________________
काष्यादर्शे
पन्थाः स एष विवृतः परिमाणवृत्त्या संहृत्य विस्तरमनन्तमलङ्कियाणाम् । वाचामतीत्य विषयं परिवर्त्तमानान् अभ्यास एव विवरीतुमलं विशेषान् ॥ ३६८ ॥ इति आचार्यदण्डिनः कृतौ काव्यादर्शे अर्थालङ्कारविभागो नाम द्वितीयः परिच्छेदः ।
ग्रहणं ते च शौरादयस्त्रयस्त्रिंशत्, वीथ्यङ्गानि उद्घात्यकादौनि त्रयोदश, लास्याङ्गानि गेयादीनि दश । एतत् सर्वं यत् आगमान्तरे ग्रन्थान्तरे व्यावर्णितं विशेषेण व्याख्यातं तदिदं नः अस्माकम् अलङ्कारतयैव इष्टम् अभिलषितम् अलङ्कारनाम्नव कथितमित्यर्थः तेषाञ्च यथायथमुक्तेष्वन्तर्भाव इति भावः ॥ ३६७ ॥
उपसंहरति पन्या इति । अलङ्क्षियाणां स्वभावोक्त्याद्यलङ्काराणाम् अनन्तम् अशेषं विस्तरं प्रपञ्चं संहृत्य संग्टह्य परिमाणवृत्त्या परिमितत्वेन एषः सः प्रसिद्धः पन्याः मार्गः विवृतः । अनेनैव पथा अनुसरणे अपरेऽपि ज्ञातव्या इत्याह वाचामिति । वाचां विषयम् अतीत्य परिवर्त्तमानान् वक्तुमशक्यानित्यर्थः तान् विशेषान् भेदान् विवरीतुं प्रकाशयितुम् अभ्यास एव अलं शक्तः । पुनः पुनरभ्यासेनैव अपरेऽपि वेदितव्या इति भावः ॥ ३६८ ॥
• इति श्रीजीवानन्द विद्यासागर भट्टाचाय्र्यविरचितायां काव्यादर्शटीकायां द्वितीयः परिच्छेदः ।
१८४