________________
१८०
काव्यादर्णे
उप चाभेद एवासाबु चावयवोऽपि च । नानालङ्कारसंसृष्टिः सङ्कीर्णन्तु निगद्यते ॥ ३५८ ॥
उपमारूपकञ्चापि यदुक्त वामनेन यथा, उपमाजन्य ं रूपकमुपमारूपकमिति। उदाहृतञ्च तेनैव यथा, जयति चतुर्दशलोकवल्लिकन्द इति । केचिदिदं परम्परितरूपकमाहुः । अपरे तु उपमासहितं रूपकम् उपमारूपकं यदुक्तम्, उपमानेन तद्भावमुपमेयस्य रूपयन् । यद् वदन्त्युपमाभेदमुपमारूपकं यथेति । अस्योदाहरणं यथा दिवाकरकरस्पर्शादुदयाद्रेः पयोधरात् । नीलांशुकमिव प्राच्यां यो गलति सम्प्रति ॥ अत्र नोलांशुकमिवेत्युपमया सहितमुदयाद्रेः पयोधरादिति रूपकमाचक्षते । रूपकेषु रूपकभेदेषु एव दर्शितम् । यथा दृष्ट साधर्म्यवैधर्म्यदर्शनाद गौणमुख्ययोः उपमाव्यतिरेकाख्यं रूपकहितयं यथेति । तस्मादेतेषां न पृथगुक्तिरिति भावः ॥ ३५८ ॥ उत्प्रेचेति । असौ अन्यैरुक्त इत्यर्थः उत्प्रेक्षावयवः तत्रामालङ्कारभेदः अपि उत्प्रेक्षाया भेदः विशेष एव । तल्लक्षणं यथा लिष्ट नार्थेन संस्पृष्टः किञ्चिचोपमयान्वितः । रूपकार्थेन वा युक्त उत्प्रेक्षावयवो यथेति । श्रयञ्च श्लेषादिसम्बन्धोत् प्रेक्षामात्रमतो नात्र प्रयास इति भावः । एवं नव्यैः परिगृहीतानामन्येषाञ्च अलङ्काराणामनयेव रीत्या उक्तालङ्कारभेदेष्वन्तर्भावो वेदितव्य इति ।
1
अथ सङ्कीर्णं निरूपयति नानेति । नानालङ्काराणां बहनामलङ्काराणां संसृष्टिः एकत्र समावेशः सङ्घौर्णं निगद्यते वैचित्रयविशेषवत्तया पृथक् निबध्यते यथा, लौकिकानां हारकुण्डलादीनां प्रत्येकस्य यादृशौ शोभा यादृशौ च समष्टि:,
"