________________
द्वितीय: परिच्छेदः ।
अनन्वयससन्देहावुपमाखेव दर्शिती । उपमारूपकञ्चापि रूपकेष्वेव दर्शितम् ॥ ३५८ ॥
१६
आशौर्नाम अलङ्कारः । अयमलङ्कारो वैचित्रप्रविशेषावहत्वाभावान्न्र बहुभिरादृतः, अपरे तु तादृशाशंसनेन वैचित्रामस्त्रीत्याहुः | उक्तञ्च, आशोरिति च केषाञ्चिदलङ्कारतया मता । सौहृद्यस्याविरोधोक्तौ प्रयोगोऽस्याश्च तादृश इति । कैचित्तु नाट्य एवास्याश्चमत्कारित्वात् नाट्व्यालङ्कारतया मण्यते । यथा, आशौरास्कन्दकपटा क्षमा गर्वोद्यमाश्रया इति । उदाहृतञ्च । यथा ययातेरिव शर्मिष्ठा पत्युर्बहुमता भव । पुत्रं त्वमपि सम्राजं सेव पूरुमवाप्नुहि इति । अन्ये तु प्रेयोऽलङ्कारस्य भेद एवायमित्याहुः । यथेति उदाहरणार्थम् । अवाङ्मनसगोचरं परमं ज्योतिः परमात्मा इत्यर्थः यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सहेति श्रवणात् वः युष्मान् पातु रक्षतु ॥ ३५७ ॥
सम्प्रति उद्देशक्रमप्राप्तानलङ्कारान् निरूप्य प्राप्तावसरतया मतान्तरोक्तानां केषाञ्चित् अलङ्काराणां स्वोक्तेष्वन्तर्भावं दर्शयति अनन्वयेति । अनन्वयः उपमानोपमेयत्वमेकस्यैव त्वनन्वय इत्युक्तलक्षणः, तथा ससन्देहः सन्देहः प्रकृतेऽन्यस्य संशयः प्रतिभोत्थित इत्युक्तप्रकारः, उपमासु उपमाभेदेषु एव दर्शितौ तथाच, चन्द्रारविन्दयोः कान्तिमतिक्रम्य मुखं तव । आत्मनैवाभवत् तुल्यमित्य साधारणोपमा इत्युक्तरूपायामसाधारणोपमायामनन्वयस्यान्तर्भावः । किं पद्ममन्तर्भ्रान्तासि किं ते लोलेचणं मुखम् । मम दोलायते चित्तमितीयं संशयोपमा इत्युक्तायां संशयोपमायां ससन्देहस्य अन्तर्भावः ।