________________
तृतीयः परिच्छेदः ।
१८०
नुन्नमानं मनः स्त्रीणां सह रत्या विगाहते ॥ ५ ॥ राजन्वत्यः प्रजा जाता भवन्तं प्राप्य सत्पतिम् । चतुरं चतुरम्भोधिरसनोर्वीकरग्रहे ॥ ६ ॥ अरण्यं कैश्चिदाक्रान्त' कैश्चित् सद्म दिवौकसाम् । पदातिरथनागाश्वरहितैरहितैस्तव ॥ ७ ॥
रत्या कामपत्नया अनुरागेण च सह पुंसानां मदनोदिना मदमपनयता मेघनादेन मेघगंर्जितेन नुनः अपनीतः मानो यस्मात् तथोक्तं स्त्रीणां मनः विगाहते आलोड़यति व्याकुलयतीत्यर्थः, मेघगर्जनस्य उद्दीपकत्वात् वर्षासु प्रमदानां मनः सानुरागं सकामञ्च भवतीति भावः । अत्र मदनो मदनो इति द्वितीयपादगतमव्यवहितमादिभागयमकम् ॥ ५ ॥
तृतीयपादगतमुदाहरति राजन्वत्य इति । चतुरम्भोधिरसनायाः चतुःसागरपरिच्छिन्न्राया उर्व्याः पृथिव्याः करग्रहे स्वप्राप्यांशग्रहणे पाणिग्रहे च चतुरम् आसमुद्रकरग्राहिणमित्यर्थः भवन्तं सत्पतिं प्राप्य प्रजाः राजन्वत्यः जाताः, सुराज्ञि देशे राजन्वान् स्यात् ततोऽन्यत्र राजवानित्यमरः । अत्र चतुरं चतुरमिति तृतीयपादगतमव्यवहितमादिभागयमकम् ॥ ६ ॥
चतुर्थपादगतं निर्दिशति अरण्यमिति । तव कैश्चित् अहितैः शत्रुभिः पदातिरथनागाश्वरहितैः चतुरङ्गबलविहीनैरित्यर्थः सद्भिः अरण्यम् आक्रान्त पलायितत्वादिति भावः, कैश्चित् तथाभूतैः दिवौकसां सद्म सुरलोकः आक्रान्तं युद्धमरणादिति भावः, जितो वा प्राप्मासे स्वर्गं जित्वा वा भोक्ष्यमे महौमिति महाभारतीयगीताध्याये भगवदुक्तः । अत्र रहितैरहितैरिति चतुर्थपादगतमव्यवहितमादिभागयमकम् ॥ ७ ॥
●
;