________________
१९६
काव्यादर्श
अत्यन्तबहवस्तेषां भेदाः सम्भेदयोनयः । मुकरा दुष्कराश्चैव दर्श्यन्ते तेऽत्र केचन ॥ ३ ॥ मानेन मानेन सखि ! प्रणयोऽभूत् प्रिये जने। खण्डिता कण्ठमाश्लिष्य तमेव कुरु सवपम् ॥ ४ ॥ मेघनादेन हंसानां मदनो मदनोदिना । तथाहि, अमिश्रितमादिभागयमकं प्रथमादिपादगतत्वात् चतुविधम् । तथा मध्यादिभागयमकमपि। अयञ्च भेदः अव्यपेतव्यपेतसाधारणः। सम्भेदः संमिश्रणं योनिर्येषां तादृशाः विमिश्रा इत्यर्थः तेषां यमकानां भेदाः आदिमध्यान्तमध्यान्तमध्याद्याद्यन्तसर्वतः स्थितत्वेन अत्यन्तबहवः अतिविस्तराः जेया इत्यर्थः, पदच्छेदस्तु आदिमध्यान्तेषु मध्यान्तेषु मध्याद्येषु पाद्यन्तेषु सर्वेषु चेति। ते च सुकरा: सुमाध्याः सुबोधाच, दुष्करा: दुःसाध्याः दुर्बोधाश्च कविबोद्धृणामिति शेषः । अन्न केचन दर्श्यन्ते उदाङ्गियन्त इत्यर्थः ॥ २ ॥३॥
तत्र प्रथमपादस्थमव्यवहितममिश्रमादिभागयमकं निर्दिशति। हे सखि ! प्रिये जने अनेन ईदृशेन मानेन प्रणयः मा भूत्। प्रियजनं प्रति एतादृशं मानं मा कुरु इत्यर्थः । खण्डिता, पार्धमेति प्रियो यस्या अन्यसम्भोगचिह्नितः। सा खण्डितेति कथिता धौरैरोऑकषायितेत्युक्तलक्षणापि त्वं कण्ठमाश्लिष्य प्रालिङ्ग्य तं प्रियमेव सनपं सलज्नं कुरु, अपकारिणि प्रणयदर्शनमेव तस्य लज्जाकरत्वात् गुरुशासनमिति भावः । प्रतिमानिनी खण्डितां प्रति तत्सख्या उक्तिरियम्। अत्र मानेन मानेन इति अव्यवहितमादिपादमादिभागयमकम् ॥ ४ ॥
द्वितीयपादगतं निर्दिशति मेघनादेनेति । मदन; कामः