________________
तृतीयः परिच्छेदः ।
क्रौड़ागोष्ठौविनोदेषु तज्ज्ञैराकीर्णमन्त्रणे । परव्यामोहने चापि सोपयोगाः प्रहेलिकाः ॥ ६७ ॥ आहुः समागतां नाम गूढ़ाथीं पदसन्धिना । वञ्चितान्यव रूढ़ेन यत्र शब्देन वञ्चना ॥ ६८ ॥
२४३
दुष्कराचित्रालङ्काराः पद्मबन्धादयः प्राचौनोक्ताः ग्रन्थविस्तारभयेन नात्रोक्ताः ग्रन्थान्तरतः ते ज्ञातव्या इति भावः, पुनः इदानीं प्रहेलिकानां प्रकाराणां विशेषाणां गतिः नियमः उद्दिश्यते निरूप्यते । तल्लक्षणन्तु सामान्यत उक्तम् । यथा, प्रहेलिका तु सा ज्ञेया वचः संवृतिकारि यदिति ॥ ८६ ॥
यदि च प्रहेलिकाया यमकादिवत् शब्दार्थोपस्कारकत्वेन रसानुगुख्याभावात् नालङ्कारत्वं, यदुक्त रसस्य परिपन्थित्वात् नालङ्कारः प्रहेलिकेति, तथापि अस्या उपयोगित्वमाह क्रीड़ेति । क्रौड़ागोष्ठीषु विहारसभासु ये विनोदा: प्रमोदाः तेषु विषये तज्ज्ञेः प्रहेलिकाभिन्नैः सह पाकोणें जनसङ्घले देशे यत् मन्त्रणं गुप्तभावेन परस्परसंलापः तस्मिन्, तथा परस्य व्यामोहने विशेषरूपेण अर्थावबोधवशेन मनसः व्याकुलतायाम् अथवा परस्य बोडव्यव्यतिरिक्तस्य जनस्य व्यामोहने अवरोधनिराकरणे विषये प्रहेलिकाः सोपयोगाः सप्रयोजनाः उपकारिण्य इत्यर्थः तस्मात् अस्या उपयोगित्वे अलङ्कारत्वम् अन्यत्र दोषावहत्वमिति बोध्यम् ॥ ८७ ॥
अस्या भेदान् क्रमेणाह प्राहुरिति । पदसन्धिना पदयोः सन्धिनां सानिध्यजनितसन्धिकार्येण गूढ़: दुर्बोध: अर्थो यस्यास्तां समागतां नाम प्रहेलिकामाहुः, अन्यत्र यत्र विव