________________
हितीयः परि
१५ काले नैषा भवेत् प्रीतितवैतागमतात् पुन:रित इत्याह युक्तं विदुरो नान्येहस्वादशी तिः । भक्तिमानसमाराध्यः सुप्रीतश्च तती हरित २७७॥ सोमः सूर्यो मरुद् भूमिकॊम होतानलो जलम् । इति रूपाण्यतिक्रम्य त्वां द्रष्टुं देव! के वयम् २७८ गते या मम प्रौति: जाता, कालेन समयान्तरेण तवैव नान्यस्य कस्यचित् साधोरित्येवकारेण ध्वन्यते। पुनरागमनात् एषा प्रीतिः भवेत् भविष्यतीत्यर्थः । अत्र भगवद्विषय करतिभावो वाक्यभझ्या सहृदयानां सातिशयचमत्कृतिमादधातीति प्रयोऽलङ्कारः ॥ २७६ ॥
एतदेव सङ्गमयति इतीति। विदुर इति युक्तम् आह, यतस्तस्य अन्यतः अन्यस्मात् आगन्तुकात् तादृशौ तिः सन्तोषः न आसौदिति शेषः, ततः भक्तिमात्रेण न तु केनाप्यन्येनोपचारेणत्यर्थः समाराध्यः हरिः तस्य सुप्रौतश्च अभवत् इति वाक्यशेषः । उद्योगपर्वीयश्लोकश्च अस्य प्रतिरूपो यथा, या प्रीतिः पुण्डरीकाक्ष ! तवागमनकारणात् । सा किमाख्यायते तुभ्यमन्तरात्मासि देहिनामिति ॥ २७७ ॥
पूर्व वक्तृबोद्धव्ययोः ग्रीतावुदाहृतम् इदानीं केवलं वक्तः प्रोताबुदाहरति सोम इत्यादि। हे देव ! सोमः चन्द्रः सूर्यः, मात् वायुः, भूमिः, व्योम आकाशं, होता यजमानः, अनलः अग्निः, तथा जलम् इति ते रूपाणि अष्टौ मूर्तीः अतिक्रम्य प्रतौल्य स्थितं परमात्मस्वरूपं त्वां द्रष्टुं वयं के ? न वयं योग्या इत्यर्थः, तथापि यद् दृष्टोऽसि स केवलं भक्तानुग्रह एवेति। देवे महेखर साक्षात्कृते तपसा प्रत्यक्षगोचरीकते सति राज