमः अहो आश्चर्य्यभूत इत्यर्थः । अत्र प्रथमतृतीयपादगतमिश्रमव्यवहितमादिभागयमकम् ॥ ८ ॥
राजितैरिति । त्वादृशैः राजितैः शोभितैः नृपैः आजि
Page #205
--------------------------------------------------------------------------
________________
टतीयः परिच्छेदः।
१८८
नौयते च पुनस्तृप्तिं वसुधा वसुधारया ॥ १० ॥ करोति सहकारस्य कलिकोत्कलिकोत्तरम् । मन्मनो मन्मनोऽप्येष मत्तकोकिलनिखनः ॥ ११॥ कथं त्वटुपलम्भाशाविहताविह तादृशी। अवस्था नालमारोढुमङ्गनामङ्गनाशिनी ॥ १२ ॥ तैक्षणेन युद्धदुर्मदत्वेन वसुधा पृथिवी जायते, वसुधारया वसूनां धनानां धारया धारावर्षणेन पुनस्तृप्तिं नीयते च । अत्र . प्रथमचतुर्थपादगतमिश्रमव्यवहितमादिभागयमकम् ॥ १० ॥
करोतीति। सहकारस्य आम्रस्य कलिका तथा एष मन्मनः, सुरते कर्णमूले तु निजदेशीयभाषया। दम्पत्योः कथनं यत् तु मन्मनं तं प्रचक्षते इत्युक्तरहस्यालापरूपः मत्तानां कोकिलानां निखनश्च मन्मन: मम मानसम् उत्कलिकोत्तरम् उत्कण्ठाकुलमित्यर्थः करोति। विरहिण उक्तिरियम् । आमकलिकायाः कोकिलालापस्य च अतीवोद्दीपकत्वातिति भावः । अत्र हितोयटतीयपादगतं मिश्रमध्यरहितमादिभागयमकम् । अत्र उत्कलिकोत्कलिकेति तकारस्य मध्यपातित्वेऽपि स्वरशून्यत्वात् व्यवधानमध्ये अगणनं सस्वरस्यैव व्यञ्जनस्य व्यवधायकत्वाभ्युपगमात् इति बोध्यम् ॥ ११ ॥
कथमिति। इह अस्मिन् प्रदेश तव उपलम्भः प्राप्तिः तस्य आशा प्रख्याशा तस्याः विहती अभावे इत्यर्थः अङ्गनाशिनी शरीरनिकन्तनी तादृशी अवस्था अङ्गनाम् अवलां माम् प्रारोढुम् आक्रमितुं न अलं न समर्था ? अपितु समर्था एव, त्वहिरहे अहं मृतप्राया जातास्मौति तात्पर्य्यार्थः । अत्र द्वितीयचतुर्थपादगतं मिश्रमव्यवहितमादिभागयमकम् ॥ १२ ॥
Page #206
--------------------------------------------------------------------------
________________
काव्यादथे
२०० निगृह्य मेवे कर्षन्ति बालपलवशोभिना। तरुणा तरुणान् कृष्टानलिनो नलिनोन्मुखाः॥१३॥ विशदा विशदामत्तसारसे सारसे जले। कुरुते कुरुतेनेयं हंसी मामन्तकामिषम् ॥ १४ ॥ विषमं विषमन्वेति मदनं मदनन्दनः । सहेन्दुकलयापोढ़मलया मलयानिलः ॥ १५ ॥
नियोति। नलिनेषु पद्मेषु उन्मुखाः पतनाभिमुखाः अलिनः भ्रमराः बालपल्लवैः नवपल्लवैः शोभते इति तथोक्तन तरुणा वृक्षेण कष्टान् आकृष्टान् तद्दर्शनोत्सुकान् इत्यर्थः तरुणान् यूनः नेत्रे निगृह्य कर्षन्ति निजदर्शनोत्सुकनयनान् कुर्वन्तीत्यर्थः । अत्र ढतीयचतुर्थपादगतं मिश्रमव्यवहितादिभागयमकम् ॥ १३ ॥
विशदेति। विशन्तः प्रामत्ताः सारसाः जलपक्षिविशेषा यस्मिन् तादृशे सारसे जले सरोवरजले इयं विशदा शुभ्रवर्णा हंसी राजहंसौत्यर्थः कुरुतेन कुत्सितरवेण रवस्य कुत्सितत्वमुद्दीपकत्वेन विरहिणामसह्यत्गत् इति भावः, मां विरहिणमिति यावत् अन्तकस्य यमस्य अमिषं भोग्यवस्तु कुरुते। अत्र “प्रथमहितीयवतीयपादगतं मिश्रमव्यवहितमादिभागयमकम् ॥ १४॥
विषममिति। मलयानिल: अपोढ़मलया परित्यक्तमालिचया हिमात्ययादिति भावः, इन्दुकलया सह मदनन्दनः मां न नम्दयतीति तथोक्त: मदप्रौतिजनन इत्यर्थः सन् विषमम् असचं विषं विषरूपं मदनं कामम् अन्वेति अनुगच्छति उद्दी
Page #207
--------------------------------------------------------------------------
________________
तृतीयः परिच्छदः ।
मानिनी मा निनीषुस्त निषङ्गत्वमनङ्ग ! मे । हारिणी हारिणो शर्म तनुतां तनुतां यतः ॥ १६ ॥ जयता त्वन्मुखेनास्मानकथं न कथं जितम् । कमलं कमलं कुर्वदलिमहलि मत्प्रिये ! ॥ १७ ॥ रमणी रमणीया मे पाटलापाटलांशुका । पयतीत्यर्थः । sa प्रथमद्वितीयचतुर्थपादगतं मिश्रमव्यवहितमादिभागयमकम् ॥ १५ ॥
मानिनीति । हे अनङ्ग ! मा मां ते तव निषङ्गत्वं तूणत्वम् अनवरतशरसम्पातेन तदाधारत्व' निनीषुः प्रापयितुमिच्छुः सती हारिणो हारालङ्कारशोभिनी हारिणी मनोहारिणो इयं मानिनी मानवतो नारी तनुतां क्षीणताम् अस्याः प्रत्याख्यानादिति भावः, यतः गच्छतः प्राप्नुवतः मे मम धर्म तनुतां यथेयं मानिनी मानं विहाय मामाश्रयति तथानुग्रहः कार्य इति भावः । अत्र प्रथमटतीयचतुर्थपादगतं मिश्रमव्यवहितमादिभागयमकम् ॥ १६ ॥
नयतेति । हे मत्प्रिये ! मम प्रेयसि ! अस्मान् जयता वशीकुर्वता तव मुखेन कं जनम् अलंकुर्वत् शोभयत् तथा अलिमन्ति भ्रमरयुक्तानि दलानि अस्य सन्तोति तथाभूतं कमलम् अकथं कथारहितं यथा तथा कथं न जितम् ? अपितु जितमेवेत्यर्थः, अस्माकं चेतनानामपि जंयिना ते मुखेन श्रचेतनानि तादृशानि कथनानि जितानीति का कथेति भावः । sa feaीयतृतीयचतुर्थपादगतं मिश्रमव्यवहितमादिभागयमकम् ॥ १७ ॥
रमणौति । पाटलावत् तदाख्यतरुकुसुमवत् पाटलम्
२०१
Page #208
--------------------------------------------------------------------------
________________
२०२
काव्यादर्श
वारुणीवारुणीभूतसौरभा सौरभास्पदम् ॥ १८॥ 'इति पादादियमकमव्यपेतं विकल्पितम् । व्यपेतस्यापि वर्ण्यन्ते विकल्पास्तस्य केचन ॥ १८ ॥ मधुरेणदृशां मानं मधुरेण सुगन्धिना। सहकारोद्गमेनैव शब्दशेषं करिष्यति ॥ २०॥ करोऽतिताम्रो रामाणां तन्वीताड़ नविभ्रमम् करोति मेष्यं कान्त च श्रवणोत्पलताड़नम् ॥२१॥
भारतखेतम् अंशकं यस्याः तादृशी सौरभास्पदं शोभनगन्धि सा रमणी अरुणीभूता सौरौ सूर्यसम्बन्धिनौ मा दौप्तिर्यस्याः तथाभूता वारुणीव, सुरेव मे मम रमणीया रतिप्रिया भवखिति शेषः। प्रथमद्वितीयचतुर्थपादगतं मिश्रमव्यवहितमादिभागयमकम् ॥ १८॥ __इतौति । इति उक्तरूपेण पादादिगतम् अव्यपेतम् अव्यवहितं यमकं विकल्पितं सप्रभेदम् उदाहृतम्, इदानीं तस्य पूर्वोक्तस्य व्यपेतस्य व्यवहितस्य केचन विकल्या भेदाः वर्ण्यन्ते ॥१८॥
मधुरिति। मधुर्वसन्त: मधुरेण मनोहरेण सुगन्धिना सहकारोहमेनैव पानमुकुलोदयेनैव एणदृशां हरिणाक्षीणां मानम् ई.कोपं शब्दशेषं मानति शब्दमात्रावशिष्ट करिथति न त्वर्थतः रक्षिष्यतीति भावः । अत्र प्रथमहितीयपादगतं व्यवहितं मिश्रमादिभागयमकम् ॥ २० ॥
कर इति। रामाणां रमणीनाम् अतितारः अतिरक्तः करः सन्चौताड़नविभ्रमं वीणावादनविलासं तथा कान्ते से)
Page #209
--------------------------------------------------------------------------
________________
२०३
बतीयः परिच्छेदः। सकलापोल्लसनया कलापिन्यानु नृत्यते । मेघाली नर्त्तिता वातैः सकलापो विमुञ्चति॥२२॥ खयमेव गलन्मानकलि कामिनि ! ते मनः । कलिकामिह नीपस्य दृष्ट्वा कां न स्पृशद्दशाम्॥२३॥ आरुह्याक्रीड़शैलस्य चन्द्रकान्तस्थलौमिमाम् । नृत्यत्येष चलच्चारुचन्द्रकान्तः शिखाबलः ॥२४॥
सप्रणयकोपं यथा तथा श्रवणोत्पलताड़नं कर्णोत्पलाभ्यां प्रहारं करोति। अत्र प्रथमटतोयपादगतं व्यवहितं मिश्रमादिभागयमकम् ॥ २१ ॥
सकलेति। वातैः नर्त्तिता सकला मेघाली घनश्रेणी अपः जलानि विमुञ्चति वर्षति, अनु पश्चात् अनन्तरमेव कलापस्य पिच्छस्य उल्लसनेन वर्तमानया कलापिन्या मयूर्या नृत्यते । वर्षावर्णनमिदम् । अत्र प्रथमचतुर्थपादगतं मिथं व्यवहितमादिभागयमकम् ॥ २२ ॥ ___ स्वयमिति। हे कामिनि ! स्वयमेव कान्तानुनयं विनैव गलन् मानरूपः कलिः कलहः यस्मात् तादृशं तव मन: इह वर्षासु इत्यर्थः नौपस्य कलिकां कोरकं दृष्ट्वा कां दशाम् अवस्थां न स्पृशेत् ? अपितु सर्वामवेत्यर्थः । वर्षासु अतिकोमलं मनः विरहे कथं सान्त्वयिष्यसोति भावः । अत्र हितोयटतीयपादगतं मित्रं व्यवहितमादिभागयमकम् ॥ २३ ॥
अरुह्येति। आक्रीड़शैलस्य क्रीड़ापर्वतस्य इमां चन्द्रकान्तमणिविशेषनिर्मितां स्थली स्थानम् श्रारुह्य एष शिखाबलः मयूरः चलत् चार मनोज्ञ यत् चन्द्रकं मचकं तेन अन्त:
Page #210
--------------------------------------------------------------------------
________________
२०४
. काव्यादर्श
उद्धृत्य राजकाटूर्वी ध्रियतेऽद्य भुजेन ते। वराहणोद्धृता यासौ वराहेरुपरिस्थिता ॥ २५ ॥ करेण ते रणेष्वन्तकरण द्विषतां हताः । करेणवः क्षरद्रता भान्ति सन्ध्याघना इव ॥ २६ ॥ परागतरुराजीव वातैयस्ता भटैश्चमः । परागतमिव क्वापि परागततमम्बरम् ॥ २७॥
रमणीयः मनोहरः सन् नृत्यति। अत्र द्वितीयचतुर्थपादगतं मिथं व्यवहितमादिभागयमकम् ॥ २४ ॥ ___ उद्धृत्येति। हे राजन् ! या असौ उर्वी वराहेण शूकरमूर्त्तिना भगवता उद्धृता सती वराहेः श्रेष्ठनागस्य वामुके: उपरि स्थिता, अद्य ते तव भुजेन सा उर्वी राजकात् राजसमूहात् उद्धृत्य ध्रियते। अत्र टतीयचतुर्थपादगतं मित्रं व्यवहितमादिभागयमकम् ॥ २५ ॥
करेणेति। हे राजन् ! रणेषु द्विषताम् अन्तकरेण विनाशकेन ते तव करेण हस्तेन हताः, अतएव क्षरद्रता: रक्तस्राविणः करणवः गजेन्द्राः करेणुरिभ्यां स्त्री नेभे इत्यमरः । सन्ध्याघना इव सन्ध्याकालौनमेघा इव भान्ति । अत्र प्रथमद्वितीयटतोयपादगतं मिथं व्यवहितमादिभागयमकम् ॥ २६ ॥ ___ परागेति। हे राजन् ! वातैः ध्वस्ता: पाटिताः अगस्य पर्वतस्य तरुराजीव वृक्षश्रेणीव परा शत्रुपक्षीया चमूः सेना भटैः तव सैनिकैः ध्वस्ता नाशिता, अतश्च परागैः पलायनपराणं शत्रुसैनिकानां पदरेग्युभिः ततं व्याप्तम् अम्बरमाकाशं कापि परागतमिव पलायितमिव धूलिभिरम्बरतलस्यादृश्य
Page #211
--------------------------------------------------------------------------
________________
कृतीयः परिदः। पातु वो भगवान् विष्णुः सदा नवधनयुतिः । स दानवकुलध्वंसौ सदानवरहन्तिहा ॥ २८॥ कमले: समकेशन्ते कमलाकरं मुखम्। । कमलेख्यं करोषि त्वं कमलेवोन्मदिष्णुषु ॥ २६॥ मुदा रमणमन्वीतमुदारमणिभूषणाः । मदभ्रमशः क मदभजधनाः क्षमाः ॥ ३० ॥
त्वादिति भावः । अत्र प्रथमटतीयचतुर्थपादगतं मित्रं व्यवहितमादियमकम् ॥ २७॥
पाविति। सदानः समदः यः वरदन्ती श्रेष्ठहस्ती कुवलयापौड़ाख्यः तं हतवान् इति तथोक्तः सः प्रसिधेः दानवकुलध्वंसी नवघनद्युतिः भगवान् विष्णुः वः युष्मान् सदा पातु। अत्र द्वितीयटतोयचतुर्थपादगतं मित्रं अवहितमादिः भागयमकम् ॥ २८॥
कमिति। हे प्रिये! ते तव कं शिरः अलेः भ्रमरस्य समाः केशा यत्र तादृशं, तथा मुखं कमलेकर कमलस्य हेषकरम् अतस्त्व कमलेव लक्ष्मौरिव कं जलम् उन्मदिप्युषु उअत्तेषु मध्ये अलेख्यम् अगण्यं करोषि ? अपितु सर्वानेव उन्मादयसीत्यर्थः । अत्र सर्वपादगतं मित्रं व्यवहितमादिभागयमकम् ॥ २८॥ . मुदेति । उदारा मणयः रखानि भूषणं यास ताः, मदेन भ्रममयः घूर्णन्त्वः दृशो यासां तथोता., तथा अदर्भ विशावं जधनं यासां तथाभूताः प्रमदाः मुदा रमणं प्रियम् अन्वौतम् अनुगतम् अधौनमित्यर्थः कतुं धमाः समाः। प्रव प्रथम
Page #212
--------------------------------------------------------------------------
________________
२० उदितरमपुष्टानामारुतैर्मे हतं मनः । उदितैरपि ते दूति ! मारुतैरपि दक्षिणैः ॥३१॥ मुराजितहियो यूनां तनुमध्यासते स्त्रियः । तनुमध्या: क्षरत्खेदसुराजितमुखेन्दवः ॥ ३२॥ इति व्यपेत यमकप्रभेदोऽप्येष दर्शितः । अव्यपेतव्यपेतात्मा विकल्पोऽप्यस्ति तद्यथा॥३३॥
हितीययोस्तृतीयचतुर्थयोच मित्रं व्यवहितमादिभागयमकम्
-- उदितैरिति। हे दूति ! अन्यपुष्टानां कोकिलानाम् पारुतैः समन्तात् झङ्कारैः, ते तव उदितैः कथितैः प्रियाक्रोशसूचकैर्वचनैरित्यर्थः, तथा दक्षिणैः मारुतैरपि मे मम मनः हत व्यथितम्। पत्र प्रथमवतीययोहितीयचतुर्थयोच मित्रं व्यवहितमादिभागयमकम् ॥ ३१ ॥ ' : सुरेति। तनु क्षौणं मध्वं यासां ताः, क्षरद्भिः गद्धिः
बेदैः सुराजिताः सुशोभिता मुखेन्दवः मुखचन्द्रा यासां ताहण्यः, तथा सुरया मद्यपानेन जिता झोर्लज्जा यासां तथा. भूताः, स्त्रियः कामिन्यः यूनां तरुणानां तनु शरीरम् अध्यासते। पत्र प्रथमचतुर्थयोईितीयवतीययोश्च मित्रं व्यवहितमादिभागयमकम् ॥ ३२ ॥ - इतीति। इति उत्तप्रकारण एषः व्यपेतानां व्यवहितानां समकानां प्रभेदः दर्शितः उदाइतः । पव्यपेतः अव्यवहितः व्यपेतः व्यवहितब आत्मा एस्य तादृशः उभयमित्र इत्यर्थः विकल्पः प्रमेदः अपि अस्ति, तन् यथेति उदाहरणार्थम् ॥३३॥
Page #213
--------------------------------------------------------------------------
________________
तृतीयः परिच्छेदः ।
सालं सालंबकलिकासालं सालं न वोचितुम्। नालीनालीनवकुलानाली नालौकिनोरपि ॥ ३४ ॥ कालं कालमनालक्ष्यतारतारकमीक्षितुम् । तारतारम्यरसितं कालं कालमहाघनम् ॥ ३५ ॥ याम यामवयाधीनायामया मरणं निशा ।
सेति । सा मम बाली सखौ सालम्बा लम्बमाना या कलिका कोरकः तया सलति शोभते इति तथोक्तं, सालं हृचभेदं वौचितुं द्रष्टुं न अलं न शक्ता, उद्दीपकत्वादिति भाव:, चालीनवकुलान् वकुलासक्तान् अलौन् भ्रमरान् अपि बोचितुं न अलं, तथा अलोकं विद्यते यासां तादृशीः मिथ्यावचनेन प्रियस्त े आगमिष्यत्यचिरेणेत्यादिना सान्त्वयन्तौरपि मखौरिति शेषः वौचितुं न अलम् । विदेशस्थं नायकं प्रति नायिकाप्रेरिताया दूत्या उक्तिरियम् । श्रव सर्वेषु पदेषु मिश्र - मव्यवहितमादिभागयमकं परं प्रथमद्दितौययोस्तथा तृतीयचतुर्थयोः व्यवहितमपीति श्रव्यपेतव्यपेतत्वं बोध्यम् ॥ ३४ ॥
कालमिति । का विरहिणोति शेषः अनालच्या मेघाचत्वाददृश्याः तारा महत्यः समुळ्ळ्वला इत्यर्थः तारका नचवापि यत्र तथोक्तं तारतया अत्युच्चत्वेन रम्याणि रसितानि मेघगर्जितानि यस्मिन् तादृशं तथा कालाः कृष्णवर्णा महान्तः घना मेघा यस्मिन् तथाभूतं कालं विरहिणां प्राणनाशकत्वात् यमस्वरूपं कालं वर्षाकालम् इचितुं द्रष्टुम् अलं समर्था न . कापीत्यर्थः । अत्र सर्वेषु पादेषु मिश्र व्यवहितं तथा प्रथमचतुर्थयोर्द्वितीयढतीययोश्च व्यवहितमादिभागयमकम् ॥ २५ ॥ यामेति । यामवयस्य प्रहरवितयस्य अधीनः प्रायामो
Page #214
--------------------------------------------------------------------------
________________
कांव्यादर्थे
यामकाम धियाऽख या मया मथितैव सां ॥ ३६ ॥ इति पादादियमकविकल्पस्येदृशी गतिः । एवमेव विकल्पानि यमकानीतराख्यपि ॥ ३७ ॥ म प्रपचभयाद् भेदाः का स्नेनाख्यातुमीहिताः । दुष्कराभिमतो ये तु वयन्त तेऽत्र केचन ॥३८॥ स्थिरायते ! यतेन्द्रियो न हीयते यतेर्भवान् ।
वथ
'दैर्घ्यं यस्याः तादृश्या त्रियामां रजनीं प्राहुस्त्यक्ताद्यन्तचतुष्टयमिति वचनात् निशा रजन्या मरणं याम मृत्युं प्राप्नुवाम मिति शेषः निशायां सातिशयोद्दोपकत्वादिरहस्येति भावः किन्तु धिया मनसा यां कान्ताम् अयाम अगच्छाम यस्या'विन्तया कालमयापयामं इत्यर्थः सा खर्चा या प्रखत्ति प्राणव्यथाम् श्रायाति प्राप्नोतीति तथाभूता सती प्राङ्पूर्वकात् याधातोः क्विपि रूपम् । मया मथितैव नाशितैव, मम तु मरणमस्तु किन्तु सा तपखिनो महियोगेन म्रियत एवेति भावः । विरहिणः स्वावस्थानुभवेन विलापोक्तिरियम् । अत्र 'सर्वेषु पदेषु मिश्रमव्यवहितं व्यवहितच्चादिभागयमकम् ॥१६॥
इतीति । पादादिस्ययमकानां विकल्पस्य भेदस्य इति उत्तरूपा ईदृश एवम्प्रकारा गतिः नियमः । इतराणि अपि यमकानि एवं विकल्पानि भेद्यानि ॥ ३७ ॥
**
नैति । प्रपचभयात् विस्तारभयात् कार्त्स्नेन साकल्येन भेदाः प्राख्यातुं न ईहिताः न चेष्टिताः, ये तु भेदा दुष्करत्वेन अभिमताः ख्याताः, अत्र ते केचन वर्ण्यन्ते उदाह्रियन्ते ॥ ३८ ॥
स्थिरायत इति । स्थिरा प्रायतिरुत्तरकालो यस्य तत्सम्बुद्दी
Page #215
--------------------------------------------------------------------------
________________
वतीयः परिच्छेदः ।
२०४
पमायतेयतेऽप्यभूत् मुख्याय तेऽयते क्षयम् ॥३६॥
सभासु राजन्नसुराहतैर्मुखैः महौसुराचां वसुराजितैः स्तुताः । न भासुराः यान्ति सुरान् नते गुणाः प्रजासु रागात्मसु राशितां गताः ॥ ४० ॥ तव प्रियाऽसच्चरित ! प्रमत्त ! या
विभूषणं धाय॑मिहांशुमत् तया। उत्तरः काल आयतिरित्यमरः। हे खिरायते ! निश्चन्नचित्त ! इत्यर्थः भवान् यतेन्द्रियः जितेन्द्रियः अत: यंते: संयसात् न होयते च्युतो भवति, ते तव अमायता प्रमायित्व मायाराहित्यमित्यर्थः इयते एतत्यरिमाणाय वयं नाशम् अयते अगच्छते अक्षयाय इत्यर्थः सुखाय अपि चभूत्। अत्र सर्वेषु पादेषु मिश्रमव्यवहितं व्यवहितञ्च मध्यभागबमकम् ॥ ३८ ॥
सभाखिति। हे राजन् ! मौसुराणां भूदेवानां ब्राह्मथानाम् असुराहतैः सुरापानेन महतैः अनाशितैः पवित्रैरिति यावत् वसुना तेजसा भवद्दत्तधनलाभेन वा राजितैः शोभितैः प्रफुल्लैर्वा मुखैः समासु स्तुताः कीर्तिताः भासुराः समुज्ज्वला: तथा रागात्मसु अनुरागपरासु प्रजासु राशितां बहुलौभावं गताः ते तव गुणाः सुरान् देवान् न यान्ति न प्राप्नुवन्ति, सुरा अपि एतादृम्गुणवन्तो न सन्तीति भावः । अत्र सर्वेषु पादेषु मित्रं व्यपेतच मध्यभागयमकम् ॥ ४० ॥
तवेति। हे असञ्चरित ! धूतं ! हे प्रमत्त ! अनवहित ! या तव प्रिया, त्वया प्रेमास्पदत्वेन कोय॑माना इत्यर्थः तया
Page #216
--------------------------------------------------------------------------
________________
२१०
काव्यादर्णे
रतोत्सवानन्दविशेषमत्तया
प्रयोजनं नास्ति हि कान्तिमत्तया ॥ ४१ ॥
भवादृशा नाथ | न जानते नते
!
रसं विरुद्धे खलु सन्नतेनते ।
य एव दौनाः शिरसा नतेन ते
चरन्त्यलं देन्यरसेन तेन ते ॥ ४२ ॥
इह रतोत्सवेन यः आनन्दविशेषः तेन मत्तया सत्या अंशुमत् समुज्ज्वलं विभूषणं धार्य्यं तथाच विभूषणधारणस्य रतोत्सवानन्दविधायकताप्रयोजनं न तु शोभार्थमिति भावः । ननु शोभार्थमपि विभूषणधारणमस्तु इत्यत आह प्रयोजनमिति । कान्तिमत्तया स्वाभाविक सौन्दर्य्यवत्तया हेतुना प्रयोजनं विभूषणधारणस्येति शेषः नास्ति हि न विद्यते एवेत्यर्थः । अन्या - सक्त शठनायकमलङ्कारधारणे कथमस्या विराग इति पृच्छन्त प्रति सख्या उक्तिरियम् । अत्र सर्वेषु पादेषु मिश्र व्यवहित
मन्तभागयमकम् ॥ ४.१ ॥
भवादृशेति । हे नाथ प्रभो ! भवादृशा जनाः नतेः नतभावस्य रसम् आखादं न जानते न विदन्ति, यतः सनतता इनता प्रभुता च ते सन्नतेनते नतिः प्रभुता चेत्यर्थः विरुद्धे खलु नैकाधारे वर्त्तते इति भावः, ये जनाः दौना एव दरिद्राः केवलं, ते तेन दैन्यरसेन दैन्यरूपेण विषेण हेतुना नतेन शिरसा ते तव अलम् अत्यर्थं चरन्ति अतिशयेन त्वां सेवन्त े इत्यर्थः तवेति कर्मणि षष्ठी । अत्र सर्वेषु पादेषु मिश्रमव्यवहितञ्च अन्तभागयमकम् ॥ ४२ ॥
Page #217
--------------------------------------------------------------------------
________________
तौय: परिच्छेदः ।
लीलास्मितेन शुचिना मृदुनोदितेन व्यालोकितेन लघुना गुरुणा गतम । व्याजम्भितेन जघनेन च दर्शितेन सा हन्ति तेन गलितं मम जीवितेन ॥ ४३॥ श्रीमानमानमरवमसमानमानमात्मानमानतजगत्प्रथमानमानम् । भूमानमानमत यः स्थितिमानमाननामानमानमतमप्रतिमानमानम् ॥ ४४ ॥ लौलेति। सा नायिका शुचिना निर्मलेन लीलास्मितेन विलासहसितेन, मृदुना उदितेन वचनेन, लघुना व्यालोकितेन अपाङ्गदर्शनेनेत्यर्थः, गुरुणा नितम्बादिभरमन्थरेण गतेन गमनेन, व्याजृम्भितेन विशेषतो जृम्भया, जृम्भायाश्च अनुरागव्यनकत्वमुक्तं यथा जृम्भते स्फोटयत्यङ्गं बालमाश्लिष्य चुम्बतौति । तथा, दर्शितेन जघनेन जघनदर्शनेनेत्यर्थः हन्ति व्यथयति मामिति शेषः, तेन च मम जीवितेन जौवनेन गलितं गतं, भावे क्तप्रत्ययः । अत्र सर्वेषु पादेषु मिश्र व्यवहितं मध्यान्तयमकम् ॥ ४३॥ ___ श्रीमाविति। हे भक्ताः ! यः श्रीमान् अमान् अपरिमितः, तथा स्थितिमान् स्थायी सच्चिदानन्दरूपतया सततमवतिष्ठते इत्यर्थः, अमरवम आकाशं तस्य समानं मानं परिमाणं यस्य तथोक्तम् आकाशवत् सर्वव्यापिनमित्यर्थः, आनतेषु प्रतीभूतेषु बमत्सु प्रथमानः विस्तारं गतः मान: सम्मानो यस्य तादृशं सर्वजगत्पूज्यमानमित्यर्थः, भूमानं महान्तम्, अमानम् अपरि
Page #218
--------------------------------------------------------------------------
________________
काव्यादर्शे
सारयन्तमुरसा रमयन्ती
सारभूतमुरुसारधरा तम् । सारसानुकृतसारसंकाञ्ची सा रसायनसारमवैति ॥ ४५ ॥ नयानयालोचनयानयानयानयानयान्धान् विनयानयायते । । न यानयासौर्जिनयानयानयानयानयांस्तान् जनयानयाश्रितान् ॥ ४६ ॥
२१२
मितम् असङ्ख्यमित्यर्थः नाम यस्य तथाभूतं तथा अप्रतिमानः असदृशः मानो यस्य तादृशं सर्वाभिमतमित्यर्थः । आत्मानं परमात्मानमित्यर्थः आनमत नमस्कुरुत । अत्र सर्वेषु पादेषु अव्यवहितं व्यवहितञ्च मिश्र मध्यान्तयमकम् ॥ ४४ ॥
सारेति। उरुसारणि स्वर्णभूषणानि धरतोति तथोक्ता, उरुसारं सुवर्णं स्यादिति व्याड़िः । तथा सारसैः पक्षिविशेषैरनुकृता सारमा सशब्दा काञ्ची यस्यास्तथाभूता सा रमणी सारयन्तम् आश्लिष्यन्तं सारभूतं जगत्सु सारत्वेन गणितं तं पतिम् उरसा वक्ष.म्थलेन रमयन्ती प्रत्यालिङ्गनेन सुखयन्ती सती रसायनम् अमृतम् असारम् अवैति, प्रियालिङ्गनसुखादमृतं तुच्छमवगच्छतीत्यर्थः । अत्र सर्वेषु पादेषु मिश्रं व्यवहितमादिमध्ययमकम् ॥ ४५ ॥
नयेति । हे अनयायते ! अनया अपायरहिता आयतिर्यस्य तत्सम्बोधनम् । हे प्रभो ! श्रनया नयानयालोचनया
Page #219
--------------------------------------------------------------------------
________________
तृतीयः परिच्छदः ।
रवेण भौमो ध्वजवर्त्तिवीरवेरवेजि संयत्यतुलास्वगौरखें 1 रवेरिवोग्रस्य पुरो हरेरवेरवेत तुल्यं रिपुमस्य भैरवे ॥ ४७ ॥
२१३
यः मौति: अनयः दुर्नीतिः तयोरालोचना तथा सदसहिबेकेनेत्यर्थः अनयान् नयरहितान् प्रयस्य शुभावहविधेरानंये आनयने अनुष्ठाने अन्धान् जनान् विनय विनोतान् कुरु, भवतमार्गानुसारिणस्तान् विधेहि । किञ्च जिनयानं जैनमार्ग यान्तीति तथोक्तान् बौमतावलम्बिनः अयानम् श्रमार्गम् अपन्यानमित्यर्थः यान्तीति तादृशान् अपथगामिनः अत एव अनाश्रितान् दुर्नयानुसारिणः यान् जनान् त्रयासी: गत्तवानसि यैः सङ्खं जतवानसि तान् श्रं विष्णुं यान्तौति तथाभूतान् वैष्णवधर्मावलम्बिनः जनय कुरु । इति समुदायार्थः । va प्रथमतृतीययोरव्यवहितमाद्यन्तयमकं मिश्रं द्वितीयचतुर्थयोरव्यवहितं मिश्रमादिमध्ययमकञ्च ॥ ४६ ॥
रवेणेति । भौमः भूमिसुतः नरकासुरः ध्वजवर्त्तिनः श्रीकृष्णरथध्वजस्थितस्य वीरस्य वौर्य्यशालिनः वेः पक्षिणः गरुड़स्य · रवेण नादेन अतुलम् अनुपमम् अस्त्राणां गौरवं यस्मिन् तादृशे भैरवे भयङ्करे संयति संग्रामे अवेजि उद्देजितः वासित इत्यर्थः । तथाहि, रवेः सूर्य्यस्येव उग्रस्य भस्य हरेः श्रीकृष्णस्य सिंहस्य च पुरः अग्रे रिपुं नरकम् अवेर्मेषस्य तुल्यम् श्रवेत जानीत | 'श्रीकृष्णस्य नरकासुरे युद्धवृत्तमिदम् । अत्र सर्वेषु पादेषु मिश्रं व्यवहितमाद्यन्तयमकम् ॥ ४७ ॥
Page #220
--------------------------------------------------------------------------
________________
काबाद”
मयामयालम्बाकलामयामयामयामयातव्यविरामया मया। मयामयातिं निशयामयामयामयामया करुणामयामया ॥ ४८॥ मयेति । पवायं पदविभागः । मयामयालम्बाकलामयामयाम्। पयाम्, भयातव्यविरामया मया। मया, पमयात्ति निशया, पमया, अमया। अमय, पामय, पy, करुणामय, पामया। हे प्रमय ! नास्ति माया यस्य तसम्बुदौ, हे पकपट ! इत्यर्थः प्राकारलोपो महाकविप्रयोगादविरुद्धः । है करुणामय ! सखे! आमं रोगं कामपौड़ा याति प्रामोतीति पामयाः तेन पामया धातोराल्लुक् शसायचीति पाकारलोपः। कामार्तेन इत्यर्थः मया सह मयः प्रपचयः प्रमयः उपचयः ताभ्याम् पपचयोपचयाभ्याम् पालम्बाः पात्रयणीयः हरिपयशीलत्वात् इति भावः, यः कलामयचन्द्रः तस्मात् पामयः रोगः कामपौड़ा यस्याः तादृशीं चन्द्रस्य कामोद्दीपकत्वादिति भावः, प्रमू रमणीम् प्रामय योजय। यतः पहम् प्रयातव्यः विरामोऽवसानं येषां तादृशा यामाः प्रहरा यस्खाताम्या दीर्थयामया इत्यर्थः, नास्ति मा परिमाणं यस्खास्तथाभूतया सुदीर्घया इत्यर्थः, तथा प्रमया नास्ति मा गोमा यस्याः तथोक्तया अतिकुत्सितया विरहिणमिति भावः निणया रजन्या हेतुना प्रमयेन अप्रात्या तस्या इति भावः, पत्ति पौड़ां तदप्रात्या सातिशयां पौड़ामित्यर्थः प्रयाम् पप्राधवम् । इति समुदायार्थः । सखायं प्रत्युक्तिरियम्, पन सर्वेषु पादेषु अव्यवहितं मित्रमाद्यन्तयमकम् । ४८॥
Page #221
--------------------------------------------------------------------------
________________
वतीयः परिच्छेदः। - २१५ मतान्धुनानारमतामकामतामतापलब्धाग्रिमतानुलोमता। मतावयत्युत्तमता विलोमतामताम्यतस्ते समता न वामता ॥ ४६॥ कालकालगलकालकालमुखकालकाल ! कालकालघनकालकालपनकाल ! काल।।
मतामिति। पदविभागश्चैषः । मतां धुनाना, पारमताम् भकामताम् । प्रतापलब्धा, अग्रिमानुलोमता। मतौ अयती, उत्तमताविलोमताम् । पताम्यत: ते समता न, वामता। है साधो! अताम्यतः अक्लिष्टकर्मणस्ते तव मतौ प्रारमतां विषयव्याहत्तानां योगिनां मां सम्मताम् अकामतां निसहतां भुनाना कम्पयन्तौ तिरस्कुर्वतीत्यर्थः प्रतापन प्र शेन लब्बा प्राप्ता खाभाविकीत्यर्थः अग्रिमतायाः श्रेष्ठताया: अनुलोमता पानुकूल्यं मया तादृशी श्रेष्ठत्वसम्पादिनी तथा उत्तमताया गुणवत्तायाः विलोमतां प्रतिकूलताम् प्रयती अगच्छन्ती गुणवत्त्वसमानाधिकरणा समता अपक्षपातित्वं सर्वत्र समदर्भिवमित्यर्थः विद्यते, वामता प्रतिकूलता नेत्यर्थः । कस्यचित् माधोर्गुणकीर्तनमिदम् । अत्र सर्वेषु पादेषु व्यवहितमादिमध्यान्तयमकम् ॥ ४८
कालेति । पदच्छेदस्वयम् । प्रथमपादे एकं पदम् । कालकालघनकालकालपनकाल, काल। कालकालसितकालका, जलनिका, अलकालकालका, आगलतु, कालकास, कसिकालकाल। हे कालकालगलकासकालमुखकासकाल! वातः
Page #222
--------------------------------------------------------------------------
________________
२.१६
काव्याद
कालकालसितकालकाललनिकालकाल कालकालगतु कालकाल कलिकालकाल!॥५०॥ संहारकः, कलनात् सर्वभूतानां स कालः परिकीर्तित इति वचनात्, कालगल: नीलकण्ठः, कालः यमः तथा कालमुखः वानरविशेषः तेषां इन्दः कालकालगलकालकालमुखाः तेषां कालकं कृष्णत्वम् आलाति आदत्ते इति तत्सम्बुद्धौ, तथा हे कालकालंघनकालकालपनकाल! कं जलम् आलाति ग्रहातौति काल: सजल: अत एव कालः कृष्णवर्णो यो घनः मेघः तस्य काले समये वर्षाखित्यर्थः कायन्ति शब्दायन्ते इति कालकालघनकालकाः मयूरा इत्यर्थः के शब्द इत्यस्य विपि रूपम् । तेषाम् पालपनानि मुखानि कालकालघनकालकालपनानि तहत् कलते शब्दायते इति तत्सम्बुद्धौ मयूरनादिन्, इबर्थः पुमन, हे कालकाल ! कालस्य यमस्य कालः संहारकः ताम्बुद्धौ, यमभयनिवर्त्तक इत्यर्थः । किञ्च, हे कलिकालकाल ! कलिकालस्य काल: कल्किरूपेण दण्डयिता तमम्बुद्धी, हे.काल ! हे कृष्ण ! कालकालसितकालका कालकेन कृष्णवर्णतया आलसितं शोभितं कं शिवः यैः, तादृशाः अलकाः चूर्णकुन्तलाः यस्थास्तादृशी, अलकालकालका अलकान् चूर्णकुन्तलान् अलते मुक्तादिभिर्भूषयतौति अलकालो अलङ् भूषायामित्यस्थ षणि रूपम्। तथा कलमेव कालं मधुरं यथा तथा कायतीति कालका मधुरभाषिणीत्यर्थः ततश्च अलकाली चासौ कालका चेति कर्मधारयः, ललनिका ललना राधा इत्यर्थः प्रागलतु तव अनुकम्पनीया भवतु इति निर्मलितोऽर्थः। बोलणं प्रति राधायाः सख्युमिरियम् । भव सर्वेषु पादेषु अपवहित बादिमध्वान्तयमकम् ।...... ... ..
Page #223
--------------------------------------------------------------------------
________________
तृतीयः परिच्छेदः ।
सन्दष्टयमकस्थानमन्तादी पादयोर्द्वयोः । उक्तान्तर्गतमप्येतत् खातन्वणाव की ते ॥५१॥ उपोढ़रागाप्यबला मदेन सा
मदेनसा मन्युरसेन योजिता ।
न योजितात्मानमनङ्गतापिताङ्कतापि तापाय ममास नेयते ॥ ५२ ॥
-२१०
सम्प्रति सन्दष्टयमकस्थानं निर्दिशति सन्दष्टेति । सन्दष्टयमकं सन्दंशाकृति यमकं द्वयोः पादयोः श्रन्तादी प्रथमपादस्य अन्तं द्वितीयपादस्य आदि तथा तृतीयपादस्य अन्तं चतुर्थपादस्यादिच आक्रम्य स्थितमिति शेषः । एतत् उक्तेषु यमकेषु अन्तर्गतमपि रवेण भौम इत्यादौ पतितमपौत्यर्थः स्वातन्त्यु'ण पृथग्भावेन कीर्त्यते विशेषादिति भावः ॥ ५१ ॥
उपोति । सा अवला मदेन यौवनजनितविकारेण उपोढ़ः उद्रिक्तः रागः अनुरागो यस्यास्तादृशौ मय्यनुरागियो पिमदेनसा ममापराधेन हेतुना मन्युरसेन क्रोधावेगेन योजिता क्रोधपरवशा अत एव योजितः अभिनिवेशितः आत्मा मनः यस्यां तथाभूताम् अनङ्गतापिताम् अनङ्गं कामम् अक्कृतार्थतया तापयतीति श्रनङ्गतापिनी तस्या भावः तां गतापि सती मम इयते एतादृशाय तापाय न आस, न बभूव, न अपितु बभूव एवेत्यर्थः । सखायं प्रति कस्यचित् मानिन्या प्रत्याख्यातस्य उक्तिरियम् । अत्र पूर्वार्धे मदेन सा मदेनसा इति उत्तरार्धे च तापिता ङ्गतापितेति सन्दष्टयमकम् ॥ ५२॥ १८
Page #224
--------------------------------------------------------------------------
________________
- काव्यादणे.
अभ्यासः समुद्गः स्यादस्य भेदास्त्रयो मताः । पादाभ्यासोऽप्यनेकात्मा व्यज्यते स निदर्शनैः ॥५३॥ नास्थेयःसत्वया वयः परमायतमानया। . नास्थेयः स त्वया वयः परमायतमानया ॥ ५४॥
इत्थं पादभागयमकानि दर्शयित्वा सम्प्रति समस्तपादगतयमकानि दर्शयितुमाह अर्धाभ्यास इति । अईस्य पादहयस्य अभ्यासः पुनरावृत्तिः समुद्रः स्यात् समुद्गशब्द न सम्पुटक उच्यते । स यथा भागद्दयात्मकः तथा अयं पादहयात्मक इति तथा व्यपदेशः । अस्य समुद्गस्य त्रयो भेदाः मता: ख्याताः । तथाच, प्रथमहितीयौ तृतीयचतुर्थी च पादौ तुल्यौ इत्येकः, प्रथमटतीयौ द्वितीयचतुर्थौ च तथा इति द्वितीयः तथा प्रथमचतुर्थों हितोयटतीयौ इति टतीयः । पादाभ्यासः अपि अनेकामा अनेकविधः तथाच प्रथमो हितोये तोये चतुर्थे च इति त्रयः। द्वितीयः टतीये चतुर्थे चेति हौ। टतीयचतुर्थे इत्येकः । पुनश्च प्रथमः हितोये टतीये च, द्वितीये चतुर्थे च, तथा टतीये चतुर्थे च इति षट् । मिलित्वा च एकादशविध इत्यर्थः स निदर्शनैः वक्ष्यमाणैरुदाहरणैः व्यज्यते व्यक्तीक्रियते ॥ ५३॥ - नेति। परमायातः अतिदीर्घः मानो यस्याः तादृश्यापि अस्थेयः न अतिस्थिरं सत्वं खभाष: व्यवसायश्च यस्याः तथाभूतया त्वया स वा पुरुषः न वयः न प्रत्याख्येयः। परम्
आयतमानया यनवत्या सत्या आस्थेयः आदर्तव्यः तथा आवर्णः वशीभूतः कार्य: । तवायमुद्यमः न स्थिरतरः अतः प्रियपरित्यागे पश्चात्ताप एव फलं तस्मात् यथायं खवशे तिष्ठेत्
Page #225
--------------------------------------------------------------------------
________________
तौर्यः परिदः। २१८ नरा जिता माननया समेत्य न राजिता माननयासमेत्य । विनाशिता वै भवताऽयनेन ... विनाऽशिता वैभवतायनेन ॥ ५५॥ . कलापिनां चारुतयोपयान्ति वृन्दानि लापोढ़घनागमानाम्। वृन्दानिलापोढ़धनागमानां .. .
कलापिनां चाम्तयोऽपयान्ति ॥ ५६ ॥ तथा यत्नः क्रियतामिति मानिनी प्रति तत्सख्या उक्तिः । प्रव प्रथमळतोयौ हितोयचतुर्थी च तुल्याविति समुद्भेदः ॥ ५४ ॥
नरा इति। माननया सम्मानेन समेत्य सङ्गल्य स्थितेन इति अध्याहार्य, मानवतेत्यर्थः भवता अयनेन संग्रामगमनेन जिताः पराभूताः नरा: रिपव इत्यर्थः माननययोः समाननौत्योः आसं क्षेपम् अभावमित्यर्थः एत्य प्राप्य न राजिताः न शोभिताः। पलायमानानामेषा गतिरुक्ता, ये तु न तथा तेषां गतिमाह विनाशिता इति। तथा वैभवं विभुत्वं तायति विस्तारयति इति तथोक्तोन ताज पालनविस्तारयोरित्यस्मात् नन्दादित्वादनप्रत्ययः। भवता विनाशिता वै निहतास्तु रिपवः विना पक्षिणा एभ्रेण इत्यर्थः अशिता भक्षिताः । राजः स्तुतिरियम् । अत्र प्रथमहितीयौ तथा ढतीयचतुर्थी च तुल्यो इति समुद्भेदः ॥ ५५ ॥
कलापिनामिति। लापेन केकाध्वनिना जढ़ः सम्मानित: घनागमः वर्षाकालः यैः तादृशानां कलापिनां मयराणां
Page #226
--------------------------------------------------------------------------
________________
२२०
काव्यादमें
न मन्दयावर्जितमान सामया नमन्दयावर्जितमानसात्मया ।
उरस्युपास्तौर्णपयोधरद्दयं
मया समालियत जीवितेश्वरः ॥ ५७ ॥
सभा सुराणामबला विभूषिता गुणैस्तवारोहि मृणालनिर्मलैः ।
वृन्दानि चारुतया शोभया उपयान्ति सङ्गच्छन्ते शोभां प्राप्नुवन्तीत्यर्थः । तथा वृन्दानिलेन सङ्घातवायुना अपोढ़: निरस्तः घनस्य नृत्यविशेषस्य घनं स्यात् कांस्यतालादि वाद्यमध्यनृत्ययोरिति मेदिनी आगमो येषां तादृशानां परित्यक्तनृत्यानाम् इत्यर्थः वर्षासु हंसानां मदराहित्यादिति भावः के जले लपतीति तथोक्तानां कलापिनां हंसानां च आरुतयः मधुरखराः अपयान्ति । वर्षावर्णनमिदम् । अत्र प्रथमचतुर्थी तथा featredit तुल्य इति समुद्रभेदः ॥ ५६ ॥
1
नेति । मन्दया मूढ़या, अवर्जिते त्यक्ते माने सात्मया संयनया यंत्रवत्या यत्नेन मानं रच्चन्त्या, तथा दयया वर्जितौ मानसम् आत्मा स्वभावश्च यस्याः तथाभूतया मया नमन् कृतापराधतया पादयोः पतन् जीवितेश्वरः उरसि वक्षसि उपस्तौर्णम् अर्पितं पयोधरद्दयं यस्मिन् तद् यथा तथा न समालियत नानिष्यत । नाहकं निराकृत्य गलितमानाया मानिन्या अनुतापोक्तिरियम् । अत्र प्रथमद्दितीयौ पादावभ्यस्तौ ॥ ५७ ॥
सभेति । हे राजन् ! तव मृणालनिर्मलैः मृणालवत् परिशुद्धेः गुणैः अबला बलासुररहिता इन्द्रेण निहतत्वात्
Page #227
--------------------------------------------------------------------------
________________
द्वतीयः परिच्छेदः । स भासुरालामबला विभूषिता विहारयन् निर्विश सम्पदः पुराम् ॥ ५८ ॥ कलङ्कमुक्तं तनुमद्ध्यनामिका स्तनदयौ च त्वदृते न हन्त्यतः । न याति भूतं गमने भवन्मुखे कलङ्कमुक्तं तनुमद्ध्यनामिका ॥ ५६ ॥
निहतत्वात् बलासुरोत्यातविहीना इत्यर्थः विभूषिता देवभोग्यद्रव्यजातैः विशेषेण सज्जिता सुराणां देवानां सभा भारोहि पारूढ़ा स त्वविभूषिताः विशेषेण अलङ्गताः अबलाः विहारयन् रमयन् सन् भासुराणां दीप्यमानानां समृद्धानाम् इत्यर्थः पुरा नगराणां सम्पदः निर्विश उपभुव । राजानं प्रति वैतालिकस्योक्तिरियम्। प्रथमटतीयौ अभ्यस्तापिति
___ कलमिति। कलं मधुरम् उक्तं वचनं विलासिनीनामिति अध्याहार्य तथा तनु क्षीणं मध्यं नमयतीति तथोक्ता स्तनहयो च क्वचित् मध्यशब्दस्य धकारविर्भावः । त्वदृते त्वां विना कं जनं न हन्ति न पौड़यतीति अपितु सर्वमेव इत्यर्थः, अतः कारणात् भवन्मुखे भवादृशे विषये गणने भवादृशां जितेन्द्रियाणां गणनायामित्यर्थः हि निश्चितम् अनामिका अङ्गुष्ठतचतुर्थो अङ्गुलिः कलङ्कमुक्तं निर्दोषं तनुमत् शरीरिभूतम् अपरं प्राणिनं न याति न गच्छति त्वां विना अन्यं न गणयति इत्यर्थः । कमपि महान्तं प्रत्युक्तिरियम् । अत प्रथमचतुर्थी पादावभ्यस्ताविति ॥ ५॥
Page #228
--------------------------------------------------------------------------
________________
२२२
काव्यादर्श
यशश्च ते दिक्षु रजश्च सैनिका वितन्वतेऽजोपम ! दंशिता युधा ।
वितन्वतेजोऽपमदं शितायुधा द्विषाञ्च कुर्वन्ति कुलं तरखिनः ॥ ६० ॥ बिभर्त्ति भूमेर्बलयं भुजेन ते भुजङ्गमोऽमा स्मरतो मदञ्चितम् ।
शृणुक्तमेकं खमवेत्य भूधरं भुजङ्गमो मास्म रतो मदञ्चितम् ॥ ६१ ॥
यश इति । हे अजोपम ! अजराजसदृश ! नारायणसम ! वा हरसम! अजा विष्णुहरच्छागा इत्यमरः । दंशिताः साहवन्तः शितानि तीक्ष्णानि श्रयुधानि येषां ते तथोक्ताः, तथा तरस्विनः महाबलाः ते सैनिकाः योद्धृपुरुषाः युधा संग्रामण दिक्षु यशश्च वितन्वते विस्तारयन्ति । तथा दिषां शत्रूषां कुलञ्च वितनु देहरहितम् अतेजः तेजोहीनं तथा अपमदं निर्मदं निरहङ्कारं वा कुर्वन्ति । विजिगीषुस्तुतिरियम् । अत्र द्वितीयतृतीयावभ्यस्ताविति ॥ ६० ॥
बिभर्तीति । हे राजन् ! भुजङ्गमो वासुकिः ते तव भुजेन अमा सह त्वदभुजसाहाय्येनेत्यर्थः भूमेर्बलयं भूमण्डलं बिभर्त्ति धत्ते, एतावता गर्वोन विधेय इत्याह स्मरत इति । स्मरतः पूर्वकृतं विजानत इत्यर्थः मत् मत्तः सकाशादित्यर्थः अतिं पूजितम् एकम् उक्त वचनं शृणु आकर्णय, स्वं भूधरं भुजम् अवेत्य ज्ञात्वा रतः प्रीतः सन् चितं प्रहृम् अत्यन्तमित्यर्थः
Page #229
--------------------------------------------------------------------------
________________
.
ढतीयः परिच्छेदः। २२१ स्मरानलो मानविवर्धितो यः । स नितिन्ते किमपाकरोति। । समन्ततस्तामरसेक्षणे ! न समन्ततस्तामरसे ! क्षणेन ॥ ६२ ॥ प्रभावतो नामन ! वासवस्य • प्रभावतो नाम नवासवस्य ।
प्रभावतोऽनाम ! न वा सवस्य
विच्छित्तिरासीत् त्वयि विष्टपस्य ॥ ६३ ॥ मदं गर्व मास्म गमः गर्व मा कुरु इत्यर्थः । राजानं प्रत्युपदेशगर्भस्तुतिरियम्। अत्र द्वितीयचतुर्थावभ्यस्ताविति ॥ ६१ ॥
स्मरानल इति। तामरसेक्षणे ! मानेन रक्तोत्पलनयने ! रतोत्पलं तामरसमित्यमरः । हे अरसे ! अरसिके ! मानेन विवर्धितः विशेषेण हद्धि गतः यः स्मरानलः कामाग्निः, स ततः विस्तारं गतः सन् क्षणेन उत्सवेन समं समन्ततः सर्वतो भावेनेत्यर्थः । तां पूर्वानुभूतां नितिं सुखं किं न अपाकरोति न निरस्यति अपि तु निरस्यत्येवेत्यर्थः अत: नितरां कामपीड़ितासि मानं मुञ्च विलम्बेनालमिति भावः । मानिनी प्रति तत् सख्युक्तिरियम्। अत्र तौयचतुर्थावभ्यस्ताविति
पादत्रयाभ्यासं क्रमशो दर्शयति प्रभावत इत्यादि। है प्रभावतः प्रभावात् प्रभावतः प्रभा दौप्तिः तत्सम्पन्नस्य वासवस्य इन्द्रस्थापि नामन ! नमयतौति नतं करोतीति तत्सम्बुद्धी, यन्त्रभङ्गपारिजातहरणादिना इन्द्रस्य गर्वहरणादिति
Page #230
--------------------------------------------------------------------------
________________
२२४
कायाद
परम्पराया बलवा रणानां परम्पराया बलवारणानाम्। धूली: स्थलीयॊम विधाय रुन्धन् परम्परायाऽबलवारणानाम् ॥ ६४ ॥ न श्रद्दधे वाचमलज्ज ! मिथ्या
भवद्विधानामसमाहितानाम् । भावः नामेति प्रसिद्धौ हे अनाम ! नास्ति भामो रोगो यस्य यस्माहा तत्सम्बुद्धौ। त्वयि प्रतः अस्य षष्ठयास्तस् विष्टपस्य भुवनस्य प्रभौ सति नवासवस्य नवस्य आसवस्य सुरायाः सवस्य यज्ञस्य वा विच्छित्तिर्विच्छेदः नासीत् भोगिनां सुरापानोत्सवः धर्मिष्ठानां यज्ञादिकं सततं प्रवक्ते इत्यर्थः । श्रीकृष्णस्तुतिरियम् । पत्र प्रथमहितीयवतीयपादानामभ्यासः ॥ ६३॥
परमिति। हे पराय ! परः उत्कृष्टः अयः शुभावहविधिर्यस्य तत्सम्बुद्धौ, हे परमकल्याणिनित्यर्थः हे बलवाः ! बलेन वारयति शनिति तत्सम्बुद्धौ वारयते क्विपि रूपम् । त्वं बलमेषामस्तीति बला बलवन्तः अङ्गादित्वादप्रत्ययः । वारणा हस्तिमः येषु तथोक्तानां तथा अबलान् दुर्बलान् वारयन्तीति अबलवारणाः तेषां रणानां परम्परायाः समूहस्य स्थलीः रणभूमौरित्यर्थः धूलीविधाय व्योम प्राकाशं रुन्धन पाच्छादयन् सन् परं श्रेष्ठं परं श→ परायाः गतवान् जितवान् पसौत्यर्थः परापूर्वकाद् याधातोर्ध्या मध्यमपुरुषैकवचनम् । रानः स्तुतिरियम् । अत्र प्रथमहितीयचर्या अभ्यस्ता इति
- नेति। हे असच ! निघृण ! असमाहितानाम् अवहित
Page #231
--------------------------------------------------------------------------
________________
द्वतीयः परिच्छदः।
भवविधानामसमाहितानां भवद्विधानामसमाहितानाम् ॥ ६५ ॥ सन्नाहितोमानमराज सेन ! सन्नाहितोऽमानम ! राजसै न । सन्नाहितो मानम ! राजसैन सन्ना हितोऽमानमराजसैन ! ॥ ६६ ।।
चित्तानाम् अव्यवहितानामित्यर्थः तथा असमा असदृशा अहिताः शत्रवः येषाम् अधिकशत्रूणामित्यर्थः भवद्दिधानां मिथ्या भवत् असत्यं भवत् विधानं कायं यस्यास्तां कार्येषु अपरिणतामित्यर्थः । तथा असमः विषमः यः अहिः सर्पः तस्यैव तानो विस्तारो यस्याः तादृशीं अतिवक्रदारुणामित्यर्थः, पुनश्च भवे उत्पत्तौ श्रवणमात्र एवेत्यर्थः बिधा विविधः अनः प्राणः अर्थरूपः यस्याः तथाभूताम् अर्थानामेव वाचा प्राणत्वात् इति भावः, वाचं न श्रद्धधे न विखसिमि। शठनायकं प्रति नायिकाया उक्तिरियम्। अत्र दितीय-तीयचतुर्थपादानामभ्यास: ६५ ॥
सविति। हे सन् ! साधो! हे माहितोमानमराजसेन ! न नमन्तीति अनमा: ब्राह्मणाः पचादित्वादन् । अनमानां राजा अनमराजश्चन्द्रः, उमा च अनमराजश्च तौ उमानमराजौ माहितौ स्वाङ्गतौ उमानमराजी येन सः, माहितोमानमराजः शिवः तेन सेनः इनः स्वामी तेन सह वर्तमानः सेश्वर इत्यर्थः तत्सम्बुद्धौ शैव इत्यर्थः, तथा हे अमानम ! प्रमाना अपरिमाणा मा लमौर्यस्य तत्सम्बुद्धौ, पुनश्च हे राजसेन !
Page #232
--------------------------------------------------------------------------
________________
२२६
काव्यादथे
सकृद् दिस्त्रिश्चयोऽभ्यासः पादस्यैवं प्रदर्शितः । श्लोकहयन्तु युक्तार्थं श्लोकाभ्यासः स्मृतो यथा ॥६७॥ विनायकेन भवता वृत्तोपचितबाहुना।
खमित्रोद्धारिणाऽभौता पृथ्वीयमतुलाश्रिता ॥८॥ रजोगुणविकारेण मानममानम्यते इति तत्सम्बोधनं लोभाद्यनायत्तौकत इत्यर्थः, किञ्च हे प्रमानामराजसेन ! मानः सम्मानः मा लक्ष्मीः ते मानमे न विद्यते मानमे यस्याः तादृशी राजसेना विपक्षराजचमूर्यस्य तत्सम्बुद्धौ। त्वं समाहितः कृतयुद्धोद्योग: सन् न राजसे न शोभसे, यतस्त्वं सवाहितः सन्ना अवसादं गता अहिताः शत्रवो यस्य तथोक्ताः, तथा सबा सत् पुरुषः साधुः इत्यर्थः ततश्च हितः सर्वेषां हिते रत इत्यर्थः अतस्तव युद्धयात्रा न युज्यत इति भावः। शैवं राजानं प्रति युद्धनिवर्त्तकवचनम् अत्र सर्व एव पादा अभ्यस्ताः ॥ ६६ ॥ __ सम्प्रति श्लोकाभ्यासं निर्दिशति सक्कदिति। एवम् उक्तप्रकारेण पादस्य सक्त् हिः त्रिश्च यः अभ्यासः पुनरावृत्तिः सः प्रदर्शितः उदाहृतः । तत्र सक्कदभ्यासः पादहयगतः, हिरभ्यासः पादत्रयगतः, निरभ्यास: पादचतुष्टयगत इति। युक्तः अर्थो यस्थ एकवाक्यतापनमित्यर्थः श्लोकहयं समानानुपूर्वपदवर्णघटितं पद्यहितयं श्लोकाभ्यासः स्मृतः कथितः। यथेति वक्ष्यमाणोदाहरणार्थम् ॥ ६७ ॥
विनायकेनेति । हे राजन् ! विनायकेन दुर्जनानां शाखा, वृत्तौ वर्तुलौ उपचितौ पौनौ बाइ यस्य तथोक्तेन स्वमिवाणां शोभनानाम् अमित्राणां शवणाम् उहारिणा विनाशकेन तथा अतुलाश्रिता अतुलाम् अतुल्यतां केनापौति भावः पात्रयतीति
Page #233
--------------------------------------------------------------------------
________________
तौय: परिच्छदः।
विनायकेन भवता वृत्तीपचितवाहुना। खमित्रोद्धाऽरिणाऽभौता पृथ्वी यमतुलाश्रिता॥६६ एकाकारचतुष्पादं तन्महायमकाह्वयम् । तत्रापि दृश्यतेऽभ्यासः सा परा यमकक्रिया ॥७०॥ समानयास ! मानया समानयासमानया। समानया समानया समान या समानया ॥७१॥ तधोक्तेन निरुपमेण इत्यर्थः भवता हेतुना इयं पृथ्वी अभौता दुर्जनेभ्यो भयरहिता जाता इत्यर्थः ॥ ६८ ॥
किञ्च अभौता युद्धाय भवत्समीपमभ्यागच्छता अभिपूर्वादिण्धातोः क्विपि युतीयैकवचनम्। तव अरिणा शत्रुणा विनायकेन नायकरहितेन भवता सता वृत्तौ जातौ उपचितौ श्मशानस्थचितामारूढ़ी इत्यर्थः बाहू यस्य तथोक्तेन, तथा खमित्राणि निजबन्धून् उन्नहातीति तथाभूतेन, खमित्रशब्दात् उत्पूर्वकस्य जहाते: क्विपि टतोयैकवचनम् । पृथ्वी गुरू यमतुला यमस्य अन्तकस्य तुला परिमाणयन्त्र विचारस्थानम् इत्यर्थः मानयन्वे न्यूनाधिकत्वनिश्चयवत् कृतान्तविचारालये पुण्यपापनिश्चय इति भावः, आश्रिता प्राप्ता यमसदनं गतम् इत्यर्थः । राज्ञः स्तुतिविषयकं श्लोकहयमिति श्लोकाभ्यासोऽयम् ॥ ६८ ॥ ___एकेति। एकाकाराः चत्वारः पादा यत्र तत् महायमकाह्वयं महायमकसंनं तत्रापि महायमकेऽपि यत्र पादखण्डस्य अभ्यासः पुनराहत्तिः दृश्यते सा परा श्रेष्ठा यमकक्रिया यमकवत् पद्यानुष्ठानमित्यर्थः ॥ ७० ॥ • समानयेति। अत्रायं पदच्छेदः समानयास, मा अनया,
Page #234
--------------------------------------------------------------------------
________________
काध्यादथे.
धराधराकारधराधराभुलां भुजा महीं पातुमहीनविक्रमाः । क्रमात् सहन्ते सहसा हतारयो
रयोडुरा मानधुरावलम्बिनः ॥ ७२ ॥ . समानय, असमानया, समानया, समानया, समान, या समानया इति। हे समानयाम ! समान: यास: यत्नः यस्य तसम्बुद्धी, सर्वत्र तुल्ययत्न इत्यर्थः तथा समान ! समदर्शिन् ! सर्वत्र आत्मवद्दर्शन इत्यर्थः असमानया निरुपमया, समानया मानवत्या समानया सम्माननीयया अनया नायिकया मा मां समानय सङ्गमय, या नायिका समानया मा लक्ष्मीः शोभा नयः नौतिः विद्या इत्यर्थः ताभ्यां सह वर्तमाना सुन्दरी विदुषी चेत्यर्थः, अतोऽस्याः सङ्गमो अतीवादरणीय इति भावः । अत्र पादचतुष्टयाभ्यासे पादखण्डस्यापि अभ्यासात् महायमकम् ॥ ७१ ॥
पूर्व सजातीयसंमिश्रजनितप्रभेदा दर्शिता इदानीं विजातीयमिश्रणोदाहरणं दर्शयति धरेति। धराधराकारधराः धारायाः धर' नागराजः तस्य आकार: धराधराकारः तस्य धरा: पतिदीर्घा इत्यर्थः, अहौनविक्रमाः अहोनः अनल्पः विक्रमः येषां ते, अथवा अहौनस्य अहौनामौखरस्य विक्रम इव विक्रमो येषां तादृशाः, सहसा हतारयः हता नाशिता परयः शत्रवः यः तथोक्ता: रयोडुराः रयेण वेगेन उडुराः उत्कटाः अतिवेगवन्त इत्यर्थः तथा मानधुरावलम्बिन: मानस्य धुरां भारम् अवलम्बन्त इति तथाभूताः धराभुजां राज्ञां चुनाः क्रमात् महीं पातुं पालयितुं महन्त क्षमत। अत्र
Page #235
--------------------------------------------------------------------------
________________
टतीयः परिच्छेदः ।
२२८ आवृत्तिः प्रातिलोम्येन पादाईश्लोकगोचरा। यमकं प्रतिलोमत्वात् प्रतिलोममिति स्मृतम्॥७३॥ या मताश ! कृतायासा सायाता कृशता मया । रमणारकता तेऽस्तु स्तुतेताकरणामर ! ॥ ७४ ॥ प्रथमे पादे अव्यवहितमादिमध्ययमकं, पादानाञ्च सन्धिषु अव्यवहितमन्तादियमकं सन्दंशयमकञ्च। तीये च पादे एकवर्ण व्यवहितं सह सहेति चतुर्थे च वर्णद्दयव्यवहितं धुरा धुरेति मध्ययमकम्। इत्थं बहूनां विजातीयानां संमिश्रणमत्र इत्यवधेयम् ॥ ७२ ॥ ___ इस्थम् अनुलोमे यमकभेदानुक्वा इदानी प्रातिलोम्ये दर्शयन्नाह आवृत्तिरिति। प्रातिलोम्येन वैपरीत्येन पादाईश्लोकगोचरा पादगोचरा, अईगोचरा, श्लोकगोचरा च एवं त्रिविधा आवृत्तिः प्रतिलोमत्वात् प्रतिलोमं यमकम् इति स्मृतम्। तथाच यत्र पूर्वपादस्य प्रतिलोमावृत्त्या उत्तरपादः, पूर्वाईस्य प्रतिलोमावृत्त्या उत्तराई तथा एकस्य श्लोकस्य प्रतिलोमावृत्त्या श्लोकान्तरं निष्पद्यते तत् प्रतिलोममिति निष्कर्षः । तस्य चोक्तरीत्या वैविध्यम् ॥ ७३ ॥ ___पादगोचरामुदाहरति येति। हे मताश ! मता ज्ञाता आशा अन्यासङ्गविषयिणी तस्य तत्सम्बुद्धौ मया या कशता क्षीणता कृतायासा कृतः आयासः क्लेशः यया तथोक्ता, सा आयाता प्राप्ता तव दुश्चेष्टितेन महान् ले शोऽनुभूत इदानीमपि यथारुचि क्रियतामित्यर्थः । हे स्तुतेत ! स्तुतं स्तवम् इतः प्राप्तः स्तवाह इत्यर्थः अथवा स्तुतात् इत: च्युतः अस्तवाहः निन्दिताचरणात् अप्रशंसनीय इत्यर्थः तत्सम्बुद्धौ हे
Page #236
--------------------------------------------------------------------------
________________
काव्यादर्थं
नादिनो मदनाधी खा न मे काचन कामिता । तामिका न च कामेन खाधीना दम नोदिना ॥७५
२३०
अकरणामर ! अकरणे अकार्यानुष्ठाने अमर: देवसदृश इत्यर्थः तत्सम्बुद्धौ, देवानामकार्यकरण महल्या जारत्वादिकं बोध्यं तथा हे रमण ! ते तव आरकता ऋच्छतीति आरकः ऋण्गतावित्यस्मात् णकप्रत्ययः । यस्य भावः आरकता यथेच्छागामिता इत्यर्थः अस्तु भवतु त्वं यां कामयसे तामेव ब्रज नाव स्थातव्यमिति भावः । मानिन्या नायकं प्रति सकोपोतिरियम् । अत्र प्रथमपादस्य प्रतिलोमावृत्त्या द्वितीयपादस्तथा द्वितीयस्य प्रतिलोमावृत्त्या प्रथमपादः, एवं तृतीयचतुर्थयोरपि, तेनात्र पादविषयं प्रतिलोमयमकम् ॥ ७४ ॥
श्लोकाईविषयमुदाहरति नादिन इति । नादिनः नादरूपं ब्रह्म अस्यास्तीति तथोक्तस्य नादब्रह्मानुध्यानरतस्य इत्यर्थः मे मम मदनाधी मदनश्च श्रधिश्व तौ कामः कामजनिता मानसी व्यथा चेत्यर्थः तथा खा निजा काचन कामिता विषयाभिलाषश्च न विद्यते इत्यर्थः तथा दमः इन्द्रियसंयमः तं नुदति निरस्यतीति तथेोक्तेन इन्द्रियसंयमध्वंसकारिणा कामेन च स्वाधीना स्वम् आत्मा अधीनं यस्यास्तादृशी आत्मव्याकुलकारिणी तासिका ताम्यति अनयेति तम्धातोर्भावे णकप्रत्ययः स्त्रीत्वञ्च । ग्लानिरित्यर्थः नास्तीत्यर्थः । तथाच, कामः कामपौड़ा विषयाभिलाषः ग्लानिश्चेति चत्वारो मम न विद्यन्ते इति निष्कर्षः । नादोत्पत्तिश्वोक्ता सुरेश्वराचार्येण यथा सरेचपूरैरनिलस्य कुम्भैः सर्वासु नाड़ीषु विशोधितासु । अनाहतादम्ब, रुहादुदेति । स्वात्मावगम्यः स्वयमेव नाद इति ।
Page #237
--------------------------------------------------------------------------
________________
वतीयः परिच्छदः।
यानमानय माराविकशोनानजनासना। यामुदारशताधौनामायामायमनादि सा ॥ ७६ ॥ सा दिनामयमायामा नाधीता शरदाऽमुया । नासनाजनना शोकविरामायनमानया ॥ ७७॥
यमकचक्रम् ।
योगिनो वचनमिदम्। अत्र श्लोकाईस्य प्रतिलोमावृत्त्वा' नोकाईान्तरं निष्पवमिति प्रतिलोमयमकं श्लोकाईविषयम् ॥ ७५ ॥
लोकगोचरं प्रतिलोमं दर्शयति यानमिति। हे सखे ! इति अध्याहार्य, त्वं यानं वाहनं अखाद्यन्यतममित्यर्थः आनय। किमित्याह यामिति। अहम् उदारशता नाम् उदाराणां महतां धनिनामित्यर्थः शतम् अधीनं यस्यास्तादृशीं यां वेश्यामित्यर्थः प्रायां गतवानस्मि, माराविकशा मारः काम एव अविर्मेषः तस्य ताड़नी कामिनां कामातिहन्त्रीत्यर्थः तथा ऊनः होन: धनाभावादिति भावः अन: प्राणः येषां ते ऊनानाः धनहीना इत्यर्थः ते च ते जनाश्चेति जनानजनाः तान् अस्यात निरस्यतौति ऊनानजनासना निर्धनान् वहिष्कुर्वतीत्यर्थः सा वेश्या आयम् आगमनम् अनादि उत्ता मयेति शेषः अद्य तव सन्निधावागमिष्यामीति अभिहिता इत्यर्थः ॥ ७६ ॥
सापि मय्यनुरागिणीत्याह सेति। सा वेश्या अमुया उपस्थितया इत्यर्थः शरदा शरत्कालेन आधीता आधिं मन:पौड़ा महिरहेणेति भावः इता प्राप्ता अतएव शोकविरामा
Page #238
--------------------------------------------------------------------------
________________
२३२
काव्यादर्श वर्णानामेकरूपत्वं यत्त्वेकान्तरमईयोः । गोमूविकेति तत् प्राहुर्दुष्करं तद्विदो यथा ॥७८॥
शोकस्य विरहदुःखस्य विरामः अवसानं यस्याः तादृशौ न भवतीति शेषः सततं विरहदुःखमनुभवतीत्यर्थः, तथा दिनामयमायामा, दिने दिवसे यः प्रामयः रोगः तस्य मायां छलम् अमति गच्छति प्रकाशयतीत्यर्थः दिवसे सखौनां समक्ष रोगछलेन विरहदुःखं गोपयन्तौ तिष्ठतौत्यर्थः किञ्च नासनाजनना नास्ति आसनाया उपवेशनस्य जननं क्रिया यस्याः तथोक्ता अस्थिरत्वात् विरहदुःखेनैकत्र उपविशतीत्यर्थः, पुनश्च अयनमानया अयनस्य मद्गमनस्य मानं ज्ञानं यातीति तथोक्ता मदीयगमनवमनिरीक्षमाणा तिष्ठतौत्यर्थः । सखायं प्रति अनुरागिण्यां वेश्यायामासक्तस्योक्तिरियम् । अत्र श्लोकस्य प्रतिलोमनावृत्त्या श्लोकान्तरपूरणात् श्लोकगोचरं प्रतिलोमयमकम् ॥ ७७॥ ___ अथ चित्रालङ्कारान् कांश्चित् निरूपयिष्यन् प्रथमं गोमूत्रिकां निर्दिशति वर्णानामिति। अईयोः श्लोकस्य यथाक्रम पूर्वार्दोत्तराईयोः एकान्तरम् एकाक्षरव्यवहितं यत् एकरूपत्वम् अभिवाकारत्वं दुष्करं सहसा कर्तुमशक्य तद्विदः चित्रालङ्कारजाः गोमूत्रिका चलतो गोमूत्राकारत्वेन घटितत्वात् गोमूत्रिकासंगं प्राहुः । तदित्यत्र तमिति च पाठः, तदा तम् अलङ्कारमित्यर्थः । गोमूत्रिका च त्रिविधा पादगोमूत्रिका, अईगोमूविका, श्लोकगोमूत्रिका च। इयन्तु अईगोमूत्रिकेति वेदितव्या। यथेति उदाहरणार्थम् ॥ ७८ ॥
Page #239
--------------------------------------------------------------------------
________________
द्वतीयः परिच्छदः ।
२३३
मद नो मदिराक्षीणाम पाहा स्वोज ये द यम् । ++ ++ ++ + + + ++ + ++++ म दे ना यदि त त्क्षीण म न ङ्गा याञ्जलिं द दे७६
इति गोमूबिका। प्राहुरईभ्रमं नाम श्लोकाईधमणं यदि । तदिष्टं सर्वतोभद्रं भ्रमणं यदि सर्वत: ॥ ८ ॥
अईगोमूत्रिकामुदाहरति मदन इति। अयं मदनः मदिराक्षीणां मत्तखञ्जननयनानाम् अपाङ्गमेव अस्त्रं यस्य तथाभूतः सन् यदि जयेत् मां प्रहरेत्, तत् तदा मदेनः मम पापं क्षीणं स्यादिति शेष: तदा च अनङ्गाय अहम् अञ्जलिं ददे पुष्पाञ्जलिं ददामि इत्यर्थः यदि अहं कामिनीभिः सकटाक्षमौक्ष्य तदा कृतार्थी भवामि इति भावः। अत्र अईयोर्विषमवर्णानि एकरूपाणि, तथा उत्तराईस्य विषमाक्षराणि पूर्वाईस्य समाक्षराणि यथाक्रममावर्त्तनीयानि अपि श्लोकरूपाणि इति अईगोमूत्रिका। एतहिपरीतानि अपि उदाहरणानि सम्भवन्ति तानि च मृग्याणीति ॥ ७८ ॥ ___ अथ अईभ्रमं सर्वतोभद्रञ्च निरूपयति प्राहुरिति । श्लोका भ्रमणं श्लोकस्य अर्द्धण अईमार्गेण अनुलोमेनेति शेषः यदि भ्रम भ्रमणेन पादोपस्थितिरिति यावत् तदा अईभ्रमं नाम चित्रं प्राहुः । यदि सर्वतः अनुलोमप्रतिलोमाभ्यां मार्गाभ्याम् इत्यर्थः भ्रमणं तदा तत् सर्वतोभद्र नाम चित्रम् इष्टम् । तथाहि, विविधमिदम् अष्टाक्षरवृत्तिघटितमेव प्रायशो दृश्यते, तत्र प्रथम चतुःषष्टिः कोष्ठानि अष्टपङ्क्तिघटितानि लेख्यानि, ततः पाद्यपङ्क्तिचतुष्टये क्रमेण पादचतुष्टय वर्णा निवेशनीयाः,
Page #240
--------------------------------------------------------------------------
________________
काव्यादर्श
। म । नो । भ
। व । त । वा । नी । कं ।
। नो । द । या । य । न । मा । नि । नी । । भ । या । द । मे । या । मा । मा । वा ।
। व । य । मे । नो । म । या । न । त ।
PER
Heek ||
२३४
|lk|lt| the le
|21|k|
1k
店
Tee | 12
| | D | E | HI
॥ ८१ ॥
अर्द्धभ्रमः।
ततच
निम्नपङ क्तिचतुष्टये चतुर्थतृतौयद्दितीयप्रथमपादा वैपरीत्येन लेख्याः । अर्द्धभ्रमे अधः पङ्क्तिचतुष्टये परावृत्त्या, सर्वतोभद्रे तु परावृत्त्या समावृत्त्या च चतुर्थादिपादलेखनम् इति भेद: तत्र आवृत्तिक्रमस्तु श्रभ्रमे ऊङ्घ पङ्क्तौ वामाद् दक्षिणतः, अधःपङ्क्तौ दक्षिणाद् वामतः । किञ्च, वामस्थोड - कोष्ठादधः क्रमेण दक्षिणस्य अधः कोष्ठाद् ऊङ्घ क्रमेण च अनुलोमावृत्त्या प्रथमादिपादोपस्थितिः । सर्वतोभद्रे तु दक्षिणाद् वामतः वामाद्दक्षिणतश्च ऊर्द्धादधः क्रमेण अधस्त ऊङ्घ क्रमेण च अनुलोमप्रतिलोमाभ्यां सर्वत आवृत्त्या पादोपस्थितिरिति बोध्यम् ॥ ८० ॥
मनोभवेति । हे मनोभव ! हे नत! कामिजननमस्कृत ! तव अनीकं सैन्यरूपा मानिनो इयं मानवती तव उदयाय
Page #241
--------------------------------------------------------------------------
________________
टतीयः परिच्छेदः ।
२३५
। सा। मा। या। मा। मा। या । मा। सा । । मा। रा। ना। या । या । ना । रा। मा । । या । ना। वा । रा । रा । वा । ना। या । । मा। या । रा । मा। मा। रा । या । मा । । मा । या । रा । मा। मा। रा । या। मा । । या। ना । वा । रा । रा । वा । ना। या । । मा। रा । ना। या । या । ना । रा । मा । । सा। मा । या । मा। मा । या । मा । सा।
सर्वतोभद्रम् । .
वृद्धये नो न अपितु उदयायैव, ननु विजयिनां सैन्यम् अपराधिदण्डकं तव अत्र किमित्याह वयम् एनोमयाः पापिन: मा वा न वा, किन्तु भयात् अमेयामा: अमेयः आमः रोगः येषां तथोक्ताः, यदि च वयमनपराधिनः तथापि भृशं भयार्ता जाताः स्मेत्यर्थः ॥ ८१॥ ___सेति। अमायामामाया, अमायस्य अकपटस्य अमस्य अपरिमितस्य आमस्य रोगस्य कामपौड़ाया इत्यर्थः प्रायः भागमनं यया तथोक्ता, तथा मारानायायानारामा मारः काम एव आनायः जालं बन्धनहेतुत्वात् इति भावः तस्य आयानेन भागमनेन आरामः प्रौतिः यस्याः तादृशी, सततकामव्यापारवता इत्यर्थः, किञ्च यानावारारावा यानं विदेशगमनम् आवारयतौ यानावार:, यानावारः भारावः वचनं यस्याः तथाभूता मम विदेशगमनं वारितवतीत्यर्थः किञ्च अनाया नास्त्रि नायः नौतिः यस्याः तादृशी मम प्रवासाकरणे कार्यहानिः
Page #242
--------------------------------------------------------------------------
________________
२३६
काव्याद” यः स्वरस्थानवर्णानां नियमो दुष्करेष्वसौ । दृष्टश्चतुःप्रभृत्येषु दर्श्यते सुकरः परः ॥ ८३ ॥ पामायानामाहान्त्या वाग्गीतीरीतीः प्रीतीर्भीतीः । भोगो रोगो मोदो मोहो ध्येये धेच्छे देश मे॥८४॥ भवेन वेति विवेकरहिता इत्यर्थः पुनश्च माया मां लक्ष्मी यातीति तथोक्ता अतिसुन्दरीत्यर्थः । सा रामा मत्प्रेयसी मासा चन्द्रेण अमा सह छायामृगधरो राजा माः इति त्रिकाण्डशेषः । माराय मम विनाशाय, तस्याः स्मरणं चन्द्रोदयश्च सम्प्रति मां भृशं व्याकुलयतीत्यर्थः। विरहिणो वचनमिदम् ॥ ८२॥ ___ य इति। दुष्करेषु मध्ये स्वरस्थानवर्णानां खराः आकारादयः स्थानानि कण्ठादीनि वर्णाः व्यञ्जनानि तेषां योऽसौ नियमः प्राचीनैरलङ्कारतया उक्त इति शेषः, एषु मध्ये इष्टः दुष्करत्वेन अभिमतः चतुःप्रभृति दर्श्यते चतुःप्रभृतीत्यनेन चतुस्त्रियकरूपत्वात् चत्वारो भेदा दर्श्यन्ते इत्यर्थः परः अन्यः बञ्चादिः सुकरः अतस्तदुदाहरणं यथायथं मृग्यं दुष्करसाधनार्थमेव मम प्रयास इति ध्वन्यते ॥ ८३ ॥ __ तत्र प्रथमं चतुःस्वरमुदाहरति आम्नायानामिति। आमायानां श्रुतीनाम् अन्त्या चरमा वाक् गौतिः गानानि ईतीः अतिवृष्ट्याद्युपप्लवरूपाः, तथा प्रोतीः पुत्रदारादिषु प्रणयान् भौतौः भयङ्करीरित्यर्थः वियोगादिनेति भावः आह ब्रवीति, अतःकारणात् भोगः सङ्गीतादिविषयोपभोगः रोगः व्याधिखरूपः तथा मोदः वैषयिकानन्दः मोहः अज्ञानमेव तस्मात् क्षेमे देशे पुण्यभूमी ध्येये परमात्मनि धेच्छे धा मनःसमाधानम्
Page #243
--------------------------------------------------------------------------
________________
तीय: परिच्छेदः ।
२३७ क्षितिविजितिस्थितिविहितिव्रतरतयः परगतयः । उरु रुरुधुर्गुरु दुधुवयुधि कुरवः स्वमरिकुलम्॥५॥ श्रीदीप्तौ हौकीर्ती धौनीती गी:प्रीती। एधेते हे हे ते ये नेमे देवेश ॥ ८६ ॥ सामायामामाया मासा मारानायायानारामा। यानावारारावानाया माया रामा मारायामा॥८७
स्वरनियमः ।
इच्छा तत्प्रात्यभिलाषः ते विधेये इति शेषः धेच्छे इत्यत्र धेच्छे इति पाथे ध्या ध्यानमित्यर्थः । अत्र आ ई ओ ए इति चतुर्भिरेव खरैः पद्यबन्धः । विद्युन्मालावृत्तमिदम् ॥ ८४ ॥ ___ विस्वरमुदाहरति क्षितीति। क्षितः पृथिव्याः विजितिः विजयः स्थितेर्मादाया विहितिः विधानं ते एव व्रते क्षितिविजितिस्थितिविहितिव्रते तयोः रतिः अनुरागो येषां तथोक्ताः तथा परा उत्तमा गतिर्येषां तादृशाः कुरवः युधि युद्धे स्वम् अरिकुलम् उरु अत्यर्थं रुरुधुः तथा गुरु यथा तथा दुधुवुः कम्पितवन्तः । अत्र इ अउ इति त्रिभिरेव स्खरैः पद्यबन्धः । त्वरितगतिवृत्तमिदम् ॥ ८५ ॥
हिवरमुदाहरति श्रीदीप्तौ इति । श्रीः लक्ष्मीः दीप्तिः कान्तिश्च ते ह्रौः लज्ना कौर्तिश्च ते, धौर्बुद्धिः नीतिश्च ते, गौः मधुरवाक् प्रौतिश्च सन्तोषश्च ते हे हे ते तव एधेते वईते, ये इमे हे हे देवेशे देवानामौखरे इन्द्रे इत्यर्थः न विद्यते इति शेषः । अत्र ई ए इति द्वाभ्यामेव स्वराभ्यां पद्यबन्धः । वाणीवृत्तमिदम् ॥ ८६ ॥
Page #244
--------------------------------------------------------------------------
________________
२३८
काव्यादर्श
नयनानन्दजनने नक्षत्रगणशालिनि । अपने गगने दृष्टिरङ्गने ! दीयतां सकृत् ॥८८॥ पलिनीलालकलतं के न हन्ति घनस्तनि ।। पाननं नलिनच्छायनयनं शशिकान्ति ते ॥८॥ अनङ्गलङ्घनालग्ननानातका सदङ्गना। सदानघ । सदानन्दनताङ्गासङ्गसङ्गतः ॥ ६ ॥
मेति। पद्यमिदं सर्वतोभद्रोदाहरणत्वेन पूर्व लिखितं व्याख्या तञ्च। आ इत्येनैव स्वरेण पद्यबन्धः ॥ ८७ ॥
अथ स्थाननियमे दर्शयितव्ये प्रथमं चतुःस्थानं दर्शयति नयनेति। हे नयनानन्दजनने अङ्गने ! सुन्दरि! अपने मेघरहिते अतएव नक्षत्रगणशालिनि तारानिकरभूषिते गगने सतत् एकवारं दृष्टि: दीयतां नयनानन्दजनने इति गगने इत्यस्यापि विशेषणं सङ्गच्छते। मानिनी सान्त्वयतो नायकस्य तादृशगगने दृष्टिपातोक्तः कामोद्दीपकत्वादनायासेनैव मानभङ्गः स्यादिति तत्पर्यम् । अत्र दन्त्यतालव्यकण्ठयमूर्धन्यैरेव वर्णैः पद्यबन्धः ॥ ८८॥
त्रिस्थानं दर्शयति अलीति। हे घनस्तनि । अलय इव नौला अलका लता यत्र तत्, नलिनच्छाये पद्मसदृशे नयने यत्र तादृशं तथा शशिनः कान्तिरिव कान्तिर्यस्य तथाभूतं ते तव आननं कं जनं न हन्ति नाकुलयति अपितु सर्वमेवेत्यर्थः । अत्र कण्ठयदन्यतालव्यैरेव वर्ग: पद्यबन्धः ॥ ८८ ॥ .
हिस्थानमुदाहरति अनङ्गेति । हे सदानघ ! सदा अनघ ! अपाप ! व्यथारहितेत्यर्थः, तथा हे सदानन्दनताङ्ग ! सदा
Page #245
--------------------------------------------------------------------------
________________
तृतीयः परिच्छ ेदः ।
अगा गाङ्गाङ्गका काकगाहकाघककाकहा ।
अहाहाङ्ग ! खगाङ्कागकङ्कागखगकाकक ! ॥ ११ ॥ स्थाननियमः ।
२३८
आनन्देन गीतवादिवाद्यामोदेन नतानि व्यापृतानि अङ्गानि यस्य तत्सम्ब, डौ, सदङ्गना साध्वी नारी असङ्गसङ्गतः नास्ति सङ्गो येषां ते असङ्गाः दुर्जनाः तेषां सङ्गः तस्मात् अनङ्गलङ्कनेन कामपौड़या लग्नाः जाताः नाना विविधाः आतङ्काः सन्देहाः यस्यां तादृशो भवति, भर्तृविरहेण सती अपि दुर्जनामङ्गेन भ्रश्यतीति भावः । तस्मात् भार्य्यीं प्रतिचिन्तय केवलं वृथामोदेनालमिति सखायं प्रति कस्यचिदुक्तिः । अव दन्त्यकण्ठैरेव पद्यरचना ॥ ८० ॥
एकस्थानमुदाहरति अगा इति । हे गाङ्गकाकाकगाहक ! गङ्गाया इदं गाङ्गं यत् कं जलं तस्य आकाकः सशब्दवक्रगतिः आङ्पूर्वात् के शब्दे इत्यस्मात् भावे क्विपि आकाः अक कुटिलगतावित्यस्मात् भावे ङप्रत्यये अकः आका सह अकः आकाकः तरङ्ग इत्यर्थः तं गाहते इति तथेोक्तः तत्सम्बु डौ तथा हे अहाहाङ्ग ! हाहां दोनतासूचकं ध्वनिविशेषं गच्छतीति हाहाङ्गः न हाहाङ्गः अहाहाङ्गः तत्सम्बुडौ, किञ्च हे खगाङ्गागकङ्क ! खं गच्छन्तीति खगाः सूर्य्यादयः, ते अङ्गाविज्ञानि यस्य स खगाङ्गः, स च असौ अगः पर्वतश्चेति खगाङ्कागः सुमेरुरित्यर्थः तं कङ्कते गच्छतौति तथेोक्तः ककिगतावित्यस्मात् अन्प्रत्ययः । तत्सम्ब, डौ, पुनश्च हे अगखगकाकक! अगति गच्छति इति अगं नश्वरमित्यर्थः खानि इन्द्रियाणि गच्छतीति खगम्, इन्द्रियविषयं ततश्च अगं खगच्च यत् । कं सुखं तदर्थं न ककते
Page #246
--------------------------------------------------------------------------
________________
२४० - काव्यादर्श रे रे रोरुहरूरोरुगागोगोऽगाङ्गगोऽगगुः । किं केकाकाकुकः काको मामा मामम मामम! ६२
अभिलषतौति अगखगकाकः तत्सम्बद्धौ, इन्द्रियसुखेषु अनासक्त इत्यर्थः त्वम् अघककाकहा अघकानि पापानि एव काकाः तान् हन्तीति तथोक्तः अपापः सन् गां पृथिवीम् अगाः गतवानसि प्रदक्षिणौचकर्थेत्यर्थः। अत्र कण्ठा रेव वर्णैः पद्यरचना। कस्यचिद्देशपर्यटकस्य स्तुतिरियम् ॥ ८१ ॥ ___ अथ वर्णनियमे दर्शयितव्ये प्रथमं चतुर्वर्णमुदाहरति रे इति। रेरे इति नौचसम्बोधनसूचकमव्ययम् । रे रे मामम ! मायां लक्ष्मयां ममत्यव्ययं ममता इत्यर्थः यस्य सः तत्सम्बुद्धी, कृपण इत्यर्थः, त्वं मां मा मा इति निषेधवाचकं सम्भ्रमाद्यतिरेके विरुक्तिरिति, अम गच्छ, मत्समीपं मा गच्छे त्यर्थः । यतः काकः किं केकाकाकुकः भवति अपि तु नैवेत्यर्थः, केका मयूरध्वनिः तस्याः काकु: मदजनितविकारः तं कायति शब्दायते शब्दन प्रकाशयतीत्यर्थः, कै शब्द इत्यस्मात् डप्रत्ययः । न हि काको मयूरवृत्तिं लभते इति भावः, किञ्च रोरूहरूरोरूरुगागोगः रोरूयते पुनः पुनरतिशयेन वा रौतौति रोरूः रौतेयं लुगन्तात् क्विम् । स च असौ रुरुमगविशेषश्चेति रोरूरुरुः तस्य उरसः वक्षसः या रुक् शरवेधजनिता व्यथा सा एव आग: अपराधः पापमित्यर्थः तद् गच्छति प्राप्नोतीति तथाभूतः निरौहजीवहिंसकत्वात् पापौयांस्त्वं न मे योग्य इति भावः। पुनश्च त्वम् अगाङ्गगः अगस्य पर्वतस्य अङ्गम् एकदेशं गच्छति अधिवसतीत्यर्थः तथोक्तः पार्वत्य इत्यर्थः, तथा अगगुः न गच्छति न सङ्गच्छते इति अगा असम्बदा इत्यर्थः गौ वाण
Page #247
--------------------------------------------------------------------------
________________
टतीयः परिच्छेदः।
२४१ देवानां नन्दनो देवो नोदनो वेदनिन्दिनः । दिवं दुदाव नादेन दाने दानवनन्दिनः ॥ ६३ ॥ सूरिः सुरासुरासारिसारः सारससारसाः। ससार सरसी: सौरी ससूरुः स सुरारसी॥ ६४ ॥ यप्य तादृशः असम्बद्धभाषीत्यर्थः अतस्त्व न मे योग्य इति भावः । वाराङ्गनामभिलषन्तं कञ्चित् व्याधकुमारं प्रति तस्याः प्रत्याख्यानोक्तिरियम् । अत्र र क ग म इति चतुर्मिरेव वर्ग: पद्यबन्धः । वर्णपदेन च पद्यपूरकवर्णानां ग्रहणं, तेन अङ्गेति डकारयोगेऽपि न चातुर्वर्ण्यव्याघातः, तस्य पद्यपूरकत्वाभावात् ॥ ८२॥
त्रिवर्णमुदाहरति देवानामिति । देवानाम् इन्द्रादीनां नन्दनो दैत्यदमनात् प्रौतिजननः, तथा वेदनिन्दिनो वेदनिन्दकस्य नास्तिकजनस्य नोदनः निरासकः देवः नृसिंहरूपी भगवान्, दानवान् नन्दयति त्रिभुवनविजयेन सन्तोषयतीति तथोक्तस्य दानवनन्दिन: हिरण्यकशिपोः दाने वक्षोविदारणे दोय खण्डने इत्यस्मात् अनट्प्रत्ययः । नादेन सिंहनादेन दिवम् अन्तरीक्षं दुदाव तापितवान्। अत्र दवन इति विभिरेव वर्णैः पद्यबन्धः ॥ १३॥
द्विवर्णमुदाहरति सूरिरिति। सूरिः विहान् तथा सुरासुरासारिसारः सुरान् असुरांश्च आसरति आस्कन्दति इति तथोक्तः सारो बलं यस्य तादृशः, किञ्च ससूरुः शोभनौ जरू मूरू ताभ्यां सहित: वामोरुरित्यर्थः, पुनश्चं सुरारसौ सुरायां रसः आखादः अनुराग इत्यर्थः विद्यते अस्येति मुरारसी स प्रसिद्धः सौरौ सौरं लाङ्गलमस्यास्तीति तथोक्तः बलदेवः सारस
२१
Page #248
--------------------------------------------------------------------------
________________
२४२
काव्वादों नूनं नुन्नानि नानेन नाननेनाननानि नः । নাননা ন লালুননননানালিলী লিনী:॥ ৷
वर्मनियमः। इति दुष्करमार्गेऽपि कश्चिदादर्शितः क्रमः । प्रहेलिकाप्रकाराणां पुनरुद्दिश्यते गतिः ॥ ६६ ॥ सारसाः आरसेन शब्देन सह वर्तमाना: सारसाः पक्षिविशेषाः यासु ताः सरसौः ससार जलक्रीड़ार्थ गतवान् । बलदेवस्य जलक्रीडाप्रकरणोक्तं पद्यमिदम्। अत्र दाभ्यामेव स र इति वर्णाभ्यां पद्यबन्धः ॥ १४ ॥ ___ एकवर्णमुदाहरति नूनमिति। अन्नेन प्रबलेन एनेन अ इनः प्रभुः एनः तेन अप्रभुणा सामान्यशत्रूणा इत्यर्थः, अनेन आननेन मुखेन भूकुटिमतेति भावः करणेन नः अस्माकम् अनानि प्राणाः नूनं निश्चितं नुबानि अपनीतानि न न अपितु नुबान्येव अस्य भूभङ्गिं दृष्ट्वैव वयं मृता एव का कथा सम्पहार इति भावः । ननु तथापि इत्यर्थः इनः ना पुरुषः अस्माकं प्रभुरित्यर्थः अनान् प्राणान् निनौः नेतुमिच्छतीति नौधातोः सनन्तात् विपि प्रथमैकवचनम् । रक्षितुमिच्छुः सनित्यर्थः, न अनेनाः अपापः न भवति, शत्रुविजितस्य युद्धे मरणं जीविताद वरमिति अतोऽनेन यथाशक्ति युद्ध कर्त्तव्यमिति भावः । रिपुपराजितस्य कस्यचित् नृपसैन्यस्य दैन्योक्तिरियम्। अत्र नकाररूपवर्णैरेव पद्यबन्धः ॥ १५ ॥ .. अथ प्रहेलिकां निर्दिशति इतीति। इति उक्तप्रकारेण दुष्करमार्गे चतुस्त्रियकरूपनियमेऽपि कश्चित् अल्पमात्र इत्यर्थः क्रमः नियमः पादर्शितः उदाहृतः, एतावता अन्येऽपि
Page #249
--------------------------------------------------------------------------
________________
तृतीयः परिच्छेदः ।
क्रौड़ागोष्ठौविनोदेषु तज्ज्ञैराकीर्णमन्त्रणे । परव्यामोहने चापि सोपयोगाः प्रहेलिकाः ॥ ६७ ॥ आहुः समागतां नाम गूढ़ाथीं पदसन्धिना । वञ्चितान्यव रूढ़ेन यत्र शब्देन वञ्चना ॥ ६८ ॥
२४३
दुष्कराचित्रालङ्काराः पद्मबन्धादयः प्राचौनोक्ताः ग्रन्थविस्तारभयेन नात्रोक्ताः ग्रन्थान्तरतः ते ज्ञातव्या इति भावः, पुनः इदानीं प्रहेलिकानां प्रकाराणां विशेषाणां गतिः नियमः उद्दिश्यते निरूप्यते । तल्लक्षणन्तु सामान्यत उक्तम् । यथा, प्रहेलिका तु सा ज्ञेया वचः संवृतिकारि यदिति ॥ ८६ ॥
यदि च प्रहेलिकाया यमकादिवत् शब्दार्थोपस्कारकत्वेन रसानुगुख्याभावात् नालङ्कारत्वं, यदुक्त रसस्य परिपन्थित्वात् नालङ्कारः प्रहेलिकेति, तथापि अस्या उपयोगित्वमाह क्रीड़ेति । क्रौड़ागोष्ठीषु विहारसभासु ये विनोदा: प्रमोदाः तेषु विषये तज्ज्ञेः प्रहेलिकाभिन्नैः सह पाकोणें जनसङ्घले देशे यत् मन्त्रणं गुप्तभावेन परस्परसंलापः तस्मिन्, तथा परस्य व्यामोहने विशेषरूपेण अर्थावबोधवशेन मनसः व्याकुलतायाम् अथवा परस्य बोडव्यव्यतिरिक्तस्य जनस्य व्यामोहने अवरोधनिराकरणे विषये प्रहेलिकाः सोपयोगाः सप्रयोजनाः उपकारिण्य इत्यर्थः तस्मात् अस्या उपयोगित्वे अलङ्कारत्वम् अन्यत्र दोषावहत्वमिति बोध्यम् ॥ ८७ ॥
अस्या भेदान् क्रमेणाह प्राहुरिति । पदसन्धिना पदयोः सन्धिनां सानिध्यजनितसन्धिकार्येण गूढ़: दुर्बोध: अर्थो यस्यास्तां समागतां नाम प्रहेलिकामाहुः, अन्यत्र यत्र विव
Page #250
--------------------------------------------------------------------------
________________
काव्यादर्श व्युत्क्रान्तातिव्यवहितप्रयोगान्मोहकारिणी। सा स्यात् प्रमुषिता यस्यां दुर्बोधार्था पदावली ६६ समानरूपा गौणार्थारोपितैर्ग्रथिता पदैः ।। परुषा लक्षणास्तित्वमावव्युत्पादितश्रुतिः ॥ १० ॥ सङ्ख्याता नाम सङ्ख्यानं यत्र व्यामोहकारणम् । अन्यथा भासते पत्र वाक्यार्थः सा प्रकल्पिता १०१
शितार्थभिन्नस्थले रूढ़ न प्रसिद्धन शब्देन या वञ्चना प्रतारणा सा वञ्चिता वञ्चिताख्या प्रहेलिकेत्यर्थः ॥ ८ ॥
व्युत्क्रान्तेति। अतिव्यवहितानां पदानां प्रयोगात् मोहकारिणी अर्थावबोधवैधुर्यविधायिनी या सा व्युत्क्रान्ता नाम, यस्याञ्च पदावली पदानीत्यर्थः दुर्बोधः अर्थो यस्यास्तादृशी प्रमुषिता नाम प्रकर्षण बुद्धेर्मुषितत्वादित्यर्थः । वञ्चितायान्तु एक पदं दुर्बोधार्थमिह तु पदानीत्यनयोर्भेदः ॥2॥
समानरूपेति। गौणार्थेन लाक्षणिकार्थेन आरोपितैः उपचारितैः पदैः ग्रथिता विरचिता या सा समानरूपा नाम सादृश्यनिबन्धनत्वादित्यर्थः लक्षणस्य सूत्रस्य अस्तित्वमात्रेण लक्षणानुसारेण न तु शक्ताशक्तविवेचनया इत्यर्थः व्युत्पादिता श्रुतिः शब्दः यत्र तादृशी या सा परुषा नाम अशक्तिनिबन्धनत्वेन श्रोत्रयोः पारुष्यावबोधादिति भावः ॥ १० ॥
संख्यातेति । यत्र संख्यानं वर्णगणना वा संख्यावाचकशब्दः व्यामोहस्य अर्थावबोधवैधुर्यस्य कारणं सा संख्याता नाम, यत्र वाक्यार्थः अन्यथा भासते आपातत: प्रतीयमानादर्थात् अन्वरूपः प्रतीयते सा प्रकस्मिता नाम ॥ १.१॥
Page #251
--------------------------------------------------------------------------
________________
२४५
टतीयः परिच्छेदः । सा नामान्तरिता यस्यां नानि नानार्थकल्पना। निभृता निभृतान्यार्था तुल्यधर्मस्मशा गिरा॥१०२ समानशब्दोपन्यस्तशब्दपर्यायसाधिता। संमूढ़ा नाम, या साक्षानिर्दिष्टार्थापि मूढ़ये॥१०३ योगमालात्मिका नाम या स्यात् सा परिहारिका। एकच्छन्नाश्रितं व्यक्तं यस्यामाश्रयगोपनम्॥१०४॥
सेति। यस्यां नाम्नि संज्ञाविषये नानार्थकल्पना नानार्थानां बहूनामर्थानां कल्पना सा नामान्तरिता नाम, यस्याञ्च तुल्यधर्मस्पृशा प्रस्तुताप्रस्तुतयोः साधारणधर्म स्पृशन्त्या गिरा वाचा निभृतः गोपितः अन्य अपरः अर्थो यत्र सा निभृता नाम। अस्याश्च साधारणधर्मबलेन विषयस्य सूचनात् समासोक्तिमूलता बोध्येति ॥ १०२॥
समानशब्देति। उपन्यस्तेन उक्तेन शब्दानां प्रकृतार्थवबोधकपदानां पायेण नामान्तरेण साधिता विरचिता समानशब्दा नाम, अन च लक्षणया एकार्थशब्दस्यैव ग्रहणं न तु अभिधालभ्यार्थस्य, तथावे संवरणीयत्वाभावेन प्रकृता. नुपयोगित्वादिति ध्येयम्। या साक्षात् अभिधायकशब्देन निर्दिष्टः निरूपित: अर्थो यत्र तादृशी अपि मूढ़ये व्यामोहाय भवतीति शेषः, सा संमूढ़ा नाम ॥ १०३ ॥ ___ योगमालेति। या योगानां यौगिकपदानां माला समूहो यस्यां सा परिहारिका नाम स्यात् परिहरति झटित्यर्थबोधं वारयतीति व्यत्यत्त्या तथा व्यपदेशः शक्तिलभ्यार्थात् यौगिकार्थस्य नानाकष्टकल्पनामूलत्वेन सहसावबोधविरहादिति
Page #252
--------------------------------------------------------------------------
________________
२४६
काव्यादर्श .
सा भवेटुभयच्छन्ना यस्यामुभयगोपनम् । सङ्कीर्णा नाम सा यस्यां नानालक्षणसङ्करः॥१०५॥ एताः षोड़श निर्दिष्टाः पूर्वाचार्यैः प्रहेलिकाः । टुष्टप्रहेलिकाश्चान्यास्तैरधौताश्चतुर्दश ॥ १०६ ॥ दोषानपरिसङ्ख्ये यान् मन्यमाना वयं पुनः । साध्वीरेवाभिधास्थामस्ता टुष्टा यास्त्वलक्षणाः १०७
भावः। यस्याम् आश्रितम् आधेयं व्यक्तं स्फुटम् आश्रयस्य आधारस्य तु गोपनं सा एकच्छन्ना नाम ॥ १०४ ॥
सेति । यस्याम् उभयस्य आधेयस्य आधारस्य च गोषनं सा उभयच्छन्ना नाम भवेत् उभयोरपि निभृतत्वात्, यस्यां मानालक्षणानाम् उत्तानां प्रहेलिकाभेदकलक्षणानां सङ्करः साहित्येनावस्थितिः सा सङ्कीर्णा नाम ॥ १०५ ॥
एता इति। एताः समागतप्रभृतयः षोड़श प्रहेलिकाः पूर्वाचार्यः निर्दिष्टा: प्रदुष्टत्वेन कथिता इत्यर्थः, तैः पूर्वाचाखैरेव अन्याः चतुर्दश दुष्टाः प्रहेलिकाः च्युताक्षरादिकाः अधीताः पठिताः सदोषत्वेन कीर्त्तिता इत्यर्थः ॥ १० ॥
यदिच दुष्टाः प्रहेलिकाः पूर्वाचार्यैरुक्तास्तथाप्यस्माकं न ताखभिरुचिरित्याह दोषानिति। वयं पुन: अपरिसंख्येयान् बहन् दोषान् मन्यमानाः जानन्तः सन्तः साध्वौरव उत्कृष्टा एव निर्दोषा एव प्रहेलिकाः अभिधास्यामः उदाहरिष्यामः । यास्तु अलक्षणाः पूर्वोक्तलक्षणानन्तर्भूताः ता: दुष्टाः सदोषाः, तासामुदाहरणे न मम प्रयास इति भावः ॥ १०७ ॥
Page #253
--------------------------------------------------------------------------
________________
तृतीयः परिच्छेदः ।
न मयागोरसाभिज्ञं चेतः, कस्मात् प्रकुप्यसि । अस्थानरुदितैरेभिरलमालोहितेक्षणे ! ॥ १०८ ॥ कुब्जामासेवमानस्य यथा ते वर्द्धते रतिः । नैवं निर्विशतो नारोरम र स्त्रीविडम्बिनीः ॥ १०८॥ दण्डे चुम्बति पद्मिन्या हंसः कर्कशकण्टके ।
२४७
अत्र समागतामुदाहरति नेति । हे आलोहितेक्षणे ! आरक्तनयने ! कोपादिति भावः, मया ममेत्यर्थः पष्ठप्रर्थे तृतीया । चेतः गोरसस्य दुग्धादे: अभिनं रसनं न, दुग्धादिकं मया न हृतमित्यर्थः, कस्मात् प्रकुप्यसि, एभिः अस्थानरुदितैः अकारणरोदनैः अलम् इति सहजोऽर्थः संवृतिकारक : गूढ़ार्थस्तु मे चेतः आगसः अपराधस्य नायिकान्तरसङ्गरूपस्य रसस्य प्रमोदस्य अभिज्ञं न नाहम् अन्यां कामये कथं तवेदृशो मान इति अत्र मे आगोरसाभिन्नमिति : सन्धिसूत्रेण एकारस्य अयादेशेन मयागोरसाभिन्नमिति निष्पन्नत्वात् प्रकृतार्थस्य संवरणम् । काञ्चित् गोपीं प्रति श्रीकृष्णस्य जनसमाजे उक्तिरियम् ॥ १०८ ॥
वञ्चितामुदाहरति कुनामिति । कुलां भुग्नपृष्ठां कामपि नारीम् आसेवमानस्य उपभुञ्जानस्य ते तव यथा रतिः सन्तोषः वर्धते, अमरस्त्रोविडम्बिनीः सुरकामिनीसदृशौः अन्याः नारीः निर्विशतः उपभुञ्जानस्य एवं रतिः न वर्द्धते इति सहजोऽर्थः गूढार्थस्तु कुजां कान्यकुजगनरीं तत्त्रत्यनारीं वेत्यादिः । श्रत्र कुलशब्दो भुग्नपृष्ठनायमेिव प्रसिद्धः अन्यत्र तु नेत्यप्रसिद्धार्थस्य प्रतिपादनम् । कान्यकुबनगीं वा तत्रत्यनारीं प्रति अनुरक्तजने उक्तिरियम् ॥ १०८ ॥
Page #254
--------------------------------------------------------------------------
________________
२४८
काव्यादर्श
मुखं वल्गुरवं कुर्वस्तुण्डेनाङ्गानि घट्टयन् ॥ ११०॥ खातयः कनि ! काले ते स्फातयः स्फावलावः। चन्द्र साक्षाभवन्त्यत्र वायवो मम धारिणः ॥१११॥ अबोद्याने मया दृष्टा वल्लरी पञ्चपल्लवा। पल्लवे पल्लवे ताम्रा यस्यां कुसुममञ्जरी ॥ ११२ ॥
व्युत्क्रान्तामुदाहरति दण्डे इति। हंस: कर्कशकण्टके पद्मिन्या दण्डे नाले अङ्गानि घट्टयन् वल्गुरवं मनोज नादं कुर्वन् पद्मिन्या मुखं चुम्बतौत्यन्वयः । अत्रान्वयबोधे प्रासत्तेर्व्यतिक्रमः ॥ ११० ॥
प्रमुषितां दर्शयति खातय इति। हे कनि ! कुमारि ! कन्या कनौ कुमारी चेति हेमचन्द्रः। ते तव काल्यते क्षिप्यते इति कालः पादः तस्मिन् कल प्रेरणे इत्यस्य घनन्तस्य रूपं स्फातयः स्फाः वृद्धिः तस्य अतिः गतिः यत्र ते स्फीता इत्यर्थः बहव इति यावत् अत्सातत्यगतावित्यस्य किप्प्रत्ययान्तरस्य रूपम्। खातयः खम् आकाशं तस्यायं गुणः खः खशब्दादिदमर्थे ष्णः । अतिर्गतिः। खस्य अति: येषु ते नूपुरादयोऽलङ्काराः इत्यर्थः। स्फावलाव: स्फा स्पोतताम् अर्हन्तीति स्फार्हाः प्रभूताः वलाव: वलानात् चलनात् जाता: ध्वनय इत्यर्थः ततश्च स्फार्हा वलावः येषां तथोक्ताः भवन्तौति शेषः, चन्दति आबादयति इति चन्द्रे तस्मिन् नूपुराद्यलङ्गते सिन्नितवति तव पादे साक्षात् प्रत्यक्षीकत इत्यर्थः मम वायवः प्राणाः धारिणः सुस्थिरा भवन्ति। अत्र अप्रसिद्धैः बहुभिः पदैः प्रकृतार्थस्य संवरणात् प्रमोषणम् ॥ १११ ॥
समानरूपां दर्शयति । अत्रेति अत्र उद्याने मया पञ्च
Page #255
--------------------------------------------------------------------------
________________
तृतीयः परिच्छेदः। २४८ सुराः सुरालये स्वैरं भ्रमन्ति दशनार्चिषा । मज्जन्त दूव मत्तास्ते सौरे सरसि सम्प्रति॥११३॥ नासिक्यमध्या परितश्चतुर्व विभूषिता। अस्ति काचित् पुरी, यस्यामष्टवर्णाह्वया नृपाः११४ वल्लवा वल्लरी लता दृष्टा, यस्यां कुसुममञ्जरी पल्लवे पल्लवे प्रतिपल्लवमित्यर्थः। ताम्रा रक्ता। अत्र नायिका काचित् उद्यानत्वेन अध्यारोपिता तस्या बाहुः बल्लरीत्वेन, अङ्गुलयः पल्लवत्वेन, नखाच कुसुममञ्जरीत्वेन। तेषाञ्च तानत्वं रक्तागुलिप्रभयेति बोध्यम्। अत्र पदानां गौणार्थारोपितत्वम् ॥११२॥
