________________
टतीयः परिच्छेदः।
२४१ देवानां नन्दनो देवो नोदनो वेदनिन्दिनः । दिवं दुदाव नादेन दाने दानवनन्दिनः ॥ ६३ ॥ सूरिः सुरासुरासारिसारः सारससारसाः। ससार सरसी: सौरी ससूरुः स सुरारसी॥ ६४ ॥ यप्य तादृशः असम्बद्धभाषीत्यर्थः अतस्त्व न मे योग्य इति भावः । वाराङ्गनामभिलषन्तं कञ्चित् व्याधकुमारं प्रति तस्याः प्रत्याख्यानोक्तिरियम् । अत्र र क ग म इति चतुर्मिरेव वर्ग: पद्यबन्धः । वर्णपदेन च पद्यपूरकवर्णानां ग्रहणं, तेन अङ्गेति डकारयोगेऽपि न चातुर्वर्ण्यव्याघातः, तस्य पद्यपूरकत्वाभावात् ॥ ८२॥
त्रिवर्णमुदाहरति देवानामिति । देवानाम् इन्द्रादीनां नन्दनो दैत्यदमनात् प्रौतिजननः, तथा वेदनिन्दिनो वेदनिन्दकस्य नास्तिकजनस्य नोदनः निरासकः देवः नृसिंहरूपी भगवान्, दानवान् नन्दयति त्रिभुवनविजयेन सन्तोषयतीति तथोक्तस्य दानवनन्दिन: हिरण्यकशिपोः दाने वक्षोविदारणे दोय खण्डने इत्यस्मात् अनट्प्रत्ययः । नादेन सिंहनादेन दिवम् अन्तरीक्षं दुदाव तापितवान्। अत्र दवन इति विभिरेव वर्णैः पद्यबन्धः ॥ १३॥
द्विवर्णमुदाहरति सूरिरिति। सूरिः विहान् तथा सुरासुरासारिसारः सुरान् असुरांश्च आसरति आस्कन्दति इति तथोक्तः सारो बलं यस्य तादृशः, किञ्च ससूरुः शोभनौ जरू मूरू ताभ्यां सहित: वामोरुरित्यर्थः, पुनश्चं सुरारसौ सुरायां रसः आखादः अनुराग इत्यर्थः विद्यते अस्येति मुरारसी स प्रसिद्धः सौरौ सौरं लाङ्गलमस्यास्तीति तथोक्तः बलदेवः सारस
२१