SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ द्वतीयः परिच्छेदः । अश्यपेतव्यपेतात्मा व्यावृत्तिर्वर्गसंहतेः । यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥ १ ॥ एकदिविचतुष्पादयमकानां विकल्पनाः । आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः ॥ २ ॥ ___ सम्पति अर्थालङ्कारेषु निरूपितेषु प्रथमपरिच्छेदे सामान्यतो निरूपितेष्वपि शब्दालङ्कारेषु प्राप्तावसरतया तविशेषान् निरूपयिष्यन् प्रथमं यमकमनुवदति अव्यतेति। अव्यपेतः अव्यवहितः व्यपेतः व्यवहितश्च प्रात्मा स्वरूपं यस्यास्तथाभूताया वर्णसंहतेः खरव्यञ्जनसङ्घातस्य व्यावृत्तिः विशेषेण पुनरावृत्तिः यमकमित्यर्थः । अस्य विशेषेषु पूर्वोक्तेष्वपि अत्यहितत्वव्यवहितत्वभेदेन पुनर्वैविध्यं पूर्वोच्चारितवर्णसङ्घस्य क्वचिदव्यवधानेन, क्वचिद् व्यवधानेन पुनरावृत्तिरिति। तच्च पादा, नाम् आदिगतं मध्यगतम् अन्तगतञ्च । एतदुपलक्षणं पादगतमपि बोध्यम् उक्तञ्च वामनेन, पादः पादस्यादिमध्यान्तभागाः स्थानानीति। अत्रापि पाद इत्युपलक्षणं तेन पादः पादखण्डाः पद्याई समस्तपद्यच्च यमकस्य स्थानानौति बोध्यम् ॥ १॥ क्रमेण तत्तभेदान् निर्दिशति एकत्यादि। एकहिविचतु पादयमकानां विकल्पनाः प्रभेदाः पद्यस्य प्रतिपादं चत्वारबत्वारः भेदा इत्यर्थः ते च अमित्रयमके एव वेदितव्याः ।
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy