________________
हितीयः परिच्छेदः। २८३ व्यतिरुतिक्रमबलाद गम्भीरस्थापि वस्तुनः। . भावायत्तमिदं सर्वमिति तद् भाविकं विटुः ॥३६६॥ यञ्च सन्ध्यात्त्यङ्गलक्षणाद्यागमान्तरे । व्यावर्णितमिदश्चेष्टमलङ्कारतयैव नः ॥ ३६७ ॥
_ भाविकम्। सर्वेषां वस्तूनाम् आधिकारिकेतिवृत्तानां पर्वणां तदुपयोगिनां प्रासङ्गिकति वृत्तानाञ्च। उक्तञ्च, नख कुट्टेन, इदं पुनर्वस्तु बुधैर्हि विधं परिकल्पाते। आधिकारिकमेकं स्यात् प्रासङ्गिकमथापरमिति। परस्परोपकारित्वम् अस्तौति शेषः। यथा, रामायणे रामचरितम् आधिकारिक सुग्रीवादिचरितं प्रासङ्गिकं तयोश्च अङ्गाङ्गिभावेन परस्परोपकारित्वम् । एवमन्यवापि साक्षात् परम्परया वा वेदितव्यम्। तथा व्यर्थानां प्रकतानुपयोगिनां विशेषणानाम् प्रक्रिया अननुष्ठानम् अप्रयोग इत्यर्थः साभिप्रायविशेषणोपन्यास इत्यर्थः प्रयश्च परिकर इति प्रकाशकारः यथा विशेषणैर्यत् साकूतैरुक्तिः परिकरो मत इति । तथा स्थानानां प्रकतोपयोगिविषयाणां वर्णना। किञ्च, उतिक्रमबलात् वचनपरिपाट्या गम्भौरस्यापि वस्तुनः व्यलिः प्रस्फुटत्वं या हि नव्यैरलङ्कारभेदरूपेण निर्दिष्टेति भावः । तत् इदं सर्व भावायत्तम् अभिप्रायाधौनमिति भाविकं विदुः । भाविकालङ्कार एव तेषामन्तर्भाव इति भावः ॥ ३६५ ॥३६॥
यच्चेति । किञ्चेति चार्थः । सन्धयः मुखादयः पञ्च, सद प्रानि उपक्षेपादौनि चतुःषष्टिप्रकाराणि, हत्तयः कौशिकीत्यादयवतमः, तदङ्गानि नर्मादौनि षोड़श, लक्षवानि भूषसादौनि पत्रिंशत् प्रकाराणि भादिपदेन नावासहारादौनां