________________
द्वितीयः परिच्छदः ।
अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता । इत्यलङ्कारसंसृष्टेर्लक्षणीया दयो गतिः ॥ ३६० ॥ आक्षिपन्त्यरविन्दानि मुग्धे ! तव मुखश्रियम् । कोषदण्डसमग्राणां किमेषामस्ति दुष्करम् ॥३६१॥ लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्विफलतां गता ॥ ३६२ ॥ सङ्कीर्णम् ।
१८१
तथा काव्यालङ्काराणामपि प्रत्येकस्य यादृशं वैचित्रा सङ्कीर्णस्य तदपेक्षया समधिकमिति पृथग्व्यपदेश इति भावः ॥ ३५८ ॥
सङ्कीर्णस्य भेदावाह अङ्गेति । क्वचित् अङ्गाङ्गिभावेन प्रधानगुणभावेन अवस्थानं, क्वचित् सर्वेषां समकक्षता तुल्यबलत्वम् । इति अलङ्कारसंसृष्टः सङ्कीर्णालङ्कारस्य द्वयो गतिः हौ भेदौ लक्षणीया ज्ञातव्या इत्यर्थः । अपरे तु एकानुप्रवेशे सन्दिग्धत्वे अङ्गाङ्गिभावे च सङ्करसंज्ञा समकक्षतायान्तु संसृष्टिसंज्ञेत्याहुः ॥ ३६० ॥
अङ्गाङ्गिभावसङ्घौर्णमुदाहरति प्रचिपन्तौति । हे मुग्धे ! अरविन्दानि तव मुखश्रियम् अक्षिपन्ति तिरस्कुर्वन्ति जिगीवन्तीत्यर्थः । तथाहि, कोषदण्डसमग्राणां कोषो धनसमूहः कुशलश्च दण्डः चतुर्थोपायः नालञ्च ताभ्यां समग्राणां पूर्णानामित्यर्थः एषां दुष्करं किम् ? अत्र श्लेषः अर्थान्तरन्यासस्याङ्गम् अर्थान्तरन्यासच पूर्वाईस्थिताया उपमाया इत्यङ्गाङ्गिभावो बोध्यः ॥ ३६१ ॥
- सबकच्चतायां सङ्घीयं निदर्शयति लिम्पतीति । तमः
--