________________
२४५
टतीयः परिच्छेदः । सा नामान्तरिता यस्यां नानि नानार्थकल्पना। निभृता निभृतान्यार्था तुल्यधर्मस्मशा गिरा॥१०२ समानशब्दोपन्यस्तशब्दपर्यायसाधिता। संमूढ़ा नाम, या साक्षानिर्दिष्टार्थापि मूढ़ये॥१०३ योगमालात्मिका नाम या स्यात् सा परिहारिका। एकच्छन्नाश्रितं व्यक्तं यस्यामाश्रयगोपनम्॥१०४॥
सेति। यस्यां नाम्नि संज्ञाविषये नानार्थकल्पना नानार्थानां बहूनामर्थानां कल्पना सा नामान्तरिता नाम, यस्याञ्च तुल्यधर्मस्पृशा प्रस्तुताप्रस्तुतयोः साधारणधर्म स्पृशन्त्या गिरा वाचा निभृतः गोपितः अन्य अपरः अर्थो यत्र सा निभृता नाम। अस्याश्च साधारणधर्मबलेन विषयस्य सूचनात् समासोक्तिमूलता बोध्येति ॥ १०२॥
समानशब्देति। उपन्यस्तेन उक्तेन शब्दानां प्रकृतार्थवबोधकपदानां पायेण नामान्तरेण साधिता विरचिता समानशब्दा नाम, अन च लक्षणया एकार्थशब्दस्यैव ग्रहणं न तु अभिधालभ्यार्थस्य, तथावे संवरणीयत्वाभावेन प्रकृता. नुपयोगित्वादिति ध्येयम्। या साक्षात् अभिधायकशब्देन निर्दिष्टः निरूपित: अर्थो यत्र तादृशी अपि मूढ़ये व्यामोहाय भवतीति शेषः, सा संमूढ़ा नाम ॥ १०३ ॥ ___ योगमालेति। या योगानां यौगिकपदानां माला समूहो यस्यां सा परिहारिका नाम स्यात् परिहरति झटित्यर्थबोधं वारयतीति व्यत्यत्त्या तथा व्यपदेशः शक्तिलभ्यार्थात् यौगिकार्थस्य नानाकष्टकल्पनामूलत्वेन सहसावबोधविरहादिति