________________
काव्यादर्श
इति साक्षात्कृते देवे राज्ञो यद्राजवर्मणः । प्रोतिप्रकाशनं तच्च प्रेय इत्यवगम्यताम् ॥ २७६ ॥ मृतेति प्रत्य सङ्गन्तुं यया मे मरणं मतम् । सैषा तन्वी मया लब्धा कथमवैव जन्मनि ॥२८॥
वर्मण: राजवर्माख्यस्य राज्ञः इति उक्तरूपं यत् प्रौतिप्रकाशनं तदपि प्रेय इति अवगम्यताम्, अनापि भगवहिषयकरतिभावव्यञ्जकस्य प्रियाख्यानस्य सत्त्वादिति ॥ २७८ ॥ २७८ ॥
अथ रसवदलङ्कारं दर्शयन् रसानाञ्च शृङ्गारादीनां प्राथम्येन सर्वजनहृद्यत्वेन च प्रथमं शृङ्गारमुदाहरति मृतेति। मृता इति निश्चित्य इत्यध्याहार्य प्रत्य परलोके यया कान्तया सङ्गन्तुं सङ्गमं कत्तुं मे मरणं मतम् इष्ट मरणावधारणं कृतमित्यर्थः, एषा सा तन्वी अत्रैव जन्मनि मरणं विनेत्यर्थः कथं मया लब्धा प्राप्ता। मृतां मदालसां नागानां प्रसादेन पुन: प्रत्युज्जीवितां प्राप्य तत्पत्युः कुवलयाश्वस्योक्तिरियम् । सैषा तन्वीत्यत्र सैवावन्तीति पाठोऽपि दृश्यते । तथात्वे आवन्तौ अवन्तिदेशभवा वासवदत्तेत्यर्थः, तस्याश्च दाहप्रवादेन मरणनिश्चयात् दुःखितस्य वत्सराजस्य पुनस्तां प्राप्यामन्दोक्तिरियम्'। अत्र सम्भोगशृङ्गाररसः। तल्लक्षणन्तक्तं विश्वनाथन। यथा, दर्शनस्पर्शनादीनि निषेवेते विलासिनौ । यत्रानुरक्तावन्योन्यं सम्भोगोऽयमुदाहृत इति। अयश्च विप्रलम्भानन्तर्यात् परां पुष्टि नीतः। उक्तञ्च विश्वनाथेन, न विना विप्रलम्भेन सम्भोगः पुष्टिमश्रुते। कषायिते हि वस्त्रादी भूयान् रागो विवईते । इति। विप्रलम्भश्च तेनैवोक्तः। यथा, यत्र तु रतिः प्रकष्टा नाभौष्टमुपैति विप्रलम्भोऽसाविति ॥२८॥