________________
हितीवः परिछेदः ।
१५०
प्राकप्रीतिर्दर्शिता सेयं रतिः शृङ्गारतां गता। रूपबाहुल्ययोगेन तदिदं रसवद वचः ॥ २८१॥ निराह्य केशेष्वाकृष्टा कृष्णा येनाग्रतो मम । सोऽयं दुःशासनः पापो लब्धः किं जीवति क्षणं२८२ इत्यारुह्य परां कोटिं क्रोधो रौद्रात्मतां गतः । भीमस्य पश्यतः शत्रुमित्य तद्रसवद् वचः ॥२८३॥
नववापि नायिकाविषयकरतिभावो व्यन्यते तत् प्रेयो. ऽलकार एव कथमत्र न स्यादित्याशझ्याह प्रागिति। प्राक् पूर्वोक्तयोरुदाहरणयोः प्रीतिः भगवहिषयकरतिव्यन्निका एव न तु विभावादिपरिपुष्टा दर्शिता। उक्तञ्च, मनोऽनुकूलेवर्थेषु मुखसंवेदनं वचः । असंप्रयोगविषया सैव प्रीतिर्निगद्यत इति। इह तु सा रतिः कान्ताविषयकोऽनुराग इत्यर्थः । उतांच, रतिर्मनोऽनुकूलेऽर्थे मनसः प्रवणायितमिति। रूपाणां विभावानुभावव्यभिचारिणां बाहुल्यं विस्तारः तस्य योगेन शृङ्गारतां गता, तस्मात् इदं मृतेत्युक्तां वचः रसवत् रसवदलझारण अलङ्कतमित्यर्थः ॥ २८१ ॥
रौद्ररसमुदाहरति निग्रोति। येन मम अग्रत: मामनादृत्य इत्यर्थः कृष्णा द्रौपदी केशेषु अवच्छेदे सप्तमी। पालटा, स: अयं पापः दुःशासनः मया प्राप्तः क्षणं जीवति किम् ? मेष जीवतीत्यर्थः ॥ २८२॥
इतौति। शवं दुःशासनं पश्यतः भोमस्य क्रोधः इति उकप्रकारेण परां कोटिम् आरुह्य विभावादिभिः परिपोषं प्राप्य इत्यर्थः रौद्रतां रौद्रभाव गतः रौद्ररसत्वेन परिणत
१४