SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १५४ काव्यादर्थे अद्य या मस गोविन्द । जाता त्वयि गृहागते । देवादिविषया रतिः । उदबुद्दमात्रः स्थायी च भाव इत्यभिधीयते ॥ विभावैरनुभावैश्व सात्त्विकैर्व्यभिचारिभिः । रसतामेति रत्यादिः स्थायी भावः सचेतसामिति । अनयोर्विस्तारश्च ग्रन्थबाहुल्यभिया न लिखितः विस्तारदर्शनार्थिभिस्तत्तदुग्रन्थेषु अनुसन्धेय इति । तथा रूढ़: अभिव्यक्तः अहङ्कारः गर्वः यत्र तथोक्तम् आख्यानं गर्वप्रधानमाख्यानम् ऊर्जखि, ऊर्जा बलं तदस्यास्तौति योगबलात् अहङ्कारस्य च ऊर्जोधर्म - रूपत्वात् तथा व्यपदेश इति । तेषाम् उक्तानां प्रेयःप्रभृतीनाम् अलङ्काराणां त्रयं युक्तः समुचितः उत्कर्षो यस्मिन् तादृशम् अतएवैषामलङ्कारत्वकीर्त्तनं न दोषावहमिति भावः । उल्लिखितेषु भावेषु च देवादिविषयकरतिभावस्यैव प्रयोनामालङ्कारव्यपदेशः, अन्येषां भावानां रसाभासभावाभासभावशान्तिभावोदय भावशबलतानाञ्च रस्यमानपदार्थत्वेन रसवदलङ्कारत्वम् । उक्तञ्च विश्वनाथेन, रसभावौ तदाभासौ भावस्य प्रशमोदयौ । सन्धिः शबलता चेति सर्वेऽपि रसनाद्रसा इति । पूर्वाख्यभावस्य तु ऊर्जस्विनामालङ्कारत्वमिति विशेषः । ध्वनिकारादयस्तु अङ्गिनो रसादेरलङ्काय्र्यत्वम् अङ्गस्य तु अलङ्कारत्वमाहुः । यथा, प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गन्तु रसादयः । काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ॥ विश्वनाथस्तु, रसभावौ तदाभासौ भावस्य प्रशमस्तथा । गुणीभूतत्वमायान्ति यदालङ्कृतयस्तदा । रसवत् प्रेय ऊर्जस्वि समाहितमिति क्रमात् । भावस्य चोदये सन्धौ मिश्रत्वे च तदाख्यका इत्याह ॥ २७५ ॥ प्रेय उदाहरति श्रद्येति । गोविन्द ! अद्य त्वयि गृहा
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy