SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ काव्यादर्श व्युत्क्रान्तातिव्यवहितप्रयोगान्मोहकारिणी। सा स्यात् प्रमुषिता यस्यां दुर्बोधार्था पदावली ६६ समानरूपा गौणार्थारोपितैर्ग्रथिता पदैः ।। परुषा लक्षणास्तित्वमावव्युत्पादितश्रुतिः ॥ १० ॥ सङ्ख्याता नाम सङ्ख्यानं यत्र व्यामोहकारणम् । अन्यथा भासते पत्र वाक्यार्थः सा प्रकल्पिता १०१ शितार्थभिन्नस्थले रूढ़ न प्रसिद्धन शब्देन या वञ्चना प्रतारणा सा वञ्चिता वञ्चिताख्या प्रहेलिकेत्यर्थः ॥ ८ ॥ व्युत्क्रान्तेति। अतिव्यवहितानां पदानां प्रयोगात् मोहकारिणी अर्थावबोधवैधुर्यविधायिनी या सा व्युत्क्रान्ता नाम, यस्याञ्च पदावली पदानीत्यर्थः दुर्बोधः अर्थो यस्यास्तादृशी प्रमुषिता नाम प्रकर्षण बुद्धेर्मुषितत्वादित्यर्थः । वञ्चितायान्तु एक पदं दुर्बोधार्थमिह तु पदानीत्यनयोर्भेदः ॥2॥ समानरूपेति। गौणार्थेन लाक्षणिकार्थेन आरोपितैः उपचारितैः पदैः ग्रथिता विरचिता या सा समानरूपा नाम सादृश्यनिबन्धनत्वादित्यर्थः लक्षणस्य सूत्रस्य अस्तित्वमात्रेण लक्षणानुसारेण न तु शक्ताशक्तविवेचनया इत्यर्थः व्युत्पादिता श्रुतिः शब्दः यत्र तादृशी या सा परुषा नाम अशक्तिनिबन्धनत्वेन श्रोत्रयोः पारुष्यावबोधादिति भावः ॥ १० ॥ संख्यातेति । यत्र संख्यानं वर्णगणना वा संख्यावाचकशब्दः व्यामोहस्य अर्थावबोधवैधुर्यस्य कारणं सा संख्याता नाम, यत्र वाक्यार्थः अन्यथा भासते आपातत: प्रतीयमानादर्थात् अन्वरूपः प्रतीयते सा प्रकस्मिता नाम ॥ १.१॥
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy