SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २४२ काव्वादों नूनं नुन्नानि नानेन नाननेनाननानि नः । নাননা ন লালুননননানালিলী লিনী:॥ ৷ वर्मनियमः। इति दुष्करमार्गेऽपि कश्चिदादर्शितः क्रमः । प्रहेलिकाप्रकाराणां पुनरुद्दिश्यते गतिः ॥ ६६ ॥ सारसाः आरसेन शब्देन सह वर्तमाना: सारसाः पक्षिविशेषाः यासु ताः सरसौः ससार जलक्रीड़ार्थ गतवान् । बलदेवस्य जलक्रीडाप्रकरणोक्तं पद्यमिदम्। अत्र दाभ्यामेव स र इति वर्णाभ्यां पद्यबन्धः ॥ १४ ॥ ___ एकवर्णमुदाहरति नूनमिति। अन्नेन प्रबलेन एनेन अ इनः प्रभुः एनः तेन अप्रभुणा सामान्यशत्रूणा इत्यर्थः, अनेन आननेन मुखेन भूकुटिमतेति भावः करणेन नः अस्माकम् अनानि प्राणाः नूनं निश्चितं नुबानि अपनीतानि न न अपितु नुबान्येव अस्य भूभङ्गिं दृष्ट्वैव वयं मृता एव का कथा सम्पहार इति भावः । ननु तथापि इत्यर्थः इनः ना पुरुषः अस्माकं प्रभुरित्यर्थः अनान् प्राणान् निनौः नेतुमिच्छतीति नौधातोः सनन्तात् विपि प्रथमैकवचनम् । रक्षितुमिच्छुः सनित्यर्थः, न अनेनाः अपापः न भवति, शत्रुविजितस्य युद्धे मरणं जीविताद वरमिति अतोऽनेन यथाशक्ति युद्ध कर्त्तव्यमिति भावः । रिपुपराजितस्य कस्यचित् नृपसैन्यस्य दैन्योक्तिरियम्। अत्र नकाररूपवर्णैरेव पद्यबन्धः ॥ १५ ॥ .. अथ प्रहेलिकां निर्दिशति इतीति। इति उक्तप्रकारेण दुष्करमार्गे चतुस्त्रियकरूपनियमेऽपि कश्चित् अल्पमात्र इत्यर्थः क्रमः नियमः पादर्शितः उदाहृतः, एतावता अन्येऽपि
SR No.023479
Book TitleKavyadarsh
Original Sutra AuthorN/A
AuthorJivanand Vidyasagar Bhattacharya
PublisherKalikata Rajdhnyam
Publication Year1890
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy