________________
१६२ -
काव्यादरें श्रेषः सर्वासु पुष्णाति प्रायो वक्रोक्तिषु श्रियम् । भिन्नं द्विधा स्वभावोक्तिर्वक्रोक्तिश्चेति वाङ्मयम्३६३ तद भाविकमिति प्राहुः प्रबन्धविषयं गुणम् । भावः कवेरभिप्रायः काव्येष्वासिद्धि संस्थितः॥३६४ परस्परोपकारित्व सर्वेषां वस्तुपर्वणाम् । विशेषणानां व्यर्थानामकिया स्थानवर्णना ॥३६॥
अङ्गानि लिम्पतीव, नभः अञ्जनं वर्षतीव, दृष्टि: असत्पुरुषस्त्र नौचस्य सेवेव विफलतां गता। अत्र पूर्वार्द्ध उत्प्रेक्षायाः उत्तराई उपमायाश्च निरपेक्षतया परस्परं प्राधान्ये नावस्थानात् समकक्षतेति बोध्यम् ॥ ३६२॥
श्लेषस्य बहुषु सद्भावं दर्शयति श्लेष इ।। श्लेषः सर्वामु वक्रोक्तिषु वचनभङ्गिरूपासु अलङ्कृतिषु श्रियं शोभां पुष्णाति । अत: वाङ्मयं काव्यं स्वभावोक्तिर्वस्तुस्वभाववर्णनरूपा वक्रोलिच इति भेदहयात् विधा भिवं विविधं खभावोक्तिमत् वक्रोनिमञ्चेति ॥ ३६३ ॥
इदानीं सर्वालङ्कारसंग्राहकं भाविकं निरूपयति तदिति । प्रबन्धा महाकाव्यादयः तहिषयं तहतं गुणं चमत्कारजनकधर्मविशेषं तत् प्रसिद्ध भाविकं तदाख्यमलङ्कारं प्राइः । तथाहि कवेरभिप्रायः भावः तत्सम्बन्धितया भाविकमित्यर्थसंज्ञा। स च भाव: काव्येषु आसिहि समाप्तिपर्यन्तं स्थितः। एतेनास्य केवलं पदवाक्यगतत्वं न, महावाक्यघटितप्रबन्धगतत्वमपीति बोधम् ॥ ३६४॥
वपिरभिप्रायस्त्र प्रबन्धमतले उदाहरति परस्परीत्यादि।