________________
द्वितीयः परिच्छेदः ।
उद्दिष्टानां पदार्थानामनुद्देशो यथाक्रम् | यथासंख्यमिति प्रोक्तं संख्यानं क्रम इत्यपि ॥ २७३ ॥ ध्रुवन्ते चोरिता तन्वि ! स्मितेक्षणमुखद्युतिः । स्नातुमम्भः प्रविष्टायाः कुमुदोत्पलपङ्कजैः ॥ २७४॥ प्रेयः प्रियतराख्यानं रसवद्रसपेशलम् । ऊर्जखि रूढ़ाहङ्कारं युक्तोत्कर्षञ्च तत्त्रयम् ॥२७५॥
१५३
क्रमालङ्कारं निरूपपति उद्दिष्टानामिति । उद्दिष्टानाम् उक्तानां पदार्थानां यथाक्रमम् अनु पश्चात् उद्देशः पश्चादुक्तपदार्थैः सङ्गतिः यथासङ्खयम् इति, सङ्ख्यानमतिक्रम्य इत्यपि प्रोक्त, यथासंख्यं संख्यानं क्रम इति पय्यायशब्दा इत्यर्थः
॥ २७३ ॥
क्रममुदाहरति ध्रुवमिति । हे तन्वि ! स्नातुम् अम्भः जलं प्रविष्टायाः ते तव स्मितेक्षणमुखद्युतिः कुमुदोत्पलपङ्कजैः ध्रुवं निश्चितं चोरिता अपहृता कियदंशेनेति शेषः । समग्र - हरणे नायिकायां तदसत्त्वन चारुत्वापायादिति भावः । तत्र स्मितद्युतिः कुमुदेन, ईक्षणद्युतिः उत्पलेन, मुखद्युतिः पङ्कजेनेति यथाक्रममुक्तपदार्थानां यथाक्रमं पश्चादुक्तपदार्थेः समन्दयश्चारुत्वातिशयमापादयतीति अस्थालङ्कारत्वम् ॥ २७४ ॥
सम्प्रति प्रेयोरसवदूर्जखिनामकमलङ्कारचितयं निरूपयति प्रेय इति । प्रियतरं भावाभिव्यक्त्या अतिप्रीतिकरम् श्रास्ख्यानं प्रेयः अतिप्रियत्वादन्वर्थसंज्ञेयम् । तथा रसपेशलं रसेन रत्यादिस्थायिभावरूपेण पेशलं सहृदयानन्दजननं रसवत् । भावरसपदार्थो विश्वनाथेनोक्तौ । यथा, सञ्चारिणः प्रधानानि