परुषां दर्शयति सुरा इति। सुराः शोभना राः शब्दो गौतध्वनिरिति यावत् येषां ते रै शब्दे इत्यस्य क्विबन्तस्य रूपम्। शोभनं गायन्तः इत्यर्थः सुरापा इति कर्तृपदमूह्यम् । तथा दशनार्चिषा हास्येन विवृतास्यतया दन्तकिरणनीपलक्षिताः सन्तः सम्प्रति सौरे सुरामये सरसि मज्जन्तः अतएव मत्ता इव सुरालये शुण्डि कालये खैरं भ्रमन्ति। सुरा इति पदं देवतावाचकमेव अनुशासनबलात् सुखरगायके प्रयुक्तम् इति पारुष्यम् ॥ ११३॥ ___ संख्यातामुदाहरति नासिक्यमध्येति । नासिक्यः नासिकायां भवः अकार इत्यर्थः स मध्ये यस्याः सा मध्यस्थजकारा इत्यर्थः तथा परितः उभयतः चतुर्मिः वर्ग: विभूषिता विरचिता आदी हो वौँ अन्ते च हौ मध्ये प्रकार एवंरूपा इति यावत् काचित् पुरौ नगरी काञ्चौत्यर्थः अस्ति, यस्यां नृपाः राजानः अष्टवर्णावयाः अष्टाभिर्वर्ग: निबद्धः आह्वयः पाख्या येषां तादृशाः पुण्डका इति ख्याता इति प्रसिद्धिः । पुण्डक
Page #256
--------------------------------------------------------------------------
________________
काव्यादर्श गिरा स्खलन्त्या नत्रेण शिरसा दीनया दृशा। तिष्ठन्तमपि सोत्कम्पं वृद्धे। मां नानुकम्पसे ॥११५॥ भादौ राजत्यधौराक्षि । पार्थिवः कोऽपि गीयते। सनातनश्च, नैवासौ राजा नापि सनातनः॥११६॥ शब्दश्च प उ ण ड र अ क अ इत्यष्टभिर्वर्णेनिबद्ध इति चतुरष्टभिर्वर्णैः संख्यावाचसैर्वा मोहनम् ॥ ११४ ॥
प्रकल्पितां दर्शयति गिरेति। हे वृद्धे ! स्थविर ! सखलत्या गिरा वाचा, नमेण शिरसा, दौनया कातरया दृशा चक्षुषा चोपलक्षितापि त्वं विशेषणे हतीया। सोल्कम्यं सभयं तिष्ठन्तमपि मां नानुकम्पसे न दयसे। सहजोऽर्थः, गूढार्थस्तु है वृहे ! हे लक्ष्मि ! ऋद्धिः सिद्धिलक्ष्मयौ वृद्धेरप्यावया इमे इत्यमरः। अन्यं समानम्। पत्र प्रथम प्रतीयमानादर्थात् अपरार्थकल्पना ॥ ११५॥
नामान्तरितां दर्शयति पादाविति। हे अधौराक्षि ! चञ्चलनेत्रे ! कोऽपि पार्थिव: पार्थिवशब्दप्रतिपाद्यः पादौ तथा स सनातनच गोयते, किन्तु असौ नैव राजा भूपतिः नापि सनातन: नित्य इत्यर्थः । इति प्रश्नार्थः सहजः उत्तरायस्तु राजातनहक्षरूपः गूढ़ः। तथाहि, राजातनशब्दस्यादिः राजा अथच स: पार्थिवः पृथिवीविकारजः, स च नातनः पतनः तनशब्दरहितो न भवतीति नातन: मिलित्वा राजातनो भवति। राजातनशब्द न पियालवृक्ष उच्यते। यथा, राजातनं पियालः स्यादित्यमरः। पत्र राजातनेति नाधि वलये नानार्थनामकल्पनम् । लक्षणे नामपदं वस्तुमावपरबेन विवक्षितं तेन तरुण्यालिङ्गितः कण्ठे नितम्बस्खलमा
Page #257
--------------------------------------------------------------------------
________________
तौय: परिच्छेदः। तद्रव्यं नरं त्यक्ता धनवन्तं व्रजन्ति काः । नानाभनिसमाकृष्टलोका वेश्या न दुईराः ॥११॥ जितप्रकृष्टकेशाख्यो यस्तवाभूमिसाह्वयः । स मामद्य प्रभूतोत्कं करोति कलभाषिणि ! ११८
श्रितः। गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः इत्यत्र सजलकुम्भरूपवस्तुनि प्रतिपाद्ये नानार्थकल्पनाबामान्तरिता इति बोध्यम् ॥ ११६ ॥
निभृतामुदाहरति हृतव्यमिति। नानाभङ्गिभिः बहुविधविलासचेष्टितैः समावष्टाः लोका: याभिः तथोक्ताः तथा दुईराः दुःखेन ध्रियमाणाः कथञ्चिदपि अवश्याः का: हृतानि द्रव्याणि यस्य तादृशं नरं त्या धनवन्तं व्रजन्ति ? वेश्या न वेश्या मम प्रश्नविषया नेत्यर्थः सहजः । संवरणीयार्थस्तु नाना विविधा भङ्गास्तरङ्गाः सन्त्यस्मिबिति नानाभनि जलं तेन समावष्टा लोका अवतरणोत्सुका जना याभिस्ताः दुईराः धरात् पर्वतात् दुःखेन गताः कष्टेन निर्गता इत्यर्थः कृतानि स्रोतोवेगेन ध्वंसितानि द्रव्याणि पार्वतीयानि यस्य तं नरं नरसदृशम् पाश्रयभूतं पर्वतमित्यर्थादायातं त्यक्ता धनवन्तं रखाकरं व्रजन्ति । अत्र विशेषणसाधारण्यात् एकतरनिषेधे अन्यतरप्रतीतियुनोति नद्य इति प्रश्नविषयोऽर्थः । अस्य तुल्यविशेषणप्रतीतौ वाचकशब्दानुपादानात् निभृतात्वमित्यपि बोध्यम् ॥ ११७ ॥
समानशब्दां दर्शयति जितेति। हे कलभाषिणि ! मधुरभाषिणि ! प्रलष्टस केशस्य आख्या नाम प्रबालः, जिता
Page #258
--------------------------------------------------------------------------
________________
२५२
काव्यादर्भ
शयनीये परावृत्त्य शयिती कामिनी क्रुधा। तथैव शयितौ रागात् खैरं मुखमचुम्बताम् ॥११६ विजितात्मभवहेषिगुरुपादहतो जनः । ' हिमापहामिवधरैर्व्याप्नं व्योमाभिनन्दति ॥ १२० ॥ प्रकष्टकेशाख्या येन सः यः तव भूमिधरा नास्ति भूमियंत्र सः अधरः तत्साह्वयः तस्य समाननामा श्रोष्ठ इत्यर्थः, सः अद्य मां प्रभूतोत्कम् अत्युत्सुकं करोति प्रबालसदृशस्तवाधरो मां व्यर्थयतीत्यर्थः । अत्र प्रकष्टकेशाख्या अभूमिशब्दश्च लक्षितलक्षणया प्रबालाधरौ बोधयत इति प्रकृतस्य समानशब्देनोपस्थितेः समानशब्देयम् ॥ ११८॥
संमूढां दर्शयति शयनीये इति। कामिनी क्रुधा कोपेन परावृत्त्य शयमीये शय्यायां शयिती रागात् तथैव शयितौ सन्ती खैरं खच्छन्दं मुखम् अचुम्बताम् । अत्र क्रुधा परावृत्त्य शयितयोः खैरं मुखचुम्बनस्य दुर्घटत्वादापाततो मोहः पर्यवसाने तथैव शयिताविति पुनः परावृत्त्य पार्खान्तरेण शयितयोः सम्मुखौनत्वात् मुखचुम्बनं सुघटमेवेति संमूढ़ेयम् ॥ ११८ ॥ __परिहारिकां दर्शयति विजितेति। विना पक्षिणा गरुडेनेत्यर्थः, जितः इन्द्र इत्यर्थः तस्य आत्मभवः पुत्रः अर्जुन इत्यर्थः, तस्य देषी शत्रुः कर्ण इत्यर्थः, तस्य गुरुः पिता सूर्य इत्यर्थः, तस्य पादैः किरणैः हतः सन्तप्तः जनः हिमम् अपहन्तीति हिमापहः अग्निः तस्य अमित्राः शत्रवः जलानि इत्यर्थः, तेषां धरा: अम्भोधराः तैः व्याप्त व्योम आकाशम् अभिनन्दति। अत्र यौगिकशब्दैः प्रकृतार्थस्य हरणात् परिहारिका ॥ १२॥
Page #259
--------------------------------------------------------------------------
________________
द्वतीयः परिच्छेदः। २५३ न स्मशत्यायुधं जातु न स्त्रीणां स्तनमण्डलम्। अमनुष्यस्य कस्यापि हस्तोऽयं न किलाफलः ॥१२१ केन कः सह सम्भूय सर्वकार्येषु सन्निधिम् । लब्ध्वा भोजनकाले तु यदि दृष्टो निरस्यते॥१२२ सहया सगजा सेना सभटेयं न चेज्जिता ।
एकच्छन्नां दर्शयति नेति। कस्यापि अमनुष्यस्य कापुरुषस्य इत्यर्थः हस्तः जातु कदाचित् आयुधं न स्पृशति स्त्रीणां स्तनमण्डलञ्च न स्पृशति, तथापि अयं हस्तः न अफल: किल, अपि तु सफल एवेति आपाततः प्रतीयते परन्तु आयुधस्त्रीस्तनस्पर्शाभावेन नायं वीरः न वा विलासीत्यतः कथमस्य हस्तस्य फलवत्त्वमिति पर्यवसानात् अमनुष्यशब्देन गन्धर्वो लक्ष्यते, तस्य हस्त: गन्धर्वहस्तः एरण्डवृक्ष इत्यर्थः। उक्तञ्च हारावल्याम्, प्रमण्डपञ्चाङ्गुलवईमानो गन्धर्वहस्तस्त्रिपुटीफलञ्च इति तस्य फलवत्ता विद्यत एवेति आश्रितस्य फलस्य स्फुटत्वं न तु आश्रयस्य वृक्षस्येति एकच्छवेयम् ॥ १२१ ॥ । - उभयच्छन्त्रां दर्शयति केनेति। कः पदार्थ : केन पदार्थ न सह सम्भूय मिलित्वा सर्वकार्येषु सन्निधिं सम्पर्क लब्ब्धा । भोजनकाले तु, तुशब्दोऽवधारणे। भोजनकाल एव यदि दृष्टो भवति तदा निरस्यते निराक्रियते ? उत्तरमिदम्। यथा, कस्य अयं कः केशः कशब्दार्थ ष्णप्रत्ययः । केन मस्तकेन सह सम्भूय तथा सर्वकार्येषु सन्निधिं समादरं लब्ध्वा भोजनकाले एव दृष्टो निरस्यते इति अत्र आश्रयायिणोर्मस्तककेशयोरेव छबतति उभयच्छन्ना ॥ १२२ ॥
सौणां दर्शयति सहया इति। सहया साखा सगजा
Page #260
--------------------------------------------------------------------------
________________
काव्यादर्श
मात्रिकोऽयं मूढः स्यादचरज्ञश्च नः सुतः ॥ १२३॥ सा नामान्तरितामिश्रा वञ्चितारुपयोगिनी । एवमेवेतरासामप्युन्नेयः सङ्करक्रमः ॥ १२४ ॥ प्रहेलिकाचक्रम् ।
२५४
इति शब्दालङ्काराः ।
सभटा भटैः योद्धृभिः सह वर्त्तमाना इयं सेना शात्रवी चमूरित्यर्थः न जिता चेत् पराभूता न यदि, तदा श्रयं मे सुतः अमात्रिकः विषयज्ञानवर्जितः अतः अक्षरन्नश्च अक्षरं ब्रह्म तज्ज्ञोऽपौत्यर्थः, मूढ़: मूर्खः स्यात् । इति सहजोऽर्थः, गूढ़ार्थस्तु हकारयकारगकार जकारभकारटकारसहिता तथा सेना इनः स्वामौ अधिष्ठाता इत्यर्थ: तेन सहिता साधिष्ठाटका इयं वर्णमाला इत्यर्थः न जिता अभ्यस्ता चेत्, तदा अमात्रिक: मात्रा खरादिवर्णानामुच्चारणकालः तां वेत्तौति मात्रिकः न न मात्रिक: अमात्रिकः वर्णज्ञानरहित इत्यर्थ: अत: अक्षरं वेदं जानातीति अक्षरश: अम्यस्तवेदः अपि मूढ़: मूर्ख इत्यर्थः । यद्दा जिता लेखितुं शिक्षिता इत्यर्थ: अक्षरश: वर्णज्ञः तथापि मूर्ख एवेति सङ्कीर्णेति ॥ १२३ ॥
अत्र सङ्कीर्णतां घटयति सेति । सा पूर्वोक्ता सङ्कीर्णाख्या प्रहेलिका अत्र नामान्तरितामिश्रा हयादिशब्दानां नानार्थकल्पनादिति भावः, तथा सेनाशब्दस्य चमूरूपार्थस्य प्रसिद्धस्य वचनात् वञ्चितायाः प्रहेलिकाया रुपयोगिनी तम्मिलिता इत्यर्थ: उल्लिखिते पद्ये प्रहेलिकायाः सङ्कीर्णतेति दूतरासाम् न्यासामपि प्रहेलिकानां सङ्घरक्रमः एवमेव उन्नेयः अन्वेषtय इत्यर्थः
ः ॥ १२४ ॥
•
Page #261
--------------------------------------------------------------------------
________________
तीयः परिच्छेदः।
२५५ पपाथ व्यर्थमेकार्थं ससंशयमपक्रमम् । शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसन्धिकम् ॥१२५॥ देशकालकलालोकन्यायागमविरोधि च । इति दोषा दशैवैते वाः काव्येषु सूरिभिः १२६ प्रतिज्ञाहेतुदृष्टान्तहानिर्दोषो न वेत्यसौ । विचारः कर्कशः प्रायस्तेनालौढ़ेन किं फलम् १२७
___ इत्यं काव्यशोभाकरान् धर्मान् गुणालङ्कारान् निरूप्य काव्यस्य हेयत्वप्रतिपादकानां धर्माणं बहना दोषाणां सविस्तरवर्णने अन्यबाहुल्यभिया प्राधान्येन नितान्तत्याज्वान् दश दोषानुद्दिशति अपार्थमित्यादि। अपार्थं निरर्थकं व्यर्थं विरुद्वार्थम् एकार्थम् अभिवार्थ ससंशयं सन्दिग्धम् अपक्रमं यथाक्रमरहितं, शब्दहोमम् जहादिना पूर्य, यतिभ्रष्ट विच्छेदरहितं, भिववृत्तम् असमवृत्तं विसन्धिकम् प्रकृतसन्धि देशादिविरोधि च काव्यं दुष्टमित्यर्थः तस्मात् सूरिभिः विवद्भिः इति उतरूपा एते अपार्थतादयः दश एव दोषाः काव्येषु वाः त्याज्या: शाब्दबोधप्रतिकूलतया प्रयोक्तुरनताप्रकटनात् । उकञ्च, दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्नुः सैव शंसतीति। एवकारण किञ्चिद्दरस्यप्रतिपादकानां श्रुतिकटुप्रभृतीनां व्यवच्छेदः तेषां अन्वयबोधाप्रतिकूल्येन मात्यन्तं हेयत्वप्रतिपादकत्वात् इति निष्कर्षः ॥ १२५ ॥ १२६ ॥ .
ननु दशैवेति अवधारणमनुचितं प्रतिज्ञाहान्वादेरपि दोषत्वकीर्तनात् । उक्तञ्च, भगवता गोतमेन, प्रतिज्ञाहानि: प्रतिज्ञानन्तरं प्रतिनाविरोध इति । यथोदाहतं, यावज्जीवमहं
Page #262
--------------------------------------------------------------------------
________________
२५६
काव्यादर्श समुदायार्थशून्यं यत्तदपार्थमितीष्यते । उन्मत्तमत्तबालानामुक्तरन्यव दुष्यति ॥ १२८ ॥ मौनी ब्रह्मचारी पिता मम। माता च मम बभ्यासौदपुत्रम पितामह इति। आमहादयस्तु तथा मेच्छन्ति। यथा प्रतिज्ञाहेतुदृष्टान्तहीनं दुष्टञ्च नेष्यत इति । तदेतं संशयमाशझ्याह प्रतिज्ञेति । प्रतिज्ञा साध्यनिर्देशः, हेतुस्तत्साधनं दृष्टान्तः प्रसिद्धोदाहरणविन्यासः, तेषां हानिः विरोधः प्रभावश्च दोषः काव्यस्य हेयत्वप्रतिपादको न वा इति संशये असौ प्रश्नविषयो विचारः निश्चयः एकपक्षावधारणं प्रायः कर्कश: नैयायिकत्वात् कठिनः वा नौरस इत्यर्थः, तस्मात् तेन विचारेण आलौढ़ेन पाखादितेन ज्ञातेन इत्यर्थः किं फलं न किमपि फलमस्ति इत्यर्थः। तथाहि काव्यस्य वैरस्यजनकधर्म एव दोषपदार्थः, स च खत एव प्रतीयते नात्र विचारप्रयासेन फलं केवलम् अत्यन्तपरिहा एव कतिपये दय॑न्ते प्रतिज्ञाहान्यादीनाञ्च नात्यन्तपरिहार्यता दृश्यते अप्रतिज्ञातानाम् अपि प्रसङ्गसङ्गत्या कविभिर्वर्णितत्वात्, हेतुभावश्च प्रसिद्धवर्णने न वैरस्यमाहरति, दृष्टान्तश्च अलङ्कारस्वरूप एव तदभावेन न काव्यत्वं व्याहन्यते अनलङ्काराणाम् अपि काव्यत्वस्य सर्वैरेवाङ्गोकतत्वात् इति ध्येयम् ॥ १२७॥ .. तत्र अपार्थं निरूपयति समुदायेति । समुदायस्य वाक्यघटकपदसमूहस्य यः अर्थः शाब्दबोधेन एकतामापन्नः प्रतिपाद्यः तेन शून्यं यत् काव्यं तत् अपार्थम् इति इष्यते, तच्च उन्मत्तानां वातुलानां मत्तानां सुरापानेन विकतानां तथा बालानां शिशूनाम् उक्तेः वचनात् अन्यत्र दुष्यति, उन्मत्तादिवचने तु न दोष इत्यर्थः ॥ १२८ ॥
Page #263
--------------------------------------------------------------------------
________________
हतीयः परिच्छेदः । समुद्रः पीयते देवैरहमस्मि जरातुरः । अमी गर्जन्ति जौमृता हरेरैरावणः प्रियः ॥१२॥ इदमखस्थचित्तानामभिधानमनिन्दितम् । इतरब कविः को वा प्रयुञ्जीतेवमादिकम् ॥१३०॥ एकवाक्ये प्रबन्धे वा पूर्वापरपराहतम् । विरुद्धार्थतया व्यर्थमिति दोषेषु पठ्यते ॥ १३१ ॥
अपार्थत्वं दर्शयति समुद्र इति। देवैः सुरैः मेधैर्वा समुद्रः पोयते, देवैरित्यत्र सोऽयमिति पाठश्च दृश्यते। अहं जरातुरः अस्मि, अमौ जीमूता मेघा गर्जन्ति, ऐरावण: ऐरावतनामा हस्तो हरैरिन्द्रस्य प्रियः । अत्र वाक्यचतुष्टयस्य परस्पराकाद्धाभावेन अङ्गाङ्गित्वाभावात् एकवाक्यता नास्तीत्यतः समुदायस्य एकरूपोऽर्थो नास्ति। उक्तञ्च, स्वार्थबोधसमाप्तानाम् अङ्गाङ्गित्वव्यपेक्षया। वाक्यानाम् एकवाक्यत्वं पुन: संहत्य जायत इति इदञ्च बहुवाक्यगतम् अपार्थत्व बहुपदगतमपि दृश्यते । यथा, वह्निना सिञ्चतीत्यादौ योग्यताभावेन नैकार्थता इति बोध्यम् ॥ १२८ ॥ __इदमिति। अस्वस्थचित्तानाम् उन्मत्तादीनाम् इदं पूर्वोक्तम् अभिधानं समुद्रः पोयत इत्यादि वचनम् अनिन्दितम् अदुष्टवेन परिगृहीतं भवतीति शेषः, इतरत्र अस्वस्थचित्तादिभ्य इति शेषः उन्मत्तादीन् विना इत्यर्थः को वा कविः एवमादिक प्रयुञ्जीत न कोऽपि कविः प्रयुञ्जौतेत्यर्थः ॥ १३० ॥ ___ व्यर्थं निरूपयति एकवाक्ये इति। एकवाक्ये एकस्मिन् वाक्ये वा प्रबन्धे महावाक्ये विरुद्धार्थतया विपरीतार्थत्वेन यत्
Page #264
--------------------------------------------------------------------------
________________
२५८
काव्यादर्श
जहि शत्रुबलं कृत्सुं जय विश्वम्भरामिमाम् । तक नैकोऽपि विदेष्टा सर्वभूतानुकम्पिनः ॥१३२॥ अस्ति काचिदवस्था सा साभिषङ्गस्य चेतसः । यस्यां भवेदभिमता विरुद्धार्थापि भारती ॥१३३॥ परदाराभिलाषो मे कथमार्यस्य युज्यते। पिबामि तरलं तस्याः कदा नु दशनच्छदम्॥१३४॥
पूर्वापरपराहतं पूर्वापरयोः पाद्यन्तभागयोः पराहतं सङ्गतिरहितं तत् काव्यं व्यर्थम् इति दोषेषु मध्ये पठाते गण्यते । अर्थविरोधश्च शाब्दबोधानन्तरं पालोचनया प्रतीयते, अपार्थे तु आकाङ्क्षादीनाम् अभावेन शाब्दबोध एव नास्तीत्यनयोआंदः ॥ १३१॥ __ व्यर्थतां दर्शयति नहीति। कत्नं समग्र शत्रुषलं जहि नाशय, इमां विश्वम्भरां जय, सर्वभूतानुकम्पिनः सर्वभूतेषु दयावतस्तव एकोऽपि विद्देष्टा शत्रुः न अस्तौति शेषः । अत्र शत्रुशून्यस्य समग्रशत्रुहननं सर्वभूतानुकम्पिनश्च पृथिवौविजयः पयालोचनया विरुद्धतया प्रतीयते ॥ १३२ ॥ . कदाचिद् व्यर्थताया गुणत्वमपोत्याह अस्तौति साभिषङ्गस्य वियोगादिदुर्घटनाभिभूतस्य, अभिषङ्गः पराभवे इत्यमरः। चेतसः काचित् अनिर्वचनीया अवस्था अस्ति भवति, यस्यां सा विरुद्धार्थापि भारती वाणी अभिमता समादृता भवेत् ॥ १३३ ॥ ... अस्या गुणत्वं दर्शयति परेति। मार्यस्य साधोः मे मम परदाराभिलाषः परस्त्रीषु अभिरतिः कथं युज्यते, तस्याः पर
Page #265
--------------------------------------------------------------------------
________________
द्वतीयः परिच्छेदः।
२५८
अविशेषेण पूर्वोक्तं यदि भूयोऽपि कीर्त्यते। अर्थत: शब्दतो वापि तदेकार्थं मतं यथा ॥१३५॥ उत्कामुन्मनयन्त्येते बालां तदलकत्विषः । अम्भोधरास्तडित्वन्तो गम्भीराः स्तनयित्नवः ॥१३६॥ अनुकम्पाद्यतिशयो यदि कश्चिद् विवक्ष्यते । न दोषः पुनरुत्तोऽपि प्रत्युतेयमलविया ॥१३७॥
नाया: तरलं लग्नाभयजनितसम्भ्रमात् सकम्यं दशनच्छदं कदा नु पिवामि। अत्र पूर्वार्द्ध शान्तभावः उत्तरार्द्ध तु पुनः . परदारौत्सुक्य मिति विरोधोऽपि प्रयोक्तवियोगाभिभूततया गुणत्वे मङ्गच्छते इति बोध्यम् ॥ १३४ ॥ ___ एकार्थ दर्शयलि अविशेषेणेति। यदि पूर्वोक्तं वचः अर्थतः शब्दतः वापि अविशेषेण अभिवतया भूयोऽपि पुनः कीर्त्यते तत् एकार्थं मतम्, एवञ्च दोषोऽयं अर्थगतः एकार्थकशब्दगतश्चेति, तथाच अर्थस्य एकार्थत्वमिति बोध्यम् । यथेति उदाहरणप्रदर्शनार्थम् ॥ १३५ ॥
अर्थगतमेकार्थ दर्शयति उल्कामिति। तस्याः बालायाः अलकानामिव विषो येषां तादृशाः स्तनयित्नवः गर्जनशीलाः तडित्वन्तः सौदामिनीसहिताः गम्भौराः एते अम्भोधराः मेघाः उत्कां विरहेणोत्कण्ठितां बालाम् उन्मनयन्ति उन्मनसं कुर्वन्ति उद्दीषकत्वादिति भावः । अत्र उल्कोन्मनःशब्दो अम्भोधरादिशब्दाश्च स्वरूपाभेदेऽपि एकार्थशक्तत्वात् पुनरुक्तार्थाः। एवं शब्दगतम् अपि यथायथमूहनीयम् ॥ १३६ ॥
अस्य प्रतिप्रसवमाह अनुकम्पेति। यदि कश्चित् अनु
Page #266
--------------------------------------------------------------------------
________________
काव्याद” हन्यते सा वरारोहा स्मरेणाकाण्डवैरिणा। हन्यते चारसर्वाङ्गी हन्यते मञ्जुभाषिणी ॥१३८॥ निर्णयार्थ प्रयुक्तानि संशयं जनयन्ति चेत् । वचांसि दोष एवासी ससंशय इति स्मृतः ॥१३६॥ मनोरथप्रियालोकरसलोलेक्षणे । सखि ।। पारात् वृत्तिरसौ माता न क्षमा द्रष्टुमोदृशम् १४०
कम्पाद्यतिशयः अनुकम्पादौनाम् अतिशयः प्रकृतस्येति शेषः विवक्ष्यते वक्तुमिष्यते, तदा पुनरुक्तोऽपि न दोषः, प्रत्युत अलकिया अलङ्कारः काव्यशोभाधायकत्वात्। यदुक्तं गुण इत्यधिकृत्य दर्पणकारण, कथितञ्च पदं पुनः । विहितस्यानुवाद्यत्वे विषादे विस्मये क्रुधि । दैन्येऽथ लाटानुप्रासेऽनुकम्पायां प्रसादने। अर्थान्तरसंक्रमितवाचे हर्षेऽवधारणे इति । एवञ्च उन्मत्तायुक्तावपि पौनरुत्यं गुण एवेति जेयम् ॥ १३७ ॥
अनुकम्पायामुदाहरति हन्यते इति । सा वरारोहा - काण्डवैरिणा अकारणरिपुणा स्मरेण कामेन हन्यते, सा चारुसर्वाङ्गी हन्यते, सा मञ्जुभाषिणी हन्यते। अत्र हन्यते इति क्रियावाचकं पदं पुनः पुनरुतमपि प्रस्तुताया नायिकाया अनुकम्पनीयत्वादिप्रकटनात् वैचितामेव जनयतीति नात्र दोषावहम्। एवमन्यत्रापि उदाहरणानि मृग्याणि ॥ १३८ ॥
ससंशयं निरूपयति निर्णयार्थमिति। निर्णयार्थ निश्चयार्थं प्रयुक्तानि वचांसि चेत् यदि संशयं जनयन्ति सन्देहयन्ति, प्रसौ एव दोषः ससंशयः, ससंशयदोषेण लिप्त इत्यर्थः ॥ १३८ ॥
ससंशयमुदाहरति मनोरथेति। है मनोरथप्रियालोक
Page #267
--------------------------------------------------------------------------
________________
तृतीयः परिच्छेदः ।
ईदृशं संशयायैव यदि वातु प्रयुज्यते । स्यादलङ्कार एवासौ न दोषस्तव तद् यथा ॥ १४१ ॥ पश्याम्यनङ्गजातङ्कलङ्कितां तामनिन्दिताम् । कालेनैव कठोरेण ग्रस्तां किं नस्त्वदाशया ॥ १४२ ॥
२६१
रसलोलेक्षणे ! मनोरथप्रियः वाञ्छित प्रेमिकः तस्य आलोकः दर्शनं तस्मिन् यः रसः आवेशः तेन लोले चञ्चले ईक्षणे यस्याः तत्सम्बुडौ, जारदर्शनव्यापृतनयने ! सखि ! असौ तव माता चारादु वृत्तिः दूरवर्त्तिनीत्यर्थः अतः ईदृशं तव व्यवहारं द्रष्टुं न क्षमा, अथवा आरावृत्तिः समीपवर्त्तिनौ अतस्तव ईदृशं दुर्व्यवहारमित्यर्थः द्रष्टुं न क्षमा, आराद दूरसमोपयोरित्यमरः । अत्र प्रथमार्थे त्वं यथेच्छ विहरेति द्वितीयार्थे इदामोम् ईदृशं कर्म मा कुरु इत्येतयोरर्थयोः संशयः । जारं प्रत्यनुरागिणीं नायिकां प्रति तन्मातुस्तदाचरणपरिज्ञानशङ्कया सख्या उक्तिः ॥ १४० ॥
अस्य कदाचित् गुणमाह ईदृशमिति । यदि वातु यद्यपि ईदृशं ससंशयं वाक्यं संशयाय संशयप्रतिपादनाय एव प्रयुज्यते व्यवक्रियते, तदा असौ संशयः अलङ्कार एव स्यात्, तत्र न दोष:, तथाच यत्र संशय एव विवक्षितः तत्र असौ गुण एव अविवचितस्तु दोष एवेति भावः । तत् तस्य उदाहरणं यथेति वक्ष्यमाणसूचनार्थम् । वातु इत्यत्र जातु इत्यपि पाठी दृश्यते ॥ १४१ ॥
पश्यामीति । अनिन्दितां तां तव कान्तामित्यर्थः अनङ्गजेन आतङ्केन कामपीड़या इत्यर्थः लङ्घिताम् आक्रान्ताम् अत एव कठोरेण निर्दयेन कालेन मृत्युना ग्रस्तां पश्यामि त्वदा
Page #268
--------------------------------------------------------------------------
________________
२५२
काव्याद”
कामार्ता धर्मततावत्यनिश्चयकर वचः । युवानमाकुलोक मिति दूत्याह नर्मणा ॥१४॥ उद्देशानुगुणोऽर्थानामनूई शो न चेत् कृतः । अपक्रमाभिधानं तं दोषमाचक्षते बुधाः ॥१४४॥ स्थितिनिर्माणसंहारहेतवो जगताममौ । शया तव प्रत्याशया नः अस्माकं किं फलम् ! इति प्रयमर्थः, अथवा अङ्गजेन पातञ्जेन शारीरिकपौड़या न लहितेति अनङ्गजातङ्कलङ्किता तां कठोरेण कालेन ग्रोभेणेत्यर्थः प्रस्तां पश्यामि, त्वदाशया नः किम् ? अपितु त्वदाशया एवेत्यर्थः । तस्याः शारीरिकी पौड़ा नास्ति, केवलं तदप्राप्तिजनित. चिन्तादिभिरान्तरिकोष्णास्य उद्रेकात् पौद्यते इत्ययमर्थः । संशयितच असौ दूत्याभिहितत्वात् गुण एव । प्रोषितं नायक प्रति दूत्या उतिरियम् ॥ १४२ ॥ ।
अत्र च अस्य गुणत्वमुपपादयति कामार्त्तति। दूती युवानम् आकुलौकत्तुं नायिकासमीपगमनाय उत्सुकं कत्तुं नर्मणा भया कामात धर्मतता वा इति अनिषयकरं सन्देहसङ्गुलम् इति वचः आह ॥ १४३ ॥
अपक्रम निरूपयति उद्दे शेति। अर्थानाम् उद्देशानुगुणः उद्देशः प्रतिज्ञा तस्य अनुगुणः अनुकूलः अनु पश्चात् उद्देशः उपन्यासः चेत् यदि न कृतः, तदा तम् प्रपक्रमः अभिधानं यस्य तथोक्तं क्रमलङ्घनात् अपक्रमाख्यं दोषं बुधाः पाचक्षते इत्यन्वयः । तथाच, यथाक्रममुपन्यास एव गुणः, तलवनन्तु दोष एवेति भावः ॥ १४४ ॥
अपक्रमं दर्शयति स्थितीति। जगतां स्थितिः पालनं
Page #269
--------------------------------------------------------------------------
________________
वतीयः परिच्छेदः।
२६३
पभुनारायणाम्भोनयोनयः पालयन्तु वः ॥१४॥ यनः सम्बन्धविज्ञानहेतुकोऽपि कृतो यदि । क्रमलङ्घनमप्याहुः सूरयो नैव दूषणम् ॥ १४६ ॥ बन्धुत्यागस्तनुत्यागो देशत्याग इति विषु । माद्यन्तावायतलेशी मध्यमः क्षणिकज्वरः॥१४७॥ शब्दहीनमनालक्ष्यलक्ष्यलक्षणपद्धतिः । निर्माणं सृष्टिः संहारः ध्वंस: तेषां हेतवः कर्तारः अमौ शम्भु. मारायणाम्भोजयोनयः शिवविष्णुब्रह्माण: व: युस्मान् पालयन्तु। अत्र प्रथमोद्दिष्टानां स्थितिर्निमाणसंहाराणां यथाक्रममन्वये कर्तव्ये नारायणाम्भोजयोनिसम्भव इति वक्तुमु. चितं, परन्तु तहिपरौतमुक्तमिति अपक्रमता ॥ १४५ ॥
अस्थादोषत्वमपि कचिदित्याह यत्न इति । यदि सम्बन्धस्य अन्वयस्य विज्ञानं विशेषेणावबोध एव हेतुर्यस्य तादृशः यत्रः विशिष्ट सम्बन्धबोधायैव तादृशक्रमलङ्घनप्रयास इत्यर्थः कृतः कविनेति शेषः, तदा सूरयः विहांस: क्रमलानमपि दूषणं दोषावहं नैव पाहुः ॥ १४६ ॥
अदोषत्वं दर्शयति बन्धुत्याग इति। बन्धुत्यागः तनुत्यागः देशत्यागः इति विषु विषयेषु मध्ये पावन्तौ बन्धुत्यागदेशखागो पायताः दीर्घाः के शाः ययोः तो, मध्यमस्तनुत्यागस्तु क्षणिकज्वरः क्षणमात्र शकर इत्यर्थः। अन्न यथाक्रममुद्दिटेऽपि बन्धुत्यागादिषु आयतन शावित्यनेन आद्यन्तयोरेव अम्बययोगात् मध्यमलङ्घनं न दोषाय इत्यवधेयम् ॥ १४७ ॥
शब्दहीनं निरूपयति शब्दहीनमिति । अनावक्ष्या अटण्या लक्ष्यस्य उदाहरणस्य तथा लक्षणस्य नियामकस्य सूत्रादेः
Page #270
--------------------------------------------------------------------------
________________
२६४
काव्यादरों
पदाप्रयोगोऽशिष्टेष्टः शिष्टेष्टस्तु न दुष्यति ॥ १४८॥ अवते भवते बाहुर्महीमणवशक्करीम्। महाराजनजिज्ञासा, नास्तीत्यासां गिरां रसः १४६ दक्षिणानेरुपसरन् मारुतश्चूतपादपान् । कुरुते ललिताधूतप्रबालागुरशोभिनः ॥ १५० ॥ पद्धतिः नियमः यत्र तादृशः अगणितानुशासन इत्यर्थः, पदानां पदयोः पदस्य वा प्रयागः अशिष्टानाम् अज्ञानाम् इष्टः अनवबोधविजृम्भित इत्यर्थः, अतएव शब्दहीनं शब्देन अनुशासनशास्त्रेण होनं तदाख्यदोषवानित्यर्थः पदप्रयोगस्य कताभिहितत्वात् द्रव्यपरत्वमिति प्रयुक्त पदमिति वक्तव्यं तेन च शब्दहीनमित्यस्य अन्वयः कर्त्तव्य इत्यवधेयम्। शिष्टेष्टस्तु शिष्टैः साधुभिर्बहुभिरिष्टः व्यवहृतस्तु न दुष्थति न दोषमावहति ॥ १४८॥ ___ शब्दहौनमुदाहरति अवते इति। हे महाराजन् ! भवते भवतः बहुः अर्णवः शक्करी मेखला यस्याः तो ससागरामित्यर्थः, शक्करी कन्दसो भेदे नदीमेखलयोरपौति मेदिनी। महीम् अवते पालयति। अत्र अजिज्ञासा संशयाभावात् जिज्ञासा न विद्यते सत्यमेवैतदित्यर्थः, आसां गिरां वाचां रसः माधु-- नुगुण: आखादः नास्ति। अत्र अवते इत्यात्मनेपदं, भवते इति षष्ठीस्थाने चतुर्थी, महाराजेत्यत्र महाराजनिति कर्मधारयः अनुशासनविरुद्धः अशिष्टैरुपन्यस्तः ॥ १४८ ॥ ___ अदूषितं शब्दहीमं दर्शयति दक्षिणाद्रेरित्यादि। दक्षिहादेः मलयपर्वतस्य उपसरन् मलयाचलं गच्छन् मारुतः चूतपादपान् तत्रत्यान् अाम्रतरून् ललितं सुन्दरं यथा तथा
Page #271
--------------------------------------------------------------------------
________________
तृतीयः परिच्छ ेदः ।
इत्यादिशास्वमाहात्म्यदर्शनालसचेतसाम् । अपभाषणवद् भाति न च सौभाग्यमुज्झति ॥ १५१ श्लोकेषु नियतस्थानं पदच्छेदं यतिं विदुः । तदपेतं यतिभ्रष्टं श्रवणोद्देजनं यथा ॥ १५२ ॥
२६५
आधूताः ये प्रबालाः नवपल्लवाः अङ्कुराच तैः शोभिनः कुरुते इत्यन्वयः । इत्यादि वाक्य शास्त्रस्य अनुशासनस्य यत् माहात्मंत्र तस्य दर्शने अलसं चेतो येषां तथाभूतानां विदुषाम् इत्यर्थः अपभाषणवत् अपशब्दवत् भाति न तु अपशब्दरूपेण इत्यर्थः । अयं भावः, कर्मणि द्वितीयेति अनुशासनबलेन दक्षिणाद्रेरित्यत्र द्वितीया भवितुमर्हत्येव परं तां विहाय सम्बन्धविवचया षष्ठीविधानेऽपि न दोषः । उक्तञ्च अविवचिते कर्मादौ सम्बन्धविवचया षष्ठीति । द्वितीयाया प्रभावेऽपि श्रोतॄणां न वैरस्योदय इत्याह न चेति । सौभाग्यच्च लालित्यच्च न च उज्झति न त्यजति, तथाच ईदृशस्थले श्रोविरागे दोष एवेति भावः । मलयपर्वतीयकम्पिततत्त्रत्यचूततरोर्वायोर्वर्णनमिदम् । दचिणाद्र रुपसर्पनित्यस्य दक्षिणाद्रेः मलयाचलात् उपसर्पन् आगच्छनित्यर्थकत्वेन कश्चित् पर्यनुयोग इति बोध्यम् ॥ १५० ॥ १५१ ॥
यतिं तदुद्भ्भ्रष्टच्च निरूपयति श्लोकेष्विति । श्लोकेषु पद्येषु न तु गद्येषु नियतं छन्दःशास्त्रज्ञैः निरूपितं स्थानं यस्य तादृशं पदस्य छेदं विरतिं यतिं विदुः जानन्ति बुधा इति शेषः, पदान्ते जिह्वेष्टविश्रामस्थानं यतिरिति निष्कर्षः । उक्तञ्च यतिर्जिष्टविश्रामस्थानं कविभिरुच्यते । तदपेतं तस्याः विच्युतं यतिभ्रष्ट श्रवणयोः श्रोत्त्रयोः उद्देजनम् असुखजनकम् इत्यर्थः ॥ १५२ ॥
२३
1
Page #272
--------------------------------------------------------------------------
________________
काव्यादर्भ
स्त्रीणां सङ्गीतविधिमयमादित्यवंश्यो नरेन्द्रः प्रश्यत्यक्लिष्टरसमिह शिष्टैरमेत्यादि दुष्टम् । कार्याकार्याण्ययमविकलान्यागमेनैव पश्यन् वण्यामुौं वहति नृप दूत्यस्ति चैवं प्रयोगः ॥१५३ लुप्ते पदान्ते शिष्टस्य पदवं निश्चितं यथा। तथा सन्धिविकारान्तं पदमेवेति वर्ण्यते ॥ १५४॥
___ स्त्रोणामिति। अयम् आदित्यवंशयः सूर्यवशीयः नरेन्द्रः शिष्टैः सननैः अमा सह अक्लिष्टाः पूर्णा रसाः आखादाः यस्य तादृशं स्त्रीणां सङ्गीतविधि पश्यति। इत्यादि एवमादिकं पद्यं दुष्ट यतिभ्रष्टवादनादरणीयमित्यर्थः। तथाहि, सप्तदशावरे मन्दाक्रान्तावृत्ते चतुर्थषष्ठसप्रमेषु यतिर्निवेशनौया। तथाचोक्तां, मन्दाक्रान्ताम्बुधिरसनसमोभनौ तौ गयुग्ममिति । प्रत्र तु चतुर्थादिवर्णानां प्रदान्तर्गतत्वात् यतिभ्रष्टता। अस्य च क्वचिददोषत्वमाह कार्येति । अयं नृपः प्रागमेनैव नीतिशास्त्रेणैव न तु खेच्छाचारितयेति भावः, कायाकार्याणि कर्तव्याकर्तव्याणि अविकलानि अव्याहतानि पश्यन् वश्यां वशतामापबाम् उर्वी बहति इति एवं प्रयोगच अस्ति अदुष्टवेन वर्त्तते इत्यर्थः पदमध्ये स्वरसन्धिश्रयणे यतिभ्रंशस्य अदोप्रखकौर्तनात् । यदुक्त, पदान्ते सा शोभां व्रजति पदमध्ये त्यजति च । पुनस्तत्रैवासौ स्वरविहितसन्धिः श्रयति ताम्। यथा कृष्णः पुष्णात्यतुलमहिमा मां करुणयेति ॥ १५३॥ .. । उक्त विधं यतिभ्रंशस्य दोषत्वमदोषत्वञ्च प्रतिपादयति लुप्ते इति। लुप्ते खुशविभक्तिके पदान्ते शिष्टस्य अवशिष्टस्य
Page #273
--------------------------------------------------------------------------
________________
वतीयः परिच्छेदः ।
२५० .
तथापि कटुवर्णानां कषयी में प्रयुञ्जते । ध्वजिनी तस्य राज्ञः केतूदस्तजेलदेत्यदः ॥ १५५ ॥ वर्णानां न्यूनताधिक्ये गुरुलध्वयथास्थितिः । तत्र तनिन्नवृत्तं स्यादेष दोषः सुनिन्दितः ॥ १५६ ॥ इन्दुपादोंः शिशिराः स्मशन्तीत्यूनवर्णता । पदांशस्य यथा पदत्वं निवितं सिंघान्तितं, सन्धिः खरइयसम्मेलनं तत्कृती विकारः वर्णान्तरीत्पत्तिरूपः अन्ते यस्थ तादृशं पदमेव पदमध्यमेषीत्यर्थः, अत एवकारोऽभ्यर्थः । पदान्ते इति वर्ण्यते कविभिरुयंत । एतदुतामेव प्राक्, एतईपरीत्ये दोष एव, यथा स्त्रीणामित्यादि ॥ १५४ ॥
खरसन्धिश्रयणेऽपि दोषं क्वचिद् दर्शयति तथेति । तथापि खरसन्धिययणेऽपि कवयः कर्णानां कर्ट श्रीवासुखकर तस्य रानः ध्वजिनी सेना केतवः ध्वजाः तैः उदस्ता उत्क्षिप्ताः जलदा मेघा यया तादृशी इत्यदः एवमिदं पद्य न प्रयुञ्चत न व्यवहरन्ति, तथाच खरसन्धिययणेऽपि श्रुतिकटुर्यतिबंशो दोष एवेति भावः ॥ १५५ ॥ _ मित्रहत्तं निर्दिशति वर्णानामिति । यत्रेत्यूचं, यत्र पो वर्णानां वर्णख वर्णयोः वर्णानां वेत्यर्थः न्यूनता प्राधिक्यं वा तथा गुरूणां लघूनाञ्च अयथास्थितिः अनियमेन विन्यासः, तत्र पद्ये तत् भिन्नवृत्तं भिन्न भग्नं वृत्तं छन्दः छन्दोभङ्ग इत्यर्थः स्थात, एष छन्दोभङ्गाख्यः दोषः सुनिन्दितः कवयितुश्छन्दोऽनभिन्नतया उपहासास्पदत्वज्ञापनादिति भावः ॥ १५६ ।।
न्यूनताधिक्ये उदाहरति इन्दुपादा इति। इन्दोश्चन्द्रस्य पादाः किरणाः शिशिरा शीतलाः स्पृशन्ति, इत्यत्र जनवर्णता
Page #274
--------------------------------------------------------------------------
________________
२६८
काव्यादर्थे
सहकारस्य किसलयान्यार्द्राणोत्यधिकाचरम् ॥ १५७
कामेन बाबा निशिता विमुक्ता मृगेक्षणा खित्ययथागुरुत्वम् । स्मरस्य बाणा निशिताः पतन्ति वामेक्षणावित्ययथालघुत्वम् ॥ १५८ ॥ न संहितां विवचामीत्यसन्धानं पदेषु यत् । प्रथमे पादे अष्टाक्षरे वक्तव्ये सप्ताक्षराणौति एको वर्ण: न्यून इत्यर्थः। सहकारस्य आम्रस्य किसलयानि श्रार्द्राणि, इति अत्रापि तृतीये पादे अष्टाक्षरे वक्तव्ये नवाक्षराणीति एको वर्णोऽधिक इत्यर्थः ॥ १५७ ॥
गुरुलघुयथास्थितिमुदाहरति कामेनेति । कामेन मृगेक्षयासु निशिता बाणा विमुक्ताः, इत्यत्र अयथागुरुत्वम् । तथाच, अत्र पूर्वार्धे उपेन्द्रवजावृत्तम् उपेन्द्रवच्चा जतजास्ततो गाविति लक्षणात् ततश्च जगणे प्रथमं निवेश्ये का इति गुरुवर्णो निवेशितः जगणश्च जो गुरुमध्यगत इत्युक्तत्वात् आद्यन्तौ लघ मध्यवर्णो गुरुरित्येवं वर्णत्रयात्मक इति बोध्यम् । तथा, स्मरस्य निशिता बाणा वामेक्षणासु पतन्ति, इत्यत्र अयथालघुत्त्वम् । तथाच, उत्तराई इन्द्रवज्जावृत्तं स्यादिन्द्रवज्जा ततजास्ततोमाविति लक्षणात् ततश्च तगणे प्रथमं निवेश्ये स्मेति लघुवर्णो निवेशितः, तगणश्च अन्त्यलघुस्त इत्युक्तत्वात् प्रथमद्दितौयौ गुरू अन्त्यच लघुरित्येवं वर्णत्रयात्मक इति बोध्यम् । अन आदाविन्द्रवज्जा पश्चादुपेन्द्रवज्जा इत्येवमुपजातिच्छन्दसि वक्तव्ये नायं दूषणावसर इति ध्येयम् ॥ १५८ ॥
विसन्धिकं निर्दिशति नेति । संहितां वर्णयोर्मिलनरूपां
Page #275
--------------------------------------------------------------------------
________________
द्वतीयः परिच्छेदः । तदिसम्धीति निर्दिष्टं न प्रयवादिहेतुकम् ॥१५॥ मन्दानिलेन चलता अङ्गनागण्डमण्डने । लुप्तमुझेदि धर्माम्भो नभस्यस्महपुष्यपि ॥ १६० ॥ मानेर्ये इह शीर्यते स्त्रीणां हिमती प्रिये । आसुराविष्विति प्रा रानातं व्यस्तमीदृशम्॥१६१ सन्धिं न विवक्षामि वतुमिच्छामि इति अभिप्रेत्य न प्ररयादिहेतुकं प्रगृह्यादिहेतुं विनेत्यर्थः पदेषु यत् प्रसन्धानं असंयोजनं सध्यभाव इत्यर्थः तत् विसन्धि विसन्ध्याख्यदोष इत्यर्थः प्रयचं नाम सन्धिसूत्रेण यत्र सन्धिनिषिदः । तद् यथा, प्रमो ईया इत्यादि ॥ १५ ॥
विसन्धिदोषमुदाहरति मन्दानिलेनेति। नभसि आकाशे चलता मन्दानिलेन अङ्गनायाः गण्डमण्डले कपोलदेशे प्रमपुषि प्रस्माकं गरौरेऽपि उद्धेदि धर्मान्भः खेदजलं लुप्तम् अपनीतम् । अत्र चलता इत्याकारस्य अङ्गनेत्यकारेण सह . दीर्घत्वविधायकसूत्रे सत्यपि सन्धिर्न कृत इति ॥ १६ ॥
प्रग्यादिहेतुकं दर्शयति मानेर्थे इति । इह हिमऋतौ हेमन्ते पासु रात्रिषु हेमन्तनिशासु इत्यर्थः प्रिये प्रणयिनि स्त्रीणां मानेर्थे मानः प्रणयकोपः दुर्था नायिकान्तरासङ्गजनित: कोपविशेषच शौर्येते शीर्णे भवतः नश्यत इत्यर्थः । इत्यत्र ईदृशं व्यस्तं सध्यभावः प्राज्ञैः सूत्रवद्भिः पण्डितैः पानातं कथितम् । तथाच, मानर्थे इहेति ब्वहेऽमौयु इति सूत्रेण दिवचननिष्यनस्य एकारस्य सन्धिनिषिद्धः, तथा हिमऋतौ इत्यत्र ऋक्यगिति सूत्रेण ऋकार पर अकारस्य विकस्पेन सन्धिनिषिद्ध इति बोध्यम् ॥ १६१ ॥
Page #276
--------------------------------------------------------------------------
________________
२००
काव्याद”
देशोऽद्रिवनराष्ट्रादिः कालोराविन्दिवर्तवः । नृत्यगीतप्रभृतयः कला कामार्थसंश्रयाः ॥ १६२ ॥ चराचराणां भूतानां प्रवृत्तिलॊकसंज्ञिता। हेतुविद्यात्मको न्यायः सस्मृतिः श्रुतिरागमः ॥१६३ तेषु तेष्वयथा रूढ़ यदि किञ्चित् प्रवर्तते।। कवेः प्रामादाई शादिविरोधीत्येतदुच्यते ॥ १६४ ॥ कर्पूरपादपामर्शसुरभिर्मलयानिलः । .
पथ देशादौन् निरूप्य तहिरोधं निर्दिशति देश इति । अद्रिः पर्वतः वनं राष्ट्र राज्यम् इत्येवमादिर्देशः, रानिर्दिवा ऋतवच काल: बहुवचनात् मासवत्सरादौनां ग्रहणम्। कामार्थसंश्रयाः कामच अर्थश्च तौ संश्रयौ येषां तथोक्ताः कामसाधकाः अर्थसाधकाच नृत्यमौतप्रभृतयः प्रभृतिशब्देन वादिनादि परिग्रहः चतुःषष्टिप्रकाराः तन्त्रोक्ताः कलाः ॥ १६२॥ ।
चराचराणां जङ्गमस्थावराणां भूतानां प्रवृत्तिः वार्ता लोकसंचिता लोक इति संज्ञा जाता अस्या इति अस्य जातार्थे इतप्रत्ययः। लोकशब्दप्रतिपाद्या, न्यायः हेतुविद्यात्मकः हेतुः कारणं तवटिता या विद्या युक्तिमूलकशास्त्रमित्यर्थः तदात्मकः तन्मय इत्यर्थः तथा सस्मृतिः स्मृतिः वेदार्थस्मरणजन्यम् ऋषिवाक्यं तत्सहिता मन्वादिसंहितासहिता इत्यर्धः श्रुतिर्वेदः प्रागमः आगमशब्दवाच्य इत्यर्थः ॥ १६३ ॥ _ तेषु तेषु उक्तेषु देशादिषु अयथारूढ़म् अप्रसिद्ध किञ्चित् यदि कवेः प्रमादात् अनवधानात् प्रवर्तते उपन्यस्यते तदा एतत् देशादिविरोधि तदाख्यदोषवदित्यर्थः इति उच्यते ॥१६४
Page #277
--------------------------------------------------------------------------
________________
तृतीयः परिच्छ ेदः ।
२७१
कलिङ्गवनसम्भूता मृगप्राया मतङ्गजाः ॥ १६५ ॥ चोलाः कालागुरुश्यामकावेरीतीरभूमयः । इति देशविरोधिन्या वाचः प्रस्थानमीदृशम् ॥ १६६॥ पद्मिनी नक्तमुनिद्रा स्फुटत्यहि कुमुद्दती । मधुरुत्फुल्लनिचुलो निदाघी मेघदुर्दिनः ॥ १६७ ॥
देशविरोधमुदाहरति कर्पूरेति । मलयानिलः कर्पूरपादपानाम् श्रमर्शेन सम्पर्केण सुरभिः सुगन्धिः, तथा कलिङ्गवनसम्भूता मतङ्गजा हस्तिनः मृगप्रायाः मृगवत् प्रतिक्षुद्रा इत्यर्थः अत्र मलयाद्रौ कर्पूरपादपानां नोत्पत्तिः, चौनादिदेशे एव तदुत्पत्तिरिति तथा कलिङ्गवने मतङ्गजानां सम्भवो न प्रसिद्ध इत्युभयत्र मलयपर्वतः तथा कलिङ्गवनरूपो देशविरोधः ॥ १६५ ॥
1
चोला इति । चोला: कर्णाटान्तर्गतदेशभेदा: कालागुरुभिः श्यामाः कावेरीनद्याः तौरभूमयः येषु तथेोक्ताः । अत्र कावेरीतीरे कालागुरुवो न जायन्ते इति राष्ट्ररूपो देशविरोधः । देशविरोधिन्याः वाचः इति ईदृशम् उक्तरूपं प्रस्थानं नियम इत्यर्थः ॥ १६६ ॥
कालविरोधं दर्शयति । पद्मिनी नक्तं रात्रौ उन्निद्रा विकसिता इति दिवस एव पद्मिन्या विकासस्य प्रसिद्धेः रात्त्राविति कालविरोधः । कुमुद्दतो अति स्फुटति इति रात्रावेव कुसुदिन्या विकासस्य प्रसिद्धेः अहि इति कालविरोधः । मधुः वसन्तः उत्फुल्लाः निचुला यत्र तथेोक्तः, अत्र निचुलानां प्रावृष्य व विकासस्य प्रसिद्धेः मधुरिति कालविरोधः निदाघः ग्रोमः मेघेन दुर्दिनं यत्र तथेोक्तः अत्र वर्षास्वेव दुर्दिनत्व
Page #278
--------------------------------------------------------------------------
________________
२७२
काव्यादरों
श्रव्यहंसगिरो वर्षाः शरदो मत्तवहिणः । हेमन्तो निर्मलादित्यः शिशिरः श्लाघ्यचन्दनः ॥१६८ इति कालविरोधस्य दर्शिता गतिरीहशी। मार्गः कलाविरोधस्य मनागुद्दिश्यते यथा ॥ १६६ ॥ वीरशृङ्गारयोर्भावौ स्थायिनौ क्रोधविस्मयौ। पूर्णसप्तखरः सोऽयं भिन्नमार्गः प्रवर्तते ॥ १७ ॥ प्रसिद्धः निदाघ इति कालविरोधः । निदाघेऽपि कदाचित दुर्दिनवं सम्भवति वर्णितच अकालदुर्दिनं मृच्छकटिकादौ इति शेषोक्तं चिन्त्यम् ॥ १६७ ॥ .. - वर्षाः अव्या हंसानां गिरः यासु ताः, अव शरत्खेव हंसानां मधुरनादस्य प्रसिद्दे: वर्षा इति कालविरोधः। शरदः मत्ता वहिण: यासु ता: पत्र वर्षाखेव मयूराणां मत्ततायाः प्रसिद्धः शरद इति कालविरोधः । हेमन्त: निर्मल: श्रादित्यो यत्र तथाभूतः, प्रत हेमन्ते आदित्यस्य हिमाहतत्वात् निर्मल त्वम् अप्रसिद्धम् इति कालविरोधः, तथा शिशिरः शौत : नाघ्यम् आदरणीयं चन्दनं यस्मिन् सः अत्र चन्दनस्य शैत्यात् शिशिरे तस्य श्लाघ्य त्वम् अप्रसिद्धम् इति च कालविरोधः ॥ १६७ ॥ १६८॥ . कालविरोधमुपसंहस्य कलाविरोधं दर्शयितुमाह इतीति । इति ईदृशी उत्तप्रकारा कालविरोधस्य गतिः नियमः दर्शिता, इदानीं कलाविरोधस्य मार्ग: नियमः मनाक अल्पं यथा तथा उद्दिश्यते प्रदर्श्यते यथेति उदाहरणार्थम् ॥ १६८ ॥
वौरेति। वीरशृङ्गारयोः रसयोः क्रोधविस्मयो स्थायिनी भावी विरुद्धाविति शेषः तथाहि वीरे उत्साहः, शृङ्गारे रतिः
Page #279
--------------------------------------------------------------------------
________________
टतीयः परिच्छेदः।
२०३
इत्यं कलाचतुःषष्टिविरोधः साधु नीयताम् । तस्याः कलापरिच्छेदे रूपमाविर्भविष्यति॥१७१ ॥ स्थायिभावत्वेन कथ्यते, क्रोध: रौद्ररसस्य विस्मयः अद्भुतरसस्य स्थायित्वेन निर्दिष्टौ तदेवं स्थिते तहिरोधो दोष एवेति भावः । स्थायिभावश्च दर्पणकारेणोक्तः, यथाः, अविरुडा विरुद्धा वा यं तिरोधातुमक्षमाः। आस्वादाङ्गुरकन्दोऽसौ भावः स्थायौति कौवं ते इति रसावस्थः परं भावः स्थायितां प्रतिपद्यते इति च । क्रोधविस्मयौ च तेनैवोक्तो यथा प्रतिकूलेषु तैपणास्य अवबोधः क्रोध इष्यते । तथा विविधेषु पदार्थेषु लोकसौमातिवर्त्तिषु। विस्फारश्चेतसो यस्तु स विस्मय उदाहत इति, रसविवेकस्य भरतादिभिः नाट्यशास्त्र एव कृतत्वात् नाट्यरूपकलाविरोधोऽयम् इति बोध्यम्। गौतरूपकलाविरोधमाह पूणेति पूर्णाः सम्यक् प्रयुक्ताः सप्तस्वराः निषादादयः यत्र तथोत्यः सङ्गीतविधिरिति शेषः निषादर्षभगान्धार षड्जमध्यमधैवताः। पञ्चमवेत्यमी सप्त तन्त्रीकण्ठोस्थिता इत्यमरः। भित्रमार्ग: भिवः तत्तकालनिषिद्धखरासम्बलित: मार्गः प्रयोगनियमः यस्थ तादृशः सन् प्रवर्त्तते प्रचलति अतस्तदैपरीत्यं दोष एवेति फलितार्थः उक्तश्च भरतेन प्रभात, सुरतो निन्द्यः ऋषभः पञ्चमोऽपि च। पञ्चमस्य विशेषोऽयं कथितः पूर्वसूरिभिः । प्रगे प्रगौतो जनयेद्दर्शनस्य विपर्ययम् इति ॥ १७० ॥
इस्थमिति। इत्थम् अनेन प्रकारेण कलानां चतुःषष्टिः तस्याः विरोधः साधु यथा तथा नीयतां यथा नाट्यगीतरूपयोः कलयोर्विरोध: प्रदर्शितः तथा तत्तदुदाहरणेषु अन्यासामपि कलानां विरोधः दृश्यतामित्यर्थः, कलापरिच्छेदे तदाख्यग्रन्ये तस्याः कलायाः रूपम् पाविर्भविष्यति प्रकटिष्यति, अनन्तरं
Page #280
--------------------------------------------------------------------------
________________
२७४
काव्याद” भाधूतकेशरी हस्तौ तीक्षागृङ्गस्तुरङ्गमः । गुरुसारोऽयमेरण्डी निःसारः खदिरदुमः ॥ १७ ॥ इति लौकिक एवायं विरोधः सर्वमर्हितः । विरोधो हेतुविद्यासु न्यायाख्यासु निदर्श्यते ॥१७३ सत्यमेवाह सुगतः संस्कारानविनश्वरान्। तथाहि सा चकोराची स्थितवाद्यापि मे हृदि१७४
कलापरिच्छेदं नाम ग्रन्थं करिष्यामि सत्रैव तासां विशेषी द्रष्टव्य इति भावः ॥ १७१।।
लोकविरुहतां दर्शयति प्राधूतेति । अयं हस्सी आधूताः केशरा जटाः यस्य तथोक्तः, तुरङ्गमः अखः तीक्ष्ण शृङ्गे यस्थ तादृशः, एरण्डः तदाख्यवक्षः गुरुः सारो यस्य तथाभूतः, खदिरद्रुमः नास्ति सारो यस्य तादृक् हस्तिन: संकेशरत्वं तुरङ्गमस्थ तीक्ष्णशृङ्गत्वम् एरण्डस्य सारवत्वं तथा खदिरतरोः निःसारत्वं लोकविरुधम् । अत्र पूर्वाई चरयोरुत्तराई अचरयोरित्यवगन्तव्यम् ॥ १७२ ॥
इतीति। इति उक्तरूपः लौकिक: लोकप्रसिद्ध एव अयं . विरोधः सर्वैः विहद्भिः गर्हितः निन्दितः, तथा च देशादिविरोधापेक्षया लोकविरुद्धोपन्यासः प्रयोक्तुनितरां हास्यायेति भावः । सम्प्रति न्यायाख्याषु न्यायनानौषु हेतुविद्यासु विरोधः निदर्श्यते उदाङ्गियते ॥ १७३ ॥ __ सौगतदर्शनरूपन्यायविरोधं दर्शयति। सत्यमिति सुगतः बुद्धः संस्कारान् ज्ञानविशेषान्. अविनश्वरान् चिरस्थायिनः सत्यमेव आह, तथाहि तमेवार्थं जानीहि सा पूर्वानुभूता
Page #281
--------------------------------------------------------------------------
________________
तृतीयः परिच्छेदः ।
कापिलेरसदभूतिः स्थान एवोपवर्ण्यते । असतामेव दृश्यन्ते यस्मादस्माभिरुङ्गवाः ॥ १७५ ॥ गतिर्व्यायविरोधस्य सैषा सर्वत्र दृश्यते । अथागमविरोधस्य प्रस्थानमुपदिश्यते ॥ १७६ ॥ अनाहिताग्नयोऽप्येते जातपुचा वितन्वते । विप्रा वैश्वानरौमिष्टिमक्लिष्टाचारभूषणाः ॥ १७७॥
२७५
2
चकोराची अद्यापि मे हृदि स्थितैव स्मरणविषयी भवतीत्यर्थः स्मृतिं प्रति संस्कारस्य हेतुत्वात् तस्य चाविनश्वरत्वात् चेति भावः । पदार्थमात्रस्य चणभङ्गुरत्वमिति वादिनान्तु वेषां सौगतानां मतविरुद्धमेतदिति हेतुविद्याविरोधः ॥१७४॥ सांख्यदर्शनरूपन्यायविरोधं दर्शयति कापिलैरिति । कापिलैः कपिलमतानुसारिभिः सांख्यविह्निः असदुद्भूति: असतामनित्यानां दुष्टानाञ्च, उद्भूतिः उद्भवः स्थान एव युक्तमेव उपवर्णते, यस्मात् अस्माभिः असतामेव दुष्टानामेव उद्भवा दृश्यन्ते प्रायेण दुर्जना एव जायन्ते न तु साधव इति भावः । श्रयं भाव: कापिलानुसारिणः सतः सदेव जायते नत्वसदिति मन्यन्त े तथाचोक्तम् असदकरणादुपादानग्रहणात् सर्वसम्भवा· भावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्य्यमिति तस्मादत्र असदुद्भूतिदर्शनं सांख्यविरुद्धमिति निष्कर्षः ॥ १७५ ॥
न्यायविरोधमुपसंहरति गतौति । सा एषा एवंप्रकारा न्यायविरोधस्य गतिः सर्वत्र वैशेषिकादिष्वपि दृश्यते अथ इदानीम् आगमविरोधस्य प्रस्थानं गतिः उपदिश्यते ॥ १७६ ॥
श्रुतिविरोधं दर्शयति। अनेति । एते अक्लिष्टाचारभूषणाः
Page #282
--------------------------------------------------------------------------
________________
२७६
काव्यादर्श
असावनुपनौतोऽपि वेदानधिजगे गुरोः । खभावशुद्धः स्फटिको न संस्कारमपेक्षते ॥ १७८॥ विरोधः सकलोऽप्येष कदाचित् कविकौशलात् । उत्क्रम्य दोषगणनां गुणवीथीं विगाहते॥ १७ ॥ तस्य राज्ञः प्रभावेण तदद्यानानि जतिरे। आद्रांशकप्रबालानामास्पदं सुरशाखिनाम्॥१८॥
अक्षुमसर्वाचारसमन्विताः जातपुत्राः विप्राः अनाहिताग्नयः पकताम्नयाधानाः अपि वैखानरोम् इष्टि यागं वितन्वते कुर्वन्ति । अत्र च श्रुतौ कताम्नयाधानादेरेव वैश्वानरेध्यधिकारप्रतिपादनात् अनाहिताम्नीनां तहर्षनं श्रुतिविरुद्धम्॥१७७॥ __स्मृतिविरोधं दर्शयति असाविति। असौ जनः पनुपनौतः अक्कतोपनयनसंस्कारः अपि गुरोः सकाशात् वेदान् अधिजगे अधौतवान् । तथाहि खभावेन प्रकत्या एव शुद्धः निर्मलः स्फटिकः संस्कारं शुदिन अपेक्षते। अत्र अनुपनौतस्य वेदाध्ययनं स्मृतिविरुद्धम् उक्तञ्च मनुना नाभिव्याहारयेद् ब्रह्म खधानियमनादृते शूद्रेण हि समस्तावट यावद् वेदे न जायते इति ॥ १७८ ॥
उक्तदोषस्य कदाचिद् गुणत्वमप्याह विरोध इति। एषः उक्तरूपः सकल: समग्रः अपि विरोधः कवेः कौशलात् वर्णनाचातुर्येण कदाचित् दोषगणनाम् उत्क्रम्य विहाय गुणवोथीं गुणश्रेणी विगाहते गुणत्वेन गणनौयो भवतीत्यर्थः ॥ १७॥
तत्र देशविरोधस्य गुणत्वं दर्शयति तस्येति। तस्य राज्ञः
Page #283
--------------------------------------------------------------------------
________________
तीयः परिच्छेदः ।
राज्ञां विनाशपिशुनश्चचार खरमारुतः । धुन्वन् कदम्बरजसा सह सप्तच्छदोगमान्॥१८१॥ दोलाभिप्रेरणवस्तबधूजनमुखोद्गतम् । कामिना लयवैषम्यं गेयं रागमवर्द्धयत् ॥ १८२ ॥ प्रभावेण महिना तदुद्यानानि तस्य राज्ञः उद्यानानि आर्द्राणि नवानि इत्यर्थः अंशकानि वस्त्राणि प्रबालानि येषां तेषां सुरशाखिनां देवतरूणाम् आस्पदं स्थानं जजिरे। अत्र मानवोद्यानेषु सुरशाखिसम्भवो देशविरुद्धतया वर्णितोऽपि वर्णनीयस्य राज्ञः प्रभावातिशयं द्योतयतीति चमत्कारव्यञ्जनात् गुणवत्वमापद्यते इति फलितार्थः ॥ १८० ॥
कालविरोधस्य कदाचिद्गुणत्वमुदाहरति राज्ञामिति । राज्ञां प्रतिपक्षभूपानां विनाशपिशुनः विनाशसूचकः पिशुनौ खलसूचकावित्यमरः। खरमारुतः प्रचण्डवायुः सप्तच्छदोइमाम् धुन्वन् कम्पयन् कदम्बरजसा सह चचार । अत्र युद्धयात्रा सप्तच्छदोगमश्च शरत्सु भवति, कदम्बपुष्पाणि तु तदा न जायन्ते वर्षाखेव तेषां प्रादुर्भावात् तदयं कालविरोध प्रकाले फलपुष्पाणि देशविद्रवकारणमिति वचनेन अशुभसूचनात् विजिगीषोः उत्कर्षातिशयव्यञ्जकतया गुण एव, कविकौशलञ्चान हेतुरित्यवधेयम् ॥ १८१ ॥ ___ कलाविरोधस्य क्वचिद् गुणत्वमुदाहरति दोलेति। दोलया अभिप्रेरणेन सवेगचालनेन त्रस्ता ये बधूजनाः तेषां मुखेभ्यः उद्गतम् उच्चरितं लयस्य विरामस्य वैषम्यं वैपरीत्यं यत्र तादृशमपि गेयं भयचकितत्वात् लयासङ्गतमपि गानमित्यर्थ: कामिनां रागम् अवईयत्। गानस्य लयशुद्धिरेव रागवईनीति
२४
Page #284
--------------------------------------------------------------------------
________________
काव्यादर्श ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम् । अबलाविरहल्लेशविह्वलो गणयत्ययम् ॥ १८३ ॥ प्रमेयोऽप्यप्रमेयोऽसि सफलोऽप्यसि निष्फलः । एकस्त्वमप्यनेकोऽसि नमस्ते विश्वमूर्तये ॥ १८४ ॥ पञ्चानां पाण्डुपुत्राणां पत्नी पाञ्चालपुत्रिका । कलानियमः अत्र च तदैपरीत्यमिति विरोधः बधूजनान् प्रति कामिनामत्यनुरागव्यञ्जकतया गुण एव, कविकौशलेन अत्र प्रयोजकमिति ज्ञेयम् ॥ १८२ ॥
लोकविरोधस्यापि गुणत्वमुदाहरति ऐन्दवेति । अयं कामी अबलाया विरहेण यः क्ल शः तेन विह्वल: व्याकुलः सन् ऐन्दवात् इन्दुसम्बन्धिनः अर्चिषः किरणात् अपेक्ष्येति यवर्थे पञ्चमी हव्यवाहनम् अग्निं शिशिरं गणयति मन्यते। अत्र हव्यवाहनस्य शिशिरत्वं लोकविरुवं तच विरहिणां चन्द्रकिरणस्यात्युद्दीपकत्वव्यञ्जनात् गुण एव ॥ १८३॥ . . न्यायविरोधस्य गुणत्वमुदाहरति प्रमेय इति। भगवत्स्तुतिरियम् । प्रमेयः प्रमाणजन्यज्ञानविषयोऽपि अप्रमेयः अज्ञेयः असि, सफलः फलं कायं विखरूपं तत्सहितः अपि निष्फल: फलरहितः कार्येषु निर्लेपः असि, त्वम् एकोऽहितीयोऽपि अनेकः बहुरूपः असि, अतः विश्वमूर्तये ते तुभ्यं नम इत्यन्वयः। प्रमेयत्वाप्रमेयत्वादिकं परस्परविरुद्ध नैकाधारवर्तीति नैयायिको युक्तिः साचात्र विरुद्धतया भासमानापि परमात्मनोऽचिन्त्यत्वं व्यञ्जयन्ती गुणत्वमेवारोहति ॥ १८४ ॥
आगमविरोधस्य गुणवमुदाहरति पञ्चानामिति। पाञ्चाल
Page #285
--------------------------------------------------------------------------
________________
२७०
तीयः परिच्छेदः । सतीनामग्रणीश्चासौदैवो हि विधिरीदृशः ॥१८५॥ शब्दार्थालजियाश्चित्रमार्गाः सुकरदुष्कराः। . गुणा दोषाश्च काव्यानामिह संक्षिप्य दर्शिताः१८६ .
व्युत्पन्नबुद्धिरमुना विधिदर्शितेन मार्गेण दोषगुणयोवंशवर्तिनीभिः । वाग्भिः कृताभिसरणो मदिरेक्षणाभि
धन्यो युवेव रमते लभते च कीर्तिम् ॥१८॥ पुत्रिका द्रौपदी पञ्चानां पाण्डुपुत्राणां युधिष्ठिरभीमार्जुनमकुलसहदेवानां पत्नी अथच सतीनां साध्वीनाम् अग्रणीः श्रेष्ठा च आसीत् हि यतः दैवः देवसम्बन्धी विधिः ईदृशः । आगमानधीनः तेषां तस्याश्च देवांशतया शास्त्रोक्तत्वादिति भावः। एकस्या .बहुपतित्वं सतीत्वञ्च आगमविरु तच्चान दैवाधीनतया वैचित्रामावहद्गुण एवेति ॥ १८५॥ __ ग्रन्थमुपसंहति शब्देति। इह अस्मिन् काव्यादर्शाख्ये ग्रन्थ शब्दार्थालजिया: शब्दालङ्काराः अलङ्काराः सुकरा दुष्कराच चित्रालङ्काराणां मार्गा नियमाः तथा काव्यानां गुणा दोषाश्च संक्षिप्य दर्शिताः ॥ १८६ ॥ ___ संक्षिप्तेऽप्यस्मिन् फलसिद्धिर्भवतीत्युपपादयन् ग्रन्थ समापयति व्युत्पन्नेति। व्युत्पन्ना संस्कृता बुद्धिर्यस्य तथोक्त: विशुद्धमतिरित्यर्थः धन्यः जनः अमुना विधिदर्शितेन मार्गेण पथा रौत्या इत्यर्थः दोषगुणयोर्वशतिनौभिः निर्दोषाभि: सगुणाभिश्च इत्यर्थ: वाग्भिः कृतम् अभिसरणं यस्य तादृशः सुमधुरकाव्यभाषी सन्नित्यर्थः मदिरेक्षणाभिः मदपूर्णितनयनाभिः
Page #286
--------------------------------------------------------------------------
________________ काश्चादर्श इत्याचार्य्यदण्डिनः कृतौ काव्यादर्श "शब्दालङ्कारदोषविभागो नाम ...तीयः परिच्छेदः / समाप्तश्चायं ग्रन्थः / कान्ताभिः कृताभिसरण: युवा इव रमते प्रौतिमनुभवति कीर्ति लभते च इति अन्वयः // 187 // इति श्रीजीवानन्दविद्यासागरभट्टाचार्यविरचिता काव्यादर्श विवृतिः समाप्ता। প্রকাশক শ্রীজীবানন্দবিদ্যাসাগর বি এ, 2 নং রমানাথ মজুমদারের স্ত্রীট, কলিকাতা। | প্রিন্টর—শ্রীরামনারায়ণ পাল 16 নং নূতন পগয়াপটী।